सगर उवाच । श्रुतं सर्वं मुनिश्रेष्ठ कीर्त्यमानं त्वया विभो । कवचं वद सर्वत्र त्रैलोक्यविजयप्रदम् ॥२, ३३.१॥
वसिष्ठ उवाच । शृणु वत्स प्रवक्ष्यामि कवचं परमाद्भुतम् । मन्त्रं च सिद्धिदं शश्वत्साधकानां सुखावहम् ॥२, ३३.२॥
गोपीजनपदस्यान्ते वल्लभाय समुच्चरेत् । स्वाहान्तोऽयं महामन्त्रो दशार्णो भुक्तिमुक्तिदः ॥२, ३३.३॥
सदाशिवस्त्वस्य ऋषिः पङ्क्तिश्छन्द उदाहृतम् । देवता कृष्ण उदितो विनियोगोऽखिलाप्तये ॥२, ३३.४॥
त्रैलोक्यविजयस्याथ कवचस्य प्रजापतिः । ऋषिश्छन्दश्च जगती देवो राजेश्वरः स्वयम् ॥२, ३३.५॥
त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः । प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ॥२, ३३.६॥
पायात्कपालं कृष्णाय स्वाहेति सततं मम । कृष्णेति पातु नेत्रे मे कृष्णस्वाहेति तारकाम् ॥२, ३३.७॥
हरये नम इत्येष भ्रूलतां पातु मे सदा । ॐ गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् ॥२, ३३.८॥
गोपालाय नमो गण्डं पातु मे सततं मनुः । क्लीं कृष्णाय नमः कर्णौं पातु कल्पतरुर्मम ॥२, ३३.९॥
श्रीं कृष्णाय नमः पातु नित्यं मेऽधरयुग्मकम् । ॐ गोपीशाय स्वाहेति दन्तपङ्क्तिं ममावतु ॥२, ३३.१०॥
श्रीकृष्णेति रदच्छिद्रं पातु मे त्र्यक्षरो मनुः । ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ॥२, ३३.११॥
रामेश्वराय स्वाहेति तालुकं पातु मे सदा । राधिकेशाय स्वाहेति कण्ठं मे पातु सर्वदा ॥२, ३३.१२॥
नमो गोपीगणेशाय ग्रीवां मे पातु सर्वदा । ॐ गोपेशाय स्वाहेति स्कन्धौ पातु सदा मम ॥२, ३३.१३॥
नमः किशोरवेषाय स्वाहा पृष्ठं ममावतु । उदरं पातु मे नित्यं मुकुन्दाय नमो मनुः ॥२, ३३.१४॥
ह्रीं श्रीङ्क्लीङ्कृष्णाय स्वाहा करौ पातु सदा मम । ॐ विष्णवे नमः स्वाहा बाहुयुग्मं ममावतु ॥२, ३३.१५॥
ॐ ह्रीम्भगवते स्वाहा नखपङ्क्तिं ममावतु । नमो नारायणायेति नखरन्ध्रं ममावतु ॥२, ३३.१६॥
ॐ ह्रींश्रीम्पद्मनाभाय नाभिं पातु सदा मम । ॐ सर्वेशाय स्वाहेति केशान्मम सदावतु ॥२, ३३.१७॥
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदावतु । ॐ माधवाय स्वाहेति भालं मे सर्वदावतु ॥२, ३३.१८॥
ॐ ह्रींश्रींरसिकेशाय कटिं मम सदावतु । नमो गोपीजनेशाय ऊरू पातु सदा मम ॥२, ३३.१९॥
ॐ नमो दैत्यनाशाय स्वाहेत्यवतु जानुनी । यशोदानन्दनायेति नमोऽन्तो जङ्घकेऽवतु ॥२, ३३.२०॥
रासारम्भप्रियायेति स्वाहान्तो ह्रीं ममावतु । वृन्दाप्रियाय स्वाहेति सकलाङ्गानि मेऽवतु ॥२, ३३.२१॥
परिपूर्णमनाः कृष्णः प्राच्यां मां सर्वदावतु । स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥२, ३३.२२॥
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदावतु । नैरृत्यां पातु मां कृष्णाः पश्चिमे पातु मां हरिः ॥२, ३३.२३॥
गोविन्दः पातु वायव्यामुत्तरे रसिकेश्वरः । ऐशान्यां मे सदा पातु वृन्दावनविहारकृत् ॥२, ३३.२४॥
वृन्दाप्राणेश्वरः शश्वत्पातु मामूर्द्ध्वदेशतः । सदैव मामधः पातु बलिध्वंसी महाबलः ॥२, ३३.२५॥
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा । स्वप्ने जागरणे चैव पातु मां माधवः स्वयम् ॥२, ३३.२६॥
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः । इति ते कथितं भूप सर्वाघौघविनाशनम् ॥२, ३३.२७॥
त्रैलोक्यविजयं नाम कवचं परमेशितुः । मया श्रुतं शिवमुखात्प्रवक्तव्यं न कस्यचित् ॥२, ३३.२८॥
(फलश्रुतिः)गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥२, ३३.२९॥
स साधकोऽवसद्यत्र तत्र वाणीरमे स्थिते । यदि स्यात्सिद्धकवचो जीवन्मुक्तो न संशयः ॥२, ३३.३०॥
निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् । राजसूयसहस्राणि वाजपेयशतानि च ॥२, ३३.३१॥
महादानानि यान्येव भुवश्चापि प्रदक्षिणा । त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥२, ३३.३२॥
व्रतोपवासनियमाः स्वाध्यायाध्ययने तथा । स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥२, ३३.३३॥
सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि । यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥२, ३३.३४॥
स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः । यो भवेत्सिद्धकवचो विजयी स भवेद्ध्रुवम् ॥२, ३३.३५॥
राज्यं देयं शिरो देयं प्राणा देयाश्च भूपते । एतत्तु कवचं वत्स न देयं सङ्कटेऽपि च ॥२, ३३.३६॥
मया प्रकाशितं यत्ते चैतेषां त्राणकारणात् । ममाज्ञाकरणाच्चैव तद्विद्धि कुलभास्कर । इदं धृत्वा तु कवचं चक्रवर्त्ती भवान्भव ॥२, ३३.३७॥
इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे त्रयस्त्रिंशत्तमाध्यायान्तर्गतं वसिष्ठमुनिप्रोक्तं त्रैलोक्यविजयकवचस्तोत्रं समाप्तम् ।