संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ११४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ११४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवराज्ञीश्रि! साध्वाश्रयेण मोक्षणम् ।साध्वाश्रयेण वै रक्षां जीवनं च तथा शुभम् ॥१॥आसीद् रोमपदो नाम पशुपालो वनोत्तमे ।ओजस्वत्यास्तटे देशे सौराष्ट्रे सिंहसेविते ॥२॥रोमपादः पशुवद्वै वर्तते धर्मवर्जितः ।न स्नानं भजनं दानं करोति गृहधर्म्यपि ॥३॥दुग्धदध्यन्नवन्याद्यैः प्राणयात्रां करोति च ।वन्यपशून् मारयित्वा मांसादनं करोत्यपि ॥४॥अन्यसत्ताकमन्नादि दूरं गत्वा निशामुखे ।क्षेत्रादिभ्यश्चानयति चौर्यं करोति वै मुहुः ॥५॥एवमधर्ममार्गस्य पुत्रोऽभवद् वृषंगमः ।ववृधे स युवा जातो महिषीपालकोऽभवत् ॥६॥पित्रा साकं कदाचित् स ययौ वने पशुव्रतः ।पित्रा त्वासादितस्तत्र हरिणः सञ्चरन् वने ॥७॥श्वभिः पित्रा कृष्णमृगो निपातितो वनेऽन्तिके ।वृषगमोऽपि पित्रा युक् तूर्णं ययौ मृगं प्रति ॥८॥मृगस्य म्रियमाणस्य श्वभिर्विपाटितस्य ह ।क्रन्दमानस्य दुःखं च पादानां भूमिघातनम् ॥९॥वीक्ष्य दयापरो भूत्वा त्रासं परं जगाम सः ।कम्पं चाति जगामापि तत्याज तं मृगं हि सः ॥१०॥जगृहे न मृगं तत्र निसर्गदययाऽर्दितः ।नाऽहं मांसं भक्षयिष्ये मारयिष्यामि न क्वचित् ॥११॥पापं चेदृक् प्रसह्यैव प्राणानां त्याजनात्मकम् ।कः कुर्यादुदरस्याऽर्थे मानवो निर्दयो यथा ॥१२॥इत्येवं दयया युक्तस्तत्याज प्राणिहिंसनम् ।वृषंगमस्ततो यातः क्वचिद्वै कार्तिके स्वयम् ॥१३॥सोमनाथस्य तीर्थार्थं सस्नौ ददर्श शंकरम् ।आत्मकृतं च तत्पापं हराय सन्न्यवेदयत् ॥१४॥पापं तस्य विनष्टं च शुद्धिर्जाता हृदोऽस्य च ।साधवस्तत्र चायाता दृष्टास्तेन नतास्ततः ॥१५॥पूजिताः सेविताश्चैषां सत्संगश्च कृतस्तथा ।प्राप्तो मन्त्र 'ओं श्रीकृष्णनारायणो गतिर्मम' ॥१६॥तुलस्या मालिका प्राप्ता भक्तिः प्राप्ता शुभाश्रया ।अनिवेद्य श्रीहरये भोक्तव्यं न कदाचन ॥१७॥साधुसतीभ्यो दातव्यं दुग्धं दधि घृतं तथा ।सेवनीयाः साधवश्च भजनीयो जनार्दनः ॥१८॥एवं लब्ध्वा स नियमान् निजगृहमुपाययौ ।वर्तते सा तथैवापि भजते श्रीनरायणम् ॥१९॥साधवस्तत्र चायान्ति वर्षे सकृद् वनान्तरे ।सेवां लब्ध्वा प्रयान्त्येव ग्रामान्तरं वनान्तरम् ॥२०॥वृषंगमोऽपि चान्नस्य रोटकस्य प्रदानकम् ।पयसाश्चापि दध्नश्च दानं करोति वै तदा ॥२१॥एवं दानफलं पुण्यं बह्वस्यातिव्यजायत ।अथैवं प्राप्तकालोऽस्य पिता मृत्युमुपागतः ॥२२॥यमदूताः शस्त्रहस्ता आययुर्वै भयंकराः ।चुक्रोश बहुधा त्रस्तो मारयन्तीति वै मुहुः ॥२३॥मोचयन्तु च मां केऽपि याम्येभ्यो बान्धवा मम ।मम नाडीस्त्रोटयन्ति प्रहरन्ति च मुद्गरैः ॥२४॥रक्षयन्तु जना मां वै मां गृहिणि! प्ररक्षय ।पुत्र! मां रक्षय दीनं ताड्यमानं यमानुगैः ॥२५॥इत्येवं क्रोशमानं तं पुत्र उवाच रे पितः ।नारायणं प्रभुं कृष्णं स्मर रक्षां करिष्यति ॥२६॥जप मन्त्रं 'ओं श्रीकृष्णनारायणो गतिर्मम' ।इत्येवं प्रददौ मन्त्रं पित्रे लक्ष्मि स पुत्रकः ॥२७॥'हरेकृष्ण हरेकृष्ण कृष्णनारायण प्रभो ।हरे विष्णो हरे स्वामिन् श्रीपते पुरुषोत्तम' ॥२८॥एवं संकीर्तनं चक्रे तावद् दूता भयं गताः ।विसृज्य पितरं तस्थुर्दूरे च जगदुर्मिथः ॥२९॥अस्मद्भागो ह्ययं गोपः पुत्रेण विप्रमोचितः ।मन्त्र दत्वा हरेरस्मै भजनेन च पावितः ॥३०॥इत्येवं प्रवदन्त्येव यमदूता यदा तदा ।साधूनां मण्डलं तत्र यदृच्छया समागतम् ॥३१॥पुत्रः स्वागतसम्मानं प्रचकार च सत्वरम् ।साधवो वीक्ष्य कालान्तं ददौ वारि प्रसादजम् ॥३२॥पिता पपौ हरिस्तावत् समायातो गजस्थितः ।अनादिश्रीकृष्णनारायणोऽहं स्वयमेव ह ॥३३॥रोमपादं विनिष्कास्य देहान्निन्ये परं पदम् ।पुत्रयोगेन साधूनां दर्शनं चान्तकालिकम् ॥३४॥पितुर्जातं मोक्षणं च दानफलं सुभक्तियुक् ।एवं लक्ष्मि भक्तियोगाद् भक्तयोगात् क्षणान्तरे ॥३५॥पापिनामपि मोक्षः स्यात् कार्योऽतः सत्समागमः ।वृषंगमोऽपि देहान्ते मम धाम गतो ह्यनु ॥३६॥शृणु त्वन्यां कथां लक्ष्मि रक्षणं साधुसंगतः ।आसीदेको महान् चौरो नग्रभंगोऽतिदारुणः ॥३७॥विंशतिचौरयुग् रात्रौ सहेतिलुण्टति गृहान् ।येषां श्रुतं महाद्रव्यं तच्छिद्रं चिन्तयत्यथ ॥३८॥प्राप्तेऽनुकूलसमये चौर्यं करोति दारुणम् ।मारयित्वा ताडयित्वा मर्दयित्वा जनान् धनम् ॥३९॥स्वर्णरूप्यमयं रत्नमयं हरति मोदते ।एवं वै वर्तमानस्यैकदा कार्यवशाद् दिने ॥४०॥राजसौधे स्वर्णभूषानिर्माता स्वर्णकारकः ।चिरमित्रं दृष्टिपथं राजपथे तदा ॥४१॥नग्रभंगोऽपि तं दृष्ट्वा सहर्षो मिलितः पथि ।कुशलं चापि पप्रच्छोद्योगं पप्रच्छ वै ततः ॥४२॥स्वर्णकारः समस्तं स्वं वृत्तान्तं प्राह तं निजम् ।अद्य मासे तु नृपतेर्भूषारचनकार्यकृत् ॥४३॥गच्छामि राजसौधं च यत्राऽऽस्ते स्वर्णकोटिकम् ।मौक्तिकानां सहस्राणि रत्नानामयुतान्यपि ॥४४॥यत्र कोशे भवन्त्येव तत्पार्श्वे शुभमन्दिरे ।स्वर्णशिल्पाः स्वर्णकाराः कुर्मस्त्वाभरणानि वै ॥४५॥नग्रभंगस्ततः प्राह यदि ते रोचते वचः ।कथयाऽन्तःप्रवेशस्य रात्रिमार्गं तु निर्जनम् ॥४६॥चोरयामि सुवर्णादि भागं दास्यामि तेऽपि च ।इत्युक्तः स्वर्णकारो वै दर्शयामास तत्पथम् ॥४७॥स्थानं च निःसृतिं चापि गुप्तद्वाराणि यानि च ।उपयुक्तानि शस्त्राणि दृढहेतीनदर्शयत् ॥४८॥युक्तगुप्तहारिकां चाऽदर्शयन्निर्गमं तथा ।ततो रात्रौ स्वसार्थेन नग्रभंगो विवेश तम् ॥४९॥सौधं धनं स्वर्णरूप्यरत्नमौक्तिकमुत्तमम् ।चोरयित्वा चाति गुप्तो दुद्रावाऽलक्षितो जनैः ॥५०॥दत्वा सर्वं सहायेभ्योऽप्रेषयत्तान् वनान्तरे ।भूगर्ते तद् विनिक्षेप्तुं समादिशद् द्रुतं निजान् ॥५१॥स तु श्रमापनोदार्थं गञ्जापानार्थमुत्सुकः ।शनैर्ब्राह्मे मुहूर्ते वै ययौ श्रीनगराद् बहिः ॥५२॥यत्राऽऽसन् साधवः शैवा गञ्जापानाऽग्नितापसाः॥तत्र गत्वा ययाचे वै पानं तामालगाञ्जिकम् ॥५३॥नेमे भक्त्या कृत्रिमया चकार दण्डवत्तथा ।निषसाद समीपे च मुद्रामुपायनं ददौ ॥५४॥साधवोऽपि यथा भक्तं तथा मत्वाऽनुसेवकम् ।लब्ध्वा मुद्रां च पूजायां ददुस्तस्मै तमालकम् ॥५५॥पपौ निद्रां कृतवाँश्च प्रातः सूर्योदयं प्रति ।जजागार ततस्तत्र तस्थौ माध्यन्दिनावधि ॥५६॥भोजनादि चकारैव श्रमं चापनुदत्तथा ।सार्थचौराः समस्तास्ते गर्ते निक्षिप्य तद्धनम् ॥५७॥ययुस्ते वनमार्गेण निजग्रामं हि योजनम् ।तावन्नृपगृहे व्यक्तं जातं चौर्यं धनस्य तत् ॥५८॥पादचिकित्सकान् कृत्वा चाग्रे राज्ञस्तु सैनिकाः ।चौरान् मार्गयितुं प्रातर्निर्गताः शस्त्रधारिणः ॥५९॥श्रीनगरादश्ववाराः सह पादचिकित्सकैः ।वने गत्वा जगृहुस्तान् गच्छतः खेटकं निजम् ॥६०॥ताडयामासुरत्यर्थं चानयामासुरेव तान् ।नृपं प्रति तथा कारागारे रुरुधुरुल्बणान् ॥६१॥अथ साधुप्रसंगेन नग्रभंगस्तु रक्षितः ।राजैकगारिकश्चापि राजभटैर्न लक्षितः ॥६२॥अन्ये चौरा निगडेषु निक्षिप्ता दण्डिता हताः ।श्रुत्वाऽयं नग्रभंगस्तु जीवनं साधुसंगतः ॥६३॥निर्बाधं वै निजं मत्वा साधूनप्रार्थयन्मुदा ।साधुधर्मो मया पाल्यो दीक्षा ग्राह्या च साधवी ॥६४॥साधुसेवा प्रकर्तव्या साधुर्भवामि चाऽद्यतः ।वच्म्यहं निष्कपटं मे कृत्यं साधुजनाग्रतः ॥६५॥चौर्ये बहुविधं चाहं कृतवानस्मि वै मुहुः ।तद्दोषैश्च यथा मुक्तो भवामि कुरुतोऽनघाः ॥६६॥शरणागतरक्षार्थमुद्यताः साधवः सदा ।तेषां प्रसंगतश्चाऽहं जीवाम्यन्ये मृताः किल ॥६७॥तस्माद्वैराग्यमासाद्य भजामि परमेश्वरम् ।साधुसेवां करिष्येऽपि साधुर्भूत्वा निरन्तरम् ॥६८॥इत्यर्थिताः साधवस्ते चिदम्बरायनादयः ।प्रायश्चित्तं कारयित्वा क्षालयित्वाऽघसञ्चयान् ॥६९॥पावयित्वा नग्रभंगं दीक्षां भागवतीं व्यधुः ।सोऽपि पापविनिर्मुक्तो नाम्ना भागवतायनः ॥७०॥भक्तोऽभवत् सदा साधुश्चाऽभजन्मां परेश्वरम् ।साधुसेवां परां कृत्वा तीर्थार्थं चाक्षरस्थलीम् ॥७१॥आययौ कुंकुमवापीं मोक्षं ययौ सरस्तटे ।इत्येवं कथितं लक्ष्मि साधुसंगेन रक्षणम् ॥७२॥स्वात्मार्पणेन मोक्षश्च मया तस्य कृतोऽत्र वै ।अथाऽन्यत्ते कथयामि कथानकं पुराभवम् ॥७३॥आसीत् पुरा महासाधुः शुकायनोऽतिधार्मिकः ।भजते मां सदा रात्रिदिनं श्रोपरमेश्वरम् ॥७४॥अपरिग्रहसर्वस्वो दिग्वासा मत्परायणः ।आम्रवृक्षतले वासं कुरुते भोजनं फलैः ॥७५॥वन्यैः पत्रैर्दलैः कन्दैः कुसुमैर्वहतेऽदनम् ।कुंकुमवापिकापूर्वे वने वसति सर्वदा ॥७६॥शैत्यं तापं च सहते वृष्टिं सहते क्षुत्तृषाम् ।नित्यं प्रदक्षिणं प्रातः स्नात्वा च कुरुते सरः ॥७७॥एवं मध्याह्नके भिक्षामेकभुक्तां करोति च ।सायं मे कीर्तनं दिव्यं कृत्वा स्वापं करोति च ॥७८॥मूर्तिं मे त्वाम्रवृक्षस्य स्तम्बे चित्रमयीं सदा ।संरक्षति प्रपूज्यैनां ध्यायति हृदयेऽन्वहम् ॥७९॥आम्रवणं परं श्रेष्ठं प्रियं चाऽस्य सदाऽभवत् ।सोऽपि चाम्रफलान्येव निवेदयति मे मुहुः ॥८०॥एवं वै वर्तमानस्य चाम्रवृक्षप्रपोषिणः ।एकदा दैवयोगेन वने वह्निर्व्यजायत ॥८१॥तृणपुञ्जाः स्तम्बपुञ्जाः पत्रपुञ्जास्तथौषधिः ।ज्वलिता ज्वालया सर्वा वृक्षाश्च ज्वलितास्तदा ॥८२॥निजस्थानस्य नियतश्चाम्रोऽपि ज्वलितस्तदा ।ततो वह्निः समन्ताद्वै प्रजज्वालाऽतिवेगतः ॥८३॥वायुना प्रेरितस्तीक्ष्णो भयंकरोऽतिदारुणः ।साधुश्चाऽयं स्थितो ध्यानेऽचिन्तयन्मां हरिं तदा ॥८४॥मया त्वाकाशवाण्या वै बोधितः स मुहुर्मुहुः ।याहि दूरं 'विहायैतान् वृक्षान् दग्धोऽत्र मा भव ॥८५॥स चाह वाणीं नैवाऽहं त्यक्त्वा यास्यामि चाश्रयान् ।यत्राऽहं सर्वथा नैजं स्थानं च जीवनं गृहम् ॥८६॥आश्रयं च सुखं भक्ष्यं प्राप्नोमि ताँस्त्यजामि न ।इमे मे बान्धवाः सर्वे पितरो वापि बालकाः ॥८७॥मातरो वल्लिकाः सर्वास्ताः कथं चोत्सृजामि वै ।नाऽहं कृतघ्नः स्वार्थश्च नाहं पापो भवामि च ॥८८॥येषां फलैः सुजीवामि यच्छायायां वसामि च ।यद्रसैः पोषणं यामि ताँस्त्यक्त्वा क्व प्रयाम्यहम् ॥८९॥नेमे बन्धनकर्तारो जडा विजातयस्त्विमे ।न मे कुटुम्बिनः किन्तु कृतसेवा इमे मम ॥९०॥तादृशान् सेवकान् नित्यं परोपकारशालिनः ।दिवानिशं सहायाँश्च मदाश्रयानिव स्थितान् ॥९१॥सद्गुणशालिनो वन्यान् कथं दग्ध्वा प्रयाम्यहम् ।दग्धो भवामि चात्रैव नाहं यास्यामि चापरम् ॥९२॥साधुश्चाऽहं तितिक्षुश्च तितिक्षवो द्रुमा इमे ।साधवः साधुभूषाश्च ताँस्त्यक्त्वा न व्रजाम्यतः ॥९३॥यद्वा तद्वा भवत्वत्र भस्म वा जीवनं च वा ।सहयोगेन भाव्यं वै सहपोष्येण साधुना ॥९४॥इत्युक्त्वा नोच्चचालापि नोत्तस्थौ धैर्यशेवधिः ।ब्रह्मध्याता निषसाद यथा तथैव चास्थितः ॥९५॥दया स्नेहश्च साधूनां महान् धर्मो भवेत् सदा ।समर्थमुपजीव्येमं त्यजेयं कक्षमद्य वै ॥९६॥ 'नारायण हरे कृष्ण श्रीपते पुरुषोत्तम ।अनादिश्रीकृष्णनारायण रक्ष द्रुमानिमान् ॥९७॥इत्येवं श्रावयन् वाणीं साधुर्जजाप मानसे ।मां ध्यात्वा च तदा प्रत्ययैकतानेन भावतः ॥९८॥अथाऽग्निर्दाहयामास पार्श्वभागं हि योगिनः ।पादौ हस्तौ जटां स्कन्धौ रोमाणि चर्म सर्वतः ॥९९॥तथापि मां भजँस्तस्मात् स्थानाच्चचाल नैव ह ।अथाऽहं तं सत्यसाधुं शरणागतरक्षकम् ॥१००॥देहाद्यनादरधर्मं चात्मनिष्ठापरायणम् ।भक्तं मे च विदेहं तं ज्ञात्वाऽवोचं वरं वृणु ॥१०१॥प्रसन्नोऽस्मि विरागात्ते साधुधर्मसमन्वितान् ।दयाधर्मस्य बाहुल्याद् भक्तेर्मे मानसे स्थितेः ॥१०२॥वरं वृणु समर्थोऽस्मि सोऽहं साक्षान्नरायणः ।यं त्वं विद्वन् ध्यायसि वै यदर्थं त्वं निवेदितः ॥१०३॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।आनृशंस्यं तव वृत्तान्तकं दृष्ट्वा प्रतोषितः ॥१०४॥वरं वृणीष्व साधो त्वं ददामि सर्वमिष्टकम् ।साधुश्च मनसा वव्रे वृक्षस्य च वनस्य च ॥१०५॥संभवं रससम्पन्नं यथर्द्धं प्राक् तथैव ह ।अहं ज्ञात्वा दृढां भक्तिं तत्साधौ परसौख्यदाम् ॥१०६॥प्रीतोऽहं चाऽमृतदृष्ट्या सिक्तवान् चाम्रमुत्तमम् ।सर्वान् द्रुमान् वल्लिकाश्च क्षेत्रं वनं समस्तकम् ॥१०७॥सिक्तवान् पीयूषदृष्ट्योज्जीवयं वनमुत्तमम् ।ततः फलानि पत्राणि शाखाः पुष्पाणि सर्वशः ॥१०८॥वने पूर्वस्थितेश्चापि स्मृद्धानि चाऽभवन् पुनः ।वह्निः शान्तिं गतः सर्वो भस्मापि तत्र नास्ति च ॥१०९॥सर्वं वह्निकृतं कर्म लीनं मत्कृतिरुद्गता ।एवं दिव्यं वनं चाम्रवणं जातं सरोऽन्तिके ॥११०॥भागवतायनं साधुं भक्तिमन्तं समाश्रितम् ।सर्वार्थसिद्धिमापत् तद्वनं तथा सतस्तु यः ॥१११॥आश्रितः स लभेत् सिद्धिं साधुना कल्पितां शुभाम् ।साधुः सोऽयं भागवतायनो मे धाम्नि राजते ॥११२॥मुक्तिं गतो हि कालेन कृपया भजनेन मे ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत्तथा ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साध्वाश्रयेण रोमपादपशुपालस्य मोक्षणं, नग्रभंगाख्यचौरस्य साधुसमागमेन राजभयाद् रक्षणम् ,आम्रवणवृक्षादिनाम् वह्निदग्धानां भागवतायनसाधुसहवासेन पुनरुज्जीवनमित्यादिनिरूपणनामा चतुर्दशाधिकशततमोऽध्यायः ॥११४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP