संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं सरोजिनीकथां शुभाम् ।पुरा कन्याऽभवत् कुंभकारस्य कर्दमार्थिनी ॥१॥घटादिसर्वभाण्डानां रचनाय तु मृत्तिकाम् ।समानयति योग्यां च गर्दभाद्यैस्तु वाहनैः ॥२॥मात्रा पित्रा समं भ्रात्रा क्वचित् स्वस्रा कुमारिका ।वरयोग्याऽपि सा नैवेयेष वै वरितुं ततः ॥३॥पितृगृहेऽवसत् साध्वी ब्रह्मचर्यपरायणा ।वृद्धसेवापरा चापि शीलधर्मपरायणा ॥४॥व्यवसाये निजे रक्ता तुष्टा स्वल्पैश्च वस्तुभिः ।निर्धनस्य गृहे भूता ततो वाञ्च्छा न वर्धते ॥५॥स्वभावतोषयुक्ता वै वर्तते साध्विका यथा ।अथ काले गता माता नाम्ना घोणावती ज्वरम् ॥६॥समासाद्य ययौ स्वर्गं सरोजिनी शुशोच ह ।मातृसमं सुखं नास्ति नास्त्याधारः प्रसूप्रखः ॥७॥कन्यानां सर्वदा माता स्वर्गं गृहे विराजते ।अपि निर्धनबालानां धनं माता परं मतम् ॥८॥अदत्वा निजबालायै भुंक्ते पिबति नो प्रसूः ।अस्मृत्वा न दिनं याति मातुर्निजोद्भवात्मजान् ॥९॥विस्मृतौ वापि निद्रायां समाह्वयति बालकान् ।देववत् पोषणं माता करोति सेवते निजान् ॥१०॥मातुरुत्संग एवाऽऽस्तेऽमृतं वै पक्षिणामपि ।अण्डान्यपि प्रपुष्यन्ति सदा मात्रुदरोष्मणा ॥११॥वियोगे क्षणमात्रं वा माता सुखं न विन्दति ।सा माता स्वर्गगा चाऽद्य पिता वृद्धो भवत्यपि ॥१२॥सोऽपि पुत्राधीनवृत्तिर्गमिष्यत्यप्यतो दिवम् ।ततो मया सदा स्थेयं भ्रातृजायाकरे भवेत् ॥१३।अस्नेहेन निवासोऽपि निरयोऽत्र हि गोचरः ।किं कार्यं वै मया त्वद्य कर्तव्यं किं तथोत्तरे ॥१४॥इत्येवं नित्यमेवेयं शोचत्येव विरागिणी ।अथ द्वादशके श्राद्धे महीमानाः समाययुः ॥१३५॥सम्बन्धिनां च सम्बन्धवन्तोऽपि ज्ञातियोगिनः ।तत्रैकेन कृता वाञ्च्छा सरोजिन्यर्थमेव ह ॥१६॥पिता निवेदितस्तस्या सोऽपि प्रस्वीचकार तत् ।वाग्दानेन प्रदत्ता सा कन्यका कुंभकारिणे ॥१७॥नाम्ना नालधरायेति पित्रा चक्रैधसंज्ञिना ।अथ योग्ये क्षणे कन्या विवाहिता सुमंगलैः ॥१८॥कन्याऽपि सा प्रसन्नाभूच्छोकं तत्याज सर्वथा ।ययौ गृहं स्वामिनो वै भोगान् भुंक्ते सुखस्थिता ॥१९॥किन्तु शारीरचिह्नानि कन्यायाः कान्तहानि वै ।श्मश्रुश्चौष्ठस्य दैर्घ्यं च तथा चिपिटनासिका ॥२०॥केकराक्षी पदांगुष्ठानामिके स्पृशतो न क्ष्माम् ।एतादृशी गृहायाता यदा पत्युस्तदा क्षणात् ॥२१॥पतिर्ज्वरं समापेदे कृशतां प्राप्य वै मृतः ।विधवा सा च सञ्जाता शारीरचिह्नदोषतः ॥२२॥अथ पितृगृहं प्राप्ता भ्रातृभिश्चाभिरक्षिता ।अनपत्या निराधारा शोचति स्म निजां मुहुः ॥२३॥वर्षोत्तरे पुनश्चान्यकुंभकारेण चार्थिता ।पित्रा विवाहिता सापि पुनः पत्युर्गृहं ययौ ॥२४॥सुखं भुंक्तेऽधिकं सा तु पूर्वतोऽपि सुखिगृहे ।किन्तु चिह्नप्रतापेन ग्रहदोषैस्तथा पुनः ॥५॥पतिस्तस्या द्वितीयोऽपि मृतो नाम्ना हि रत्नकः ।अनपत्यैव सा तं च शुशोच सत्पतिं मुहुः ॥२६॥भाग्यं निजं शुशोचापि पुनः पितृगृहं ययौ ।पिताऽपि पूर्णकालः सन् मृत्युवशं ततो गतः ॥२७॥भ्रात्रधीनाऽभवत् साऽपि सरोजिनी ततः परम् ।वर्षोत्तरं तृतीयेन कुंभकारेण वाञ्छिता ॥२८॥भ्रात्राऽर्पिता ययौ तस्याः पत्युर्गृहं सरोजिनी ।सुखं प्राप्ता पूर्वतोऽपि विशेषं तत्र वत्सरम् ॥२९॥तृतीयोऽपि मृतो लालदासाख्यः स्वपतिस्ततः ।शुशोचाऽतीव मनसा भाग्यं धिक्कुर्वती हि सा ॥३०॥अथ भ्रातृगृहं प्राप्ता दुःखेन वर्तते सदा ।पुनर्वर्षान्तरे चाऽन्यकुंभकारेण चाऽर्थिता ॥३१॥विधिना स्वाग्रजदत्ता ययौ पत्युर्गृहं हि सा ।वर्षमात्रं सुखं प्राप्ता चतुर्थोऽपि पतिर्मृतः ॥३२॥पुनर्भ्रातृगृहं प्राप्ता निरपत्याऽतिदुःखिता ।पराधीना च दिवसान् दुःखान् निर्गमयत्यपि ॥३३॥अथैकदा भ्रातृजाया दिदेश कच्चरार्थिनी ।आमपात्राणि पक्तुं वै कच्चरेन्धनहेतवे ॥३४॥याहि सीम्नि चेन्धनानि समिधः पत्रकच्चरम् ।काण्डकाष्ठानि नालानि भ्रष्ट्र्यर्थं त्वं समानय ॥३५॥सरोजिनी ज्वरार्ताऽभूत्तदैव शीतदूषिता ।निषिषेध प्रगन्तुं च सुप्ताऽभवद् भुवस्तले ॥३६॥अथ क्रुद्धा भ्रातृजाया गालीदानं चकार ह ।सा श्रुत्वा न प्रत्युवाच यतो ज्वराभिदुःखिनी ॥३७॥आहूताऽपि न चायाति यदा सरोजिनी तदा ।भ्रातृजाया कुटीं गत्वा धृत्वा हस्ते सरोजिनीम् ॥३८॥विचकर्ष बलाच्चापि दिदेशाऽऽहर्तुमिन्धनम् ।न यास्यामीति चुक्रोश सरोजिनी ज्वरान्विता ॥३९॥तताड भ्रातृजायां च साऽपि तताड तां मिथः ।केशाकेशि तयोर्युद्धं साक्रोशं समभूत्तदा ॥४०॥पार्श्ववासाः प्रश्रुत्वाऽपि मिलितास्तद्गृहेऽभवन् ।कुटुम्बिनः समायाता ग्रामीणाः सुहृदोऽपि च ॥४१॥सर्वे साम्ना विविधेन क्लेशं शान्तं प्रचक्रिरे ।अथ वैरं तयोर्जातं नित्यं नेत्ररुषाऽधिकम् ॥४२॥नेत्रयोश्चापि युद्धं वै जायते नित्यशस्ततः ।वाचां युद्धं गालिकाभिः कलहश्चापि जायते ॥४३॥एवं दिनेषु यातेषु भ्राता कालवशं गतः ।रक्षिताऽस्या नैव चास्ति भ्रातृजाया सुपुत्रिणी ॥४४॥प्रसह्य तां गृहान्निष्कासयामास निजात्ततः ।सापि प्रौढस्थितिस्त्यक्त्वा ग्रामं नदीतटेऽस्वपत् ॥४५॥स्वप्नं ददर्श तत्रैव दुःखहेतुं पुराकृतम् ।स्वां ददर्श घातकर्त्रीं निषादिनीं पुराभवे ॥४६॥स्वगृहे विक्रयार्थं सा हन्ति वै बर्करं त्वजम् ।बहून् सा बर्करान् हत्वा करोति चोदरभृतिम् ॥४७॥एवंविधां घातकिनीं स्वां विलोक्य मृताऽभवत् ।यमपूर्यां ततो याता भुक्त्वा दुःखानि तत्र च ॥४८॥पिशाचिनी ततो भूत्वा सहस्रवर्षमेव ह ।कुंभकारगृहे जाता सरोजिनी भवाम्यहम् ॥४९॥इत्येवं स्वप्नमेवेयं दृष्टवती नदीतटे ।समुत्तस्थौ ततश्चेयं कर्मफलं बुबोध ह ॥५०॥पूर्वकृतं हि पश्चाद्वै प्राप्यते सर्वदेहिभिः ।मया पूर्वे हताश्चाऽजास्तेन नश्यन्ति मे वराः ॥५१॥पतयो मे सर्व एव म्रियन्ते मम कर्मभिः ।अतो मया भिक्षुकिन्या भूत्वा गन्तव्यमेव ह ॥५२॥विचार्येत्थं कर्मपीडां ग्रहपीडां स्वभावजाम् ।पीडां पूर्वफलं मत्वा साध्व्याश्रमं वने ययौ ॥५३॥यत्र सन्न्यासिनी दिव्या राजते श्रीसतीश्वरी ।सहस्रशिष्यासंयुक्ता वैष्णवी ब्रह्मचारिणी ॥५४॥दिव्यतेजोमयी मूर्तिर्दर्शनात्पापनाशिनी ।अनादिश्रीकृष्णनारायणभक्तिपरायणा ॥५५॥दूरश्रवणदृष्ट्यादिचमत्कारयुता शुभा ।परदुःखहरा योगाभ्यासपरा जितेन्द्रिया ॥५६॥यदाश्रमे न पुरुषाः प्रविशन्ति कदाचन ।काश्चिद्धोमपरा यज्ञोपवीतिन्यश्च कन्यकाः ॥५७॥काश्चिद्ध्यानपराः सन्ति मालाजपपरायणाः ।काश्चित्तपःपरा साध्व्यो जटासमस्तशोभनाः ॥५८॥निरम्बरा वृक्षशालपराश्चर्मपरास्तथा ।पत्रवंशकटवस्त्राः कम्बलादिपरास्तथा ॥५९॥सर्वाब्रह्मपराः सत्यः साध्व्यः कृष्णव्रतान्विताः ।साक्षात् कृष्णे कृतस्नेहा मुक्तिमार्गपरायणाः ॥६०॥वायुसूर्यशशिदेवा वह्नयोऽपि स्पृशन्ति न ।सकन्यास्ते प्रवर्तन्ते तासां वासेषु सेवकाः ॥६१॥वैरं मृगे मृगराजे स्वाभाविकं न यत्र वै ।कामक्रोधादयो यत्र निजभावं त्यजन्ति वै ॥६२॥युवत्वं यत्र नास्त्येव विद्यमानं तु सात्त्विकम् ।निर्गुणत्वं भजतेऽत्र सतीनामाश्रमे शुभे ॥६३॥राजस्वल्यं सतीनां वै तपसा लीनतां गतम् ।दिव्यदेहा विराजन्ते देव्यो यथा चिदम्बरे ॥६४॥जलवह्निबाष्पकुण्डा यत्र शीतोष्णयोगिनः ।सिद्धयो यत्र वर्तन्ते वचःसंकल्पमानसे ॥६५॥काश्चिद् देव्यो गह्वरस्थाः काश्चित् कुटीगता अपि ।काश्चिद् व्योमकृतावासा विहरन्त्यपि चाम्बरे ॥६६॥काश्चिद् वेदस्य वेत्र्यश्च काश्चित् कर्मठिका अपि ।काश्चित् सामपराः सत्यः काश्चिदृचां प्रबोधिकाः ॥६७॥काश्चिद् ज्ञानपरा नित्यं बहुरूपधरास्तथा ।समाधिस्था अपराश्च राजन्ते साध्विका इति ॥६८॥तत्र गत्वा विरूपाक्षी कुमुखी दीर्घकाधरा ।रोमजंघा चिपिटिकानासा चिपिटपादिका ॥६९॥स्थूलघोणा रक्तकेशा सूक्षमुखी कृशस्तनी ।सरोजिनी कुंभकारपुत्री निराश्रया सती ॥७०॥आश्रमस्यैव गोद्वारे भ्रमन्ति यत्र वै मृगाः ।तत्र रजोमयीभूमौ लुलोठ महिमान्विता ॥७१॥पावनी सा धूलिका वै शरीरे मर्दिता तया ।तां वीक्ष्य पावनीं भक्तां किन्तु चांगैरमंगलाम् ॥७२॥युवतीं दुःखिनीं लक्ष्मि कन्यकाश्चाभिसंययुः ।सर्वाभ्यो युवती नत्वा सहाश्रमान्तरं ययौ ॥७३॥यत्र सा राजते साध्वी श्रीसतीश्वरिणी गुरुः ।नमस्कृत्य रुरोदाऽपि पपात गुरुपादयोः ॥७४॥दृष्ट्वा दुःखपरां दीनां दयां कृत्वा सतीश्वरी ।मा भैष्टेति जगादेनां वल्कलानि ददौ तथा ॥७५॥पृष्टा ह्युऽदन्तविषये ज्ञात्वा विरागमाश्रिता ।रक्षिता च सतीमध्ये देहशुद्धिं प्रकारिता ॥७६॥व्रतं दत्तवती तस्यै सतीश्वरी तु मासिकम् ।पञ्चाग्नितपनं चापि भोजनं फलमूलकम् ॥७७॥जपनं मम मन्त्रस्य नित्यं सहस्रसंख्यया ।'अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥७८॥इत्येवं सा जजापैव चैकाग्रमनसा सदा ।त्रिंशत्सहस्रजापैश्च मासान्ते श्रीसतीश्वरी ॥७९॥तुष्टा चाहूय तामाह पिब वारि प्रसादजम् ।सरोजिनी पपौ वारि श्रीकृष्णपूजनामृतम् ॥८०॥तावत् सा दिव्यरूपा वै सूर्यतुल्या व्यजायत ।यथा लक्ष्मीर्यथा दुर्गा यथा सावित्रिका शची ॥८१॥दिव्यशक्तिमहैश्वर्यचमत्कारयुताऽभवत् ।दिव्यचक्षुर्दिव्यकर्णदिव्यमानसम्पदा ॥८२॥व्यद्योतत सतीमध्ये यथा मुक्तानिका परा ।शरीरं सर्वमेवाऽभूद् दिव्यपद्मिनिका यथा ॥८३॥सद्रेखासर्वश्रेष्ठांगचिह्नशोभं शुभं परम् ।व्योमगामि कृपालब्धं शरीरं संव्यजायत ॥८४॥कुंभकर्त्री कृपया वै ब्रह्मधर्त्री बभूव ह ।अथ सा सेवते नित्यं सतीश्वरीं तु गौरवीम् ॥८५॥तपोयोगेन दिव्येन चाज्ञया पुण्यपुञ्जकैः ।सेवाभिश्चापि बह्वीभिस्तोषयामास गौरवीम् ॥८६॥सतीश्वरी ततश्चैनां पप्रच्छ वद मानसम् ।किमिष्टं ते ब्रह्मधर्त्रि ददामि तव मानसम् ॥८७॥सरोजिनी तदा प्राह कृष्णनारायणः पतिः ।अनादिश्रीकृष्णनारायणो मेऽस्तु परेश्वरः ॥८८॥लक्ष्म्याः पादतले स्थित्वा सेविष्ये परमेश्वरम् ।यत्र लक्ष्मीस्तत्र चाहं वसामि सहयोगिनी ॥८९१॥विना लक्ष्मीपतिं कान्तं नान्यन्मे रोचते हृदि ।मुक्तिं तामेव वाञ्च्छामि सेवारूपां हि दासिकाम् ॥९०॥साऽहं प्राप्त्या भविष्यामि कृतकृत्या तथा कुरु ।तथाऽस्त्विति तदा प्राह सतीश्वरी सरोजिनीम् ॥९१॥ददौ तस्यै महामन्त्रद्वयं जपार्थमेव ह ।'ओं महालक्ष्म्यै विद्महे विष्णुपत्न्यै च धीमहि ।तन्नो लक्ष्मीः प्रचोदयात् ॥९२॥ 'ओं नारायणाय विद्महे वासुदेवाय धीमहि ।तन्नो विष्णुः प्रचोदयात्' ॥९३॥प्राप्य मन्त्रावुभौ नित्यं जजाप सा पुपूज तौ ।लक्ष्मीनारायणौ नित्यं ध्यानसेवापरायणा ॥९४॥वर्षान्ते सुप्रसन्नौ तौ प्रत्यक्षगोचरौ पुरः ।लक्ष्मीनारायणौ जातावूचतुश्च सरोजिनीम् ॥९५॥वद किं ते मनस्यत्र वर्तते द्वन्द्व एव तत् ।श्रुत्वा ननाम भावेन वरयामास तं वरम् ॥९६॥लक्ष्मीपादतले स्थित्वा सेवयामि सदा हरिम् ।तथाऽस्त्विति प्राहतुश्च जगृहतुः सरोजिनीम् ॥९७॥रूपद्वयं सरोजिन्याश्चक्रतुः श्रीरमेश्वरौ ।कमलं नालपुष्पाढ्यं दिव्यं सुगन्धि चैककम् ॥९८॥द्वितीयं कन्यकारूपं पद्मिनीत्येव भाषितम् ।पद्मिनीं तां हरिस्तत्र जग्राह स्वकरेण वै ॥९९॥पत्नीं लक्ष्मीसमां दिव्यां लक्ष्मीस्वसृस्वरूपिणीम् ।सरोजिनी वल्लिका च जलमध्ये ततोऽभवत् ॥१००॥नालकमलपत्राढ्या लक्ष्मीस्तत्राऽवसत् सदा ।लक्ष्म्याश्चरणसेवाढ्या सरोजिनी सदाऽभवत् ॥१०१॥तदारभ्य सदा लक्ष्मीः राजते कमले रमे! ।लक्ष्मीपादरजःपूता सेवते श्रीनरायणम् ॥१०२॥एवं लक्ष्मि सदा भक्त्या सरोजिनी पुराऽभवत् ।कुंभकर्त्री गुरोर्भक्त्या ब्रह्मधर्त्री ततोऽभवत् ॥१०३॥सतीश्वरीगुरोर्भक्त्या ग्रहाद्याश्च निराभवन् ।देहचिह्नानि सर्वाणि यानि दुर्भाग्यदान्यपि ॥१०४॥तानि व्यावृत्तिमासाद्य दिव्यरूपाण्यथोऽभवन् ।इत्येवं सर्वदा भक्त्या सतां सेवाभिरन्वहम् ॥१०५॥साध्वीनां ब्रह्मवेत्रीणां कृपया दिव्यतां व्रजेत् ।पापानि दर्शनादेव नश्यन्ति साधुयोगिना ॥१०६॥लभ्यन्ते सेवया दिव्यगुणाः परममोक्षदाः ।कालकर्मादयश्चापि विघ्ना ये दुःखकारिणः ॥१०७॥सर्वे ते विलयं यान्ति गुरोः सेवाफलेन वै ।दुष्टा ग्रहाः सुखाश्चैव काला दुष्टाः सुखास्तथा ॥१०८॥कुभाग्यं सुभगं स्याच्च देहो भौमोऽपि दीव्यति ।अनायुष्यं चिरायुष्यं दारिद्र्यं धनितां व्रजेत् ॥१०९॥पापानि पुण्यभावं च प्रयान्त्येव हि सेवया ।पठनाच्छ्रवणाच्चाऽस्य स्मरणादपि तत्फलम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सरोजिन्याः कुंभकारपुत्र्याः पूर्वजन्मपापेन चतुष्पतिमरणोत्तरं वैराग्येण श्रीसतीश्वरीसाध्व्याश्रमे गमनं, तत्र श्रीलक्ष्मीनारायणभक्त्या गुरुसेवया च ग्रहदोषशारीरदोषनाशोत्तरं श्रीलक्ष्म्याश्रयायाः कमलिनीवल्लिकायास्तथा पद्मिन्याख्यरमायाः स्वरूपप्राप्तिरित्यादिनिरूपणनामा चतुःपञ्चाशदधिकशततमोऽध्यायः ॥१५४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP