संस्कृत सूची|
संस्कृत साहित्य|
कवच|
॥ श्रीमदानन्दरामायणे मनोह...
शत्रुघ्नकवचम् - ॥ श्रीमदानन्दरामायणे मनोह...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
॥ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीशत्रुघ्नकवचम् ॥
अगस्तिरुवाच- अथ शत्रुघ्नकवचं सुतीक्ष्ण श्रुणु सादरम् । सर्वकामप्रदं रम्यं रामसद्भक्तिवर्धनम् ॥१॥
शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं पार्श्वे श्रीरघुनन्दनस्य विनयाद्वामेस्थितं सुन्दरम् । रामं स्वीयकरेण तालदलजं धृत्वातिचित्रं वरं सूर्याभं व्यजनं समास्थितमहं तं विजयन्तं भजे ॥२॥
अस्य श्रीशत्रुघ्नकवचमन्त्रस्य अगस्ति ऋषिः । श्रीशत्रुघ्नो देवता । अनुष्टुप् छन्दः । सुदर्शन इति बीजम् । कैकेयीनन्दन इति शक्तिः । श्रीभरतानुज इति कीलकम् । भरतमन्त्रीत्यस्त्रम् । श्रीरामदास इति कवचम् । लक्ष्मणांशज इति मन्त्रः । श्रीशत्रुघ्नप्रीत्यर्थं सकलमनःकामनासिद्ध्यर्थं जपे विनियोगः ॥
अथ अङ्गुळीन्यासः । ॐ शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः । ॐ सुदर्शनाय तर्जनीभ्यां नमः । ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः । ॐ भरतानुजाय अनामिकाभ्यां नमः । ॐ भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः । ॐ श्रीरामदासाय करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः - ॐ शत्रुघ्नाय हृदयाय नमः । ॐ सुदर्शनाय शिरसे स्वाहा । ॐ कैकेयीनन्दनाय शिखायै वषट् । ॐ भरतानुजाय कवचाय हुं । ॐ भरतमन्त्रिणे नेत्रत्रयाय वौषट् । ॐ श्रीरामदासाय अस्त्राय फट् । ॐ लक्ष्मणांशजेति दिग्बन्धः ॥
अथ ध्यानम् - रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकम् । कैकेयीनन्दनं सौम्यं मुकुटेनातिरञ्जितम् ॥१॥
रत्नकङ्कणकेयूरवनमालाविराजितम् । रशनाकुण्डलधरं रत्नहारसुनूपुरम् ॥२॥
व्यजनेन वीजयन्तं जानकीकान्तमादरात् । रामन्यस्तेक्षणं वीरं कैकेयीतोषवर्धनम् ॥३॥
द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितम् । सुभुजं सुन्दरं मेघश्यामळं सुन्दराननम् ॥४॥
रामवाक्ये दत्तकर्णं रक्षोघ्नं खड्गधारिणम् । धनुर्बाणधरं श्रेष्ठं धृततूणीरमुत्तमम् ॥५॥
सभायां संस्थितं रम्यं कस्तूरीतिलकाङ्कितम् । मकुटस्थावतंसेन शोभितं च स्मिताननम् ॥६॥
रविवंशोद्भवं दिव्यरूपं दशरथात्मजम् । मधुरावासिनं देवं लवणासुरमर्दनम् ॥७॥
एवं ध्यात्वा तु शत्रुघ्नं रामपादेक्षणं हृदि । पठनीयं वरं चेदं कवचं तस्य पावनम् ॥८॥
अथ कवचप्रारम्भः । पूर्वे त्ववतु शत्रुघ्नः पातु याम्ये सुदर्शनः । कैकेयीनन्दनः पातु प्रतीच्यां सर्वदा मम ॥१॥
पातूदीच्यां रामबन्धुः पात्वधो भरतानुजः । रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥२॥
सर्वतः पातु मामत्र कैकेयीतोषवर्धनः । श्यामलाङ्गः शिरः पातु भालं श्रीलक्ष्मणानुजः ॥३॥
भ्रुवोर्मध्ये सदा पातु सुमुखोऽत्रावनीतले । श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥४॥
कर्णौ कुण्डलकर्णोऽव्यात् नासाग्रं नृपवंशजः । मुखं मम युवा पातु वाणीं पातु स्फुटाक्षरः ॥५॥
जिह्वां सुबाहुतातोऽव्याद्यूपकेतुपिता द्विजान् । चिबुकं रम्यचिबुकः कण्ठं पातु सुभाषणः ॥६॥
स्कन्धौ पातु महातेजाः भुजौ राघववाक्यकृत् । करौ मे कङ्कणधरः पातु खड्गी नखान् मम ॥७॥
कुक्षिं रामप्रियः पातु पातु वक्षो रघूत्तमः । पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥८॥
जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः । कटिं भरतमन्त्री मे गुह्यं श्रीरामसेवकः ॥९॥
रामार्पितमनाः पातु लिङ्गमूरू स्मिताननः । कोदण्डपाणिः पात्वत्र जानुनी मम सर्वदा ॥१०॥
राममित्रः पातु झङ्घे गुल्फौ पातु सुनूपुरः । पादौ नृपतिपूज्योऽव्याच्छ्रीमान् पादाङ्गुलीर्मम ॥११॥
पात्वङ्गानि समस्तानि ह्युदाराङ्गः सदा मम । रोमाणि रमणीयोऽव्याद्रात्रौ पातु सुधार्मिकः ॥१२॥
दिवसे सत्यसन्धोऽव्याद्भोजने शरसत्करः । गमने कलकण्ठोव्यात्सर्वदा लवणान्तकः ॥१३॥
एवं शत्रुघ्नकवचं मया ते समुदीरितम् । ये पठन्ति नरास्त्वेतत्ते नराः सौख्यभागिनः ॥१४॥
शत्रुघ्नस्य वरं चेदं कवचं मङ्गळप्रदम् । पठनीयं नरैर्भक्त्या पुत्रपौत्रप्रवर्धनम् ॥१५॥
अस्य स्तोत्रस्य पाठेन यं यं कामं नरोऽर्थयेत् । तं तं लभेन्निश्चयेन सत्यमेतद्वचो मम ॥१६॥
पुत्रार्थी प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । इच्छाकामं तु कामार्थी प्राप्नुयात्पठनादिना ॥१७॥
कवचस्यास्य भूम्यां हि शत्रुघ्नस्य विनिश्चयात् । तस्मादेतत्सदा भक्त्या पठनीयं नरैः शुभम् ॥। १८॥
आदौ नरैर्मारुतेश्च पठित्वा कवचं शुभम् । ततः शत्रुघ्नकवचं पठनीयमिदं शुभम् ॥१९॥
पठनीयं भरतस्य कवचं परमं ततः । ततः सौमित्रिकवचं पठनीयं सदा नरैः ॥२०॥
पठनीयं ततः सीताकवचं भाग्यवर्धनम् । ततः श्रीरामचन्द्रस्य कवचं सर्वथोत्तमम् ॥२१॥
पठनीयं नरैर्भक्त्या सर्ववाञ्छितदायकम् । एवं षट् कवचान्यत्र पठनीयानि सर्वदा ॥२३॥
पठनं षट् कवचानां श्रेष्ठं मोक्षैकसाधनम् । ज्ञात्वाऽत्र मानवैर्भक्त्या कार्यं यः पठनं सदा ॥२४॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीशत्रुघ्नकवचम् ॥
हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत् हनुमत्-लक्ष्मण-सीता-राम – अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP