संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच -भगवन्मे कृपासिन्धो वद जिज्ञासितं त्विदम् ।द्वापञ्चाशद्वत्सरेषु ब्रह्मणो यत्र वत्सरे ॥१॥मुख्यावतारी त्वं जातो नामकर्मगुणान्वितः ।तत्सर्वं श्रोतुमिच्छामि त्वल्लीला मुक्तिदा यतः ॥२॥नान्तोऽस्ति तेऽवताराणां तद्भारं न ददामि ते ।अवतारिस्वरूपस्य प्राकट्यं तत्पुराभवम् ॥३॥श्रोतुमिच्छामि भगवन् यन्मेऽपि स्मरणं भवेत् ।पुरुषोत्तमप्राकट्यमात्रं मे वद वत्सल ॥४॥श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं कथयामि निबोध मे ।भुक्तिमुक्तिप्रदं तत्तच्चरित्रं मम भामिनि! ॥५॥वेधसो वत्सरे पाद्मे कल्पाऽष्टमेऽष्टमे मनौ ।वेधसो नालखण्डाद्वै रोहिणाऽण्डोदरोऽसुरः ॥६॥जज्ञे ब्रह्माण्डतुल्यो वै शरीरेण बलेन च ।तेजसा तामसेनापि त्रिलोकिभक्षकोऽभवत् ॥७॥रुद्रेण गदया चापि त्रिशूलेन प्रताडितः ।दुद्राव जलमध्ये स रुद्रस्तमन्वगात्तदा ॥८॥पृथिव्यावरणं भित्त्वा प्रविवेशाऽण्डमण्डलम् ।सत्यं तपो जनं त्यक्त्वा महर्लोकमुपाययौ ॥९॥मेरोः स गह्वरे सूक्ष्मो भूत्वा गुप्तोऽवसत्ततः ।रुद्रः स्वर्गं वीक्षितुं वै महेन्द्रालयमाययौ ॥१०॥देवाश्च पितरश्चापि महर्षयः समाययुः ।इन्द्रसभा प्रपूर्णाऽभूत् सूर्यचन्द्रादिभिस्तदा ॥११॥रोहिणाण्डोदरो ज्ञात्वाऽवसरं ववृधे तदा ।मेरुतुल्योदरो भूत्वा मुख्यं व्यादाय तां सभाम् ॥१२॥सस्वर्गां सूर्यचन्द्रेन्द्ररुद्रनक्षत्रसंयुताम् ।न्यगिलत् सहसा सर्वं स्वर्गं तस्योदरेऽभवत् ॥१३॥हाहाकारो महाञ्जातश्चुक्षुभुर्भूतलानि च ।महर्जनादिलोकाश्चाऽकस्माद्वै प्रचकम्पिरे ॥१४॥सत्यलोके महान् कम्पस्तदा जातोऽतिदारुणः ।लोकालोकाचलश्चापि मुहुः कम्पमगात्तदा ॥१५॥अकस्मात् प्रलयं ज्ञात्वा स्वर्गलोकस्य देवताः ।सरुद्रेन्द्रार्कशशिनो रोहिणाण्डोदरे स्थिताः ॥१६॥तुष्टुवुर्भयमापन्ना मां तदा पुरुषोत्तमम् ।परब्रह्म कृपासिन्धो सर्वरक्षक माधव ॥१७॥नमस्ते भगवन् सर्वान्तर्यामिन् परमेश्वर ।त्वां विना रक्षको नान्यश्चाकस्मिकलयादिह ॥१८॥विद्यते प्राणनाथ त्वं रक्ष रक्ष महालयात् ।केवयं स्वर्गवासाश्च कुत्राऽत्र गह्वरे गताः ॥१९॥न जानीमो वयं कृष्णनरायण जगद्गुरो ।स्वर्गं दिव्यं सर्वतेजोमयं महति गह्वरे ॥२०॥पतितं किं च वा भूत् सत्त्वं वा न्यगिलद्धि नः ।अकाले प्रलयः प्राप्तस्तस्माद् रक्षय रक्षय ॥२१॥शरणं तव याताः स्मः समर्पिताः स्वयं सुराः ।आत्मनिवेदिनस्तेऽत्र यथेष्टं कुरु नः कृते ॥२२॥इत्येवं संस्तुतश्चाऽहं ब्रह्मणाऽपि च संस्तुतः ।त्वया साकं तदा नारायणीश्रि! रोहितोदरे ॥२३॥इन्द्रस्य मानसः पुत्रः सचक्रश्चाऽभवं द्रुतम् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥२४॥त्वं तदा मानसी पुत्री रुद्रस्याऽप्यभवः प्रिये ।देवाः प्रत्यक्षतां प्राप्तं मां तदा पुरुषोत्तमम् ॥२५॥विलोक्य मग्नहृदयाः पुपूजुर्हृदयाऽर्पणैः ।मया तूर्णं तदा सुदर्शनं चक्रं महत् कृतम् ॥२६॥कोट्यरं कर्तनं रोहिताण्डोदरस्य वर्ष्मणः ।मया मुक्तं करात्तूर्णं न्यकर्तयत् तदाऽसुरम् ॥२७॥परितो बहुधा गत्वा भ्रमित्वा च मुहुर्मुहुः ।चक्रोत्पन्नो महानग्निश्चासुरवर्ष्मखण्डकान् ॥२८॥कोटिधा तत्कर्तिताँश्च भस्मसात् प्रचकार ह ।तच्च भस्म तदा स्वर्णं रोहिताख्यं ह्यभूत्त्दा ॥२९॥रोहिताण्डोदरनाशे जाते स्वस्थाः सुरादयः ।मां विदित्वाऽक्षरेशं श्रीमहेन्द्रबालकं प्रभुम् ॥३०॥रक्षकं परमेशानं चेन्द्रालये सुरालये ।महोत्सवं परं कृत्वा रुद्रो वै देवसाक्षिके ॥३१॥मण्डपे त्वां निजां पुत्रीं मानसीं मे ददौ तदा ।रमणीं दैवविधिना प्राप्तवाँस्त्वां तदाऽप्यहम् ॥३२॥मम संज्ञा तदा चासीदनादिद्युनरायणः ।तदा स्वर्ग तथा देवा यथावत् स्थापिता मया ॥३३॥मम योगबलेनैव विकृतं सुकृतं कृतम् ।अवतारी स्वयं सोऽहं योऽहं चाऽत्राऽस्मि सोऽभवम् ॥३४॥स्मर रौद्रि प्रिये तत्र लीला मे तव योगिनीः ।मेऽवतारास्तत्र वर्षे प्रत्यहं बहवोऽभवन् ॥३५॥इत्येवं कथितं चाऽद्यं जन्म मे मानसं तदा ।अथ द्वितीयं जन्माऽपि द्वितीये वत्सरे शृणु ॥३६॥नालक्रमाभिधे वर्षे ब्रह्मणः प्रथमेऽहनि ।तृतीयस्य मनोरन्ते मेरुर्नाम्ना हि पर्वतः ॥३७॥चतुर्दशस्तराणां वै भारेण महता तदा ।आक्रान्तोऽभूत्तदा पातालाऽधो विवेश वै मनाक् ॥३८॥चतुर्दशस्तरैर्युक्तः सुराऽसुरालयान्वितः ।निम्नभावं गते मेरौ भुवनानि चतुर्दश ॥३९॥भग्नानि मेरुणा साकं चाधोभावं गतानि वै ।भुग्नानि मेरुपार्श्वेषु चाकृष्टानि समन्ततः ॥४०॥प्रजातानि तदा सत्यं स्वर्गं भूश्च रसातलम् ।सर्वं वै बुध्नभावं च गतं चाभूत् समन्ततः ॥४१॥लोकालोकाचलश्चापि प्राकारोऽण्डस्य सर्वतः ।आन्तराभिमुखं कृष्टो ह्रस्ववलयतां ययौ ॥४२॥तथापि तस्य बलतो भुग्नान्यपि स्थिराणि वै ।भुवनान्यभवँस्तत्र क्षणं संकुचितान्यपि ॥४३॥ब्रह्मविष्णुमहेशाद्याः स्तंभनाशं विलोक्य च ।ब्रह्माण्डनाशं मत्वा तद्रक्षार्थं परमेश्वरम् ॥४४॥परब्रह्म हरिं कृष्णनारायणं प्रभुं तु माम् ।अस्तुवन् परया भीत्या रक्षार्थं मेरुभूभृतः ॥४५॥ब्रह्माण्डस्यास्य रक्षार्थं लोकानामवनाय च ।त्वमाधारोऽसि सर्वेषां ब्रह्माण्डानां परेश्वर ॥४६॥सर्वसृष्टिस्थैर्यशक्तिस्त्वय्येव वर्तते प्रभो ।तवान्तर्वर्तमानत्वात् स्थिरं सर्वं प्रविद्यते ॥४७॥भगवन् भवदुत्पन्नं त्वदाधारं समस्तकम् ।त्वया हीनं लयं चेयात् त्राहि नाशाभिसन्निधेः ॥४८॥विना स्तंभं गृहं नैव तिष्ठेदण्डं तथा त्विदम् ।मेरुं विना भुवनानि तिष्ठेयुर्नैव चाम्बरे ॥४९॥मेरुर्मूले विशत्येव भाराक्रान्तः स्तरान्वितः ।वयं नाशगताः स्याम रक्षं मेरुं तदाश्रयम् ॥५०॥इतिस्तुत्वा क्षणं ध्यानं चक्रुर्मम सुरेश्वराः ।अहं लक्ष्मि! त्वया साकं तूर्णं चाक्षरधामतः ॥५१॥समाययौ सत्यलोके वेधसः सन्निधौ द्रुतम् ।सुराणां पश्यतां तत्र वेधसोंऽकेर्भकोऽभवम् ॥५२॥उज्ज्वलः कोटिसूर्याभः सजटः सर्वभूषणः ।हसन्नंके समुवाच वेधसं पितरित्यहम् ॥५३॥स मां पुत्रेति सम्बोध्य मायया चाऽग्रहीत् सुतम् ।देवा नत्वा हरिं मत्वा पुष्पाद्यैः परमेश्वरम् ॥५४॥मामानर्चुः स्तवं चक्रुः रक्षेत्यूचुः पुनः पुनः ।अनादिश्रीमेरुनारायणनामा सुतोऽप्यहम् ॥५५॥तूर्णं त्वां परमां शक्तिं कृत्वा मेरोः प्रधारिणीम् ।मम रूपेऽतिसम्पन्नां लीनां कृत्वाऽतिसत्वरम् ॥५६॥देवान् ब्रह्मादिकान् नीत्वा सह पातालमाययौ ।मेरुमूलं पृथिव्यां यन्निहितं तदपूजयम् ॥५७॥त्वां प्रपूज्य महानारायणीश्रि! चादिदेश ह ।अत्र शक्तिस्वरूपा त्वं विशेति सहसा तदा ॥५८॥त्वं प्रविष्टा महाशक्तिर्मया सृष्टा मयाऽन्विता ।मया मेरुस्तदा देवैः साकं मूले समुद्धृतः ॥५९॥उत्तोलितोऽतिबलिभिः साकं ब्रह्मादिभिः सह ।यथापेक्ष ततो मेरुश्चोन्नतिं प्रगतोऽभवत् ॥६०॥भुवनानि समस्तानि समसूत्रतलानि च ।बभूवुर्वासयोग्यानि देवाद्याः सुखिनोऽभवन् ॥६१॥त्वया लक्ष्मि! निजच्छायात्मिकया धृतिसंज्ञया ।तदारभ्य धृतश्चायं मेरुर्मूले चिरं सदा ॥६२॥अहं विवेश च तत्र मेरौ धारणरूपवान् ।अम्बराकर्षणरूपोऽन्तरात्मा मेरुगर्भगः ॥६३॥एवं मेरौ परं कृत्वा स्थैर्यं ततः सुरादिभिः ।सह मूलानि लोकानां मेरुलग्नानि वीक्ष्य .च ॥६४॥सुलग्नानि तदा कृत्वा स्थिराण्यास्थाय वै क्रमात् ।रसातलात्तथा महातलात् तलातलात्तथा ॥६५॥सुतलाद् वितलाच्चापि तथाऽतलाद् भुवं प्रति ।आजगाम त्वया साकं भुवः स्वश्च महर्जनम् ॥६६॥तपः सत्यं परं गत्वा चाजपुत्रः स्थिरोऽभवम् ।अनादिश्रीमेरुनारायणोऽहं वेधसः सुतः ॥६७॥मेरुपुत्र्या त्वया साकं सुरादिभिर्विवाहितः ।आकल्पान्तं तदा चासं सर्वरक्षणहेतवे ॥६८॥अवतारी स्वयं कृष्णनारायणः परेश्वरः ।अवतारास्तदा वर्षे कल्पे कल्पे ममाऽभवन् ॥६९॥अनेके कार्यवशगा यत्पारो नैव विद्यते ।महानारायणीश्रि! त्वं स्मर स्वत्संभव तदा ॥७०॥ममापि संभवं मेरुनारायणात्मकं शुभम् ।अथाऽन्ये वत्सरे लक्ष्मि! तृतीये वेधसोऽपि च ॥७१॥कथयामि जनुर्मेऽत्र शृणु कृष्णनरायणि! ।नालोर्ध्ववत्सरे चाद्ये कल्पे मनौ तृतीयके ॥७२॥नारायणि! तदा स्वर्गे भूतले सूर्यमण्डलम् ।अशातितं तु लोकानां भस्मसात् कारकं ह्यभूत् ॥७३॥लक्षरश्मियुतं चासीद् दाहकं सर्वतोमुखम् ।दिशां विदिशां लोकानां ग्रहाणां सृष्टिदेहिनाम् ॥७४॥भूतलानां च सर्वेषां समुद्राणां च दाहकम् ।भुवःस्थानां वायवीयसृष्टीनां दाहकं ह्यभूत् ॥७५॥लोकालोकस्यापि मेरोर्दाहकं वनवासिनाम् ।नक्षत्राणां च ताराणां दाहकं जनवासिनाम् ॥७६॥महर्लोकनिवासानां तथोर्ध्ववासिनामपि ।समन्ततोऽभवच्चापि दाहकं भस्मसात्करम् ॥७७॥तद्दाहदुःखमासाद्य मनवो देवतास्तथा ।सर्वलोकनिवासाश्च तुष्टुवुर्वेधसं तदा ॥७८॥ब्रह्मा स्तुतिं समाकर्ण्य ययौ सूर्यस्य शान्तये ।सोऽपि दग्धः परावृत्य सत्यलोकं ययौ तदा ॥७९॥शंकरो वै महाशान्तिं कर्तुं ययौ रविं प्रति ।सोऽपि दग्धो नमस्कृत्य परावृत्याऽक्रियोऽभवत् ॥८०॥ततो विष्णुस्तथा देवा मिलित्वा परमेश्वरम् ।तुष्टुवुर्मां कृष्णनारायणं श्रीपुरुषोत्तमम् ॥८१॥सूर्यतेजःप्रशान्त्यर्थं नमश्चक्रुः पुनःपुनः ।कोटिसूर्यप्रणेतस्त्वं भगवन् परमेश्वर ॥८२॥जगच्चक्षुर्जगत्प्रभाप्रद सूर्यात् प्ररक्षय ।वयं त्रिलोकवासाश्च तथाऽन्ये चोर्ध्ववासिनः ॥८३॥दग्धा भवामः सूर्यस्याऽनलैर्लक्षप्रसर्पिभिः ।त्वया कृतं जगत् सर्वं सप्रकाशं सुखार्थकम् ॥८४॥तद्यदि स्याद् दग्धभस्म किं सूर्यस्य प्रयोजनम् ।तस्माद् रक्षय देवेश तप्तान् शान्तान् विधेहि नः ॥८५॥इत्युक्त्वा प्रददुः पूजां बह्वीं मेऽर्पणरूपिणीम् ।अनादिश्रीकृष्णनारायणाय परमात्मने ॥८६॥तदाऽहं कमले! साकं त्वया तूर्णं नरायणः ।अक्षरादाययौ सत्यं ब्रह्मस्थानं ततः परम् ॥८७॥देवैः सम्पूजितश्चाहं विष्णोरंकेऽभवं सुतः ।सहस्रहस्तकः सौम्यः किरीटकुण्डलादिमान् ॥८८॥शाणशस्त्रादियुक्तश्च सुधामृतघटादिमान् ।सुदर्शनं मया तत्र शाणात्मकं क्षणात् कृतम् ॥८९॥सर्वाग्निशामकं सुधामृतं शातनशक्तिकम् ।मया लक्ष्मि तदाऽऽज्ञप्ता त्वं देवी .शातनी भव ॥९०॥सूर्ये प्रविश्य च तत्राऽमृतं धारय शातनि! ।औष्ण्यं यद्वद् भवेन्न्यूनं तथा विधेहि सत्वरम् ॥९१॥त्वं चाज्ञां मे समादाय तूर्णं वह्निस्वरूपिणी ।महातेजोमयी भूत्वाऽर्बुदतापकरी सती ॥९२॥अमृतं च समादाय प्रविष्टा सूर्यमण्डलम् ।शनैः सुधां च तद्गर्भे सन्निहितवती ततः ॥९३॥शनैः शनैः किरणानि शान्तिमाप्तानि वै रवेः ।त्वम च शनैः शनैस्तत्र स्वं तेजः समुपाहरः ॥९४॥ततश्चाऽहं तव रूपे शाणे यन्त्रे रविं तदा ।धृत्वा तेजोऽतितीक्ष्णाँश्च प्रदेशानप्यशातयम् ॥९५॥सर्वान् विभिद्य तद्देशान् देवादिभ्यस्तदाऽददम् ।ते चक्रुश्चायुधान्येव चाव्याहतानि वै तदा ॥९६॥सूर्यो मया कृतस्तत्र सहस्रांशुः सुखप्रदः ।अन्येंऽशवस्त्वया लक्ष्मि! लीनीकृताः स्ववर्ष्मणि ॥९७॥तत आरभ्य सूर्यः स लोकसम्पत्करोऽभवत् ।सा त्वं ततश्च तत्पुत्री सौरी शातनिकाऽभिधा ॥९८॥अभवः सा मया विष्णुपुत्रेण सूर्यशातिना ।अनादिश्रीकृष्णनारायणेनापि विवाहिता ॥९९॥कल्पान्तं चाऽवसस्तत्र स्मर त्वं तन्मया सह ।आसीन्नारायणीश्रि! यत् सूर्यकर्माऽभवं प्रभुः ॥१००॥परब्रह्म स्वयं सूर्यकर्माऽहं चाऽभवं प्रिये ।एवं तत्रापि वर्षे चाऽवतारा मम कोटिशः ॥१०१॥सञ्जाता धर्मगुप्त्यर्थं रक्षार्थं देहिनां तथा ।अवतारी स्वयं प्रोक्तोऽनादिविष्णुनरायणः ॥१०२॥तृतीयं मम वै लक्ष्मि प्राकट्यं तत्र वत्सरे ।जानाम्यहं च तत्सर्वं हस्ताऽऽमलकवत् प्रिये ॥१०३॥मां भजित्वा तदा मुक्तिं गता ह्यसंख्यदेहिनः ।पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिर्भवेत्तथा ॥१०४॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः प्रथमे वर्षेऽनादिश्रीद्युनारायणस्य रोहिणाण्डोदराऽसुरनिगलितस्वर्गरक्षार्थम्, द्वितीये वर्षे स्वभारेणनिमज्जतो मेरोर्धारणार्थम् अनादिमेरुनारायणस्य, तृतीये वर्षे दाहयतो रवेः शातनार्थम् अनादिविष्णुनारायणस्य, च प्राकट्यमितिनिरूपणनामा तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP