संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं ब्रह्मणो वत्सरे ततः ।साक्षात्कृन्नामके षष्टिकल्पे त्रयोदशे मनौ ॥१॥कैलासवासो रुद्रो वै तीर्थार्थमगमत् क्षितौ ।पर्यटन् चाटुलाद्रौ स विष्णुतीर्थमुपाययौ ॥२॥तत्र वै पर्वते रम्या शारदाख्या सरिद्वरा ।ब्रह्मपुत्र्यवहत् तस्यास्तटे श्रान्तः शुभं जलम् ॥३॥पीत्वा प्रोक्ष्य निषसाद ध्यानमग्नोऽभवत् क्षणम् ।विष्णुं नारायणं सर्वेश्वरं दध्यौ परेश्वरम् ॥४॥तावद्वनात् समायातो वाराहो मत्तवेगवान् ।मस्तकेन हरं शंभुं धावन् वल्ल्मीकवद्धि सः ॥५॥उच्चखानाऽविलोक्यैवाऽस्पष्टं भस्मावृतं हरम् ।ध्यानात्तूर्णं समुत्तस्थौ वाराहं वीक्ष्य शंकरः ॥६॥रोषं चकार सहसा भ्रकुटिः रक्ततां गता ।तस्या व्याघ्रानलो वह्निज्वालामालासमाकुलः ॥७॥समुत्पन्नस्तामसो वै महाऽसुरोऽद्रिसदृशः ।वाराहं क्षणमात्रेणाऽनाशयच्छंभुनोदितः ॥८॥वाराहचर्म संगृह्य व्याघ्रानलो हराज्ञया ।जाठरानलशान्त्यर्थं ययाचे भोजनं हरात् ॥९॥शंभुस्त्वाह समुद्रान्तर्वर्तिनां यादसां कुलम् ।भोजनं वै मया दत्तं तव याहि जलान्तिकम् ॥१०॥व्याघ्रानलोऽतिबलवान् कामरूपधरो गणः ।निर्भयः क्षुत्प्रशान्त्यर्थमब्धितीरमुपाययौ ॥११॥भक्षयामास यादांसि मकरान् कच्छपान् तिमीन् ।यथायथा भोजनं स चक्रे तथा तथाऽस्य ह ॥१२॥जाठराग्निः प्रदीप्तश्च पाचकः सन् व्यवर्धत ।शरीरं च तथा तस्य वृद्धिं जगाम शैलवत् ॥१३॥दशयोजनविस्तारो भूत्वाऽब्धिं स विवेश ह ।भक्षयामास बहुशो यादांसि प्रत्यहं स च ॥१४॥मासान्ते च बभूवापि शतयोजनविस्तृतः ।वर्षान्ते स बभूवापि सहस्रयोजनाऽऽयतः ॥१५॥महासमुद्रमाविश्य जलं पिबति श्वासतः ।झषाद्याः कोटिशो यान्ति तस्योदरे पचन्ति च ॥१६॥जलं सर्वं चानलेन दग्धं प्रजायतेऽपि च ।अथ काले व्यतीते सोऽयुतयोजनविस्तृतः ॥१७॥व्याघ्रानलोऽभवद् वार्धौ पिबत्यपि दिवानिशम् ।सहस्रयोजनं वार्धि शुष्कं करोति निर्जलम् ॥१८॥.एवं सर्वे समुद्राश्च पीतास्तेन क्रमात् खलु ।महाजलं क्रमात् सर्वं पीतं भूपरितोऽब्धिजम् ॥१९॥विना जलं न वै मेघा प्रजायन्तेऽब्धिमण्डलात् ।अब्धिष्वग्निस्तस्य व्याघ्रानलस्य प्रसृतोऽभवत् ॥२०॥समुद्रविवराश्चाग्निमयाः पृथ्वी तथाऽभवत् ।शुष्का जलेन हीना च गर्भजलमदह्यत ॥२१॥शुष्कं च भूतलं सर्वं वृष्टिरोधो व्यजायत ।मम्रुश्च देहिनः प्रायो योगिनस्तु त्रिलोक्य तत् ॥२२॥समाधौ प्रविलीना वै ऋषयस्तु दिवं ययुः ।अकालः प्रलयो भूमौ जातो व्याघ्रानलेन वै ॥२३॥जलाऽलाभे कर्दमादीन् व्याघ्रानलोऽत्ति वै तलात् ।सर्वतो जलहान्या च पृथ्वी रूक्षगतिं गता ॥२४॥वार्धयस्तु मृतप्रायाः श्रीहरिं शरणं ययुः ।रक्ष रक्ष कृपानाथ व्याघ्रानलान्महोल्बणात् ॥२५॥भक्षयत्येव यादांसि कर्दमानि जलानि च ।अकालप्रलयो जातो मृता इव वयं ततः ॥२६॥रौद्रोऽयं वर्तते चाद्याऽयुतयोजनविस्तृतः ।आयतौ वर्धमानोऽयं ब्रह्माण्डं निगलिष्यति ॥२७॥तदन्तो भवता कार्यो भवतः शरणं गताः ।क्षारः पीतो हि सर्वस्वश्चान्ये पीताश्च खण्डशः ॥२८॥भवन्तमन्तरा नास्यासुरस्यान्तकरोऽपरः ।भवता रक्ष्यते सर्वं चापत्यमिव सर्वदा ॥२९॥वयं समुद्राः सर्वे वै राधापुत्रा जलात्मकाः ।पिता नः श्रीकृष्ण एव भगवान राधिकापतिः ॥३०॥अनादिश्रीकृष्णनारायणावतार एव यः ।गोलोकाधिपतिर्गोपीपतिः श्रीपतिरीश्वरः ॥३१॥ततः पुत्रा वयं ते स्मो रक्ष कः पुरुषोत्तम ।इत्येवमर्थितश्चाऽहं समुद्रैः सप्तभिस्तदा ॥३२॥त्वया साकं महालक्ष्मि! वार्धीनां गोचरोऽभवम् ।शंखचक्रगदापद्मस्वस्तिकध्वजशूलवान् ॥३३॥पूजितो वन्दितस्तैश्च मिष्टोदेनाभिवन्दितः ।मिष्टोदस्यैव पत्न्यां पुष्करिण्यां तु तदाऽभवम् ॥३४॥बालोऽहं जातमात्रोऽपि युवाऽब्धिपुत्र एव ह ।त्वं तदा शिवसत्येश्रि! पुण्डरीकस्य पुत्रिका ॥३५॥भूभृतश्चाऽभवः सर्वैश्वर्यसौन्दर्यलक्षिता ।नाम्ना श्रीपुण्डरीकश्रीः सर्वकल्याणकारिणी ॥३६॥अथाऽहं च प्रसस्मार वाहनं जलगाम्यपि ।तदा मिष्टोदकात्प्राप्तो जलतुरंगमोऽद्भुतः ॥३७॥सपक्षः शुण्ढवाँश्चापि सजालपादवानपि ।कामरूपधरश्चापि श्वासरोधसमाधिमान् ॥३८॥बलेऽब्धिसदृशश्चापि गत्या विद्युत्समोऽपि च ।अधृष्यः पर्वतप्रायः श्वेतवर्णस्तुरंगमः ॥३९॥भूवार्यम्बरगमनः स्थूलसूक्ष्मादिसिद्धिमान् ।सर्वभाषाप्रवक्ता च दिव्यदेहोऽविभेद्यकः ॥४०॥स्वम्बालिकायुतश्चापि युद्धकौशल्यशेवधिः ।चिन्तामण्यभियुक्तश्च मणिमौक्तिकभूषणः ॥४१॥जलान्तर्दीपकान्तिश्चाऽन्धकारे सुप्रकाशवान् ।नैसर्गदृढवर्माढ्यः शस्त्रप्रसवतूणवान् ॥४२॥सुधास्राविकेसराढ्यो मृत्युहृत्कल्गिशोभितः ।पुष्टः सर्वांगताम्राढ्यश्चागप्य मां ननाम सः ॥४३॥पत्खुरैर्हर्षणशब्दैः स्तवनैः पक्षविस्तरैः ।उच्चाग्रैर्जवकम्पैश्च स्वागतं स ममाऽऽचरत् ॥४४॥मया वाहनरूपोऽसौ निर्विध्नाय प्रपूजितः ।विजयाय च तत्पृष्ठे दत्तो दक्षः करो मया ॥४५॥अमृतं पायितश्चापि भाले तिलकितस्तथा ।यात्रार्थं बोधितश्चापि संगरार्थं प्रह्रेषितः ॥४६॥ह्रेषाशब्दोऽस्य वै लक्ष्मि! दिक्पालानां गृहान् ययौ ।चकम्पे द्यौः समस्ता वै पृथिव्यास्तत्र का दशा ॥४७॥पर्वताश्च समुद्राश्च जलदेवाश्च मातरः ।वरुणश्च नदा नद्यो युद्धार्थं मिलिता मया ॥४८॥स्वस्ववाहनसंयुक्ताश्चाकारिता मयाऽऽययुः ।विष्णुहस्ततलोत्पन्नं श्वेतवर्णं महागजम् ॥४९॥चाऽधिरुह्य देवराजस्तत्र लक्ष्मि! समाययौ ।रुद्रौजःसंभवं कृष्णवर्णं च पौण्ड्रकाभिधम् ॥५०॥महिषं धर्मराजश्च समारुह्याऽऽययौ तदा ।ब्रह्मकर्णमलोद्भूतं श्यामं जलधिनामकम् ॥५१॥शिशुमारमधिरुह्य वरुणस्तत्र चाययौ ।तथा शकटचक्राक्षं शेलाकारं नरं शुभम् ॥५२॥सपक्षं चाऽम्बिकापज्जमारुह्य धनदः स्थितः ।गन्धर्वान् भुजगेन्द्राँश्चारुह्य श्वेतवृषाँस्तथा ॥५३॥रुद्रा रौद्रासुरनाशार्थं तत्र समुपाययुः।अर्धसहस्रहंसाढ्यरथमारुह्य चन्द्रमाः ॥५४॥आययौ च तथाऽऽदित्या हयोष्ट्ररथवाहनाः ।कुंजरस्था वसवश्च यक्षाश्च नरवाहनाः ॥५५॥किन्नरा भुजगारूढा हयारूढौ तथाऽश्विनौ ।सारंगाधिष्ठिताश्चापि मरुतश्चाययुर्बलाः ॥५६॥गन्धर्वाश्च स्वरारूढा अग्निर्मेषस्य पृष्ठगः ।समुद्रा मकरारूढा सुरा यानविमानगाः ॥५७॥ब्रह्मा हंससमारूढो विष्णुर्गरुडवाहनः ।ऋषयश्चासनस्थाश्च पितरः पुण्यवाहनाः ॥५८॥पृथिवी शेषवाहा च शेषः कच्छपवाहनः ।कच्छपा मेघवाहाश्च मेघाश्च वायुवाहनाः ॥५९॥पर्वताः पक्षवाहाश्च विद्युतो मेघवाहिताः ।नदा नद्यस्तरंगस्थाः सशस्त्राः समुपाययुः ॥६०॥तदा वाद्यान्यवाद्यन्त देवानां तानरोहिणः ।बलदा निनदाश्चाप्यश्रूयन्त द्युसदां तदा ॥६१॥व्याघ्रानलः प्रशुश्राव निनादान् वै दिगन्तगान् ।रुष्टश्चाप्यसहमानस्तूर्णमास्फोटयन् मुहुः ॥६२।ऊरून् करतलैश्चाप्यमोचयच्चाट्टहासकान् ।ऊर्ध्वे चोड्डीय संवीक्ष्य युद्धसन्नाहसंस्थितान् ॥६३॥सुरान् शीघ्रं गदां गुर्वीमुद्गृह्य गर्वमोहितः ।आकाशं पूरयन् तन्वा मां सुरान् प्रति चाययौ ॥६४॥उच्छ्रये गमनस्पर्शी दीर्घश्चायुतयोजनः ।विशालो वार्धिवद् व्याघ्रानलो युद्धार्थमाययौ ॥६५॥इन्द्रेण धर्मराजेन समं युद्धं चकार सः ।वरुणेन धनदेन समं युद्धं चकार सः ॥६६॥चन्द्रमसा तथा रुद्रैरादित्यैर्युयुधेऽपि सः ।मूर्छां प्राप्य पुनर्युद्धं चक्रे बली पुनः पुनः ॥६७॥यक्षैश्च किन्नरैश्चापि मरुद्भिर्युयुधे बली ।अग्निना ब्रह्मणा साकं विष्णुना युयुधे मुहुः ॥६८॥पर्वतैश्चापि विद्युद्भिर्युयुधे चातिदारुणः ।सहस्ररूपधृग्भूत्वा युयुधे च सुरैः सह ॥६९॥प्रधावन् व्योममार्गेणाऽऽकर्षयन् ग्रहमण्डलम् ।नक्षत्राणि पातयंश्च दुद्राव युयुधेऽपि च ॥७०॥स्थिरं तदाऽम्बरं चापि सकम्पं वै व्यलक्ष्यत ।वायुस्तरा व्यमुञ्चन्त धृतिशक्तीः प्रकम्पिताः ॥७१॥पृथ्वी कम्पेन च तदा संस्थानानि व्यसर्जयन् ।नक्षत्राणां च गतयोऽपि सव्याहतयोऽभवन् ॥७२॥विजयस्यापि विश्वासश्चागाद् द्वयोर्हि संशयम् ।प्रलयो मुमुदे चाति पुष्टिं वीक्ष्याऽऽयतौ निजाम् ॥७३॥आयुधानि समस्तानि प्रविश्य वर्ष्म चासुरम् ।विनिर्यान्ति परं पारं मार्गगानीव रोमतः ॥७४॥नास्य देहे गर्भभागे स्पर्शोऽपि शस्त्रकृत्तदा ।जायते तादृशश्चास्ते युद्ध्यत्यत्यन्तमोजसा ॥७५॥प्राणान् ग्लहाँस्तदा कृत्वा पणं कृत्वा विनाशने ।नाशे वा निश्चयं कृत्वा वृकानलः प्रयुद्ध्यति ॥७६॥गदया तोमरेणापि शक्त्या पाशेन चासिना ।खड्गेन क्षेपणैश्चापि पर्वतैश्चोपलादिभिः ॥७७॥शूलेन चापि चक्रेण दण्डेन च शरैस्तथा ।वक्षसा बाहुना चापि हस्त्यादिभिश्च ताडनैः ॥७८॥एवं युद्धं चकाराऽसौ वृकानलोऽसुरस्तदा ।देवाश्च बलवन्तोऽपि प्रापुर्महापरिश्रमम् ॥७९॥अथाऽहं च तदा लक्ष्मि! विनिश्चित्य दुरासदम् ।चक्रं सुदर्शनं चास्मै मुमोच लक्षधारवत् ॥८०॥प्रलयाऽग्निसमं घोरं स्वर्गपातालदाहकम् ।वर्धमानं महद्रूपं ददाहैनं समन्ततः ॥८१॥व्याघ्रानलशरीराद्वै खण्डास्तदा तु कोटिशः ।पृथग्भूताः कर्तिता ये तेऽपि व्याघ्रानलाः पुनः ॥८२॥भवन्ति त्वसुरास्तेन तुल्यास्तत्र हि सङ्गरे ।चक्रं तूर्णं मयाऽऽज्ञप्तं दह्यत्येव च तानपि ॥८३॥अन्तरीक्षं समस्तं च तदा वह्न्यम्बरं ह्यभूत् ।प्रलयाग्निसमाव्याप्तं ब्रह्मास्त्रमिव वा ह्यभूत् ॥८४॥तदा मया त्वमाज्ञप्ता महामायास्वरूपिणी ।मोहिनीरूपमास्थायाऽसुरस्य जडताप्तये ॥८५॥सन्निधावम्बरे प्राप्ताऽसुरो मोहमुपागतः ।युद्धं चाऽसंख्यरूपाणि त्यक्त्वा त्वां धर्तुमागतः ॥८६॥समाश्लिक्षच्च यावत् त्वां तावत् त्वया स्ववह्निना ।व्याघ्रानलस्य वह्निर्वै समस्तोऽपि हृतोऽन्तरात् ॥८७॥व्याघ्रानलो विना भानं विनाऽनलं च तैजसम् ।जडीभूतोऽभवत्तावत् सुदर्शनेन भेदितः ॥८८॥पपात शतधा चापि सहस्रधा महार्णवे ।खङ्कशृंगाणि जातानि वार्धौ तद्देहखण्डकाः ॥८९॥निर्जीवाश्च जलमध्ये पर्वता इव तेऽभवन् ।एवं व्याघ्रानले लक्ष्मि! नाशिते मेघगर्जनाः ॥९०॥आकाशे चाऽभवँस्तत्र समुद्राश्चार्द्रतां ययुः ।मम देहात्तदा धारा जलानां च परिश्रमात् ॥९१॥अभवन् वर्धमानास्ताः समुद्रानभ्यपूरयन् ।आकाशादभवद् वृष्टिर्जयपुष्पाक्षतात्मिका ॥९२॥सुरा मुदं ययुश्चापि पुपूजुर्मां श्रियाः पतिम् ।मयाऽपि सत्कृता देवाः कृतकार्या निजालयम् ॥९३॥ययुर्लक्ष्मि! तदा त्वं चादृश्यभावमुपागता ।ममापि वाहनं चाश्वस्त्वया साकं पितुस्तव ॥९४॥गृहं प्रापय्य च त्वां तु मिष्टोदं समुपागतः ।अहं सुरान्नमस्कृत्य मिष्टोदं समुपागतः ॥९५॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।अनादिश्रीवार्धिनारायणनाम्ना क्षितौ ततः ॥९६॥प्रसिद्धश्चाऽभवं मह्यं पुण्डरीकः पिता तव ।ददौ पुत्रीं तु विधिना योग्याय मेऽन्तरात्मने ॥९७॥सुरादिवन्दितायेशेश्वराय परमात्मने ।त्वां समुद्वाह्य विधिना पुण्डरीकश्रियं ततः ॥९८॥अश्वं च वाह्नं लब्ध्वाऽविचरं भुवनत्रये ।आकल्पान्तमतिष्ठँश्च धर्मरक्षणहेतवे ॥९९॥अनादिश्रीहरिः सोऽहं परब्रह्म सनातनः ।वेद्म्यहं सर्वमेवैतत् मम प्राकट्यमुत्तमम् ॥१००॥एवं जाता ह्यवतारा मम तत्राऽप्यसंख्यकाः ।पठनाच्छ्रवणाद्वापि कीर्तनात्स्मरणादपि ॥१०१॥भुक्तिमुक्तिप्रदाः सर्वे चमत्कारपरायणाः ।स्मर नारायणीश्रि! त्वं शिवपुत्रि! चमत्कृतिम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः एकोनविंशे वत्सरे रौद्रस्य व्याघ्रानलासुरस्य नाशनार्थम् अनादिश्रीवार्धिनारायणस्य प्राकट्यमिति-निरूपणनामा षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP