संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७७ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-साध्वीधर्मान् समस्तान् वै वक्तुमर्हसि माधव ।साध्व्यः सर्वा भवद्देहाज्जाता मायापरा हि ताः ॥१॥लोकेऽत्र वै कथं ताभिर्वर्तितव्यं निरन्तरम् ।कृष्णधवा हि त्यागिन्यः सांख्ययोगिन्य एव ताः ॥२॥हरिप्रियाश्च ताः सर्वाः कृष्णकान्ता हि योषितः ।ब्राह्म्यस्ताश्च महाभागवत्यः सात्त्वत्य एव ताः ॥३॥सर्वथाऽऽत्मनिवेदिन्यो वर्तेरन् केन चाऽध्वना ।पातिव्रत्यं कथं तासां विना विवाहितं पतिम् ॥४॥श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं त्यागदीक्षितयोषिताम् ।दीक्षा विवाह एवास्ति मया साकं हि योजितः ॥५॥ 'ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।इति मन्त्रेण सा साध्वी विवाहिताऽग्निसन्निधौ ॥६॥होमं कृत्वा दीक्षिता सा मम मूर्त्या समं तदा ।पूजयित्वा च मां प्राप्ता निवेदिताऽग्निमण्डपे ॥७॥मम काषायाम्बराणि स्वीचकार च सा सती ।गुर्वाज्ञया च मे कान्ता जाताऽस्ति दीक्षितक्षणात् ॥८॥अतश्चाऽस्याः कृष्ण एव पतिश्चाऽस्मि नरायणः ।विवाहितैव सा चास्ते पातिव्रत्यं सदा मयि ॥९॥पालनीयं तया साध्व्या पावन्या मम योषिता ।ममाऽध्वना हि गच्छेयुर्वर्तेरँश्च ममाऽध्वना ॥१०॥दिव्यभक्त्या च वर्तेरन् मोक्षाध्वना सदध्वना ।साधुसेवां प्रकुर्युश्च साधवो मम मूर्तयः ॥११॥निष्कामवृत्त्या वर्तेरन् सेवयेयुस्तथैव च ।सर्वथाऽऽत्मनिवेदिन्यो भवेयुर्मम मूर्तिषु ॥१२॥साध्वीधर्माः स्त्रीधर्मास्ते विवाहे ऋषिभिः कृताः ।सहधर्मादिचारिण्यो भर्तुर्भवन्ति लग्नके ॥१३॥तस्माल्लग्नवती पत्नी यथा पत्युर्निदेशिनी ।तथा त्यागवती साध्वी पत्युर्मेऽस्ति निदेशिनी ॥१४॥अग्निं साक्षिणमासाद्य गुरुं च पितरावपि ।गणेशं च तथा मां च पत्नी साध्वी समे ह्युभे ॥१५॥पातिव्रत्यं परं धर्मं गृह्णीतः स वृषः समः ।पात्नीव्रत्यं तथा पत्युर्हरेर्मे च समं तथा ॥१६॥सहधर्मचरी भर्तुर्भवत्यग्न्यादिसन्निधौ ।सहधर्मचरः पत्न्या भवत्यग्न्यादिसन्निधौ ॥१७॥सहधर्मचरं कान्तमनुस्मरेत् सदाऽर्पिता ।सुस्वभावा सुवचना सुवृत्ता सुखदर्शना ॥१८॥अनन्यचित्ता सुमुखी भर्तुः सधर्मचारिणी ।भवेत् सद्धर्मपरमा भवेत् सद्धर्मभागिनी ॥१९॥देवदेवं स्वभर्तारं साध्वी नित्यं विलोकयेत् ।शुश्रूषां परिचर्यां च कुर्याद् दिव्यक्रियाऽन्विता ॥२०॥नाऽन्यभावा ह्यविमनाः सुभावा सुखदायिनी ।पुत्रवक्त्रमिवाऽभीक्ष्णं भर्त्राननं विलोकयेत् ॥२१॥नमेत् सुनियमाढ्या च भर्तारं धर्मचारिणी ।ज्ञात्वा दम्पतीधर्मांश्च सहधर्मान् निजाश्रितान् ॥२२॥मत्वैव धर्मपरमा भवेत् भर्तुसमव्रता ।देवदेवं हि भर्तारं सेवेत शान्तिसंयुता ॥२३॥सुप्रसन्नमुखी भर्तुर्भवेदेवापि शिक्षिता ।ताडितोक्ता परुषाणि वश्या तथापि नित्यदा ॥२४॥नान्यं नरं स्पृशेत् साध्वी निरीक्षेत न कामतः ।हास्यभावादिभिश्चापि नान्येन सह वर्तयेत् ॥२५॥भर्तृवर्जं प्रियं नास्ति यस्या उच्छिष्टमेव तत् ।भर्तृयुक्तं प्रियं सर्वं महाप्रसाद एव तत् ॥२६॥भर्त्राज्ञा भगवत्स्वाज्ञा भर्ता श्रीपरमेश्वरः ।भर्त्रारोहा भवेद् या सा भवेद्वै धर्मचारिणी ॥२७॥दरिद्रं व्याधितं दीनं दुःखितं श्रमितं मृदुम् ।पतिं कान्तमुपास्ते या सा भवेद् धर्मभागिनी ॥२८॥पुत्रिणी कन्यका माता चानपत्या च निष्फला ।पतिप्रिया पतिप्राणा या सा स्याद् धर्मभागिनी ॥२९॥दास्यं भृत्यत्वमेवापि कैंकर्यं कुर्वती च या ।शुश्रूषणं परिचर्यां कुर्वती धर्मभागिनी ॥३०॥विनीता कोमलवृत्तिः स्निग्धा पत्यौ स्थिराशया ।पत्यर्थकृतसर्वस्वा सा भवेद् धर्मभागिनी ॥३१॥न कामेषु न भोगेषु नैश्वर्येषु सुखेषु न ।स्पृहा यस्या यथा कान्ते सा साध्वी धर्मभागिनी ॥३२॥प्रागुत्थानप्रिया प्रातर्गृहसेवापरायणा ।सम्मार्जनप्रलेपादिशुद्धिपरा च या सदा ॥३३॥अग्निकार्यपरा चापि देवकार्यपरा तथा ।कर्तव्यार्थपरा या स्यात् सा भवेद् धर्मभागिनी ॥३४॥देवताऽतिथिभृत्यानां पत्युर्वृद्धजनस्य च ।यथापेक्षं प्रदत्त्वैव जलादि तोषयेत्तु या ॥३५॥तान् सर्वान् भोजयित्वैव शेषान्नं भुंक्त एव या ।तुष्टपुष्टकुटुम्बा च सा भवेद्धर्मभागिनी ॥३६॥श्वश्रूश्वशुरयोः पादौ सेवमाना नता सदा ।मातृपितृपरा नित्यं सा भवेद्धर्मभागिनी ॥३७॥साधून् दीनाननाथाँश्च बिभर्त्यन्नादिभिस्तु या ।यथाशक्ति स्वामिधर्मा सा भवेद्धर्मभागिनी ॥३८॥ब्रह्मिष्ठावत् पतिस्था या पत्यन्यं पुरुषं क्वचित् ।अपि चतुःखनिस्थं वै नेक्षते बद्धनेत्रिका ॥३९॥दुर्लभा तादृशी लोके विना लक्ष्मीं हृदि स्थिताम् ।विना सतीं शंभुहृत्स्थां चाऽदृश्यभावमास्थिताम् ॥४०॥व्रतं चरति या स्वाम्यं दुश्चरं पतिनोदितम् ।पतिचित्ता पतिहिता सा भवेद्धर्मभागिनी ॥४१॥पुण्यमेतत् स्वर्गमेतत् तपश्चैतद् व्रतं च तत् ।भर्ता ह्येव परो देवो यस्या नारायणः स्वयम् ॥४२॥पतिर्देवो हि नारीणां पतिर्गुरुः पतिर्गतिः ।पतिर्बन्घुः पतिर्भाग्यं पतिः प्राणः परायणः ॥४३॥पतिप्रसादः स्वर्गोऽस्ति निरयः पत्यतोषणम् ।अकार्यं चाप्यधर्मं वा प्राणनाशकरं च वा ॥४४॥पतिर्ब्रूयात् तथा कुर्यात् पातिव्रत्यं परो वृषः ।दारिद्र्यं व्याधिरापद्वा शत्रुता शापदग्धता ॥४५॥विचित्तत्वं च वा पत्युः सर्वं स्वानुगुणं क्रियात् ।सुभाग्यं सर्वमेवैतन्मत्वा सेवेत वै पतिम् ॥४६॥एवं सर्वस्वार्पणा या वर्तते पतिगामिनी ।आपद्धर्माननुप्रेक्ष्य सा प्रातिव्रत्ययोगिनी ॥४७॥पतिश्चाऽहं सदा साध्व्या यथा लोके विवाहितः ।साध्वी मदर्थमेवाऽत्र वर्तेत मत्परायणा ॥४८॥मदर्थस्नानशुद्धिश्च मदर्थाऽमलतान्विता ।मदर्थं च कृतवेषा मदर्थं रूपशालिनी ॥४९॥मदर्थसर्वसंस्कारा साध्वी मे वै पतिव्रता ।रक्ताम्बरा मदर्थं काषायवस्त्रा मदर्थिनी ॥५०॥पुण्ड्रचन्द्रादियुक्ता च मदर्थं गन्धयोगिनी ।मदर्थं पुष्पहारा च मदर्थं माल्यधारिणी ॥५१॥मदर्थं कण्ठपद्धस्तभूषा साध्वी पतिव्रता ।मदर्थं भोजनाहारा मदर्थं पानयोगिनी ॥५२॥मदर्थं कृतशृंगारा मदर्थं भोगवाहना ।मदर्थं कृदलंकारा साध्वी सा मे पतिव्रता ॥५३॥मदर्थं केशवेषा च मदर्थं कृतकञ्चुकी ।मदर्थं कृतशाटी च मदर्थं कटिवस्त्रिणी ॥५४॥मदर्थं करपादा च मदर्थकृतमस्तका ।मदर्थकृत्कबन्धा च मदर्थान्तरचारिणी ॥५५॥मदर्थगुणभावा च मदर्थानन्दवर्षिणी ।मन्नामगुणमग्ना च साध्वी सा मे पतिव्रता ॥५६॥मदर्थनित्यसत्त्वस्था मदर्थनित्यराजसी ।मदर्थरोधसंयुक्ता मदर्थस्नेहरक्षिणी ॥५७॥मदर्थहृदया नित्यं मदर्थकामकारिणी ।एवं वै वर्तमाना या सा मे हरिव्रता सती ॥५८॥अपि पुण्यमपि धर्मं कर्म चाचरणं शुभम् ।यद्वाऽन्यत् कुर्वती साध्वी शीलसौभाग्ययोगिनी ॥५९॥मत्परा स्यान्मद्विश्रान्ता मत्प्राणा मल्लयान्विता ।मन्मूर्तिरेव वर्तेत सा साध्वी मे हरिव्रता ॥६०॥मदर्थत्यागधर्मा च मदर्थसत्यशालिनी ।मदर्थं च कृतस्वापा मदर्थं जाग्रति स्थिता ॥६१॥मदर्थं व्यापृता चास्ते मदर्थं विनिवृत्तिका ।एवं मदर्थसन्तोषा मदर्थाऽहिंसनव्रता ॥६२॥मदर्थयज्ञसन्न्यासा मदर्थहोमसत्क्रिया ।मदर्थं ब्रह्मचर्यस्था मदर्थं चाऽपरिग्रहा ॥६३॥मदर्थशौचाचारा च मदर्थं तपआस्थिता ।मदर्थं स्वाध्यायपरा मदर्थोपासनायुता ॥६४॥मदर्थेन्द्रियव्यापारा मदर्थमानसा सदा ।मदर्थाऽहं चन्तना च मदर्थनिर्णयान्विता ॥६५॥मदर्थसत्त्वयत्ना च मदर्थभावनाश्रया ।मदर्थैश्वर्यसिद्धिश्च मदर्थध्यानसंस्थिता ॥६६॥मदर्थशुक्लमार्गस्था मदर्थाऽतिथिपूजना ।मदर्थपाचनकार्या मदर्थाहारगोचरा ॥६७॥मदर्थगृहशालाढ्या मदर्थगीतिकीर्तना ।मदर्थं नृत्यभावस्था मदर्थं च कथाश्रवा ॥६८॥मदर्थं च महोत्साहा मदर्थतीर्थचारिणी ।मदर्थं कृतयात्रा च मदर्थपुष्पवाटिका ॥६९॥मदर्थं कृतव्यापारा मदर्थक्रयविक्रया ।मदर्थं कृषियत्नाढ्या मदर्थं राष्ट्ररक्षिणी ॥७०॥मदर्थं सेवनं यस्या मदर्थं भृत्यतान्विता ।मदर्थं दास्यमापन्ना मदर्थं सर्वसंविधा ॥७१॥मदर्थगमनाऽऽदाना? मदर्थाऽऽलोचनान्विता ।एवं मदर्थतां प्राप्ता साध्वी सा मे हरिव्रता ॥७२॥मदर्थं कार्तिकव्रता मदर्थं पौषतापसी ।मदर्थं चैत्रपुण्याढ्या मदर्थं श्रावणीस्थिता ॥७३॥मदर्थं दीपदा चापि मदर्थं पंक्तिभोजना ।मदर्थं शिष्यतां प्राप्ता मदर्थं गुरुतां गता ॥७४॥मदर्थं सर्वशिष्याभिः समन्विताऽपि सेविका ।गुर्वी गुरुपदं प्राप्ता मन्मूर्तिश्चापि सा सती ॥७५॥साध्वी साध्वीसमाचारा सा साध्वी मे हरिव्रता ।एवंविधा त्यागधर्मा मम लक्ष्मि पतिव्रता ॥७६॥राधासख्यस्तथा लक्ष्मीसख्यः श्रीसख्य इत्यपि ।माणिकीसख्य एवापि सतीसख्यश्च याः शुभाः ॥७७॥सावित्रीसख्य एवापि सीतासख्यश्च यास्तथा ।भक्तिसख्यश्च याः सर्वा नारायण्यश्च या मताः ॥७८॥वासुदेव्यस्तथा कार्ष्ण्यो ब्रह्मप्रियाश्च यास्तथा ।वैष्णव्यो भगवत्यश्च ब्राह्म्यो मुक्तान्य इत्यपि ॥७९॥यास्तथा पारमेश्वर्यं ईशान्यश्चापि योषितः ।ईश्वर्यश्चापि सर्वास्ताः साध्व्यो मे वै पतिव्रताः ॥८०॥यासां यदर्थं सर्वस्वं कान्तार्थं सर्वमेव मे ।इत्यन्योन्यं साधुसाध्वीभावोऽहं परमेश्वरः ॥८१॥मां विना नहि साध्व्यस्तास्ता विना नहि चास्म्यहम् ।परस्परानुयोगस्था भोगमुक्तिप्रदा नृणाम् ॥८२॥देवानामीश्वराणां च सिद्धानां ब्रह्मवादिनाम् ।सर्वेषां देहिनः चापि भोगदा मुक्तिदा वयम् ॥८३॥निबोध लक्ष्मि माहात्म्यं ते सखीनां तवापि च ।ममापि मम मुक्तानां माहात्म्यं चावधेहि तत् ॥८४॥अहं सन् भगवान् साक्षात्परब्रह्मपरेश्वरः ।चित् साध्वी त्वं सतीवर्गा ब्रह्मप्रिया हरिप्रियाः ॥८५॥तद्योगेन सदानन्दो महानन्दाऽस्ति चावयोः ।शाश्वतानन्द एवाऽस्ति तद्भोक्ता मुक्त एव ह ॥८६॥अहं साधुः रमा साध्वी लक्ष्मीः सती सदाऽस्ति वै ।श्रीः सम्पत् माणिकी सौख्यं पञ्चैतद् दैवतं परम् ॥८७॥साधुः सर्वविधं सौख्यं ददाति च करोति च ।साध्वी सर्वविधं सौख्यं ददाति च करोति च ॥८८॥सती सत्यं वर्तयति सम्पद् भद्रत्वमुत्तम् ।रक्षत्येव ततः सौख्यं प्रवर्तत हि शाश्वतम् ॥८९॥सर्वदा मुक्तितुल्यं वै परब्रह्मभृतं महत् ।एवं लक्ष्मि सदा साध्वी पारब्राह्मी सती मम ॥९०॥सर्वानन्दपरिपूर्णा मोदते स्वामिना मया ।अनादिश्रीकृष्णनारायणेन परमात्मना ॥९१॥देहश्चाऽयं नरो नारी नात्मा नारी नरोऽपि वा ।आत्मारामा मुनयश्च साधवः साध्विकास्तथा ॥९२॥ब्रह्मात्मनिष्ठा मद्योगा मद्भावा मच्छ्रयास्तथा ।नरा नार्यः शेषभूतास्तेषु नारायणोऽस्म्यहम् ॥९३॥नरमाश्रयति या सा नारी चात्मा मदाश्रितः ।एवं सर्वे तथाऽऽत्मानो नार्यश्चाश्रयधर्मतः ॥९४॥आश्रयदो नरश्चाऽहं नारायणः पतिः प्रभुः ।एवं तत्त्वं विदित्वेह साध्वी सौभाग्ययोगिनी ॥९५॥मम कान्तां विदित्वा स्वां पातिव्रत्यं सदाऽऽचरेत् ।अलोककान्ता सा साध्वी कृष्णकान्ता पतिव्रता ॥९६॥लोके युवा भवेत् कान्तो युवत्या देहयोगतः ।अहन्तु सर्वदा कान्तो गर्भे बाल्ये च यौवने ॥९७॥वार्धक्ये मरणे चापि प्रेते लोकान्तरेऽपि च ।संसारे स्वर्गलोकादौ मोक्षेऽपि कान्त एव ह ॥९८॥सर्वात्मनां भवाम्येव सर्वात्मना हि शाश्वतः ।आत्मन्यहं सदा चास्मि नियामकोऽन्तरे स्थितः ॥९९॥तथा तत्रापि नित्यं वै कान्तोऽस्मि कान्तता मयि ।कान्तात्वं मम योगेन चात्मस्वेव हि विद्यते ॥१००॥एवं शाश्वतिकः कान्तः सर्वासां संभवाम्यहम् ।मत्कान्त्या कान्तिमन्तो वै मुक्ताः सर्वे तथेश्वराः ॥१०१॥देवाश्च मानवाद्याश्च तिर्यञ्चस्तरवोऽपि च ।जडाश्च चेतनाश्चापि माया च मायिका अपि ॥; १०२॥मत्कान्त्या कान्तिमन्तो ये ताः कान्ता मे निसर्गतः ।एवं कान्तात्मकं सर्वं वैधव्यं नास्ति वै क्वचित् ॥१०३॥तस्मात् साध्व्यो भजेयुर्मां कान्तं सौभाग्ययोजिताः ।एवं लक्ष्मि रहस्यं वै साध्वीनां तु मयेरितम् ॥१०४॥सर्वात्मनां चेरितं च गूढं तत्त्वार्थसंभृतम् ।तस्मान्मदो न कर्तव्यः पुमानहमिति क्वचित् ॥१०५॥आत्माऽहमिति कृत्वैव भजनीयः पतिः प्रभुः ।अनादिश्रीकृष्णनारायणश्चाऽहं पतिः परः ॥१०६॥साध्वीरहस्यमेतद्वै ज्ञात्वा ये यास्तथा प्रजाः ।मंस्यन्ते चाऽऽचरिष्यन्ति ते प्राप्स्यन्ति परां गतिम् ॥१०७॥भुक्तिं मुक्तिं तथाऽऽप्स्यन्ति सुखं चाऽऽनन्दमित्यपि ।मम योगं शाश्वतं च निर्वाणपदमुत्तमम् ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सतीसाध्वीनां पातिव्रत्यपराकाष्ठादिविज्ञाननिरूपणनामा सप्तसप्ततितमोऽध्यायः ॥७७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP