संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ५६

द्वापरयुगसन्तानः - अध्यायः ५६

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
भगवन् देवदेवेश गुरुतीर्थं परात्परम् ।
कथं वै श्रेष्ठतमतां प्राप्तं मे वद कारणाम् ॥१॥
श्रीपुरुषोत्तम उवाच-
भूमिशुद्धिर्वायुनैव देहशुद्धिस्तु वारिणा ।
मनःशुद्धिर्विरागेण चात्मशुद्धिर्विवेकतः ॥२॥
विवेकस्तत्त्वविज्ञानं तच्च गुरोर्विना न वै ।
तूर्णं प्रकाशदातृत्वाद् गुरुस्त्वं परमो मतः ॥३॥
अन्धकारे मनुष्याणां लक्षेष्वपि प्रदीपकः ।
प्रकाशकृद् भवत्येव तथा गुरुः प्रदीपकः ॥४॥
बहूनां यादसां चाब्धौ सत्त्वेऽपि नौर्हि तारिका ।
जगदब्धौ देहिनां सत्त्वेऽपि गुरुर्हि तारकः ॥५॥
ताराणां गगने नान्तः प्रकाशकस्तु चन्द्रमाः ।
मानवानां तथा नान्तः प्रकाशदस्तु सद्गुरुः ॥६॥
अन्यैर्ग्रहैर्न वै नाशो निशाया विगमः क्वचित् ।
अन्यैर्जनैर्न चाऽज्ञानविगमः सद्गुरुं विना ॥७॥
जलं तीर्थं भूमिरिज्या यज्ञो व्रतं च चैत्यकम् ।
सद्गुरुणैव तीर्थानि सञ्जातानि पुरा किल ॥८॥
मूर्तितीर्थं प्रतिमाख्यं ज्ञानतीर्थं तु पुस्तिका ।
तु ह्युभे सद्गुरोरेव समुद्भूते न चान्यथा ॥९॥
देवा गुरुबलाः सर्वे मन्त्रा गुरुबलास्तथा ।
योगो गुरुबलश्चापि गुरुतीर्थं ततोऽधिकम् ॥१०॥
गुरुत्वं मम योगेन वर्धते च प्रकाशते ।
चमत्कारमयं चापि जायते मम संगतः ॥११॥
मम संगो मम स्नेहो मम भक्तिः प्रसेवनम् ।
ममैव च कृतं येन गुरुता तस्य शाश्वती ॥१२॥
शाश्वतोऽहं गुरुर्यस्मादनादिज्ञानवान् प्रभुः ।
मम योगेन भक्तस्य शाश्वती गुरुता ततः ॥१३॥
मूल्यवद्वस्तुयोगेन निर्मूल्यं मूल्यवद्भवेत् ।
दुग्धवत्सायुता गौश्च बहुमूल्या सदा भवेत् ॥१४॥
विद्याखनिर्मानवश्च बहुमूल्यः प्रजायते ।
नैर्मल्यभाहीरकोऽपि बहुमूल्यः प्रगण्यते ॥१५॥
पित्तलं स्वर्णसंगेन बहुमूल्यं हि जायते ।
कन्या वरयुता लोके बहुमूल्या सुपूज्यते ॥१६॥
भृत्या राजयुताः सर्वे राजमूल्या भवन्ति वै ।
पात्रं वस्तुभृतं चापि मूल्यवज्जायते प्रिये ॥१७॥
एवं भक्तो भक्तियुक्तो मया युक्तो विशेषतः ।
नैर्मल्यभावयुक्तश्च बहुमूल्यः प्रजायते ॥१८॥
भृत्यः प्रसन्नः सहसा प्रजाकार्यं करोति वै ।
कारयत्येव सहसा नृपद्वारा त्वरायुतः ॥१९॥
न तु राज्ञः पुत्तलिका प्रजाकार्यं करोति हि ।
न च पुत्तलिका कार्यं त्वरितं कारयत्यपि ॥२०॥
तथा भृत्या मम भक्ताः शरणागतरक्षकाः ।
शरणागतकार्याणां कर्तारः सहसा ह्यपि ॥२१॥
चैतन्यमूर्तयो मे वै साधवो गुरवो भुवि ।
राज्ञो वै कार्यकर्तारो भृत्याश्चैतन्यमूर्तयः ॥२२।
अभिधाय हसित्वा च गृहित्वा सेवनादिकम् ।
दत्वा दानं मनुं भानं कुर्वन्तीष्टं हि देहिनाम् ॥२३॥
शरणागतजीवानामाधारा गुरवो यतः ।
मया दत्तं गुरुभ्यो वै पदं मेऽधिकृतिस्तथ्रा ॥२४॥
मद्वद् भवन्ति पूज्यास्ते लोके नारायणा हि ते ।
यथाऽहं च तथा तेऽपि मम भक्तिप्रवर्तकाः ॥२५॥
तस्मात्ते गुरवः श्रेष्ठास्तीर्थं गुर्वात्मकं परम् ।
पापानां क्षालनं शीघ्रं कुर्वन्ति वारिदानतः ॥२६॥
अज्ञाननाशनं शीघ्रं कुर्वन्ति मन्त्रदानतः ।
स्वर्गादिकां महास्मृद्धिमाशीर्वादैर्दहत्यपि ॥२७॥
प्रसादेन द्रुतं मोक्षपदं सम्प्रेषयन्त्यपि ।
लीलया मे क्वचित्तूर्णं कारयन्तीह दर्शनम् ॥२८॥
मम दिव्यस्वरूपस्य कृपया दर्शनं हृदि ।
तस्मान्मे साधवः श्रेष्ठा गुरवो लक्ष्मि! सर्वदा ॥२९॥
भक्त्या मे ते भवन्त्येव श्रेष्ठतमाः परेश्वराः ।
भक्तिं ते कथयाम्यत्र यया श्रेष्ठतमा हि ते ॥३०॥
गुरुदेवर्षिसिद्धर्षिसेवनं साधुसंगमः ।
सत्क्रियाव्यसनं चाऽत्रापरा भक्तिर्मता मम ॥३१॥
ममांशानां गुरुणां या सेवा सा चाऽपरा मम ।
भक्तिरेव मया नित्यं मन्यते मोक्षदायिनी ॥३२॥
प्राप्य ब्रह्मरसं दिव्यं पीत्वा चानन्दसंभृतम् ।
भक्ता ब्रह्मपराभोगास्तृप्ता भवन्ति शाश्वताः ॥३३॥
ब्रह्मरसाभिप्लुताश्च भवन्त्यक्षररूपिणः ।
यथाऽग्निरग्नौ सम्प्राप्तस्तथाऽऽत्मा परमात्मनि ॥३४॥
ब्रह्मरूपकरं नाम हरे हरे सदा जपेत् ।
अहं ब्रह्मपरंज्योतिर्मायातत्त्वविवर्जितः ॥३५॥
अहं ब्रह्म परंज्योतिर्ज्ञानवानस्मि मुक्तये ।
भक्त्या ज्ञानाढ्यया लभ्यो भगवान् पुरुषोत्तमः ॥३६॥
ध्यानेन पूजया जप्यैः सम्यक् स्तोत्रैर्यतव्रतैः ।
सेवया प्रेमभक्त्या वै प्राप्योऽहं परमेश्वरः ॥३७॥
महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु नियतिस्मरणं हरेः ॥३८॥
सेवा स्नेहयुता बोध्या भक्तिः साधनभूयसी ।
भक्तास्ते मम सेवायां लग्ना चाभिन्नभावनैः ॥३९॥
मुञ्चन्त्यश्रूणि संहर्षात् संप्रहृष्टतनूरुहाः ।
कृष्णक्रियापरा नित्यं स्निग्धा मे वैष्णवाः सदा ॥४०॥
ब्रह्माऽक्षरं परब्रह्म शृण्वन् भागवतान् गृणन् ।
प्रणामपूर्वकं भक्त्या कीर्तयेद् वैष्णवोत्तमः ॥४१॥
मे भक्तजनवात्सल्यं भक्तपूजाऽनुमोदनम् ।
भक्तगाथाश्रवे प्रीतः स वै भक्तोत्तमो मतः ॥४२॥
येन सर्वात्मना कृष्णे भक्त्या भावः समर्पितः ।
सद्गुरोः शरणं प्राप्य महाभागवतो हि सः ॥४३॥
स्वयं त्वभ्यर्चयेन्मां वै विष्णुं तथोपजीवति ।
बहुधा भक्तिसम्पन्नो म्लेच्छोऽपि वैष्णवो हि सः ॥४४॥
स वै श्रेष्ठो मुनिर्भक्तः स याति परमां गतिम् ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥४५॥
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ।
मम भक्तो न चाण्डालो दिव्यो मे पार्षदोऽस्ति सः ॥४६॥
दयां कुरु प्रपन्नाय तवाऽस्मीति च याचते ।
अभयं सर्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥४७॥
मन्त्रयाजिसहस्रेभ्यो वेदवेदान्तवित् परः ।
सर्ववेदान्तविज्ञेभ्यो विष्णुभक्तो विशिष्यते ॥४८॥
एकान्तिनो दिव्यदेहैर्गच्छन्ति परमं पदम् ।
एकान्तेन समो विष्णुर्विष्णुर्भक्तपरायणः ॥४९॥
भक्ता एकान्तिनः सन्तो विप्रकोट्युत्तमा मताः ।
प्रियाणामपि सर्वेषां मम चातिप्रिया हि ते ॥५०॥
महाभागवताः सन्तः साधवो विप्रकोटितः ।
ब्राह्मणानामर्बुदेभ्यः सदा श्रेष्ठतमा मताः ॥५१॥
लोकानां गुरवो विप्रा विप्राणां वेदयाजिनाम् ।
ब्राह्मणानां च सर्वेषां साधवो गुरवो मताः ॥५२॥
विप्रा गृहनिमग्नास्ते श्मशानानि ह भेजिरे ।
साधवो ब्रह्ममग्नास्ते परंधाम प्रपेदिरे ॥५३॥
आपत्स्वपि सदा येषां भक्तिरव्यभिचारिणी ।
या प्रीतिरधिका कृष्णे विष्णौ सदाऽनपायिनी ॥५४॥
विष्णुं स्मरन् मम भक्तो हृदो न दूरमेति सः ।
दृढभक्तो रज्जुपाशैर्बद्धो बघ्नाति मां मिथः ॥५५॥
यो भक्तिं वहते विष्णौ तेन सर्वं प्रसाधितम् ।
स एव साधुरेवाऽस्ति येनाऽहं साधितः प्रियः ॥५६॥
यज्वानः क्रतुमुख्यानां वेदानां पारगा अपि ।
न तां यान्ति गतिं श्रेष्ठां यां यान्ति मुनिसत्तमाः ॥५७॥
यः कश्चिद् वैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी ।
पुनाति सकलान् लोकान् यथाऽहं भगवान् स्वयम् ॥५८॥
ये नृशंसा दुरात्मानः पापाचाररतास्तथा ।
यान्ति स्थानं परं मे ते नारायणपरायणाः ॥५९॥
दृढा नारायणे भक्तिः सदा याऽव्यभिचारिणी ।
सैव शाश्वत्सुखदाऽस्ति कियत् स्वर्गं तदन्तिके ॥६०॥
भ्रमित्वाऽपि महाब्धौ वै संसाराख्येऽभितो मुहुः ।
प्रलम्ब्य स्वकरं कृष्णं धरन्तु यदि चाप्यते ॥६१॥
न शृणोति गुणान् दिव्यान् श्रीहरेः परमात्मनः ।
स लोके बधिरो बोध्यः सदा पापश्रवोऽथवा ॥६२॥
नाम्नि संकीर्तिते विष्णोर्यस्य नो पुलकोद्गमः ।
स राजाऽपि सुरूपोऽपि बोध्यो वै कुणपः शवः ॥६३॥
भक्तिमतां नराणां च नारीणां षण्ढदेहिनाम् ।
मयि निविष्टमनसां मुक्तिर्निश्चयभाविनी ॥६४॥
पाशहस्तान् यमानाह यमराजो ह्यहं प्रभुः ।
अवैष्णवानां पापानां वैष्णवान् मा नयन्त्विह ॥६५॥
अपि यावद्दुराचारो भजते मां मयि स्थितः ।
साधुरेव स वै मुक्तः कोटिविप्राऽधिको गुरुः ॥६६॥
महाभागवता धर्मास्तस्मिन् सर्वे वसन्ति ह ।
सर्वविधा तथा शान्तिस्तत्र वसति पद्मजे ॥६७॥
धर्मार्थकामाश्चैतस्य कियतीं गणनां गताः ।
मुक्तिश्चास्य सदा दासी मुक्तिश्चास्य करे स्थिता ॥६८॥
माया वा मायिका लोकाश्चैश्वर्याणि च सिद्धयः ।
भुज्यमाना अपि नैव बाधन्ते मम योगिनः ॥६९॥
किं यज्ञैः किं व्रतैर्दानैः किमन्यैः पुण्यसाधनैः ।
यस्य प्रीतिर्हरौ जाता तया चाराध्यते प्रभुः ॥७०॥
अन्यैर्लेपैः प्रदीपाद्यैश्चन्दनैर्गन्धभूषणैः ।
नाऽहं तुष्यामि कमले यथा प्रेम्णाऽर्पणेन वै ॥७१॥
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।
मयि कृष्णे परा भक्तिर्मद्भक्तैश्च समागमः ॥७२॥
पत्रैः पुष्पैः फलैश्चाद्भिर्धनैर्भोज्यैर्विभूषणैः ।
भक्त्या लभ्ये मयि नाथे वर्तयेन्मुक्तिदायिनी ॥७३॥
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।
प्रेताश्चास्मत्कुले भक्तः कश्चिन्नस्तारयिष्यति ॥७४॥
शरणं मां प्रपन्ना ये ध्यानज्ञानविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति मत्परमं पदम् ॥७५॥
मुक्तिहेतुमनाद्यन्तं श्रीपतिं पुरुषोत्तमम् ।
यो नमेत् सर्वलोकस्य नमस्यो जायते जनः ॥७६॥
विष्णुमानन्दकोशं तं चान्तरस्थं प्रभुं हरिम्।
प्रणमेत् सर्वदा भक्त्या चेतसा देहयोगिना ॥७७॥
योऽन्तस्तिष्ठन् समग्राणां पश्यतीशः शुभाशुभम् ।
तं सर्वसाक्षिणं कान्तं प्रणमेत् परमेश्वरम् ॥७८॥
हेलयाऽपि नमस्कारः प्रयुक्तश्चक्रपाणये ।
संसारपाशरज्जूनां नाशकः समजायते ॥७९॥
अनादिश्रीकृष्णनारायणे श्रीकृष्णरूपिणि ।
भावकृतः प्रणामोऽपि श्वपाकं च पुनात्यपि ॥८०॥
प्रणम्य दण्डवद् भूमौ नमस्कारं चरेन्मुदा ।
एकप्रणाममात्रेण याति मत्परमं पदम् ॥८१॥
नमस्कारेण मे लक्ष्मि! शाश्वती मुक्तिरेव ह ।
अहं कृष्णो नमन्तं वैं तारयामि भवार्णवात् ॥८२॥
आसीनो वा शयानो वा तिष्ठन् वा यत्र तत्र वा ।
नमो नारायणायेति मन्त्रं जपेत् सदा सुधीः ॥८३॥
नारायणेति मे नाम जिह्वायोग्यं प्रविद्यते ।
तथापि याम्यं पश्यन्ति गृहं वैतण्डिका जनाः ॥८४॥
व्यासादयः शंकराद्याः स्तुवन्तः परमेश्वरम् ।
मतिश्रमान्निवर्तन्ते मद्गुणान्तो न विद्यते ॥८५॥
अवशोऽपि रटेन्नाम नारायणेति चाऽसकृत् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥८६॥
स्वप्नेऽपि श्रीहरेर्नाम रटितं च श्रुतं च वा ।
मोक्षार्थं जायते तद्वै किं पुनर्जाग्रतस्त्विह ॥८७॥
नमः कान्ताय कृष्णाय नमः श्रीहरये नमः ।
स्वामिने च नमश्चेति वदन् मोक्षगतिं लभेत् ॥८८॥
कल्माषाणां क्षयः स्याद्वै नामसंकीर्तनाद्धरेः ।
गच्छतां दूरमध्वानं श्रीहरेर्धामयोजितम् ॥८९॥
पाथेयं श्रीहरेर्नामकीर्तनं लक्ष्मि सर्वथा ।
वध्वः स्त्रियोऽतिलज्जाश्च गृहमध्ये स्थिता अपि ॥९०॥
कृष्णकान्त हरे जप्त्वा मुक्ता भवन्ति धामगाः ।
जिह्वाग्रे वर्तते यस्या हरिरित्यक्षरद्वयम् ॥९१॥
संसारसागरं तीर्त्वा सा प्रयास्यति मत्पदम् ।
सहस्रदुष्कृतिव्याप्ता धर्मकर्मविवर्जिता ॥९२॥
शुद्धिमभीप्समाना च मुक्तिं च मत्पदाश्रयाम् ।
गुप्ताऽपि मन्नामपरा भूत्वा मां सा समर्जयेत् ॥९३॥
अशेषलोककान्तस्याऽऽराधनं श्रीहरेर्मम ।
सारश्चाऽसारसंसारे योषितां सर्वथा प्रिये ॥९४॥
दद्याद् हृदयभावेन पुष्पाण्यापस्तथा फलम् ।
मह्यं तेनाऽर्चिता देवाश्चार्चितं मुक्तमण्डलम् ॥९५॥
न तत्करोति माताऽपि न पिता नापि बान्धवः ।
यत् करोमि प्रभुश्चाहं सन्तुष्टः सेवयाऽर्चितः ॥९६॥
वर्णाश्रमाचारवत्या योषिता परमः पुमान् ।
अहमाराध्ये वै लक्ष्मि स पन्थास्तोषको मम ॥९७॥
सम्पदैश्वर्यमाहात्म्यैः सन्तत्या श्रद्धयाऽपि च ।
प्रेमभक्त्याऽन्वितैः सर्वैराराध्योऽहं भवामि वै ॥९८॥
भक्तिं विना विना स्नेहं विना प्रेम च भावनाम् ।
नाऽहं प्रसन्नतां यामि भावक्षुधायुतोऽस्म्यहम् ॥९९॥
पूर्वे पूर्वतराश्चापि गता मेऽक्षरमुत्तमम् ।
पूर्वतमा गता भक्त्या तथा यान्तु स्त्रियोऽपि च ॥१००॥
एवं मां सर्वदा कृष्णरूपिणं श्रीपतिं प्रभुम् ।
स्वामिनं चान्तरात्मानं रक्षन्ति हृदि साधवः ॥१०१॥
त एव मम योगेन सन्तः सत्यश्च साधवः ।
साध्व्यश्च गुरुवर्गीयाः सर्वश्रेष्ठतमा मताः ॥१०२॥
मदात्मका मत्स्वरूपा मदन्यूना नरायणाः ।
अवतारा हि मे सर्वे साधवः सत्ययोषितः ॥१०३॥
साध्व्यः सर्वा अवतारिण्यश्च मे ता भवन्ति वै ।
तस्माद् गुर्व्यो मम योगान्मन्त्रदा मोक्षदा अपि ॥१०४॥
एवं नारायणाश्रि! वै गुरोः श्रैष्ठ्यं सदाऽस्ति हि ।
अहं गुरुर्गुरुश्चाहं नात्र भेदो मनागपि ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरोः श्रेष्ठतमत्वे श्रीहरिस्वरूपताहेतु-निरूपणनामा षट्पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP