संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ११३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ११३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं तपांसि विविधानि वै ।केवलानि तथा भक्तियुतानि प्रवदामि ते ॥१॥यत्कृतेन भवेत् स्वर्गं पुण्यं च सम्पदोऽमलाः ।भक्तियुक्तेन तेनैव लभ्यते धाम मेऽक्षरम् ॥२॥औदार्यं परमं प्रोक्तं तपो व्ययात्मकं सदा ।धनं दद्याद् वनं दद्याद् गृहं दद्याच्छुभाश्रयम् ॥३॥कुलं दद्यात् कणान् दद्यादौदार्ये दानमास्थितम् ।उदारस्य भवेल्लोको दानिनां धनदाधिकः ॥४॥भक्तियुक्तं महौदार्यं मम धामप्रदं भवेत् ।स्थण्डिले शयनं नित्यं तपः परमकं मतम् ॥५॥तस्य फलं महत् स्वर्गे प्रासादाः स्वर्णशोभनाः ।शयनानि च रम्याणि जायन्तेऽमृतदान्यपि ॥६॥चीरवल्कलधारित्वं तपः परं प्रकथ्यते ।फलं तस्य भवेद् रम्यवासांस्याभरणानि च ॥७॥योगचित्तं तपःश्रेष्ठं फलं विमानकानि वै ।वाहनानि तथा दिव्याः सिद्धयः स्वर्गवासिता ॥८॥अग्नितापस्तपः श्रेष्ठं फलं राज्यं दिवं भवेत् ।रसानां वर्जनं श्रेष्ठं तपस्तस्य फलं शुभम् ॥९॥सौभाग्यं तु भवेन्नार्या गृहं रसाऽभिपूरितम् ।अनामिषं व्रतं श्रेष्ठं फलं वंशसुतादिकम् ॥१०॥अवाक्शिरा वसेद् यश्च तस्येन्द्रपदमुत्तमम् ।उदवासं वसेद् यश्च चन्द्रलोकोऽस्य सत्फलम् ॥११॥ब्रह्मचारी भवेद् यः स ब्रह्मलोकं प्रयाति वै ।पाद्यमासनमन्नं च जलमाश्रयमित्यपि ॥१२॥दद्यादतिथये यज्ञः पञ्चांगोऽयं तपः परम् ।एतानि भक्तियुक्तानि ममाऽक्षरप्रदानि वै ॥१३॥देवार्थे च गवार्थे च गुर्वर्थे वीरशायनम् ।तपः प्राणप्रदानं तन्मोक्षदं स्वर्गदं परम् ॥१४॥मौनं व्रतं परं प्रोक्तं चाऽद्रोहः परमं तपः ।अनिन्दा चाऽवितण्डा च तपः परमकं मतम् ॥१५॥तेनाऽविच्छिन्नगतिकश्चाज्ञापको भवेद् दिवि ।उपवासस्तपः श्रेष्ठमुपभोगाः फलं मतम् ॥१६॥संयमेन तु शीलेन दीर्घायुर्बलवान् भवेत् ।अहिंसा च तपः श्रेष्ठमैश्वर्याऽऽरोग्यरूपदा ॥१७॥फलमूलाशनं चापि तपो राज्यप्रदं मतम् ।पर्णादस्य भवेत् स्वर्गं विघसाशी हरिं व्रजेत् ॥१८॥प्रायोपवेशिनः स्याद्वै सर्वत्र सुखमुत्तमम् ।शाकदः शाकवान् स्याच्च महोद्यानसमन्वितः ॥१९॥गोप्रदो धेनुमान् स्याच्च तृणादोऽमृतभाग् भवेत् ।स्नानं त्रिषवणं श्रेष्ठतरं तपः फलं परम् ॥२०॥दिव्याः स्त्रियो भवन्त्यस्य त्रिकालस्नायिनः किल ।वाय्वाहारः तपः श्रेष्ठं फलं यज्ञफलं भवेत् ॥२१॥सत्यव्रतं तपः श्रेष्ठं स्वर्गं रत्नान्वितं भवेत् ।दीक्षा तपः श्रेष्ठतमं कुलं श्रेष्ठतमं भवेत् ॥२२॥जलाशनं तपः श्रेष्ठं सदा सुधाशनं फलम् ।अग्निहोत्रं तपः श्रेष्ठं चाग्निलोकं फलं भवेत् ॥२३॥मन्त्रजापस्तपः श्रेष्ठं राज्यं स्वर्गं च मोक्षणम् ।एकभुक्तं व्रतं श्रेष्ठं स्वर्गोत्तमं फलं मतम् ॥२४॥दीक्षोपवासः कमले तपः स्वर्गप्रदं मतम् ।अभिषेकस्तपः श्रेष्ठं गुरुत्वापादकं हि तत् ॥२५॥विद्यार्जनं तपः श्रेष्ठं बार्हस्पत्यं स विन्दति ।मानसं तु चरन् धर्मं धर्मलोकं समश्नुते ॥२६॥तृष्णानाशस्तपः श्रेष्ठं सुखं वैकुण्ठसदृशम् ।पूजनं च तपो नित्यं यायाद् गोलोकधाम सः ॥२७॥पिता ब्रह्मा प्रसूः पृथ्वी गुरुर्ब्रह्म सनातनम् ।त्रयः सन्तोषिता येन सर्वं तेन कृतं तपः ॥२८॥सर्वे धर्माः कृतास्तेन व्रतान्यपि कृतानि च ।भक्त्या युक्तानि चैतानि ममाऽऽक्षरप्रदानि वै ॥२९॥नार्या कृताः सर्वधर्माः पतिर्यया प्रसादितः ।पतिनाऽपि कृता धर्मा येन पत्नी प्रतोषिता ॥३०॥राज्ञा सर्वे कृता धर्मा येन प्रजाः प्रतोषिताः ।प्रजाभिश्च कृता धर्मा याभिर्नारायणोऽर्चितः ॥३१॥हिंसकस्य वृथा मन्त्रो मखो वृथा ह्यदक्षिणः ।विना मन्त्रं वृथा होमः सत्यहीनं व्रतं मृषा ॥३२॥भावं विना वृथा सेवोपास्तिर्वृथा हरिं विना ।शीलं विना वृथा धर्मो वृथाऽस्तित्वं सुखं विना ॥३३॥साधुं विना वृथा दानं भक्तिं विना वृथा जनिः ।वृथा गृहं विना लक्ष्मीं विना मोक्षं वृथा मृतिः ॥३४॥विना पात्रं वृथा ज्ञानं जयं विना वृथा मृधः ।वृथा सर्वं विना स्नेहं कृष्णं विना वृथाऽर्जनम् ॥३५॥सन्तं विना वृथा वासः पुष्टिः प्रसूं विना मृषा ।वृथा दृष्टिर्विना देवं वृथा कर्णो विना कथाम् ॥३६॥वृथा त्वक् श्रीहरेः स्पर्शं विना रूपवती ह्यपि ।वृथा जिह्वा विना कृष्णप्रसादस्थरसादनम् ॥३७॥वृथा वाक् कीर्तनं कृष्णगुणानामन्तरा तथा ।वृथा घ्राणं हरेर्गन्धं विना धीः स्मरणं विना ॥३८॥देहतत्त्वानि सर्वाणि निरर्थकानि मां विना ।बलं व्यर्थं धृतिर्व्यर्था यशो व्यर्थं च मां विना ॥३९॥विद्या च वाग्मिता तर्कबुद्धिर्मतिश्च शेमुषी ।व्यर्थं सर्वं विना चाराधनं श्रीपरमात्मनः ॥४०॥षण्ढे यद्वद् भवेन्नारी युवत्यपि च निष्फला ।तथा सर्वं निष्फलं वै षण्ढे मया निराकृते ॥४१॥मां विना च तथा लक्ष्मि! मम सन्तं विना तु यत् ।राज्यं स्मृद्धं कुलं मानं प्राणान्ते निष्फलायते ॥४२॥शृणु लक्ष्मि कथां पुरातनीं वैवर्तभूभृतः ।पूर्वेण तपसा राज्यमासमुद्रान्तमस्य यत् ॥४३॥स्मृद्धमासीत् समग्रं वै त्वेकचक्रं हि शासनम् ।व्योमवार्तावहा दूताश्चासन् राज्येऽस्य चेतनाः ॥४४॥शासकानि च शास्त्राणि नैसर्गिकाणि चाऽभवन् ।तेजसां सुप्रवाहाश्च भास्कराश्चाऽभवन् सदा ॥४५॥श्रावका व्योमदूताश्च राष्ट्रेऽस्य सर्वतोऽभवन् ।जलदूता जलयानेष्वधोवाहास्तथाऽभवन् ॥४६॥विमानान्यभवँश्चाऽस्य लोकान्तरगतान्यपि ।सर्वं पुण्यप्रतापेन मानवं दैवमित्यपि ॥४७॥तादात्म्यमिव चापन्नं राज्ये तस्य तदाऽभवत् ।जडं चेतनरूपाढ्यं कर्मचारं सदाऽभवत् ॥४८॥स्मृतिस्मराऽभवद्वृष्टिरमृतं च स्मृतिस्मरम् ।स्मृतिस्मराणि सस्यानि स्मृतिस्मराः समृद्धयः ॥४९॥स्मृतिस्मरा योषितश्च दासा दास्यः स्मृतिस्मराः ।उपतिष्ठन्ति भोग्यानि स्मृतिस्मराणि चास्य वै ॥५०॥एतादृशोऽभवत् सिद्धो वैवर्तो नाम भूपतिः ।राज्ञी तस्यैकदा प्राह नाम्ना कालंधरा सती ॥५१॥राजन् यथेश्वरश्चाऽऽस्ते भूतलेऽद्यासमो भवान् ।तपसा चार्जितं सर्वं विष्णुनेव त्वया क्षितौ ॥५२॥तथापि श्वेतदुग्धाभं वर्तते सारमन्तरा ।उद्धृतनवनीतं वै यथा दुग्धं तथा त्विदम् ॥५३॥विना नारायणं कृष्णं विना सन्तं वृषं विना ।विना यज्ञं विना दानं विनाऽभ्यागतसत्कृतिम् ॥५४॥विना भक्तिं हरेश्चापि निःसारं भासते मम ।तस्मान्नारायणं कृष्णं भज भक्तान् प्रसेवय ॥५५॥आत्ममोक्षवृषं कृत्वा यास्यस्येवं परं पदम् ।इत्युक्तः स तु भूनाथो मेने नैव प्रियोदितम् ॥५६॥स सिषेधैव सर्वं तन्नास्तिक्येन पुनः पुनः ।न देवो मानवः कृष्णः साधुर्वा कस्यचित् प्रदः ॥५७॥तपसा लभ्यते सर्वं तदन्यत्तु मृषात्मकम् ।तपसैव गमिष्यामि स्वर्गं स्वर्गोत्तमं पुनः ॥५८॥इदं स्वर्गं क्षितावास्ते द्वितीयं तारकामयम् ।संलप्स्यामि तपसैव मा चिन्तां कुरु भामिनि! ॥५९॥इत्येवं मानभानेन भ्रान्तो नाऽगणयत् प्रियाम् ।नास्तिक्येन चिरं कालं यापयामास राज्यकृत् ॥६०॥अथाऽऽयुष्यस्य विगमे भुक्तपुण्ये ह्यशेषिते ।निर्ययौ निजदेहाद्वै कालपाशप्रणोदितः ॥६१॥सहाया नाऽभवन्नस्य केचित् कालाद्धि रक्षणे ।प्रजा राज्ञ्यः प्रधानाश्च पुत्राः पुत्र्यः सहस्रशः ॥६२॥तस्थुरेव विलोक्यैव रुदन्तः शोकसम्प्लुताः ।नास्तिकस्याऽस्य तत्काले न देवा गुरवो न च ॥६३॥नाऽऽययुः साधवश्चापि प्रेतं नेतुं परत्र ह ।न धर्मो नापि पुण्यं च न देव्यो नापि सद्गतिः ॥६४॥मृतं नेतुं नाऽऽययुर्वै भ्रष्टं राज्याच्च देहतः ।गतिरोघोऽभवत्तस्य विना पुण्यं परे स्थले ॥६५॥नेन्द्रियाऽधिष्ठितं सूक्ष्मं शक्तं गन्तुं तदाऽभवत् ।न मनोऽहंमतिप्राणा गन्तुं च प्रभवोऽभवन् ॥६६॥देहान्निर्गत्य जडवत् सौधाग्रे स स्थितोऽभवत् ।प्रतीक्षते तु पुण्यार्थं पुण्यं धर्मं परेतकम् ॥६७॥नास्तिकस्य न वै स्वर्गं नाऽयं लोकः कथं परः ।देवयानोऽस्य नैवाऽस्ति धूम्रयानोऽपि नास्ति च ॥६८॥अगतिर्मूर्छितो मृत्वा दुःखितं स्वममन्यत ।शुशोच न मया दत्तं जलान्नं न मखः कृतः ॥६९॥नोपकारः कृतः क्वापि न सन्तश्चाप्युपासिताः ।न देवार्हणनैवेद्यस्तवनादि कृतं मया ॥७०॥अनाथा रक्षिता नैव तोषिता नापि भिक्षुकाः ।नाऽभ्यागताः पूजिताश्च साध्व्यः सत्यो न सत्कृताः ॥७१॥न गोदानं स्वर्णदानं भूदानं च कृतं मया ।सर्वर्द्धिसंभृतश्चाऽहं कृतवान्न कुतर्कितः ॥७२॥अद्य पुण्यविहीनस्य गतिर्मे नास्ति सर्वथा ।नोपतिष्ठन्ति यानानि विमानानि ममापि वै ॥७३॥विकृतो नैव तिष्ठन्ति पूर्वं या मम चाभवन् ।शस्त्राणि नोपतिष्ठन्ति चेतनानि यथाऽभवन् ॥७४॥साम्राज्यर्द्धिः परा सत्ता लुप्तेव नैव दृश्यते ।गतं साकं स्थूलतत्त्वैर्वर्ष्मणा सह योगि तत् ॥७५॥सूक्ष्मयोगि कृतं नैव नायाति च सहायदम् ।कृतं वै लभ्यते सर्वं तपो मे व्ययतां गतम् ॥७६॥स्थूलं मतं नास्ति सूक्ष्मं कारणं केवलं तु यत् ।निःसामर्थ्यं वर्ततेऽद्य किं तेन मे गतिश्च का ॥७७॥तुर्यो नोपासितो देवः का गतिर्मेऽद्य तिष्ठति ।न चापि यमदूता मे दृष्टिपथं पतन्त्यपि ॥७८॥येनाऽहं धर्मराजस्य पुरीं गच्छामि नोदितः ।नास्तिकस्य गतिर्नास्ति नास्त्यकृतस्य सर्वथा ॥७९॥सुभगा वा विभगा वा नैका नैवाऽपरा गतिः ।अहो प्रेतशरीरं मे भाव्यं तदपि नास्ति वै ॥८०॥वायुरूपं परिपूर्णं भूतप्रेतात्मकं न च ।न चक्षुर्मे पूर्णमत्र न कर्णौ न च जिह्विका ॥८१॥न पादौ नापि हस्तौ च शक्तिहीनो भवामि ह ।मनोमात्रं भवाम्यद्य सर्वसामर्थ्यवर्जितः ॥८२॥यथा कललभावस्य गर्भस्थस्य तथा गतिः ।भानं मे निर्विकल्पाभं तच्चापि भावनोज्झितम् ॥८३॥स्वप्ने मे दर्शनं दातुं वक्तुं चापि न वा प्रभुः ।येन पत्न्यै कथयामि गत्यर्थं पुण्यदानकम् ॥८४॥अहो नास्ति गतिश्चाऽद्य सम्राजो भूपतेर्मम ।गतं सर्वं कृतं नैव प्रतारणेन मुष्णता ॥८५॥पत्न्या मे कथितं पूर्वं स्मर नारायणं हरिम् ।तं स्मरामि प्रभुं चाऽद्याऽधमोद्धारं स तारयेत् ॥८६॥इत्येवं मनसि कृत्वा निर्विकल्पे दधार माम् ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥८७॥यथा यथा स दध्यौ मां तथा तथा तदान्तरः ।प्रकाशः समभूत्तस्य तत्र मयोदितं तदा ॥८८॥अदृश्येन स्वरूपेण यथा व्योमगिरा तथा ।पुण्यं त्वया कृतं नैव कृतं नैव तथाऽपरम् ॥८९॥गतिस्तेन च रुद्धा ते याम्या गतिश्च ते न वै ।तादृक् पापं त्वया नैव कृतं याम्यगतिर्भवेत् ॥९०॥तस्माद् गर्भं तव पत्न्याः पुनर्याया हि देवरात् ।तव भ्राताऽनुजो राज्ञीं स्पृशेत् पुत्रो भविष्यसि ॥९१॥करस्पर्शेन पुत्रस्योत्पत्तिर्युगानुसारिणी ।भवत्येवेति तादृक् त्वं भव पुत्रोऽनुजस्य ह ॥९२॥निजक्षेत्रे ततः कृत्वा भजनं दानपूर्वकम् ।मखान् कृत्वा साधुपूजां परोपकृतिमुत्तमाम् ॥९३॥गोदानं भूमिदानं च स्वर्णदानमनुत्तमम् ।दत्वा कृत्वा व्रतान्येव जातिस्मरोऽथ वै चिरम् ॥९४॥भुक्त्वा भोगान् भजित्वा मां ततो यास्यसि मोक्षणम् ।याहि स्वप्ने तव पत्न्यास्तथा तवाऽनुजस्य च ॥९५॥कैवर्त्तस्य ततः पुत्रः कथयित्वा तथा भव ।एवमुक्त्वा विरराम गर्भवाणी तदाम्बरे ॥९६॥वैवर्त्तः शक्तियुग् भूत्वा रात्रौ स्वप्ने जगाम ह ।अनुजाय तथा राज्ञ्यै तथ्यं न्यवेदयत् ततः ॥९७॥कैवर्तेन करेणापि स्पृष्टा राज्ञी ऋतूत्तरा ।कालंधराऽभिधाना सा गर्भवती बभूव ह ॥९८॥सुषुवे चापि कालेन सुतं जातिस्मरं हि तम् ।सोऽपि बाल्यादेव पद्मे! भक्तिं चकार शार्ङ्गिणः ॥९९॥दानानि प्रददौ सर्वविधानि निजमुक्तये ।मखाँश्च कारयामास तडागानि समन्ततः ॥१००॥अन्नसत्राणि रम्याणि प्रपास्थानानि सर्वशः ।धर्मशाला वेदशालाः कारयामास सर्वतः ॥१०१॥गोभूहिरण्यदानानि ददौ कन्यार्पणानि च ।गृहदानानि देवानामालयान् प्रचकार ह ॥१०२॥मम लक्ष्मि! मन्दिराणि रचयामास तत्र च ।साधुवासान् कारयित्वा सेवयामास चात्मना ॥१०३॥एवं राष्ट्रं समग्रं वै ततो भक्तियुतं शुचि ।संविधाय प्रभुक्त्वा च भोगान् बहुविधान् सुखान् ॥१०४॥संवर्त्तो नाम राजर्षिर्भूत्वा त्यक्त्वा वपुर्निजम् ।ययौ चान्ते मम भक्त्या धामाऽक्षरं परं पदम् ॥१०५॥तस्माद् दानानि देयानि सेवनीयाश्च साधवः ।पूजनीया देवताश्च मखाः कार्या यथाधनम् ॥१०६॥पठनाच्छ्रवणादस्य स्मरणात् करणात्तथा ।भुक्तिं मुक्तिं दिव्यगतिं लभते नात्र संशयः ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विविधतपसां फलानि, तान्येव भक्तियुक्तानि मोक्षदानि, वैवर्तनृपस्यनास्तिक्येन गत्यभावे निजपत्न्यां देवरात् पुनर्जन्म, तत आस्तिककर्मभिर्भक्त्या च मोक्ष इत्यादिनिरूपणनामा त्रयोदशाधिकशततमोऽध्यायः ॥११३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP