संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं दम्पत्योर्योगिनोः पुरा ।सम्वादं कथयाम्यत्र श्रवणाऽर्हं गतिप्रदम् ॥१॥पुरा श्रुतिफलानाम्नी योगिनी योगिनं पतिम् ।सद्विद्यायननामानं ज्ञानविज्ञानपारगम् ॥२॥पप्रच्छ संशयारूढा लोकशिक्षार्थमेव सा ।देहत्रयसमाधिस्था वर्तेऽहं नाथ सर्वदा ॥३॥पतिसेवापरा चापि वर्तेऽहं हरिसेविनी ।देहधर्मपरा त्रापि वर्तेऽहं कामधर्मिणी ॥४॥देवसेवापरा चापि वर्तेऽहं शुद्धभावना ।मोक्षज्ञानपराऽसङ्गा वर्तेऽहं पतिबोधिता ॥५॥अथापि मानसं कान्त देहविषयमार्गगम् ।क्वचित् क्वचिद् धातुपुष्ट्या प्रवर्तते हि निम्नगम् ॥६॥अधःस्रोतस्वभावं तन्मानसं मां विकर्षति ।ऊर्ध्वस्रोतोवती नाथ भविष्यामि कदा ततः ॥७॥कदा मुक्तिं गमिष्यामि कदा वै शाश्वतं सुखम् ।कं वा लोकं गमिष्यामि त्वां कान्तं तु समाश्रिता ॥८॥भवानास्ते त्यक्तकर्मा योग्यपि कामवानपि ।भार्या त्वनन्यगतिका भर्तारमन्तरा सदा ॥९॥साऽहं योगं च कामं च पतियोगेन वै वृषम् ।पालयामि तथाऽप्येषा कर्मबन्धनता मम ॥१०॥न भोगयोगमापन्नः कश्चिन्मोक्षं प्रविन्दते ।नाथ त्वं वेत्सि सर्वं तत् कथं कर्मणा मोक्षणम् ॥११॥भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् ।पतिश्चेल्लोकहीनोऽत्र भार्यायास्तत्र का गतिः ॥१२॥त्वादृशं पतिमासाद्य का गमिष्यामि वै गतिम् ।इतिपृष्टो मुनिश्रेष्ठः सद्विद्यायननामकः ॥१३॥प्राह श्रुतिफलां पत्नीं शान्तात्मा तु हृदा हसन् ।न मे कामो न मे बन्धो देहधर्मो न मे मतः ॥१४॥नाऽयमात्मा भवेत् पत्नी नाऽयमात्मा पतिः स्मृतः ।पुंसो देहः पतिश्चेति नारीदेहस्तु पत्निका ॥१५॥एव लोके व्यवहारः कृतः सोऽयं भवः स्मृतः ।संसारबन्धनं चापि दाम्पत्यं तु विशेषतः ॥१६॥सापत्यकत्वं ततोऽपि बन्धनाय प्रकल्प्यते ।कामा योगो वासनाद्या देहधर्मा न चात्मनः ॥१७॥पश्य त्वं मां दिव्यदेहं नारायणस्वरूपिणम् ।पतिर्ब्रह्मा पतिर्विष्णुः पतिर्देवो महेश्वरः ॥१८॥पतिं मत्वा परब्रह्म सेवते सा प्रमुच्यते ।गोप्यः कामात् प्रमुच्यन्ते प्रतिकल्पं मुहुर्मुहुः ॥१९॥श्रीकृष्णस्य प्रयोगेण लक्ष्मीर्नारायणस्य च ।एवं मां त्वं ब्रह्मरूपं मत्वा सेवय भामिनि ॥२०॥तदा लोकं योगिनीनां सतीनां प्राप्स्यसे ध्रुवम् ।नैर्गुण्यं वा समाश्रित्य भज मां परमेश्वरम् ॥२१॥तदा त्वं ब्रह्मनिर्वाणं ह्यवाप्स्यसि न संशयः ।इत्युक्त्वा निजदेहात् स योगी कामं सुरूपिणम् ॥२२॥पृथक्कृत्वा ददाहैव कामो भस्मनिभोऽभवत् ।कामपिण्डं सुसम्पन्नं ददौ पत्न्यै तु निर्गुणम् ॥२३॥तत्स्पर्शेनाऽभवद् दिव्यो मुक्तः सुमूर्त एव सः ।कामो दिव्यस्वरूपोऽभूत् सद्विद्यायनवाञ्च्छया ॥२४॥चमत्कारं परं दृष्ट्वा श्रुतिफलाऽऽह तं पतिम् ।अहो नाथ जितामर्ष जितकाम जितेन्द्रिय ॥२५॥जितसर्वस्व त्वयात्से दिव्यं जानामि साम्प्रतम् ।शंका मे कामनाजन्या निवृत्ता दिव्यदर्शनात् ॥२६॥पश्यामि त्वां कृष्णरूपं चतुर्भुजात्मकं प्रभुम् ।क्रियाः सर्वाश्च ते दिव्याः प्रपश्यामि न संशयः ॥२७॥चाञ्चल्यं मम विगतं स्त्रीबुद्धिश्चाऽद्य निर्गता ।दिव्यां रतिं समासाद्य दिव्या भवामि ते बलात् ॥२८॥वद मे तु यथायोग्या तथा ज्ञानं सुखावहम् ।इत्युक्त्वा सा प्रणनाम कामोऽपि दिव्यमूर्तिमान् ॥२९॥विवेश सहसा देहे सद्विद्यायनवाञ्च्छया ।वीक्ष्य श्रुतिफला तत्र निःसंशयाऽभवत्ततः ॥३०॥यथा कृष्णे तथा भक्ते दिव्यास्ते देहवर्तिनः ।भवन्त्येव गुणाः सर्वे दुर्गुणा अपि सद्गुणाः ॥३१॥कामः स्नेहः सुखं सेवा पोषणं रमणं शुभम् ।योजिताः श्रीहरौ भक्ते दिव्या भवन्ति साधुषु ॥३२॥ये संगाः स्त्रीपुत्रबन्धुपुत्रोकुटुम्बिषु कृताः ।त एव साधुषु कृता मोक्षद्वारमपावृतम् ॥३३॥योगी पतिर्मया प्राप्तो धन्याऽहं दिव्यतां गता ।देहक्रिया न मे चास्ति दिव्याऽहं नास्मि भामिनी ॥३४॥आत्माऽहं नैव योषिद्वै मुक्ताऽहं नित्यमोदिनी ।देहो देहार्थसम्पन्नश्चात्माऽऽत्मार्थविभूषितः ॥३५॥द्वयोः पन्था विभिन्नोऽस्ति का नैसर्गिकवेदना ।एवं ब्रह्मस्वरूपा सा क्षणमात्रेण भामिनी ॥३६॥ब्राह्मणी ब्रह्मवेत्त्री च सम्पन्ना संगवर्जिता ।आहैवं ज्ञानमापन्नां पत्नीं विद्यायनस्ततः ॥३७॥सुभगे! देहसंलग्ना क्रिया सर्वा न चात्मनि ।ग्राह्यं दृश्यं भवेत् कर्म कर्मज्ञानेन्द्रियैरिह ॥३८॥देहात्मा कर्मकर्मेति व्यवस्यतीति बन्धनम् ।मोहं तत्रापि चाप्नोति कर्मप्रधानभावतः ॥३९॥ज्ञानहीनो जनः सर्वो देहबन्धनमोहवान् ।नैष्कर्म्यं नाऽस्य जायेत यावद्देहाभिमानिता ॥४०॥देहेन्द्रियैर्मानसाद्यैः शुभाशुभानि विन्दति ।जन्मभोगजराव्याधिकराणि बन्धदानि च ॥४१॥तत्त्वानां वै स्वभावोऽस्ति नैष्कर्म्ये न वसन्ति वै ।तिष्ठन्ति कर्मयुक्तानि भूतेषु कर्म वर्तते ॥४२॥देहभेदान् प्रापयन्ति कर्माणि सर्गजानि वै ।अग्निहोत्रादिकं विप्रे वेदाऽध्ययनमित्यपि ॥३॥शासनं क्षत्रिये वैश्ये वाणिज्यं कृषिरित्यपि ।सेवा शूद्रे ब्रह्मशीले स्वाध्यायो हवनादिकम् ॥४४॥सदारे सत्कृतिर्दानं चोपार्जनं प्रपोषणम् ।वन्ये वने वन्यवृत्तिः साधौ भिक्षाटनादिकम् ॥४९॥ब्रह्मशीलनमेवाऽपि नैष्कर्म्यं नैव विद्यते ।नैसर्गिकी चञ्चलेयं प्रकृतिर्देहरूपिणी ॥४६॥विकृतयश्चञ्चलाश्च मानसं चञ्चलं तथा ।बुद्धिरिन्द्रियस्तबकश्चित्तं विषयचञ्चलम् ॥४७॥संस्काराः कोशवल्लोला ज्ञानधाराऽपि चञ्चला ।ज्ञानेच्छाकृतिभावाश्च द्वेषाद्या गोचराश्रिताः ॥४८॥विषयाननुजीवन्ति चाञ्चल्यं धर्मणि स्थितम् ।क्रियास्वभाव सर्वं वै तत्त्वजं मर्कटं त्विदम् ॥४९॥कथं क्रियाविहीनं सत्तिष्ठेच्छान्तिप्रलब्धये ।तस्मात्तत्परिवृत्त्यर्थं निश्चाञ्चल्यं समाश्रयेत् ॥५०॥निश्चंचलप्रवेशेन निश्चञ्चलतां व्रजेत् ।सर्वत्र परिपूर्णं तत्परब्रह्म तथाविधम् ॥५१॥निश्चञ्चलं सदा सौम्ये सौम्यं तदर्थमाश्रयेत् ।कर्मणा मनसा वाचा हृदाऽऽत्मना समस्तकैः ॥५२॥एवं यथा निवातस्थः कुसूलस्थो निरोधितः ।चञ्चलोऽपि प्रदीपो वै स्वयं मूर्च्छा हि तैलजः ॥५३॥गच्छत्येव तथा स्याच्च चाञ्चल्यरहितः क्षणम् ।लयं गच्छेच्च वा तत्राऽम्बरे निष्क्रियतां व्रजेत् ॥५४॥एवं चाऽयं चञ्चलैश्चावृतोऽपि चेतनः स्वयम् ।चिदम्बरे निरोधं तु सम्प्राप्य निष्क्रियो भवेत् ॥५५॥स्थिरो भवेच्च मणिवन्मणिप्रदीपभासमः ।नैसर्गिकप्रभायुक्तो मणिदीपो यथा स्थिरः ॥५६॥वायुस्तैलं भवेद्वा न भवेत् तदपि भायुतः ।वर्तते सर्वदा कान्तिप्रदस्तथाऽयमच्युतः ॥६७॥वायुतुल्या हि विषयाः सौम्ये देहस्थिताः सदा ।भुज्यन्ते वा न भुज्यन्ते मणिस्तु निरपेक्षकः ॥५८॥देहधर्मास्तथा पत्नि भुज्यन्ते वा न वाऽपि च ।आत्मा मणिस्तु ते मेऽपि निरपेक्षो न कर्मवान् ॥५९॥परब्रह्म समासाद्य कथं लोकान् विशंकसे ।क्व गमिष्यामीतिशंकां त्यज मुक्ते परेश्वरि ॥६०॥अहं ब्रह्म सदा चास्मि यास्यामि च परं पदम् ।ज्ञानोपासनभक्त्याद्यैस्त्वं मया सह यास्यसि ॥६१॥गृहधर्मा हि धर्मास्ते नाऽधर्मा न हि नारकाः ।ऋतुधर्मा मनोधर्मा मद्योगे दिव्यतां गताः ॥६२॥ज्ञानयोगेन योगेन ब्रह्मणः परमात्मनः ।दिव्योऽहं मम योगेन त्वं पत्नि दिव्यतां गता ॥६३॥एतां गुप्तां तु परमां सरहस्यां निजां स्थितिम् ।मोक्षदां बन्धनहीनां को भोक्ता चाभिधास्यति ॥६४॥अभोक्तुः परमां श्रेष्ठां दशां भोक्ता न विन्दति ।कुतः प्राभिकथयेद् या मया तेऽभिहिता प्रिये ॥६५॥रक्षांसि सर्वविघ्नानि भवन्ति सर्वदेहिनाम् ।ब्रह्ममार्गे स्वर्गमार्गे तानि त्यक्त्वा सुखी भवेत् ॥६६॥आत्मस्थं परमात्मानं समाश्रित्य मया प्रिये ।रक्षांसि कामरूपाणि वशे कृतानि सर्वथा ॥६७॥भ्रुवोर्मध्ये गुरोर्ध्यानं लब्धं श्रीपरमात्मनः ।यत्र तत्परमं ब्रह्माऽनादिकृष्णनरायणः ॥६८॥सर्वदा दृश्यते भार्ये तं भजस्वाऽतिनिर्गुणा ।इडा च पिङ्गला चापि सुषुम्णा सृतयस्त्विमाः ॥६९॥यथा प्रियया संगम्य ब्रह्मादयोऽपि देवताः ।यदक्षरपरं कृष्णमुपासते महर्षयः ॥७०॥विद्वांसः सुव्रताः शान्ता जितार्था यमुपासते ।तमुपास्स्व सदा सुभ्रु त्यज दैहिकचिन्तनम् ॥७१॥घ्राणेन न तदाघ्रेय नाऽऽस्वाद्यं चापि जिह्वया ।स्पर्शनेन तदस्पृश्यं चक्षुषा दृश्यमेव न ॥७२॥श्रवणाच्च परं तद्वै परब्रह्म प्रसेवय ।आत्मना मनसा साकं बुद्ध्या ब्रह्मगृहीतया ॥७३॥प्राप्यते कृपया तस्य तत्परब्रह्म सेवय ।अगन्धमरसस्पर्शमरूपं शब्दवर्जितम् ॥७४॥यतः प्रवर्तते तन्त्रं यत्र पुनः प्रतिष्ठति ।प्रवर्तन्ते च मरुतः प्राणाद्या यद्व्यपेक्षया ॥७५॥तं सर्वसाक्षिणं कृष्णनारायणं परेश्वरम् ।भजस्व भामिनि स्वाम्युत्तमं श्रीपतिमच्युतम् ॥७६॥नाऽहं पतिर्न भार्या त्वं पतिः श्रीपुरुषोत्तमः ।आवयोरात्मनोर्दिव्ये भज तं पुरुषोत्तमम् ॥७७॥हृदि प्राणं गुदेऽपानं समानं नाभिसंस्थितम् ।उदानं कण्ठदेशस्थं व्यानं सर्वशरीरगम् ॥७८॥विजित्वा तेषु चाऽऽत्मानं परमेशं विभावय ।सप्तधाऽग्निर्वैश्वानरः प्राणेषु देहचारिषु ॥७९॥घ्राता घ्राणेन घ्रेयं वै गन्धं पृथ्व्यां समश्नुते ।पाता रसनया पेयं रसं जले समश्नुते ॥८०॥द्रष्टा नेत्रेण दृश्यं तु रूपं तेजसि चाऽश्नुते ।स्प्रष्टा त्वचा स्पृश्यं स्पर्शं मारुते वै समश्नुते ॥८१॥श्रोता कर्णेन श्रव्यं शब्दमाकाशे समश्नुते ।मन्ता मनसा मन्तव्यं विषयं मनुते निजम् ॥८२॥बोद्धा बुद्ध्या तु बोद्धव्यं विषयं बोधयत्यपि ।आत्मा परात्मना सर्वं भुंक्ते भोक्तव्यमेव तत् ॥८३॥परात्मना तु यद् भुक्तं दिव्यं तन्न तु लौकिकम् ।लौकिकं स्याद् बन्धनाय दिव्यं मोक्षाय चार्पितम् ॥८४॥अनेनैव प्रकारेण चरणाभ्यां गतिः क्रिया ।हस्ताभ्यां चाप्युपादानं वाचा संवादशब्दनम् ॥८५॥पायुनोत्सर्ग उपस्थेनाऽऽनन्दानुभवादिकम् ।गन्ताऽऽदाता च वक्ता विस्रष्टाऽऽनन्दयिता हि सः ॥८६॥वैश्वानरोऽन्तरात्मा हि परमात्मा करोति तत् ।नाहं कर्ता न त्वं कर्त्री ततो न कर्मबन्धनम् ॥८७॥विज्ञातृत्वाभिमानं वै परात्मनि समर्पयेत् ।भोक्तृत्वाभिमतिं चापि परात्मनि समर्पयेत् ॥८८॥एवंभावे नरो नाहं नारी न त्वं कदापि वै ।यश्चाऽहं स एव तु त्वं द्वावावां परमे स्थितौ ॥८९॥परमात्माऽतिरिक्तत्वं नावयोरस्ति किञ्चन ।आत्मा त्वं च तथाऽऽत्माऽहं परमात्मनि तिष्ठतः ॥९०॥यत्र तिष्ठाव एतस्मिन् धार्यं सर्वं समर्पितम् ।एवं सति कुतो मे ते कर्माऽपि चावशिष्यते ॥९१॥निष्कर्मात्मनि देवेशे सर्वं परिसमर्प्यते ।सत्येवं तस्य यो लोकः स लोकोऽप्यावयोः सदा ॥९२॥परं पदं चिदाकाशोऽक्षरधाम हि शाश्वतम् ।परब्रह्मण एवाऽस्ति तदस्ति चावयोरपि ॥९३॥यत्राऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ।तत्राऽहं चापि तत्र त्वं गमिष्यावो न संशयः ॥९४॥भज त्वं तं परात्मानं पत्यात्मकं प्रभुं पतिम् ।त्यज दैन्यं संशयं च भयं निम्नगतिप्रदम् ॥९५॥गृह्ण ज्ञानं च वैराग्यं धर्मं भक्तिं निरामयाम् ।निर्भया परमस्यैव धाम्नो दात्रीं विधेहि वै ॥९६॥इत्युक्ता सा निजपत्नी श्रुतिफलाऽतिवेदिनी ।हर्षं तु परमं लेभे ब्रह्मबोधाभिमोदिनी ॥९७॥ननाम पादयोः पत्युर्लक्ष्मि लक्ष्मीरिवाऽभवत् ।दिव्या मदर्पणेनैव क्रियाणां सर्वथा ततः ॥९८॥श्रुतिवद् वर्तते नित्यं भजते मां परेश्वरम् ।लभते परमानन्दं ब्रह्मरसं समश्नुते ॥९९॥गृहयुक्तापि सततं गृहाऽलुब्धा ततोऽभवत् ।पतियुक्ताऽपि सततं कृष्णयुक्ता सदाऽभवत् ॥१००॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रुतिफलापत्न्याः सद्विद्यायनर्षिं पतिं प्रति कृतस्य क्वलोकगमानादिप्रश्नस्य नैष्कर्म्यसर्वसमर्पणविधया परब्रह्मलोकगतिरित्यादिप्रत्युत्तरमितिनिरूपणनामा त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP