संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०० Translation - भाषांतर श्रीनारायणीश्रीरुवाच-परमेश कृपासिन्धो साधूनां परमं धनम् ।मुक्तानां जीवनं कृष्णो देवानां दैवतं परम् ॥१॥कृपयैव भवान् कृष्णनारायणोऽत्र भूतले ।समायास्यथवा चान्यत् कारणं विद्यते नु किम् ॥२॥श्रीपुरुषोत्तम उवाच-कृपाऽत्र कारणं मुख्यं शिवराज्ञीप्रिये सदा ।इच्छैव कारणं सृष्टौ ममागमस्य सर्वथा ॥३॥तथापि नियतं हेतुमुद्भावयामि चापरम् ।यदा यदा समायामि सृष्ट्यन्तरे च कल्पके ॥४॥आदौ क्वचिन्महर्षेश्च भृगोर्निमित्तमाप्य ह ।समायामि मुहुश्चेति भक्तानामिच्छयाऽपि च ॥५॥श्रीनारायणीश्रीरुवाच--भृगोः किं कारणं जातं यदर्थं वै त्वया प्रभो ।मुहुर्मानुषभावेऽत्र प्राकट्यं गृह्यते वद ॥६॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि कथयामि पुरावृत्तं तु कारणम् ।भृगुस्त्रीख्यातिवधतो भृगुशापेन मानुषे ॥७॥प्राकट्यं सर्वथा विष्णोर्बहुवारं प्रजायते ।देवकार्यार्थलग्नस्य दिव्यैश्वर्यस्य शार्ङ्गिणः ॥८॥युगधर्मे परावृत्ते शिथिले च वृषे ततः ।कर्तुं धर्मव्यवस्थानं जायते विष्णुरव्ययः ॥९॥हिरण्यकशिपुर्दैत्यो राज्ये त्रिलोकमण्डले ।शास्ताऽभवत्पुरा राजा दशकोटिसमास्तथा ॥१०॥द्वासप्ततिलक्षाणि वर्षाण्यन्यानि वै तथा ।तथाऽशीतिसहस्राणि सम्राट् निरामयोऽभवत् ॥११॥ततो दशयुगं राजा प्रह्लादश्चाऽभवद् भुवः ।ततो राजा बलिश्चासीद् दशकोटिसमास्तथा ॥१२॥त्रिंशल्लक्षाणि च षष्टिसहस्राणि समा भुवः ।त्रयस्ते इन्द्रा विख्याता दैत्यानामभवँस्तदा ॥१३॥दैत्यसंस्थमिदं सर्वमासीद् राज्यं त्रिलोकगम् ।अत्रान्तरे च संग्रामाः सुरासुरक्षयावहाः ॥१४॥आसन् द्वादश चोग्राश्च विष्णुर्यत्र सुराऽर्थितः ।दैत्यान् व्यनाशयद् दिव्यचक्रेण संगतो मुहुः ॥१५॥वाराहकल्पे ते सर्वे संग्रामास्तान् प्रिये शृणु ।प्रथमो नारसिंहस्तु हिरण्यकशिपुर्हतः ॥१६॥द्वितीयश्चापि वाराहो यत्र हतो हिरण्यदृक् ।प्रह्लादो निर्जितश्चापि तृतीयोऽमृतमन्थने ॥१७॥विरोचनश्चतुर्थश्च हतो वै तारकामये ।तारका सा बृहस्पतेः पत्नी चन्द्रेण चाहृता ॥१८॥तन्निमित्तं तु तद्युद्धं बभूव रोमहर्षणम् ।वामनेन बलिर्बद्धो युद्धं महदभूत्तदा ॥१९॥षष्ठे ह्याडीबको जम्भो हतः शक्रेण विष्णुना ।सप्तमे शंभुना दैत्यास्त्रिपुराद्या विनाशिताः ॥२०॥अष्टमे चाऽन्धको निघातितः सदैत्यदानवः ।नवमे विप्रचित्त्याद्या लक्षशः शक्रसूदिताः ॥२१॥वृत्रासुरो घातितश्च दशमे वज्रपाणिना ।एकादशे तु रजिना दैत्याः सर्वे विनाशिताः ॥२२॥द्वादशे च सुरैः षण्डामर्काद्या विनिपातिताः ।एते देवासुराणां वै संग्रामा द्वादशाऽभवन् ॥२३॥विष्णुस्तत्र च सर्वत्र साहाय्योऽभूद् द्युवासिनाम् ।पर्यायेण च सम्प्राप्तं त्रैलोक्यं पाकशासनम् ॥२४॥ततो यज्ञस्य भागांश्च यज्ञे देवा ह्युपागमन् ।यज्ञनारायणश्चापि देवपक्षी ततोऽभवत् ॥२५॥यज्ञे देवानथ गते शुक्रं प्राहुर्हि दानवाः ।दैत्याश्चासुरमूर्धन्यास्त्रासमाप्त्वा हि निर्बलाः ॥२६॥स्थातुं न शक्नुमो भूमौ प्रविशामो रसातलम् ।एवमुक्तोऽसुरगुरुर्विषण्णः सान्त्वयन् गिरा ॥२७॥माऽभैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुरान् ।वृष्टिमोषधीन् भोज्यानि रसान्सुधाः सुखानि च ॥२८॥युष्मदर्थं प्रदास्यामि धारयित्वा स्वतेजसा ।यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च ॥२९॥युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ।यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने ॥३०॥नो चेद् देवा हनिष्यन्ति यावदागमनं मम ।अतश्चोग्रान् महामन्त्रान् सम्प्राप्याऽहं महेश्वरात् ॥३१॥आगच्छामि ततो योत्स्यामहे जेष्याम एव तान् ।पितुर्भृगोश्चाश्रमस्थाः सम्प्रतीक्षत दानवाः ॥३२॥सः सन्दिश्याऽसुरान् काव्यो महादेवं प्रपद्य च ।सम्प्रपूज्य स्वागतं प्राप्य प्रणम्योवाच शंकरम् ॥३३॥मन्त्रानिच्छामि शंभो त्वत् ये न सन्ति बृहस्पतौ ।पराभवाय देवानामसुरेष्वभयावहान् ॥३४॥श्रुत्वा महेश्वरः प्राह चरव्रतं मयोदितम् ।पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्छिराः ॥३५॥पास्यसि ब्रह्मचारी संस्ततो मन्त्रानवाप्स्यसि ।तयोक्तः शुक्र एवाऽसौ धूम्रपस्तापसोऽभवत् ॥३६॥वटशाखां समालम्ब्य कैलासेऽवाक्शिराः सदा ।तस्मिन् छिद्रे तदाऽमर्षाद् देवा दैत्यानुपाद्रवन् ॥३७॥प्रगृहीतायुधा बृहस्पतिपुरोगमा द्रुतम् ।अथ जेतुं सुरान्नैव शक्ष्याम इति दानवाः ॥३८॥नत्वा ययुस्तदा शुक्रमातरं ख्यातिमेव ह ।शरणं भीतभीतास्ते प्रापद्यन्त तदाऽभयम् ॥३९॥चक्रे रक्षां भृगोः पत्नी किन्तु देवा रुषान्विताः ।असुरान् जघ्नुः परितः ख्यातिः क्रुद्धाऽभवत्तदा ॥४०॥पातिव्रत्यबलेनेन्द्रं संस्तभ्याऽभ्यचरत् सती ।संस्तम्भितो द्रुतं चेन्द्रो वशीकृतो जडोऽभवत् ॥४१॥व्यद्रवन्त विलोक्यैनं देवास्ततो दिशो दश ।अथ विष्णुः प्राह शक्रं शीघ्रं त्वां न्यस्य वै मयि ॥४२॥प्रवेशयित्वा रक्षामि माऽभैषीस्त्वं सुरोत्तम ।इन्द्रं विष्णुः स्वमूर्तौ प्रावेशयित्वा ररक्ष ह ॥४३॥विष्णुना रक्षितं वीक्ष्य ख्यातिः क्रुद्धा वचोऽवदत् ।एषा विष्णुं महेन्द्रं च दहामि क्षणमात्रतः ॥४४॥इन्द्रः श्रुत्वा हरिं प्राह शीघ्रं कुरु परेश्वर ।जहि सुदर्शनेनैनां यावन्नो न दहेत् सती ॥४५॥विष्णुः ससंभ्रमश्चक्रं मुमोच प्राणहेतवे ।ख्यातेश्चिच्छेद मूर्धानं पतिता सा मृताऽभवत् ॥४६॥स्वस्त्रीवधं समाकर्ण्य भृगुश्चुकोप सत्वरम् ।शशाप स्त्रीविहन्ता त्वं मानुषेषु पुनः पुनः ॥४७॥जन्म धृत्वाऽतिदुःखानि चानुभव मुहुर्मुहुः ।स्त्रीनिमित्तानि दुःखानि भुंक्ष्व लोके पुनः पुनः ॥४८॥एवं भृगोः प्रतापेन जायते विष्णुरच्युतः ।नष्टे धर्मे लोककार्यहितार्थं मानुषेष्विह ॥४९॥अथ भृगुः शिरो धृत्वा काये द्राक् समयोजयत् ।यदि कृत्स्नो मया धर्मश्चिरितो ज्ञायतेऽपि वा ॥५०॥पत्नीव्रतपरश्चाऽहं त्वं पतिव्रततत्परा ।तेन सत्येन जीवस्व जीवस्व विष्णुसन्निधौ ॥५१॥इत्युक्त्वा प्रोक्ष्य वार्भिश्च जीवयामास तां भृगुः ।ख्यातिस्तूर्णं गतनिद्रेवाऽभिबुबोध तत्क्षणम् ॥५२॥इन्द्रस्य स्तंभनं विष्णुर्नाशयामास योगतः ।भृगुः शान्तोऽभवत् पश्चात् तुष्टाव परमेश्वरम् ॥५३॥क्षमां ययाचे सततं भोजनादि ददौ शुभम् ।विष्णुर्नैव हि जग्राह भृगुं प्राह हि माधवः ॥५४॥तव पुत्री मम पत्नी भाविनी भार्गवी यदा ।तदा ग्रहीष्याम्यागत्य तया साकं हि भोजनम् ॥५५॥इत्युक्त्वा प्रययौ विष्णुस्त्यक्त्वा दैत्यादिकाँस्तदा ।इन्द्रः स्वस्थो ययौ स्वर्गं देवा ययुर्निजालयान् ॥५६॥दैत्याद्याश्च भृगोः क्षेत्रे स्वस्था आश्रमसन्निधौ ।तपन्ति च प्रतीक्षन्ते शुक्रस्यागमनं प्रति ॥५७॥शुक्रोऽपि हरपार्वत्योः सन्निधौ वटवृक्षके ।अधःशिरास्तपश्चोग्रं करोति शंकराज्ञया ॥५८॥पूर्णे वर्षसहस्रे तु विगते शंकरः स्वयम् ।दिव्यरूपेण निकटेऽदृश्यताऽऽगत्य वै वटे ॥५९॥शक्रस्तुष्टाव शंभुं तं लम्बमानो वटेऽपि च ।नमोऽस्तु शितिकण्ठाय कपर्दिने च शंभवे ॥६०॥मीढुषे वसुवीर्याय रुद्राय रोहिताय ते ।गिरीशायाऽर्कनेत्राय तक्षकक्रीडनाय च ॥६१॥पिनाकिने च श्वेताय भीमायोग्राय ते नमः ।महादेवाय शर्वाय मृगव्याधाय ते नमः ॥६२॥स्थाणवे बहुरूपाय त्रिनेत्राय च मृत्यवे ।त्र्यम्बकाय नमस्तेऽस्तु शंकराय शिवाय च ॥६३॥ध्यानिने व्यापिने सद्योजातायेशाय ते नमः ।वामदेवाय च कृत्तिवस्त्राय प्रभवे नमः ॥६४॥भगनेत्रविहन्त्रे ते पशूनां पतये नमः ।भूतानां पतये पूषाहन्तघ्नाय च ते नमः ॥६५॥अर्करूपाय च न्यग्रोधाय कालाय ते नमः ।संकर्षणाय रुद्राय वह्नये योगिने नमः ॥६६॥पृथिव्याद्यष्टरूपाय लिंगायाऽलिंगिने नमः ।पार्वतीपतये तुभ्यं गोपतये नमो नमः ॥६७॥महेशाय च डमरूवादित्राय च ते नमः ।कैलासस्थाय देवानां स्तुत्याय ते नमो नमः ॥६८॥महावैष्णवसन्नाम्ने गणानां पतये नमः ।ब्रह्मिष्ठाय च शुक्रस्य पित्रे भूयो नमो नमः ॥६९॥इत्युक्त्वा विररामाऽसौ शुक्रस्तं प्राह शंकरः ।मा तपः कुरु विप्रेन्द्र संकल्पस्ते भयावहः ॥७०॥तथापि वत्सरान्तेऽहं पूरयिष्ये तु शीलिने ।शीलव्रताय ते शुक्र दास्ये यथेष्टमन्त्रकान् ॥७१॥इत्युक्त्वा शंकरो देवस्तत्रैवाऽन्तरधीयत ।अथेन्द्रेण निजाकन्या जयन्ती प्रेषिता तदा ॥७२॥कथिता पुत्रि शक्रो वै दारुणं चरते तपः ।अनिद्रार्थं त्रिलोक्यां वै ततो याहि द्रुतं च तम् ॥७३॥शुक्रं प्रसेवयस्वैनं शय्यासेवादिभिर्द्रुतम् ।तैस्तैर्मनोऽनुकूलैश्च ह्युपचारैरतन्द्रिता ॥७४॥श्रुत्वा सुरूपा कन्या सा जयन्ती प्रययौ हि तम् ।पित्रा यथोक्तं वाक्यं सा शुक्रे कृतवती सती ॥७५॥शुक्रस्तां प्राह सुश्रोणि! दशवर्षाणि वै मया ।सह तिष्ठाऽदृश्यरूपा सम्प्रयोगं च मे कुरु ॥७६॥इत्याज्ञप्ता दश समाः शुक्रेण सह सा स्थिता ।शुक्रवत् तापसी भूत्वा सूक्ष्मयोगवती सदा ॥७७॥अथ बृहस्पतिर्दशवत्सरेषु निजं वपुः ।शुक्ररूपात्मकं कृत्वाऽसुरानशिक्षयत्तदा ॥७८॥अथ शुक्रो दशवर्षोत्तरे दैत्यानुपागमत् ।अहं शुक्रोऽस्मि दैत्येन्द्रा मद्वचः सन्निबोधत ॥७९॥दैत्याः प्राहुर्न नः स्वामी भवान् शुक्रो न वै ऋतः ।दशवर्षाणि नः स्वामी सत्योऽयं शुक्र एव ह ॥८०॥इत्येवमसुरैः शुक्रोऽवमानितः शशाप तान् ।दैत्या यूयं सत्यशुक्रं बोधिता नाऽभ्यनन्दथ ॥८१॥तस्मात् प्रणष्टवीर्या वै पराभवमवाप्स्यथ ।इति शप्ता असुरास्ते ज्ञात्वा शापं च देवताः ॥८२॥युयुधुर्दानवाद्यैश्च हतवन्तोऽसुरान् बहून् ।काव्यशापाऽभिभूताश्च शुक्राधारविवर्जिताः ॥८३॥असुरा हन्यमानास्ते विविशुश्च रसातलम् ।देवानां विजयो जातो विष्णुना तु सहायिना ॥८४॥एतत्ते कथितं लक्ष्मि विष्णोर्जन्मसु कारणम् ।भृगोर्निमित्तमालम्ब्य विष्णुः संजायते मुहुः ॥८५॥धर्मान्नारायणो जातश्चाक्षुषे च मनौ हरिः ।वैवस्वते पृथुर्विष्णुर्वामनश्चादितेः सुतः ॥८६॥दत्तात्रेयोऽभवत्सोऽपि पर्शुरामोऽपि चैव सः ।रामादित्यस्तथा विष्णुर्व्यासो भवति सर्वदा ॥८७॥वासुदेवोऽपि विष्णुश्च कल्की विष्णुर्भविष्यति ।एवमन्येऽप्यवतारा विष्णोर्भवन्ति मानवाः ॥८८॥दैत्यानां तु विनाशार्थं धर्मरक्षणहेतवे ।क्वचिन्नारीनिमित्तेन क्वचित्सुराऽवनाय च ॥८९॥क्वचिद्धर्मनिमित्तेन क्वचिच्च कृपया किल ।एते सर्वे मम लक्ष्मि ह्यवतारा विभूतयः ॥९०॥अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।इच्छयाऽनुग्रहेणापि चायामि हितवान् सताम् ॥९१॥साधून् विप्रान् वृषं गाश्च रक्षामि मानवो मुनिः ।साधवो मेऽवताराश्च हेतयोऽपि तथाविधाः ॥९२॥ऐश्वर्याणि चावताराः शक्तयोऽपि तथाविधाः ।मुक्ता मे ह्यवताराश्च भक्ताश्चापि तथाविधाः ॥९३॥देवाश्चाप्यवतारा मे धर्मावनाय सर्वथा ।आज्ञया सृष्टिलोकेषु जायन्तेऽन्तर्भवन्ति च ॥९४॥मूर्तयो मम याः सन्ति दिव्याः सर्वा हि तास्तु मे ।अवताराः सदा सेवाग्राहका भक्तवत्सलाः ॥९५॥ममाऽवतारयोगं ये लब्धवन्तः सुराऽसुराः ।दैत्याश्च दानवा यक्षा राक्षसाश्च नराः स्त्रियः ॥९६॥पशवो वाहनात्मानो गजाश्च वाजिनोऽपि च ।उष्ट्राश्च वृषभाश्चान्ये मम योगमुपागताः ॥९७॥मत्साधुयोगमापन्ना याता यान्ति परं पदम् ।इत्येवं मे कृपा चास्ते स्वभावो मेऽपि तादृशः ॥९८॥मद्योगं समवाप्तस्य मत्तुल्यत्वं प्रजायते ।साधुयोगात्साधुर्भवति दैवयोगाश्च देवता ॥९९॥मम योगाद्भवत्येव मादृशो भक्तराट् स्वयम् ।नारायणस्य योगेन नरो नारायणो भवेत् ॥१००॥नारी नारायणी स्याच्च मुक्तानिका रमा यथा ।यथा पद्मावती जाता नारायण्यौ प्रिये मम ॥१०१॥श्रीनारायणीश्रीरुवाच-अनादिश्रीकृष्णनारायणस्वामिन् पते मम ।जिज्ञासां पूरय जाते न्रायण्यौ तु रमाऽब्जके ॥१०२॥कथं केन निमित्तेन संजाता संगतिस्तव ।पद्मावत्या रमायाश्च स्फुटं कृष्ण वदाऽत्र मे ॥१०३॥श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं सर्वज्ञाऽसि हि मादृशी ।तथापि मानवं भावमाप्य जिज्ञाससि त्विदम् ॥१०४॥कथयामि पुरा वृत्तं येन ये संगमोऽनयोः ।ककुप्सूर्यात्मजयोर्वै कुटुम्बे कारवेऽभवत् ॥१०५॥पुरा सूर्यो यदोत्पन्नः सहस्रकिरणोऽभवत् ।उच्चावचप्रदेशश्च ब्रह्माण्डदाहकाऽग्निकः ॥१०६॥असह्यतेजाश्चात्युग्रो विवराण्यज्वलन् यतः ।सूर्यं तेजस्विनं ज्ञात्वा याऽर्पिता विश्वकर्मणा ॥१०७॥संज्ञानाम्नी कन्यकाऽपि सा जज्वालार्कतेजसा ।विहायेयं पतिं स्वस्याः छायां कृत्वा निजां स्त्रियम् ॥१०८॥स्वधिष्ण्ये तां समास्थाय निर्ययौ सा गृहान्निजात् ।क्लिष्टचित्ता गूहती स्वां विश्वकर्मालयं ययौ ॥१०९॥पित्रोपदिष्टा सूर्यस्य गृहे गन्तुं तथापि सा ।न याता वडवा भूत्वा हिमाद्रौ व्यचरत् सती ॥११०॥तदाऽर्कस्तां मार्गयितुं समायाद्धिमपर्वते ।अश्वो भूत्वाऽऽरब्धवाँस्तां सा न कामं ददौ तदा ॥१११॥मुखं ददौ तदा सूर्यो धातुं नसोर्व्यसर्जयत् ।नासिकाद्वयतो जातावश्विन्याः सुकुमारकौ ॥११२॥ततः सा प्रययौ साकं सूर्येण सूर्यमण्डलम् ।किन्तु सूर्यस्य तेजोभिर्जज्वालैषा पुरा यथा ॥११३॥सोवाच पितरं सूर्यमन्दतार्थं पिता ततः ।विश्वकर्मा दिवानाथं शाणोल्लीढं चकार ह ॥११४॥शातितश्चाभितः सूर्यश्चातिरूपोऽतिमोहकः ।सह्यतेजाः समभवत् संज्ञा तस्मिन् स्थिराऽभवत् ॥१११॥तदा सुरूपं सुखदं सह्यं भोगप्रदं सुरम् ।वीक्ष्य चकमे युवती दिशा भूत्वा सुकन्यका ॥११६॥हावभावविलासाद्यैश्चेष्टाभिस्तं दिगिच्छति ।रन्तुकामां सुमुग्धां च पार्श्वे प्राप्तां रजोन्विताम् ॥११७॥सूर्यस्तां वीक्ष्य तत्राह दिग्देवते किमच्छसि ।दिग्देवी स्वेष्टमाहाऽस्मै कामं देहि सुतृप्तिदम् ॥११८॥सूर्यः प्राह न मे भोगो व्यर्थः स्यात् तद्विचारय ।यदीष्टस्तेऽस्ति चेद् गर्भो गृहाण मम संगमम् ॥११९॥तदा दिशा स्वयं देवी गर्भो नेष्ट इति स्वयम् ।विचार्याऽपि महामुग्धा भोगमैच्छद् दिनाधिपात् ॥१२०॥सूर्यः प्राह प्रिये देवि भोगं दास्ये फलान्वितम् ।कदाचिन्मानवे भावे त्वं कन्या संभविष्यसि ॥१२१॥तदा ते मानवीनार्यै मद्योगः सफलो भवेत् ।यदाऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ॥१२२॥पृथ्व्यां मानवरूपेण विचरिष्यति कामदः ।गोपालबालकः कृष्णः कंभरानन्दनः प्रभुः ॥१२३॥तदा ते जन्मसाफल्यं सर्वथा संभविष्यति ।इत्युक्त्वा विररामाऽर्को दिशा कन्या तिरोऽभवत् ॥१२४॥अथ सूर्यः श्वशुरं स्वं प्रसन्नः प्राह साञ्जलिः ।वरं वृणु प्रदात्येऽत्र यन्मनोऽनुगतं प्रियम् ॥१२५॥विश्वकर्मा तदा प्राह प्रसन्नोऽसि यदि प्रभो ।जामाता पुत्ररूपो वै तथापि पुत्रवाञ्च्छया ॥१२६॥अर्थयामि वरं रम्यं पुत्रो मे भव भास्कर ।सूर्यस्तथाऽस्त्विति प्राह प्रजगाद च तत्पराम् ॥१२७॥यदाऽनादिकृष्णनारायणः पृथ्व्यां भविष्यति ।गोपालबालकः सत्याः कम्भरायाः सुखात्मजः ॥१२८॥तदा तद्योगलाभार्थमहं चेच्छामि जन्म वै ।अद्य वा च युगान्ते वा युगानामयुतेऽपि वा ॥१२९॥श्रीहरेर्योगलाभार्थं भविष्यामि सुमानवः ।तत्र काले विश्वकर्मन् भवता पृथिवीतले ॥१३०॥प्राकट्यं मानवे कार्यं मत्पितृत्वस्य सिद्धये ।भवन्तं पितरं प्राप्य कारुयोनौ त्वदात्मजः ॥१३१॥भविष्यामि सुपुत्रस्ते पूरयिष्ये मनोरथम् ।इत्येतत् समयं प्राप्य पृथ्व्यां यदा हरिः स्वयम् ॥१३२॥गोपालबालकोऽनादिकृष्णनारायणोऽभवत् ।कभराश्रीगृहे तत्र विश्वकर्माऽऽप्य वै क्षणम् ॥१३३॥मंकणकसुकारोर्वै गृहे बालुजशिल्पिराट् ।विश्वकर्मा स्वयं जज्ञे जटिलापतिरित्ययम् ॥१३४॥बालुजंशिल्पिनं विश्वकर्मावतारमुत्तमम् ।पितरं सम्प्रकल्प्यैव सूर्यः पुत्रोऽभवत्ततः ॥१३५॥नाकमिच्छिल्पिराट् सर्वशिल्पिवर्यः सुयोगिराट् ।तस्याऽस्य पूर्णरूपस्य भार्याऽभवत्तु सा ककुब् ॥१३६॥या जाता कन्यका दिगंशात्मिका मानवी सती ।अम्बामाता शिल्पिवर्यमनोजित्पुत्रिका शुभा ॥१३७॥विवाहिता दिगंशा साऽर्कांऽशनाकजिता भुवि ।दम्पत्योः पुत्रिका जाताः पञ्च ज्येष्ठाऽत्र चाब्जिका ॥१३८॥दिशामंशस्वरूपा या साऽम्बायाः पुत्रिकाऽग्रजा ।पद्मावती सतीतुल्या कृष्णकान्तस्य सत्प्रिया ॥१३९॥सूर्यप्रभा स्वयं सूर्यजन्या हरौ सुमोहिता ।हरिं पतिं प्रकर्तुं सा सूर्यपुत्री तु मानवी ॥१४०॥व्यजायत सुरूपा वै सूर्यमानवपुत्रिका ।द्वितीया सा रमा जाता सूर्यांशनाकजित्सुता ॥१४१॥सूर्यपुत्री रमा साऽम्बादेव्यां व्यजायतोत्तमा ।पद्मिनीरूपसौभाग्यगुणयुक्ता हरिप्रिया ॥१४२॥ब्रह्मणो ये पुरा पुत्र्यौ रमापद्मावतीभिधे ।पुरुषोत्तममासस्य त्रयोदश्या व्रतेन वै ॥१४३॥प्राप्तेऽक्षरं परं धाम ते पुनः श्रीहरीच्छया ।भुवि श्रीभगवत्सेवाकरणायाऽर्कपुत्रिका ॥१४४॥रमा जाताऽथ दिक्पुत्री जाता पद्मावती तथा ।मानवे तु हरौ पत्नीरूपेणोभेऽर्पिते भुवि ॥१४५॥पार्षदौ मे धामसंस्थौ भर्गो हेमन्त इत्यमू ।सेवार्थं नीतवानेतौ सहाऽहं तौ सहोदरौ ॥१४६॥प्रजातौ तौ यत्र पत्नीजन्म तत्र गृहे त्विमौ ।भर्गोऽभवद्धि भगवान् हेमन्तो हेमसंज्ञकः ॥१४७॥सिषेवाते हरिं मां तौ परब्रह्मपरायणौ ।भगवान् स सुतो मध्ये जातो वै भगवद्गणः ॥१४८॥हेमन्तश्च ततो जातोऽनुजो हेमसमोत्तमः ।ततस्तिस्रः सुता या मालती हंसी च सद्गुणा ॥१४९॥वैकुण्ठसख्यस्तिस्रस्ता अभवन्नम्बिकासुताः ।एवं सर्वं भक्तियुक्तं कृष्णनारायणाश्रयम् ॥१५०॥कुटुम्बं देवतारूपं जातं भक्त्यर्थमुत्तमम् ।सेवार्थं श्रीकृष्णनारायणस्यैवाऽभवत् क्षितौ ॥१५१॥इत्येषः कथितः पूर्ववृत्तान्तस्तेऽत्र मत्प्रिये! ।पद्मावत्यारमा याश्च प्रिययोर्मम सर्वदा ॥१५२॥यथा लक्ष्मीर्जया राधा माणिक्या ललिता, प्रिया ।यथा श्रीस्त्वं तथा पद्मावती रमाऽत्र मे प्रिया ॥१५३॥ब्रह्मप्रियाऽष्टकं त्वेतत् कोट्यर्बुदाऽङ्गनोत्तमम् ।पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं लभेत्तथा ॥१५४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भगवदवताराणां सृष्टावागमने कृपा वा भृगोः शापो निमित्तं, दैत्यानां द्वादशसंग्रामाः, पद्मावतीरमाकुटुम्बस्य प्राग्वृत्तान्तादिश्चेत्यादिनिरूपणनामा शततमोऽध्यायः ॥१००॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP