संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १९५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १९५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९५ Translation - भाषांतर शृणु नारायणीश्रि! त्वं कथां पापविनाशिनीम् ।सौराष्टे मायूरपुर्यां मत्स्यायाः सरितस्तटे ॥१॥महोद्याने तदुद्यानपालो माली कुटुम्बवान् ।हर्षुलाख्यो हरेर्भक्तो धर्मकर्मपरायणः ॥२॥स्नानपूजनदानादितत्परोऽभूत् स्वशक्तितः ।ह्रर्षुलस्याऽभवत् पत्नी नाम्ना विद्रुमवल्लकी ॥३॥साऽपि भक्ताऽभवत् किन्त्वनपत्या शोकशालिनी ।ओषधीनां प्रयोगैश्च तथा मन्त्रादिभिः शुभैः ॥४॥बहुधा मानताभिश्च नाऽभूत् सा गर्भशोभना ।निराशा सा सन्निहितवार्धक्या तु यदाऽभवत् ॥५॥तदा पतिस्तदाशां च विहायाऽन्यां स्त्रियं शुभाम् ।अर्धावस्थगतां पत्नीं चाकरोद् विधिरीतितः ॥६॥सा तु गर्भवती जाता नाम्ना तु चित्रपल्लवा ।हर्षुलो हर्षमापन्नो भाविपुत्रस्य चिन्तनैः ॥७॥दानं धर्मं व्रतं पुण्यं करोति पुत्रवाञ्च्छया ।सतां प्रपूजनं चापि सत्कारं फलभोजनैः ॥८॥करोति सर्वथा चाभ्यागतानामपि पूजनम् ।आशीर्वादान् प्रगृह्णाति पुत्रार्थी श्रद्धयाऽन्वितः ॥९॥फलादिकं निजोद्यानाद् देवालयाय नित्यदा ।प्रापयत्येव भक्तात्मा सेवते मन्दिरादिकम् ॥१०॥विद्रुमवल्लकी यावत् तथैव चित्रपल्लवा ।पतिभक्तिमती चापि पापभीतियुताऽपि च ॥११॥विद्रुमवल्लकी नित्यं स्वापमानं हि नित्यदा ।मनुते ह्यनपत्यत्वाद् वार्धक्याश्च विशेषतः ॥१२॥सगर्भा चित्रपल्ली तु मानमर्हति सर्वतः ।सापत्न्यं हि महद्दुःखं विद्रुमाया उपस्थितम् ॥१३॥तत्रापि पुत्रवत्याश्च सपत्न्या दुःखमुल्बणम् ।मत्वा नित्यं चिन्तयति गर्भपातो भवेदिति ॥१४॥कटुतीक्ष्णोष्णभावानि भोजनानि नवानि सा ।कृत्वा स्वादयुतान्येव गर्भवत्यै ददाति हि ॥१५॥तथापि गर्भपातो नाऽभवत्ततश्च सा पुनः ।गर्भपातौषधं तस्यै भोजने प्रददात्यपि ॥१६॥गर्भपातो न वै जातो मासाः पूर्णाः प्रसूतये ।पुत्रजन्माऽभवन्माली हर्षुलो हर्षमाप्तवान् ॥१७॥चित्रपल्ली प्रसन्नाऽभूच्छुष्का विद्रुमवल्लकी ।हर्षुलोऽपि यथाशक्ति दानं ददौ द्विजातये ॥१८॥फलपुष्पाम्बरायां च स्वर्णरूप्यकमूलिनाम् ।गोदानं भोजनं चापि ददौ योग्याय साधवे ॥१९॥जातकर्मादिकं चक्रे पुत्रवान् प्रेमविह्वलः ।उद्याने तत आरम्य चाऽभ्यागतस्य वै कुटीम् ॥२०॥अकरोद्धर्षुलस्तत्रागतं चाभ्यागतं तु सः ।अतिथिं वा सतीं साधुं सेवतेऽन्नफलादिभिः ॥२१॥सत्संगं प्रकरोत्येव वार्धक्ये पुत्रलाभवान् ।मोदते कीर्तनं नित्यं गायत्यपि हरेस्तथा ॥२२॥मूर्तिं मे फलपुष्पाद्यैः पूजयत्येव भावतः ।एवं पुत्रस्य वर्षं वै व्यतीतं सर्वथा शुभम् ॥२३॥विद्रुमवल्लकी रुष्टा शोकातुराऽतिदाहतः ।व्यचिन्तयद् विषदानं सुतस्येर्ष्याभिसंभृता ॥२४॥विषमूलं खनित्वेयं कृत्वा रसं मनागपि ।दुग्धपाने ददौ सा तु बालनाशाय पापिनी ॥२५॥अथ श्रीभगवाँश्चाऽहं भक्तरक्षाकरो यतः ।साधुरूपधरस्तस्या महीमानोऽभवं तदा ॥२६॥हर्षुलस्य गृहे तत्रोद्यानेऽगच्छं यथाऽतिथिः ।हर्षुलो मां मधुपर्कैस्तथा फलजलादिभिः ॥२७॥मिष्टैः सत्कारयामास शुभान्नैश्चासनादिभिः ।चित्रपल्ली प्रसन्ना च सिषेवे मां मुदान्विता ॥२८॥विद्रुमवल्लिका त्वेका जानाति दुग्धपानके ।विषमूलरसं दत्तं तेन बालो मरिष्यति ॥२९॥साऽपि प्रसन्नमनसा साधुसेवापराऽभवत् ।प्रतीक्षते कदा मृत्युर्भवेद् बालस्य पापिनी ॥३०॥बालः सुप्तो दुग्धपानोत्तरं शान्त्या तु तत्प्रसूः ।जानाति तेन साधोः सा सेवायां चिरमावसत् ॥३१॥बालो विषप्रवेगेण विप्राणः समजायत ।पर्यंके ह्यव नैवाऽन्ये जानन्ति हरिमन्तरा ॥३२॥सर्वे वै साधुसेवायां तत्पराश्च यदाऽभवन् ।नन्दा विद्रुमवल्ली सा ययौ शौचार्थमित्यपि ॥३३॥तत्रैकां मृतगोधां सा गृहीत्वा कलशे तदा ।पुत्रपर्यंकपार्श्वे त्वानाय्याऽक्षिपद्धि भूतले ॥३४॥अथाऽन्ये नैव जानीयुस्तथाऽक्षिपद्धि सा शनैः ।अथ दण्डं समगृह्याऽऽक्रोशं व्यधाद् बलादति ॥३५॥धावन्तु चात्र धावन्तु गोधादष्टः सुतस्त्वयम् ।गोधेयं दण्डघातैश्च ताड्यतेऽत्र मया पते ॥३६॥भगिनि द्रुतमागच्छ पुत्रो दष्टोऽनया त्विह ।एवं गोधां मृतां चापि यष्ट्या सा ताडयत्यपि ॥३५॥विदधाति महाऽऽक्रोशं यथा शृण्वन्ति चाऽपरे ।कोलाहलं परं श्रुत्वा मृषा तद्द्रोहनं ह्यपि ॥३८॥साधुना सहिताः सर्वे धावमानाः सुतालयम् ।ययुः प्राणवशा यद्वच्छ्रुत्वा दृष्ट्वा मृतं सुतम् ॥३९॥रुरुदुश्चापि सर्वे ते माता तु कुररी यथा ।विना पुत्रं यथा शोकवती ततोऽपि चाऽधिका ॥४०॥प्राप्तपुत्रविनाशेन शोकमग्नाऽभवत् सती ।पिताऽपि शोकमापन्नो रुरोद मुक्तकण्ठतः ॥४१॥उद्याने पार्श्वतस्तत्र बहवः कर्षुकादयः ।समाययुर्हि शोकार्त्ताः श्रुत्वा पुत्रस्य दंशनम् ॥४२॥मृत्युं विलोक्य सहसा शोकसागरमज्जिताः ।कपटे वर्तमानां च वेद्मि विद्रुमवल्लकीम् ॥४३॥सापि भयं गता तत्र साधुश्चायं प्रतापवान् ।यदि वेत्स्यति गरलं दत्तं विद्रुमवल्लया ॥४४॥तदा मे प्राणनाशं वै पतिर्मे संकरिष्यति ।इत्येवं भयमापन्ना साधोः पादौ प्रगृह्य सा ॥४५॥शनैर्मर्दनसंज्ञां च करोत्यथापि संज्ञया ।अंगुलीस्पार्शनभावैर्मम दोषोऽयमित्यपि ॥४६॥विज्ञापयति रक्षार्थं मा प्रकाशं विधेहि च ।मयाऽपि सा तदोक्ता वै साधुर्हितकरोऽस्म्यहम् ॥४७॥सर्वेषां हितमेवाऽत्र करिष्ये पापवर्जितम् ।मा शोकं पुत्रमृत्योश्च कुर्वन्तु साधुसेवकाः ॥४८॥अहं शोकापनोदं वै कर्तुं शक्तोऽस्मि सर्वथा ।बालं मृतं विद्यया च सञ्जीवन्या सजीवितम् ॥४९॥कर्तुं शक्तोऽस्मि तस्माद्वै मा रुदन्तु सतांप्रियाः ।गोधां चापि जीवयिष्ये लभन्तामत्र वै सुखम् ॥५०॥इत्युक्त्वा सहसा चाऽहं कृत्वा मम करे जलम् ।मन्त्रयित्वा मम नाम्ना मृतबालमुखेऽददाम् ॥५१॥जलस्य स्पर्शमात्रेण प्राणयुक्तोऽभवद्धि सः ।जीवितः सहसा बालो निर्विषः समजायत ॥५२॥गोधाऽपि जलसंस्पर्शात् क्षिप्तात् सजीवनाऽभवत् ।अथ सा मां नमस्कृत्य स्वर्गाद् विमानमागतम् ॥५३॥समारुह्य ययौ गोधा देवी भूत्वा दिवं शुभम् ।विलोक्यैतन्महाश्चर्यं हर्बुलाद्याः प्रभुं च माम् ॥५४॥मत्वाऽऽश्रयं परं चक्रुर्भक्तिं मन्त्र च जगृहुः ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥५५॥भेजुर्मां सर्वभावेन ह्ययाचन्त क्षमां तदा ।उत्सवं परमं चक्रुः सर्वे ते साधुसन्निधौ ॥५६॥अहोरात्रमहं साधुर्नाम्ना सञ्जीवनायनः ।उवास तद्गृहे रम्ये महोद्याने प्रसेवितः ॥५७॥हर्षुलः स सिषेवे मां पुत्रायुष्यविवृद्धये ।मया लक्षप्रवर्षाणि जीवत्विति वचोऽर्पितम् ॥५८॥लक्षवर्षाणि पुत्रोऽपि नाम्ना सञ्जीवनः कृतः ।आयुष्यं प्राप्तवान्मत्तः कृपा भक्ते ह्यनन्तिका ॥५९॥चित्रवल्ली च सन्तुष्टा सिषेवे मां पुनः पुनः ।देहमर्दनसेवाभिः पुत्राऽऽयुष्याऽतिहर्षिणी ॥६०॥दुष्टा विद्रुमवल्ली चाऽप्यर्धरात्रे गते तु माम् ।आगत्योवाच रहसि मामुद्धर कृपां कुरु ॥६१॥बालहत्या महत्पापं कृतं मया हि योषिता ।ईर्ष्यया सापत्न्यभावैः क्षमस्व मा बहिः कुरु ॥६२॥अप्रकाशं च मे पापं विनाशय जगत्पते ।इत्युक्त्वा पादसंवाहं चक्रे सा देहमर्दनम् ॥६३॥भक्तायाश्चापि पापस्य नाशार्थं वै दया कृता ।मया दिव्यस्वरूपेण दिव्यदृष्ट्या विलोकिता ॥६४॥स्पृष्टा दोर्भ्यां शरीरे सा तावत्तस्याः शरीरतः ।बालहत्या मूर्तिमती निष्क्रान्ता वेपथुभृता ॥६५॥मया सा जलदानेन शीघ्रं दग्धा लयंगता ।विद्रुमवल्लिका तूर्णं निर्भया समजायत ॥६६॥लक्ष्मीत्येवं मम भक्ता चित्रिका विद्रुमा तथा ।हर्षुलस्तत्सुतश्चापि गोधा समुद्धृता ह्यघात् ॥६७॥अविता रक्षिताश्चापि पोषिताश्च प्रतोषिताः ।अथ प्रातः समुत्थाय लब्ध्वा सत्कारभोजनम् ॥६८॥गन्तुमिच्छामि यावद्वै तावद्भक्तस्तु हर्षुलः ।पप्रच्छ किं विधेयं त्वत्कृते कृष्णनरायण ॥६९॥उपादिदेश तस्मै च नारीभ्यां चापि तत्र ह ।सतां समागमः कार्यः सेवनीयो हरिस्तथा ॥७०॥देशे काले विपरीते रक्षत्येव जनार्दनः ।अनादिश्रीबालकृष्णः कृष्णनारायणोऽस्म्यहम् ॥७१॥रक्षां करोमि भक्तानां क्षतौ धर्मस्य वै क्वचित् ।सदोषस्यापि भक्तस्य दोषं ते गणयाम्यहम् ॥७२॥सतां प्रसंगमाप्तस्य मम माहात्म्यवेदिनः ।सर्वथा सेवकस्यापि दोषं न गणयाम्यहम् ॥७३॥सतां प्रसंगात् पुण्यं वै जायते पापनाशनम् ।अतश्च सर्वदा कार्यः प्रसंगः श्रीहरेः सताम् ॥७४॥अवतारा ममाऽप्येवं स्मर्तव्या सर्वदा जनैः ।तल्लीला जन्मभूभागाः स्मर्तव्यः पापनुत्तये ॥७५॥देहान्तसमये यद्वा वैषम्ये देशकालयोः ।स्मरणं तु सदादीनां पापहं मोक्षदं भवेत् ॥७६॥ईर्ष्या नैव हि कर्तव्या परोत्कर्षाऽसहिष्णुना ।हिंसा पापं भवेत् सर्वमिर्ष्यया निन्दनं मृतिः ॥७७॥ततो याम्यप्रदेशानां यात्राऽपि दुःखदायिनी ।तस्माद्भक्तैश्च भक्ताभिरिर्ष्या त्याज्या प्रयत्नतः ॥७८॥कार्या प्रसन्नता नित्यं परो कर्षे सुखप्रदा ।प्रसन्नोऽहं भवाम्येव परोपकारकर्तरि ॥७९॥सापत्न्यं सुखदं नेयं नेतव्यं सुखदं तथा ।पत्युः प्रियं प्रकर्तव्यं तेनाहं तुष्ट एव ह ॥८०॥तस्माद्भक्तिमता भक्तिमत्या त्याज्यः स दुर्गुणः ।ध्यातव्या मम मूर्तिश्च राधालक्ष्म्यादिसेविता ॥८१॥ध्यायमाना न दृश्येत तथापि श्रद्धया मुहुः ।ध्यातव्या हृद्ये नित्यं कृपां करोमि तं प्रति ॥८२॥वश्यो भवामि तस्यैव यथेष्टं प्रददामि च ।विवेकः स तु मन्तव्यो भक्तानां गुणदर्शनम् ॥८३॥स्वस्मिन्नगुणवीक्षा च गुणग्राहित्वमिप्यपि ।साधुना हरिणा प्रोक्तं ग्रहीतव्यं हितं तु तत् ॥८४॥एवमाज्ञांकितो भक्तः प्रतिष्ठां महतीं लभेत् ।श्रीहरेश्च सतां सेवापरा इन्द्रियवृत्तयः ॥८५॥वर्तेरन् यस्य तस्याऽशु प्रसन्नता हरेर्भवेत् ।तस्य तत्त्वानि सर्वाणि श्रीहरेः सम्प्रसंगतः ॥८६॥पवित्राणि प्रजायन्ते नश्यन्त्यघादिकोटयः ।मम भक्तिः पुष्टिमेति ततः प्राप्नोति वाञ्च्छितम् ॥८७॥तस्माद् योज्यानीन्द्रियाणि श्रीकृष्णे मयि सत्सु च ।साधुसंगः सदा कार्यः पावित्र्यमुक्तिसिद्धये ॥८८॥कुसंगो नैव कर्तव्यो हिंसाद्रोहात्मकः क्वचित् ।निन्दा नैव प्रकर्तव्या वीक्ष्य देहक्रियां सताम् ॥८९॥तेन दृष्टिर्भवेद् दिव्या कृष्णे प्रीतिश्च वर्धते ।सत्सु स्नेहो वर्धते च पुण्यं मोक्षं च विन्दति ॥९०॥साक्षाज्जाते हरेर्योगे ह्यपूर्णतां न चिन्तयेत् ।नराकृतौ दृढनिष्ठा मयि कार्या हि गोचरे ॥९१॥मद्दर्शनादिनाऽऽत्मा वै मन्तव्यः पूर्णकामनः ।मम प्रसंगः कर्तव्यः सर्वथा भक्तिवृद्धये ॥९२॥एवंविधस्य भक्तस्य पूरयामि मनोरथान् ।अलौकिकं निजैश्वर्यं बलाद्ददाम्यनिच्छते ॥९३॥अतः प्रत्यक्षमासाद्य कृष्णं कान्तं पतिं प्रभुम् ।सेवयित्वा पुरुषार्थाः साधनीयास्ततो हरेः ॥९४॥रागद्वेषक्षयो यावन्न स्यान्नो वासनाक्षयः ।तावदेकान्तभक्तत्वं न स्यान्मे परमात्मनः ॥९५॥इन्द्रियाणां प्रवेगेण सुखेच्छा वर्तते तु या ।सा सदा नाशयितव्या श्रीकृष्णे वै समर्पणात् ॥९६॥कृत्वा प्रसंगं महतां हन्तव्या वासना खलु ।कृष्णेतरपदार्थेच्छा नष्टा यया प्रजायते ॥०१७॥ब्रह्मरूपः स वै भक्तस्तमहं संवृणोमि वै ।ऐकान्तिकः स मे भक्तोऽसंख्यदेहिप्रमोक्षकृत् ॥९८॥अन्तर्यामितया चाऽहं सर्वेच्छापूरकोऽस्मि च ।सर्वकर्मफलादीनां दाताऽहं सम्पदामपि ॥९९॥यस्माद्देहाद्यदुत्पत्तिर्यत्कर्मोत्था तु निर्मिता ।तं तु तस्माच्छरीराद्धि समुत्पाद्य च सञ्चितम् ॥१००॥तस्यैव पूर्वतश्चाप्तं यथाकालं ददाम्यहम् ।मत्सेवायाः फलं श्रेष्ठं ददामि चातिरेक्यपि ॥१०१॥ततः श्रद्धायुक्तजनैः सेवा कार्या सदा मम ।पूरयामि तदभीष्टं प्रारब्धवर्जितं ह्यपि ॥१०.॥आपद्यपि सतां सेवा कर्तव्या तु यथा मम ।कल्पलतासमा साऽस्ति शुभा सर्वेष्टपूरिका ॥१०३॥कलत्रपुत्रवित्तादेरधिकं सेवनं मम ।पत्युः पत्न्यास्तथा पित्रोः सेवनं ह्यधिकं मम ॥१०४॥सेवया मे सुखं सर्वं देहेऽत्र याति देहवान् ।प्राप्नोति मम धामाऽपि देहान्ते चाऽक्षरं परम् ॥१०५॥आजीवनं मतिर्यस्य यादृशी मयि जायते ।गतिमाप्नोति चान्ते तां तथारूपां ददाम्यहम् ॥१०६॥साक्षात्प्राप्तिर्मम यस्य सेवा साक्षात् कृता यया ।तस्मै तस्यै ददाम्येव गतिं परां मदाश्रयाम् ॥१०७॥सर्वथा रक्षणं तेषां यमादिभ्यः करोम्यहम् ।नाऽपमृत्युभयं तस्य कालकर्मभयं न वै ॥१०८॥जगन्नियन्तुः कृष्णस्य मम भक्तो हि निर्भयः ।तं नयामि प्रसन्नः सन् मम धामाऽक्षराऽभिधम् ॥१०९॥देहान्ते मम भक्तो वै याति मे धाम सर्वथा ।स्मृत्या वा मूर्छया वाऽपि पीडया वा प्रयात्यपि ॥११०॥हरेः सतां तु सम्प्राप्त्या ज्ञातव्यं श्रेय एव ह ।श्रेयस्तस्य परं स्याद्धि लोकेऽत्रापि परत्र च ॥१११॥अतो भक्तिः प्रकर्तव्या ममैव च सतामपि ।हित्वा स्नेहं मदन्यस्मिन् भक्तत्वं दुर्लभं यतः ॥११२॥भक्तस्य लक्षणं दास्यं हित्वा चाप्यात्मनः प्रियम् ।कर्तव्यं स्वामिनो नित्यं प्रियं रुच्यनुसारि च ॥११३॥अनुवृत्तिः पालनीया भुक्तिमुक्तिप्रदायिनी ।एवं भजन्तु मां भक्ता दास्ये सर्वं निजेप्सितम् ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हर्षुलाख्यभक्तस्य पूर्वया भार्यया द्वितीयपत्नीजन्यपुत्रस्य नाशे भगवता साधुरूपेण पुत्रोज्जीवनं बालहत्यापापनाशनं कृतमित्यादिनिरूपणनामा पञ्चनवत्यधिकशततमोऽध्यायः ॥१९५॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP