संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-कृष्णकान्त मम कान्त श्रुतं दानमहत्फलम् ।पुण्ये दिने प्रदातव्यं यदुक्तं भवता प्रभो ॥१॥पुण्याश्च दिवसाः सर्वे ज्ञातास्त्वयोदिता मया ।तेषु पुण्यतमं चाहर्ज्ञातुमिच्छामि तद्वद ॥२॥श्रीपुरुषोत्तम उवाच-अनादिश्रीकृष्णनारायणस्य यत्र भूतले ।प्राकट्यं मे दिने जातं दिनं पुण्यतमं हि तत् ॥३॥ऊर्जकृष्णाष्टमी सैषा सर्वोत्तमा प्रदानके ।दातुर्जन्मदिनं चापि श्रेष्ठं दातुः कृते मतम् ॥४॥कल्पनाम्ना च दिवसाः श्रेष्ठतमा भवन्त्यपि ।ब्रह्मणो मासदिवसाः श्रेष्ठा भवन्ति दानके ॥५॥मासाहत्रिंशन्नामानि कथयामि निबोध मे ।येषां तु कीर्तनादेव वेदपुण्येन युज्यते ॥६॥प्रतिपत् श्वेतकल्पस्तु द्वितीयो नीललोहितः ।तृतीयो वामदेवस्तु तुर्यो राथन्तराभिधः ॥७॥पञ्चमो रौरवाख्यश्च षष्ठो देवदिनाभिधः ।सप्तमो बृहदाख्यश्चाऽष्टमः कन्दर्पनामकः ॥८॥नवमः सद्यनामा चेशानस्तु दशमो मतः ।एकदशस्तमोनामा सारस्वतो द्वयंदश ॥९॥त्रयोदश उदानाख्यो गारुडस्तु चतुर्दशः ।पञ्चदशस्तु कौमार्यः षोडशो नारसिंहकः ॥१०॥सप्तदशः समानाख्यश्चाऽऽग्नेयोऽष्टादशात्मकः ।एकोनविंशः सोमाख्यो विंशतिर्मानवो मतः ॥११॥तत्पुमानेकविंशश्च दिवसो ब्रह्मणः स्मृतः ।वैकुण्ठो द्वाविंशकश्च लक्ष्मीस्त्रिविंशकस्तथा ॥१२॥चतुर्विशस्तु सावित्री पञ्चविंशस्त्वघोरकः ।वाराहः षड्विंशकश्च वैराजः सप्तविंशकः ॥१३॥अष्टाविंशस्तु गौरीति नवविंशो महेश्वरः ।त्रिंशस्तु पितृकल्पो वै या कुहूर्ब्रह्मणो मता ॥१४॥एतेषु यानि भगवद्दिनानि श्रीदिनानि च ।शिवादिनामतिथयः पुण्यास्ता दानकरिणः ॥१५॥हरेर्जन्मदिनान्येव हरिणीजन्मराशयः ।पुण्याः सन्ति व्रताहाश्च दानयोग्याः सदा रमे ॥१६॥नहि कर्तुं समर्था वै सर्वे क्षुद्रहृदो जनाः ।कुर्वन्त्युदारमनसो दानान्युक्तानि यानि ह ॥१७॥यदा यस्य भवेद् बुद्धिर्दानधर्मपरायणा ।तदा तस्मिन् दिने कार्यं दानं दात्रा तु सत्वरम् ॥१८॥गता श्रद्धा गतः कालो गत उत्साह इत्यपि ।गतं पात्रं गतं वस्तु पुनर्नाऽऽयास्यति क्वचित् ॥१९॥गत्वराः सम्पदः सर्वा गत्वरं जीवनं तथा ।गत्वराश्चापि संकल्पास्तान् सत्कार्ये नियोजयेत् ॥२०॥नारायणं हरिं कृष्णं मामक्षरपतिं प्रभुम् ।अवतारानीश्वराँश्च सुरानृषीन् सुतोषयेत् ॥२१॥ग्रहान् सन्तोषयेद् दानैर्लक्ष्मि मम स्वरूपिणः ।सर्वकामाप्तये नित्यं ग्रहं शान्तं विधापयेत् ॥२२॥श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।निजायुःपुष्टिकामो वा वंशेच्छुः सुखभावनः ॥२३॥पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ।ग्रहान् ग्रहादिदेवाँश्च संस्थाप्य होममाचरेत् ॥२४॥ग्रहयज्ञोऽयुतहोमो लक्षहोमस्तथा मतः ।कोटिहोमस्तथा चापि यथाकार्यबलानुकृत् ॥२५॥अयुतेनाऽऽहुतीनां तु नवग्रहमखो मतः ।गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ॥२६॥विप्रद्वयावृतां वेदिं वितस्युच्छ्रयशोभनाम् ।चतुरस्रामुदङ्मुखां कृत्वाऽग्निनयनं ततः ॥२७॥आवाहयेत् सुराँस्तस्यां सूर्यं सोमं च मंगलम् ।बुधं गुरुं कविं शनैश्चरं राहुं च केतुकम् ॥२८॥मध्ये सूर्यं दक्षिणे मंगलं गुरुं तथोत्तरे ।बुधं पूर्वोत्तरे शुक्रं पूर्वे संस्थापयेत्तथा ॥२९॥दक्षपूर्वे चन्द्रमसं शनिं तु पश्चिमे तथा ।राहुं तु दक्षपश्चे तु केतुं पश्चोत्तरे तथा ॥३०॥तण्डुलेषु स्थापयेद्वा तथोपदेवताः शुभाः ।सूर्यस्येशं शशिनश्च पार्वतीं चोपदेवताम् ॥३१॥स्कन्दं भौमस्य च हरिं बुधस्याऽप्युपदेवताम् ।ब्रह्माणं च गुरोरिन्द्रं शुक्रस्याप्युपदेवताम् ॥३२॥यमं शनेस्तथा राहोः कालं तथोपदेवताम् ।चित्रगुप्तं च केतोर्वै स्थापयेदुपदेवताम् ॥३३॥अथ प्रत्युपदेवाँश्च स्थापयेत्तत्र तत्र च ।क्रमादग्निं जलं पृथ्वीं विष्णुमिन्द्रं शचीं तथा ॥३४॥प्रजापतिं भोगिनश्च ब्रह्माणं स्थापयेच्च तान् ।विनायकं च दुर्गां च वायुमाकाशमित्यपि ॥३५॥आवाहयेद् व्याहृतिभिस्तथैवाश्विकुमारकौ ।ध्यायेद्रविं रक्तवर्णं मंगलं रक्तमित्यपि ॥३६॥सोमशुक्रौ श्वेतवर्णौ बुधगुरू तु पिंगलौ ।शनिराहू कृष्णवर्णौ धूम्रं केतुं स्मरेत्तदा ॥३७॥ग्रहवर्णानि देयानि पुष्णाणि चाम्बराणि च ।सुरभिर्धूप एवाऽत्र वितानकं तथोपरि ॥३८॥फलपुष्पादि पूजार्हं सर्वं दद्यात् समर्हणे ।गुडौदनं तु सूर्याय सोमाय घृतपायसम् ॥३९॥मंगलाय तु संयावं बुधाय क्षीरकुल्लरीम् ।दध्योदनं तु गुरवे शुक्राय तु गुडौदनम् ॥४०॥शनैश्चराय कृशरां माषाँस्तु राहवे तथा ।चित्रौदनं तु केतुभ्यस्ततः समर्चयेत् सुरान् ॥४१॥प्रागुत्तरेण कलशं दध्यक्षतसमन्वितम् ।चूतपल्लवसंयुक्तं फलवस्त्रयुगान्वितम् ॥४२॥पञ्चरत्नसमायुक्तं स्थापयेद् वरुणं न्यसेत् ।तीर्थानि च समुद्राँश्चावाहयेत् तत्र वै जले ॥४३॥गजाश्वरथ्यावल्मीकचत्वरह्रदगोकुलात् ।मृदमानीय च सर्वौषधिवारिसमन्विताम् ॥४४॥स्नानार्थं विन्यसेत् तत्र यजमानस्य भूसुरः ।होमं समाचरेत् सर्पिर्यवव्रीहितिलादिभिः ॥४५॥अर्कः पालाशखदिरावपामार्गश्च पिप्पलः ।औदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥४६॥एकैकस्याऽष्टकशतमष्टाविंशतिमेव वा ।होतव्या मधुसर्पिर्भ्यां दध्ना च समिधा तथा ॥४७॥तत्काण्डान् प्रादेशमात्रानशाखानपलाशिनः ।कल्पयेत् समिधस्तत्र जुहुयाद् देवमन्त्रतः ॥४८॥पक्वं चरुं घृताभ्यक्तां समिधं भक्ष्यप्रभृति ।दशाहुतीः प्रहुत्वा जुहुयाद् व्याहृतिभिस्तथा ॥४९॥मन्त्रितं च चरुं तस्मै तस्मै देवाय चाऽर्पयेत् ।पूर्णाहुतिं ततो दद्यात् स्नापयेत् यजमानकम् ॥५०॥सुरास्त्वामभिरक्षन्तु सर्वे ये चात्र पूजिताः ।तथाऽन्ये पूजनार्हाश्च त्वामवन्तु समन्ततः ॥५१॥इति स्नपितः सस्त्रीको यजमानस्तु दक्षिणाम् ।ददद् विप्रेभ्य एवापि गृहेभ्यश्चापि तां यथा ॥५२॥सूर्याय कपिलां धेनुं शंखं चन्द्राय चार्पयेत् ।भौमाय वृषभं रक्तं बुधाय कनकं दिशेत् ॥५३॥गुरवे पीतवस्त्रं च शुक्राय श्वेतवाजिनम् ।कृष्णां गां शनये दद्यादायसं राहवे तथा ॥५४॥छागं दद्यात् केशवायाऽथवा गावस्तु यावताम् ।सुवर्णं वा प्रदद्याच्च गुरुर्यथा प्रतुष्यति ॥५५॥देये वस्तुनि देवस्य ममाराधनपूर्वकम् ।दानं श्रेष्ठतमपुण्यप्रदं प्रजायते रमे ॥५६॥मातस्त्वं पृथ्वीरूपा धेनुः कृष्णस्य वत्सला ।पुण्या पापहरा मेऽस्तु नित्यां शान्तिं प्रयच्छ मे ॥५७॥शंखस्त्वं पुण्यपुञ्जानां मूर्तिर्मंगलरूपिणी ।कृष्णहस्तस्थितो नित्यं शान्तिं प्रयच्छ मेऽनिशम् ॥५८॥धर्मदेवो वृषः कृष्णमूर्तौ प्रतिष्ठते भवान् ।सर्वानन्दप्रमोदानामधिष्ठानं दधातु माम् ॥५९॥कनक त्वं वह्निपुत्र हेमबीजं विभावसोः ।अनन्तपुण्यफलदं शान्तिमृद्धिं प्रयच्छ मे ॥६०॥पीताम्बरं सदा श्रेष्ठं दिव्यं श्रीकृष्णवल्लभम् ।शान्तिं च सम्पदं देहि कुरु मां कृष्णवल्लभम् ॥६१॥हयग्रीवो भवान् विष्णुरमृतौषधिवीर्यपः ।देहि मे चामृतं शान्तिं माणिक्याश्वीपतिः प्रभुः ॥६२॥कृष्णे गो त्वं कृष्णपत्नी कार्ष्णी नारी व्यजायथाः ।कृष्णस्य धारिणी चास्ते मां प्रपोषय नित्यदा ॥६३॥धातूनामायसं दासः सर्वकिंकरकार्यकृत् ।सिताशरादिदेव त्वं नित्यां शान्तिं प्रयच्छ मे ॥६४॥छाग त्वं कालरूपोऽसि स्वप्ने दृष्टो भयावहः ।वह्निवाह सदा शान्तिं मे प्रयच्छ प्रपूजितः ॥६५॥गावः कृष्णस्वरूपा वै सर्वेश्वरसुराश्रयाः ।सर्वोद्धारसमर्थाश्च श्रियै मे सन्तु सर्वथा ॥६६॥शय्ये कृष्णेन संभुक्ता पावनी त्वं सुतप्रदा ।सम्पत्प्रदाऽस्तु मे नित्यमशून्याऽस्तु मम स्त्रिया ॥६७॥सर्वरत्नानि देवानां वासात्मकानि वै यतः ।रत्नवासं गृहे मेऽत्र प्रकुर्वन्त्वर्पितानि ह ॥६८॥भूमिदानं परं दानं तथा सुवर्णदानकम् ।अन्नर्द्धिं च धनर्द्धिं च कुरुतं मे समर्पिते ॥६९॥इत्यभ्यर्थ्य च सम्प्रार्थ्य दाने दद्याद् विशेषतः ।सर्वान् कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥७०॥यस्तु पीडाकरो नित्यमल्पवित्तस्य वा ग्रहः ।तं तु यत्नेन सम्पूज्य तोषयेच्छेषसंयुतम् ॥७१॥वर्मवच्चोपघातानां शान्तिर्भवति पूजनात् ।सम्पूर्णां दक्षिणां दद्याद् वित्तशाठ्यं विवर्जयेत् ॥७२॥विवाहोत्सवयज्ञेषु प्रतिष्ठादिक्रियादिषु ।निर्विध्नार्थं प्रशान्त्यर्थं कुर्यादुद्वेगशान्तिदम् ॥७३॥नवग्रहमखं भक्तोऽयुतहोमात्मकं शुभम् ।अनादिश्रीकृष्णनारायणात्मकमहाध्वरम् ॥७४॥प्रार्थयेद् यजमानोऽत्र मां देवानीश्वरान् सतीः ।यजमानस्तीर्थजलैः स्नापितो वेदविज्जनैः ॥७५॥स्नापयितृद्विजा दद्युराशीर्वादान् सुरक्षकान् ।अनादिकृष्णनारायणो नारायणीयुतः ॥७६॥मुक्तमुक्तानिकायुक्तस्त्वां सदा रक्षतु ध्रुवम् ।श्रीकृष्णो राधिकायुक्तो नारायणः श्रिया सह ॥७७॥वासुदेवादयो व्यूहा रक्षन्तु त्वां प्रपूजकम् ।ब्रह्मविष्णुमहेशाश्च महेन्द्राद्या दिगीश्वराः ॥७८॥धर्मपत्न्यः समग्राश्च सूर्याद्याश्च नवग्रहाः ।वसवो निधयो रुद्राः ऋषयो मुनयो वृषाः ॥७९॥देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसा गणाः ॥८०॥भूतप्रेतपिशाचाद्या रुद्रा गणा गणेश्वराः ।योगिन्यः शक्तयः सर्वाः शस्त्राऽस्त्रवाहनानि च ॥८१॥रत्नौषधानि विघ्नाश्च कालः कालस्य वंशजाः ।सर्वेऽपि कालावयवास्तीर्थानि निखिलान्यपि ॥८२॥एते त्वामभिषिञ्चन्तु रक्षन्तु वर्धयन्त्वपि ।एवमाशीर्वर्धितश्च शुक्लाम्बरधरोऽर्पयेत् ॥८३॥दक्षिणा विविधाः सर्वा विप्रेभ्यो गुरवे सते ।भोजयेद् बहुधा विप्रान् साधून् साध्वीश्च योषितः ॥८४॥बालाँश्च बालिकाँश्चापि दीनान्धकृपणाँस्तथा ।भिक्षुकान् दैववृत्तींश्च मिष्टान्नपायसादिभिः ॥८५॥होमानयुतसंख्याकान् कारयेद् विप्रपुंगवैः ।यद्वा स्वयं प्रकुर्याच्च ब्रह्मशीलव्रतान्वितः ॥८६॥ततः कुर्यात् परिहारं ग्रहाऽध्वरस्य सर्वथा ।ग्रहशान्तिर्भवेत्तेन पीडा नश्येत् सुखी भवेत् ॥८७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पुण्यतमदिनप्रदर्शनं ग्रहशान्तिपूजादिप्रदर्शनं चेतिनिरूपणनामा त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥१३३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP