संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणाश्रि! त्वं परं तस्मात् कथामृतम् ।प्राकट्यं मे यथा ते च द्वात्रिंशे परमेष्ठिनः ॥१॥कल्पद्रुवत्सरे षट्पंचाशत्कल्पेऽष्टमे मनौ ।एकदा वै कुबेरस्य यक्षः सुवर्णमालिकः ॥२॥ययौ स्वर्गे विहर्तुं च ततो विष्णुपुरं ययौ ।सत्यलोकं ततो वीक्ष्य दिक्पालानां तथालयान् ॥३॥वीक्ष्य यमालयं द्रष्टुं ययौ संयमनीं पुरीम् ।तावत्तस्याऽऽयुषश्चाऽन्तो जातो मृत्युं गतो हि सः ॥४॥यक्षस्य यमराजः प्राऽकारयच्चान्तिमां क्रियाम् ।ज्ञात्वा कुबेरो यक्षस्य मरणं वै यमालये ॥५॥यमदूतैर्मारितश्चेत्यमन्यत ततो रुषा ।ज्वलन् सैन्येन सहितो यमस्थल्यां स्वयं ययौ ॥६॥योधयामास बहुधा यमेन सह वै तदा ।यमं जित्वा स्वर्णमालं निनाय स्वगृहं प्रति ॥७॥अथ राजा यमस्तूर्णमाह्वयामास निर्ऋतिम् ।राक्षसं सैन्यसहितं निर्ऋतोऽपि तलस्थितान् ॥८॥पातालादिनिवासाँश्च राक्षसान् युद्धशालिनः ।कोट्यर्बुदाऽब्जसंख्यानाह्वयामास स्वपक्षगान् ॥९॥कुबेरं तस्य राज्यं च जेतुं ययुश्च ते ततः ।युद्धवाद्यान्यवाद्यन्ताऽलकायाः सन्निधौ हि खे ॥१०॥ज्ञात्वा कुबेरकस्त्वेतन्निर्ययौ यक्षकोटिभिः ।युद्धं त्वाकस्मिकं तत्राऽभवत् सर्वविनाशकम् ॥११॥याम्यदूतैर्हता यक्षाः कोटिशो राक्षसैस्तथा ।कुबेरोऽपि हतः कण्ठाद् द्वेधा यमेन वै तदा ॥१२॥कुबेरराज्यं सर्वं स्वायत्तीकृतं यमेन तु ।निर्ऋतेन तथा राज्ये राक्षसा नियतीकृताः ॥१३॥अथ यक्षाः परे केचित् त्रस्ताः श्रीशानदिक्पतिम् ।इन्द्रं वरुणं वायुं च गत्वा न्यवेदयद्धि तत् ॥१४॥ते सर्वे त्वाययुस्तूर्णं कुबेरनगरीं प्रति ।दृष्ट्वा ते धर्मराजं वै तथा निर्ऋतमित्यपि ॥१५॥ईशानो निजशिष्यस्य कुबेरस्य च पक्षगः ।वैरनिर्यातनार्थं वै युद्धं चक्रे हि दारुणम् ॥१६॥महेन्द्रोऽपि तथा वह्निर्वायुर्वरुण इत्यपि ।कुबेरपक्षमादाय युद्धं चक्रुर्यमेन ते ॥१७॥अथ सूर्यः स्वपुत्रस्य यमस्य पक्षमावहन् ।स्वर्भानुश्च तथा शनिश्चरश्चान्येऽपि राक्षसाः ॥१८॥यमपक्षं परिगृह्य युद्धं ददुर्महोल्बणम् ।कोटिशश्च गणास्तत्र सुरा यक्षा हताः पुनः ॥१९॥अभ्यस्तयुद्धकर्माणो याम्या जयं गताः पुनः ।राक्षसा लेभिरे युद्धे विजयं याम्यपक्षगाः ॥२०॥क्रूराश्च क्रूरकर्माणो लोहघृष्टकरादयः ।लोष्ठाऽग्निशस्त्रयन्त्रास्त्रकोविदा निर्घृणा यमाः ॥२१॥मारयामासुरत्यर्थं वायुं चेन्द्रं जलाधिपम् ।ईशानं चानलं चापि भग्नास्ते नष्टसैन्यकाः ॥२२॥हाहाकारो महानासीज्जगत्यां सर्वशस्तदा ।देवास्त्रस्ता ययुः सत्यं गह्वराण्यपरे तथा ॥२३॥पृथ्व्यां स्वर्गे च सर्वत्र बलं पातालवासिनाम् ।दिक्पालानां प्रदेशेषु त्वभवद् वर्धितं तदा ॥२४॥लक्ष्मि! तदाऽन्तरीक्षं वै चकम्पे सर्वतो दिशः ।दिक्पालानां विवादेषु भृत्यकोट्यो हता मृताः ॥२५॥यमराजोऽभवद् राजा चाऽलकायाः समन्ततः ।अस्तित्वं वै कुबेरस्य निष्कासितं समन्ततः ॥२६॥निर्ऋताः राक्षसाः सर्वे यमाश्चार्कः शनिस्तथा ।राहुश्चाऽन्ये परे चापि बभूवुः स्वबलैधिताः ॥२७॥स्वतन्त्रा इव त्रैलोक्यां घ्नन्ति विरोधशालिनः ।निष्कासयन्ति चाऽनम्रान् देवादीन् निजवासतः ॥२८॥एवं जातं स्वर्गलोके चाऽव्यवस्थं मिथोऽपि च ।दिक्पालानां बलं नष्टं यमदण्डस्य सन्निधौ ॥२९॥इन्द्राज्ञायां न वर्तन्ते सूर्यचन्द्रादयोऽपरे ।सुरास्तदाश्रिताश्चापि स्वर्गं वै परगं ह्यभूत् ॥३०॥अथैवं वीक्ष्य कमले! ईशानेन्द्रानलानिलाः ।वरुणश्च परे देवा महेन्द्रगृहमाययुः ॥३१॥चक्रुश्च मन्त्रणां तत्र किंकर्तव्यविहीनकाः ।ब्रह्माणं सस्मरुश्चापि विष्णुं सस्मरुरीश्वराः ॥३२॥शेषं प्रसस्मरुश्चाप्याययुस्ते परमेश्वराः ।शुश्रुवुस्ते कुबेरस्य नाशं चान्यपराजयम् ॥३३॥विजयं धर्मराजस्य शोकं चक्रुः क्षणं तदा ।धर्मराजगृहे तत्राऽन्यायो नैव भवेदिति ॥३४॥कारणं सर्वमेवाऽपि ज्ञात्वा यक्षस्य वै मृतिम् ।न्याय्यामन्यायमालम्ब्य कुबेरस्य तु योधनम् ॥३५॥कम्पयित्वा शिरांस्येते मेनिरे न जयं पुनः ।यत्राऽन्यायो न विजयस्तत्र संभवति क्वचित् ॥३६॥कुबेरस्याऽन्यायभाक्त्वे मृत्युश्चाऽयं न संशयः ।चतुर्दशानां लोकानां देहिनां नायको यमः ॥३७॥आयुष्यान्ते नयत्येव तत्र का परिदेवना ।इन्द्रं वायुं जलेशं चेशानं वह्निं तयेश्वरान् ॥३८॥नयत्येव यमेशो वै का कथाऽन्यस्य वै मृतेः ।'तस्माद् यमाय देवाय देवो वै विजयोऽत्र ह ॥३९॥अस्माभिस्तु प्रमन्तव्यः पराजयोऽत्र कर्मणि ।कुबेरो दिक्पतिर्भूत्वा त्वन्यायं कुरुते यदि ॥४०॥तत्पक्षाणां हि सर्वेषां दुःखं स्याद् वर्धितं पुनः ।तस्मादत्र न विष्णोश्च शेषस्य वेधसोऽपि च ॥४१॥अन्येषामपि चातुर्यं जयमेष्यति वै सुराः ।अतस्तत्र न गन्तव्यं यत्राऽऽस्ते यमराट् स्वयम् ॥४२॥अलकायां विशेषेण सर्वनाशाय भो सुराः ।किन्तु देवाधिदेवानामीश्वराणां महेश्वरः ॥४३॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।अक्षराधिपतिः श्रीशः श्रीहरिः परमेश्वरः ॥४४॥स्मर्तव्यस्त्वत्र वादे वै निर्णयं स विधास्यति ।इन्द्रगृहे महासत्रं कुर्वन्तु प्रजयात्मकम् ॥४५॥परमेशस्य भो देवाः स्वयमायास्यति प्रभुः ।इत्युक्तास्ते हराद्याश्च देवा इन्द्रालये तदा ॥४६॥जपसत्रं प्रचक्रुश्च देवेश्वराश्च सर्वशः ।'हरेकृष्ण हरेविष्णो परमेश परात्पर ॥४७॥अनादिश्रीकृष्णनारायण रक्ष परेश्वर' ।सततं कीर्तनं चक्रुर्देवानां पूर्णवत्सरम् ॥४८॥इन्द्रस्य वत्सरान्ते श्रीहरिश्चाऽहं समाययौ ।गोचरः सर्वदेवानां शंखचक्रादिमान् प्रभुः ॥४९॥त्वया साकं तदा लक्ष्म्या सर्वभूषाढ्यया प्रिये! ।देवा मामनुसंवीक्ष्याश्चर्थपराः सुसत्वरम् ॥५०॥उत्थाय नेमुर्बहुधा चक्रुश्च पूजनं मम ।मधुपर्कं ददुश्चापि सत्कारं च दधुस्ततः ॥५१॥महासनं ददुस्तत्रोपाविशं च त्वया सह ।न्यवेदयँश्च ते सर्वमुदन्तं धनरक्षिणः ॥५२॥यक्षाणां नाशनं चापि निजानां च पराजयम् ।यमस्य विजयं चापि स्वर्गे स्वतन्त्रतां तथा ॥५३॥अव्यवस्था च देवेषु शुश्रावाऽहं च पद्मजे ।क्षणं ध्यानं तदा कृत्वाऽवोचं दिक्पालकानिदम् ॥५४॥भवद्भिर्वै मया साकं गन्तव्यं यत्र वै यमः ।कुबेरस्य नगर्यां हि सर्वं सौख्यं भविष्यति ॥५५॥साम्ना वादस्य सर्वस्य नेष्येऽन्तं प्रसुखावहम् ।इत्युक्त्वाऽहं त्वया साकं सर्वैर्देवगणैः सह ॥५६॥अगच्छं त्वलकाभूमौ यमनैऋतसन्निधौ ।श्रुत्वा मां स तु तूर्णं वै त्रस्तमना उपाययौ ॥५७॥पद्भ्यां मत्सन्निधौ लक्ष्मि! भयं प्रापाऽप्यचिन्तयम् ।पादप्रक्षालनं चक्रे पपौ वार्यमृतं मम ॥५८॥स्वागतं प्रददौ चाप्यासनं वाद्यान्यवादयत् ।दासवत् सर्वदेवानां पश्यतां प्रजगाद माम् ॥५९॥अपराद्धं मया कृष्ण! कुबेरो मारितो मया ।नगरीयं कृता वश्या क्षमस्व पुरुषोत्तम ॥६०॥अन्यायमार्गिणां दण्डोऽवश्यं भवति केशव ।यद्यहं स्यां तथा तर्हि दण्डो मय्यपि धीयताम् ॥६१॥इत्युक्त्वा शरणं प्राप्य पपात पादयोर्मम ।अन्यायेन विहीनस्य दण्डो नैव हि युज्यते ॥६२॥कुबेरोऽयं मारितो यत् तन्न योग्यं भवेदिह ।यक्षेश्वरो जीवनीयो जीवनीया गणा अपि ॥६३॥सुराद्या जीवयितव्या ये हता आहवे यम ।कुबेरस्य पुरी तस्मै दातव्या पुनरेव ह ॥६४॥त्वया धर्म प्रगन्तव्यं यमराजपुरीं प्रति ।संयमनीं सदा रक्ष माऽन्यगृध्नां समाचर ॥६५॥इत्युक्तश्च मया धर्मराजोऽयाचत वै क्षमाम् ।पदं कौबेरकं त्यक्त्वा प्रस्थानमकरोत् ततः ॥६६॥मया लक्ष्मि! कुबेरस्याऽऽवाहनं तत्र वै पुनः ।कृतं मानसपुत्रो मे जज्ञे धनाधिपस्ततः ॥६७॥वैष्णवः परमो भक्तो यक्षाश्च जज्ञिरे पुनः ।अन्ये मृताः सुराः सर्वे जज्ञिरे मानसा मम ॥६८॥सुता देवादयस्ते वै मामानर्चुर्मुदान्विताः ।मयाऽर्पितं कुबेराय मानसाय पदं पुनः ॥६९॥तेनाऽर्थितस्तदा चाऽहं नित्यवासार्थमेव ह ।स्वर्णवत्यां नगर्यां वै न्यवसं स्वर्णवर्णवान् ॥७०॥शंकराद्याः पूजयित्वा ययुस्ते स्वपदानि हि ।यमो ययौ याम्यपदं चाऽन्ये ययुर्निजालयान् ॥७१॥कुबेरस्य नवीने तूद्भवे तस्य महोत्सवः ।मया कृतः स्वर्णपुर्यां पूजितो वर्धितस्तथा ॥७२॥त्वं सदा कानकीलक्ष्मीर्मया साकं विराजिता ।अनादिश्रीस्वर्णनारायणेन सार्धमीश्वरी ॥७३॥आकल्पान्तं न्यवसं वै स्वर्णवत्यां परेश्वरः ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥७४॥सर्वेषां लोकपालानां दिक्पालानां नियामकः ।सर्वरक्षाकरः साक्षाच्छ्रीपतिः परमेश्वरः ॥७५॥स्मर लक्ष्मि सुवर्णे त्वं प्राकट्यं मे च ते तदा ।राजराजेश्वरीरूपं सर्वानन्दपरिप्लुतम् ॥७६॥अथ सूर्यादयश्चान्ये देवा यमानुगा अपि ।क्षमाप्य मां भजन्ते स्म स्वर्णनारायणं ततः ॥७७॥हिरण्यवर्णं पुरुषं स्वर्णश्मश्रुं यमार्दनम् ।दिक्पालानां नियन्तारं विनेतारं विरोधिनाम् ॥७८॥क्लेशानां शान्तिकर्तारं दातारं सम्पदां तथा ।दग्धारं पापपुञ्जानां हर्तारं विपदां च माम् ॥७९॥पूजयन्ति हि देवाद्याः परमेशं सनातनम् ।परव्रह्माऽक्षरातीतं सत्पतिं मुक्तसेवितम् ॥८०॥पठनाच्छ्रवणाच्चास्य स्मरणादपि मुक्तिभाग्।भुक्तिभागपि जायेत स्वर्णश्रि नाऽत्र संशयः ॥८१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वात्रिंशे वत्सरे यमेन मारितस्य कुबेरस्योज्जीवनार्थम् अनादिश्रीस्वर्णनारायणस्य कानकीश्रीसहितस्य प्राकट्यमित्यादिनिरूपणनामा सप्तविंशतितमोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP