संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८८ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-भगवन् साधुरूपस्त्वं श्रीपते पुरुषोत्तम ।इतिज्ञात्वा प्रहर्षामि विशेषतो भवन्मुखात् ॥१॥साधवस्तारका लोके साध्व्योऽपि भवतारिकाः ।विरक्तास्त्यागमार्गस्था जीवोद्धारप्रदाः सदा ॥२॥पूज्यन्ते ते कृपालेशादस्माभिर्नित्यमेव ह ।ब्रह्मप्रियाः सतामाशीर्वादैः प्रमुदिताः सदा ॥३॥वर्तामहे भवद्योगैर्विविधैश्चातिलौकिकैः ।नः पुण्यानां न पारोऽस्ति यासां कान्तो हरिर्भवान् ॥४॥अथाऽत्र ज्ञातुमिच्छामि सहधर्मेति यद्व्रतम् ।पाणिग्रहणतश्चोर्ध्व दम्पत्योः सर्वदा मतम् ॥५॥सोऽयं धर्मः कीदृशोऽस्ति क्षणिकः शाश्वतोऽपि वा ।वैदिकः कल्पितो वापि चैन्द्रियकं अथाऽऽसुरः ॥६॥अत्रैव वा परत्रापि दम्पत्योर्वर्तते कथम् ।कर्मभेदात्तु दम्पत्योर्मरणं युगपन्नहि ॥७॥गतिश्चैकत्र नास्त्येव सहधर्मः कुतो भवेत् ।ऐच्छिको वा सहधर्मो नियतो वा प्रसह्य वा ॥८॥कीदृशः किंफलश्चेति निखिलेन ब्रवीहि मे ।येन श्रुतेन सर्वासां धर्मलाभो भवेदिह ॥९॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि! प्रवक्ष्यामि सहधर्मं सनातनम् ।विवाहाऽग्निकृतसाक्ष्ये वरो गृह्णाति यत्करम् ॥१०॥या ददाति करं नैजं वरहस्तेऽतिहर्षिता ।तयोर्धर्मः सहधर्मो यावज्जीवनमेव ह ॥११॥स्वेच्छया वा द्वयोर्योगे पित्रोर्वा वाञ्च्छया तथा ।सम्बन्धिनां वाञ्च्छया वा प्रसह्य वा क्वचित् तथा ॥१२॥प्रसह्यपूर्वसम्मेलाद् द्वयोर्वा सहधर्मकः ।दानधर्मः सुताया वा कुमारस्य तथा च वा ॥१३॥एवं प्रवर्तते लक्ष्मि दम्पत्योः सहधर्मकः ।द्वयोरैक्यं मनोभ्यां च तनुभ्यां कर्मभिस्तथा ॥१४॥गुणैरैक्यं धनैरैक्यं गृहेणैक्यं द्वयोरपि ।उपकरणैरैक्यं च भोग्यैरैक्यं समस्तकैः ॥१५॥आहारैश्च विहारैश्च नर्ममन्त्रानुमन्त्रणैः ।ऐक्यं व्रतैर्दानतीर्थैरैक्यं हृद्भ्यां तथेन्द्रियैः ॥१६॥ऐक्यं जागरणस्वापैरैक्यं साहाय्यसेवया ।ऐक्यं प्राणैर्ममाऽहंभ्यामैक्यं स्नेहानुबन्धनैः ॥१७॥ऐक्यं चान्तरभावैश्च बाह्यैर्द्वन्द्वैः फलादिभिः ।ऐक्यं पुण्यादिभिश्चैव तथाऽऽयव्ययरक्षणैः ॥१८॥यानवाहनशृङ्गारैर्भूषास्वर्णाम्बरादिभिः ।स्मृद्धिसम्पत्क्षेत्रवाटीराज्याऽऽपणादिभिस्तथा ॥१९॥ऐक्यं बालसुताऽपत्यैरैक्यं दुःखसुखादिभिः ।यथायथं विशेषैश्च शान्तघोरप्रमूढकैः ॥२०॥आनन्दैश्च प्रमोदैश्च महोत्सवैः सवादिभिः ।पुण्यैः कार्यैः समस्तैश्च दम्पत्योरैक्यमेव यत् ॥२१॥सहधर्मः कथितोऽयं पातिव्रत्यपुरःसरः ।पत्नीव्रतान्वितश्चापि सम्पूर्णश्चेद् धृतो भवेत्। ॥२२॥दम्पत्योः सहकालेन सहयात्रा दिवं प्रति ।भवेदेव यथेष्टं वै धर्मसामर्थ्ययोगतः ॥२३॥सहधर्मे क्षतिर्लक्ष्मि! यावती तावदेव तु ।द्वयोर्विभिन्नकालीनं मरणं च गतिस्तथा ॥२४॥विभिन्ना च भवत्येव योन्यन्तरे यथा दिवि ।लोकान्तरे तथा स्याच्च गतिर्भिन्ना विधर्मिणोः ॥२५॥सहधर्मः क्षत्यभावे शाश्वतिको भवेत् सदा ।उभौ यात इतः स्वर्गं ततः सत्यं ततः परम् ॥२६॥वैकुण्ठं चापि गोलोकं धामाऽक्षरं परं मम ।उभौ सहैव मोक्षं च विन्दते सहधर्मिणोः ॥२७॥यदि क्षतियुतो धर्मः सहधर्मो धृतोऽत्र वै ।तदा वियोगो दम्पत्योर्भवेदेव न संशयः ॥२८॥अतः सः क्षणिको धर्मो न तु शाश्वतरूपवान् ।वैदिकः सहधर्मोऽयं देशकालानुसारतः ॥२९॥न चास्ति कल्पितो लक्ष्मि! सापेक्षा कल्पना यतः ।अपेक्षा देशकालादेर्वैषम्ये जायते यदि ॥३०॥सहधर्मस्तदा गौणः क्वचिद् विपत्सु वर्तते ।नैतावता तत्र हानिः प्रायश्चित्तेन शुध्यति ॥३१॥ऐन्द्रियिकः केवलो न पारमार्थिक इत्यपि ।आत्मार्थः सहधर्मोऽस्ति लोके तु देहमाश्रितः ॥३२॥परलोके चात्मनिष्ठो मोक्षे मुक्ते व्यवस्थितः ।इच्छाया चेद्धि दाम्पत्यं चैच्छिकं तत्प्रकथ्यते ॥३३॥प्रसह्य यत्तु दाम्पत्यं चाऽऽसुरं तत्प्रकथ्यते ।दाम्पत्यं येन केनाऽपि वर्त्मनाऽऽप्तं तदुत्तरम् ॥३४॥सहधर्मः पूर्णरूपः पालितः स तु शाश्वतः ।अपालितः क्षतिमान् स्याद् वियोगस्यैव कारणम् ॥३५॥यथा यावत्पालितः स्यात् तावत्फलप्रदो हि सः ।कनिष्ठः पालितश्चेत् स कनिष्ठफलदो भवेत् ॥३६॥मध्यो मध्यमफलदश्चोत्तमः श्रेष्ठसत्फलः ।सृष्ट्यारम्भे युगलानि ब्रह्मणा निर्मितानि वै ॥३७॥युगलानि समुत्पाद्य सहधर्मेण तत्परम् ।सह यन्ति परं लोकं मृत्वा मोक्षं दिवं च वा ॥३८॥पातिव्रत्यबलेनैव पत्नीव्रतबलेन च ।अथ कालस्य दौर्बल्ये दौर्बल्यं सहधर्मणि ॥३९॥दौर्बल्यं सहयोगे च दौर्बल्यं पारलौकिकम् ।एवं ह्रासे समुत्पन्ने भिन्नमार्गा नराः स्त्रियः ॥४०॥भिन्नयोनिगता नैजकृतानि भुञ्जतेऽयुजः ।इत्येवं कथितं लक्ष्मि! सहधर्मरहस्यकम् ॥४१॥दैविप्रजाः पालयन्ति नाऽपराः स्वार्थमात्रगाः ।भिन्ना मार्गा हि तासां ता भ्रमन्ति भवसागरे ॥४२॥अपरस्परसम्बद्धा अपरस्परभागिनः ।अपरस्परधर्मज्ञाः श्मशानशीलिनो मुहुः ॥४३॥लक्ष्मीराधारमातुल्या वियुज्यन्ते न कर्हिचित् ।सतीपद्माप्रथातुल्या वियुज्यन्ते न कर्हिचित् ॥४४॥माणिक्याश्रीरतितुल्या वियुज्यन्ते न कर्हिचित् ।पौलोमीतूलसीतुल्या वियुज्यन्ते क्वचित् क्वचित् ॥४५॥भृत्यातुल्या वियुज्यन्ते युज्यन्ते तु क्वचित् क्वचित् ।पारकीसदृशी नैव युज्यते विगता पुनः ॥४६॥एवं चक्रं वर्ततेऽत्र लोके लक्ष्मि! दुरन्तकम् ।धर्मचक्रं रक्षकं वै योगस्य बलवद् यथा ॥४७॥तदेव निर्बलं सत्तु योगं रक्षति नैव च ।वियोगस्तेन सर्वेषां दम्पतीनरयोषिताम् ॥४८॥अधर्मः कारणं लक्ष्मि वियोगे ऋणकारिता ।केचिद् विवाह्य तूर्णं वै वियुज्यन्ते वियन्ति च ॥४९॥केचित् कालेन केचिच्च मध्यकालेऽन्तिमेऽपरे ।वियुज्यन्ते ऋणवाहा यथा येषामृणं स्थितम् ॥५०॥स्व एव कारणं तत्र योगे वियोजने रमे! ।तस्माच्चरेद् वृषं वीक्ष्य सहधर्ममखण्डितम् ॥५१॥सहधर्मं परित्यज्य त्यक्त्वा शास्त्रं गुरोर्वचः ।व्यवहारवृषं त्यक्त्वा यान्ति ये विपथेन तु ॥५२॥प्रयान्ति निरयं घोरं दुःखदारिद्र्यसंभृतम् ।दैवं पैत्र्यं न कुर्वन्ति गृहस्थाः स्वोदरंभराः ॥५३॥नाऽतिथिपूजका ये ते यान्ति निरयमुल्बणम् ।दानहीनाः शौचहीना मंगलाचारवर्जिताः ॥५४॥कलिग्रहा रजोभ्रष्टाः श्ववृत्तिजीविनश्च ये ।रोदनक्लेशकलहव्याप्ता यान्ति ह्यधोगतिम् ॥५५॥भगवन्नामशून्याश्च परोच्छिष्टप्रभोजिनः ।दुरात्मानो मन्त्रहीना यान्ति निरयमुल्बणम् ॥५६॥क्रियाहीनाः श्राद्धहीना भक्तिहीना निरीश्वराः ।महोत्सवादिहीनाश्च यान्ति निरयमुल्बणम् ॥५७॥पतिताश्च जडोन्मत्ताः कुष्ठिनः श्वित्रिणस्तथा ।क्लीबा यक्ष्महताश्चापि पापा यान्ति ह्यधोगतिम् ॥५८॥चिकित्सका - देवलका वृथा नियमदर्शकाः ।रोगिणो निन्दका भक्तिहीना यान्ति ह्यधोगतिम् ॥ ५९॥गायका नर्तकाश्चापि कूर्दका वादकास्तथा ।कथका योधका भक्तिहीना यान्ति ह्यधोगतिम् ॥६०॥भ्रष्टधर्मा भ्रष्टव्रता भ्रष्टकुलकुटुम्बकाः ।परसंकीर्णका भक्तिहीना यान्त्यधमां गतिम् ॥६१॥होमहीनाः श्राद्धशून्या व्यभिचारनिषेविणः ।नास्तिकाऽध्यापका भक्तिहीना यान्ति ह्यधोगतिम् ॥६२॥ब्रह्मविक्रयिणश्चापि स्त्रीविक्रयिणस्तथा ।पतिविक्रेत्र्यश्च भक्तिहीना यान्ति ह्यधोगतिम् ॥६३॥सर्वसंगाऽभिमन्तारः शवशौचयुतास्तथा ।स्तेनाः पुत्रीजीविनश्च पापा यान्ति ह्यधोगतिम् ॥६४॥वधूजीवा मातृगोत्रजीवाश्चाऽज्ञातजीवनाः ।ऋणिनो हारका भक्तिहीना यान्ति ह्यधोगतिम् ॥६५॥प्राणिविक्रयकाराश्च स्त्रीपण्यादिप्रजीवनाः ।वेश्यानाथा अजपाश्च पापा यान्ति ह्यधोगतिम् ॥६६॥व्रतहीना निजपत्नीक्लेशदाः पाशवा जनाः ।अयुक्तकार्यकर्तारः पापा यान्ति ह्यधोगतिम् ॥६७॥परस्परं विमन्तारः परस्परं प्रतारकाः ।अनर्जवः शठा भक्तिहीना यान्ति ह्यधोगतिम् ॥६८॥असावित्रा मृषावाणिज्यादिनिष्ठा मृषावृषाः ।मृषावाचोऽसत्यकार्याः पापा यान्ति ह्यधोगतिम् ॥६९॥दरिद्राः परभाग्याश्च हिंस्राः कल्कयुताः खलाः ।कलंकिनः कलंकदाः पापा यान्ति ह्यधोगतिम् ॥७०॥कितवाश्चाऽवृत्तिकाश्च सर्वभक्ष्या विहारिणः ।दारुणकर्मगा भक्तिहीना यान्ति ह्यधोगतिम् ॥७१॥मिथ्याशपथिनश्चापि मांसाशनाः सुरापिबाः ।अवेदव्रतचारित्राः पापा यान्ति ह्यधोगतिम् ॥७२॥गुर्वभयादिकार्यार्थं वर्जयित्वा पुनः पुनः ।अनृतवाक्क्रियाचित्तास्ते वै निरयगामिनः ॥७३॥परस्वनाशकाः परस्त्र्यपहारकरा जनाः ।पैशुन्यवादिनः पापास्ते वै निरयगामिनः ॥७४॥प्रपाशालासभाऽगारछायासत्रादिभेदिनः ।अनाथप्रमदाबालवृद्धभीतप्रवञ्चकाः ॥७५॥साधुसाध्वीतापसीवञ्चका निरयगामिनः ।जीविकागृहमित्रस्त्रीविश्वासधर्मघातिनः ॥७६॥मर्यादान्यायसत्कर्मदानयज्ञविभेदिनः ।कृतघ्ना दूषकाश्चापि जना निरयगामिनः ॥७७॥पाखण्डानिष्परीक्षाश्च विषविक्रयिणो जनाः ।अभिचाराऽग्निगरदाः पापा निरयगामिनः ॥७८॥आशाघ्नाश्च प्रतिज्ञाघ्ना भक्तिघ्नाः श्रमघातिनः ।भेदकाश्च शुभघ्नाश्च जना निरयगामिनः ॥७९॥शस्त्रशल्यादियोक्तारो गोकन्यास्त्रीप्रघातिनः ।बालजन्त्वादिघाताश्च जना निरयगामिनः ॥८०॥मार्गाणां रोधका ये च कीलशिलाप्रकण्टकैः ।भृत्यभक्तस्त्रीत्यजश्च जना निरयगामिनः ॥८१॥वृषणोच्छेदका नासाभेदका दन्तपातकाः ।पशूनां दुःखकर्तारो घातका निरयाऽऽयिनः ॥८२॥अगोप्तारो नृपाश्चापि दानहीना धनेश्वराः ।आश्रितत्याजिनो मूढा नरा निरयगा मताः ॥८३॥आश्रितादीनदत्त्वा ये भुञ्जतेग्रेसरा जनाः ।अयोग्यशासकाः पापा जना निरयगा मताः ॥८४॥पूजाहीना देवहीना भक्तिहीना असेविनः ।स्नेहहीना मृषाचाराः पापा यान्ति ह्यधोगतिम् ॥८५॥सहधर्मा न वै तेषां तासां वा वै विधर्मिणाम् ।अधर्मिणां तु पापानां पाशवं जीवनं हि तत् ॥८६॥इह लोके सुखं नास्ति धर्मो नास्ति व्रतं न च ।दानं पुण्यं दया नास्ति पशुतुल्याः कथं सुखाः ॥८७॥परलोकेऽपि ते प्रेता दुःखिनो वै भवन्ति च ।अप्राप्तजलभक्ष्यान्नाः कुटुम्बाऽदर्शिनस्तथा ॥८८॥एकलाः परजालस्था यान्ति निरयमन्दिरम् ।सहधर्मं न जानन्ति तृष्णाविषयवेदिनः ॥८९॥परदुःखं न जानन्ति स्वसौख्यार्थं हि तामसाः ।सर्पतुल्या विषवाहा यान्ति निरयमन्दिरम् ॥९०॥स्त्रीरक्षां नैव जानन्ति गोरक्षां न विदन्ति च ।दासदासीसुखं नैवेच्छन्ति यान्ति ह्यधोगतिम् ॥९१॥धनहारा व्रतहारा धर्महाराः प्रदूषकाः ।सत्यमसत्यं कुर्वन्तो यान्ति पापा ह्यघोगतिम् ॥९२॥सहधर्मे न तु तृप्ता विधर्मे च वहन्ति ये ।परार्थं नैव पश्यन्ति भक्तिहीना ह्यधोगमाः ॥९३॥जारवद् गणिकावद् ये वर्तन्ते गृहवासिनः ।परवत्स्वार्थिवद् ये च ते सर्वे वै ह्यधोगमाः ॥९४॥हिंस्रवच्चौरवद्धूर्तवच्च कितववत्तथा ।कालवन्मृत्युवद् ये च वर्तन्ते ते ह्यधोगमाः ॥९५॥सहधर्मोत्तरं यत्र वैमनस्यं द्वयोर्गृहे ।प्रत्यक्षं निरयं तत्र परलोकेऽपि तत्तथा ॥९६॥अस्नेहश्चापि वैरं च तिरस्कारोऽवमाननम् ।पराजयोऽतिनिन्दा च प्रत्यक्षनिरयाणि वै ॥९७॥महारोगो निर्धनत्वं कारागारनिषेवणम् ।भोज्यभूषादिराहित्यं प्रत्यक्षनिरयाणि वै ॥९८॥अनपत्यत्वमेवापि बहुशत्रुत्वमित्यपि ।अतिपरिश्रमजीवित्वं साक्षान्निरयाणि वै ॥९९॥चिन्तापिशाचिनी यस्य भार्या पिशाचिनीसमा ।दारिद्र्याख्यपिशाचश्च रौरवं तस्य मन्दिरम् ॥१००॥तस्माद् विचार्य मेधावी सहधर्मान् समाचरेत् ।क्षतीः सर्वाः परित्यज्य कुशलः सन् सुखी भवेत् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सहधर्मस्वरूपवर्णनं चाऽसहधर्मे निरयगामित्वमित्यादिनिरूपणनामाऽष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP