संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं भक्तस्य पिशुनस्य वै ।कथां संभलनगरे स्थितस्याऽऽत्मनिवेदिनः ॥१॥नान्नाऽभवद् वाटधरो भक्तो नृपस्य सेवकः ।सुतारसिंहनाम्नस्तु सेवकः पृथिवीपतेः ॥२॥कुशलो राजनीत्यां च चतुरो राजरञ्जने ।कृतश्रमो व्यवहारे शास्त्रे विनिमयादिषु ॥३॥प्रसादभूतो राज्ञश्च राज्ञ्या मानस्य चाश्रयः ।राणकुटुम्बभक्तश्च खवासवर्णमूर्द्धगः ॥४॥पश्यति तीक्ष्णया बुद्ध्या करोति मतिना तथा ।विचारयति ज्ञानेन प्रज्ञया मन्त्रयत्यपि ॥५॥अर्थावधारिणी बुद्धिर्मतिरागाभिगोचरा ।ज्ञानं विवेकवैशद्यं प्रज्ञा तु प्रतिभा नवा ॥६॥एवं वाटधरे चास्ते विज्ञानं कोविदे यथा ।असाध्यस्य तु कार्यस्य वाटं मार्गयति ध्रुवम् ॥७॥पारं करोति कार्यस्य प्रशस्तोऽतो नृपादिषु ।यथा वृद्धो यथा मन्त्री यथा न्यायी यथा गुरुः ॥८॥एवंविधोऽयं वाटध्रो यद्यपि श्रेष्ठनीतिमान् ।तथापि प्रकृतिवशः पैशुन्यं चरति क्वचित् ॥९॥राज्ञ्या नृपाय नृपते राज्ञ्यै नृपस्य मन्त्रिणे ।मन्त्रिणस्तु प्रजाभ्यश्च राज्ञ्यै नृपाय वै क्वचित् ॥१०॥अप्रकाशं यथा तत्स्यान्न जानीयु परे तु तत् ।एक एव विजानीयाच्छ्रोता तथा वदत्यसौ ॥११॥अथैकदा तु संक्रान्तौ दानं राज्ञी ददौ बहु ।विप्रेभ्यो दीनवर्गेभ्यः साधुभ्यो भोजनादिकम् ॥१२॥प्रच्छन्नं मणिरत्नादि राजा जानाति नैव यत् ।निजहस्तगतं द्वैपीराज्ञी दानं ददौ धनम् ॥१३॥वाटधरो विजानाति द्वैप्या दातुं नियोजितः ।दानोत्तरं भोजनं च राज्ञी सद्भ्यो ददौ शुभम् ॥१४॥साधवो भुञ्जते भोज्यमिष्टान्नानि हरिश्रिताः ।तत्र विरक्तश्चैकोऽभूद् घट्ययनाभिधो यतिः ॥१५॥वसति घटिकामात्रमेकस्थले तु नाधिकम् ।तस्य वै भोजने तत्र जायमाने तु पंक्तिशः ॥१६॥जातास्य घटिका पूर्णोत्थाय विहाय भोजनम् ।ययौ वृक्षान्तरं तत्र घटिकां तस्थिवान् पुनः ॥१७॥जलं पीत्वा पुनस्तस्मादन्यस्थलं ययौ हि सः ।एव स घटिकां स्थित्वा याति स्थलान्तरं मुहुः ॥१८॥वाटधरो विलोक्यैनं त्यक्तभोज्यं च चञ्चलम् ।साये सम्मृग्य यत्राऽऽस्ते तत्र तं प्राप्तवान् द्रुतम् ॥१९॥गत्वा नत्वा फलं प्रार्प्य वन्दनं संविधाय च ।पप्रच्छ कारणं तत्र चाञ्चल्यस्य नमन् मुहुः ॥२०॥घट्ययनस्तु तं प्राह लक्ष्मि चाञ्चल्यकारणम् ।एक्रत्र' घटिकोर्ध्वं त्वस्थायित्वं सद्गुणोऽस्ति सः ॥२१॥बन्धनं न भवेत् क्वापि रागः क्वापि न जायते ।ममता जायते नैव वैराग्यः सर्वदा भवेत् ॥२२॥अपरिग्रह एवापि व्रतं तेन तु रक्ष्यते ।चिरं वासस्तु बन्धाय चिरवासं न चाचरेत् ॥२३॥जले स्थले पादपे वा चिरवासो भयावहः ।साधूनां गोदोहमात्रं घटीमात्रं स्थिरासनम् ॥२४॥घट्यासनं तु मायायां श्रीकृष्णे शाश्वतासनम् ।विदित्वैवं विवेकेन चाञ्चल्यं नियमो मम ॥२५॥संगात् सञ्जायते स्नेहः स्नेहाच्च ममता भवेत् ।तयाऽऽसक्तिस्तया तत्र वासना जायते मुहुः ॥२६॥सहवासो बन्धनं वै वियोगो मोक्षणं परम् ।वासना सर्वथा त्याज्या संगस्त्याज्यो महात्मना ॥२७॥निर्वासनत्वमाप्तब्यं वैराग्येण विवेकिना ।भगवन्निष्ठायुक्तेन चात्मनिष्ठायुतेन च ॥२८॥दुःखदोषानुदृष्ट्या च विनिर्वासनता भवेत् ।अहमात्मा हरेर्भक्तो न मायाया न कर्मणाम् ॥२९॥सच्चिदानन्दरूपोऽहं भिन्नो नश्वरवर्ष्मणः ।अक्षरेशस्य कृष्णस्य दृढाश्रययुतोऽस्म्यहम् ॥३०॥मायायां मे न वै रागो रसो नेन्द्रियगोचरे ।आन्तरे श्रीवासुदेवे वसाम्यानन्दयामि च ॥३१॥एवं विवेकिनो नित्यं दृढवैराग्यशालिनः ।श्रेष्ठविषययोगेऽपि रागाङ्कुरो न जायते ॥३२॥रमणीये दिव्यभोगे वर्तमानोऽपि चोन्मनाः ।असंग्युदासीन आस्ते स निर्वासनको मतः ॥३३॥सतां गुणाँश्च गृह्णीयुर्विजानीयुश्च दिव्यताम् ।तेऽपि दिव्यगुणाढ्याः स्युर्मायाविजयिनः सदा ॥३४॥ये तु सतां प्रगृह्णन्ति दोषानवगुणाँस्तथा ।कामादिकाँस्तुं ते कामाद्यावृत्ताः संभवन्ति वै ॥३५॥कामाद्यैः पीड्यमानास्ते भ्रमन्ति चातिदुःखिनः ।न मोक्षं नापि सुस्वर्गमैहिकं वाऽऽप्नुवन्ति ते ॥३६॥आप्नुवन्ति हि नरकान् निन्दकाः पापिनः खलाः ।नरा नार्यः सतां संगे मन्वते दिव्यतां तु ये ॥३७॥ते यान्ति ब्रह्मपरमं दिव्यभावातिवर्धिताः ।तदिन्द्रियाणि मायायां कुण्ठितानि भवन्ति हि ॥३८॥राजा वा स्याद् गृहस्थो वा समृद्धो भोगवानपि ।ज्ञानमीदृक् समालभ्य विषयोर्ध्वे स वर्तते ॥३९॥ प्रारब्धपुण्ययोगेन चास्ते विषयमध्यगः ।तथापि साधुवच्चास्ते योगीव लेपवर्जितः ॥४०॥ भुञ्जन्नपि ह्यभोक्तैव जलं सरोजनी यथा ।अम्ब्लदन्तश्चणकानां यथा करोति चर्वणम् ॥४१॥तथा विषयग्रहणे शक्तो नैव प्रजायते ।वासना लीयते तेन कुण्ठितस्य तु मायिकी ॥४२॥मायारसं मनाग् वेत्ति यस्तस्य वासना नहि ।अपसर्पति हृदयान्मायारसं त्यजेत्ततः ॥४३॥प्रत्यक्षभगवन्मूर्तौ जानीयात् सर्वपूर्णताम् ।तेनैव सर्वकार्याणि सिद्ध्यन्ति भक्तयोगिनः ॥४४॥कृत्वा सत्संगमेवाऽत्र ज्ञातव्यं त्वेतदेव यत् ।एवं ज्ञातुर्हरिः सर्वं साधयत्येव वाञ्छितम् ॥४५॥हरौ मनोऽर्पयितुश्च नश्यन्ति वासनास्त्विह ।येनाऽर्पितं मनः कृष्णे तस्य कृष्णं विना क्षणम् ॥४६॥युगायते वियोगे वा दाहः स्याद्धृदये महान् ।कृष्णेप्राप्ते भवेच्छान्तिर्दिदृक्षा वर्धतेऽन्वहम् ॥४७॥कृष्णप्रतापश्रवणे प्रीतिर्भूरितरा भवेत ।कृष्णसम्बन्धिकार्येषु रुचिः श्रेष्ठतया भवेत् ॥४८॥कृष्णादेशस्याऽऽचरणे सदा तत्परता भवेत् ।एवंविधो दूरगोऽपि वर्तते माधवान्तिके ॥४९॥आज्ञोल्लंघनकारी तु प्रेमहीनो ह्यनर्पितः ।सहस्थितोऽपि दूरवद् बोध्यः स्वार्थी खलाऽधिपः ॥५०॥तस्माद् यथा स्वहृदये वसति माधवः प्रभुः ।तथाऽऽत्मना विधातव्यो वासोऽक्षरे पदेऽस्य वै ॥५१॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।एवं मन्त्रं रट नित्य पूजयाऽच्युतमीश्वरम् ॥५२॥ 'हरे कृष्ण बालकृष्ण नारायण रमापते ।अनादिश्रीकृष्णनारायण विष्णो जगत्पते ॥५३॥एवं नित्यं भजनं श्रीहरेः श्रावय संगिने ।प्राज्ञे राज्ञै प्रजाभ्यश्च तेन श्रेयो भविष्यति ॥५४॥इत्येवं लक्ष्म्युपदेशं ददौ वाटधराय सः ।धट्ययनो हरेर्दासः साधुः सद्गुणभूषणः ॥५५॥वाटध्रोऽपि गृहं गत्वा भेजे यथानिवेदितम् ।भजनं च तथा चक्रे हरे कृष्णेति नित्यशः ॥५६॥घट्ययनस्तु प्रययौ ग्रामान्तरं हरिं स्मरन् ।वाटध्रस्तु महाभक्तो जातो मोक्षकरो यथा ॥५७॥राज्ञे राज्ञ्यै प्रजाभ्यश्च ददौ मन्त्रं हि मोक्षदम् ।भजनं कारयामास हरे कृष्णेति सर्वथा ॥५८॥भक्तियुक्तस्य लोकेऽत्र सद्गुणाः संभवन्ति वै ॥तथापि दुर्गुणो जातिस्वभावो न निवर्तते ॥५९॥यद्यपि स्यान्महाभक्तो यथा वै गरुडस्तथा ।.सर्पभक्षित्वमेतस्य जातिगुणो न नश्यति ॥६०॥वानरा रामभक्ताश्च पशुधर्मान् त्यजन्ति न ।सिंहो भक्तोऽपि पार्वत्या हिंसनं न जहाति सः ॥६१॥क्षत्रियो विष्णुभक्तोऽपि संग्रामं न जहाति सः ।किरातो विष्णुभक्तोऽपि वन्यरीतिं जहाति न ॥६२॥गौः श्रीकृष्णस्य भक्ताश्च रम्भणं न जहत्यपि ।खवासोऽयं विष्णुभक्तः पिशुनत्वं जहौ न च ॥६३॥परगुप्तं शत्रवे वाऽन्यस्मै गुणाऽगुणात्मकम् ।प्रच्छन्नमिव वक्तव्यं तद्वै पिशुनता मता ॥६४॥यत्फलं जायते क्लेशो युद्धं कलह इत्यपि ।वैमनस्यं समुद्वेगः क्रोधो वा नाशनं ह्यपि ॥६५॥तरमात् कार्यं न पैशुन्यं कस्यचिच्चापराय ह ।गुणानां दर्शनं कार्यं न तु दोषप्रदर्शनम् ॥६६॥गुणग्राही सुखं याति जायते पुण्यवानपि ।दोषग्राही भवेद् दुःखी जायते पापवानपि ॥६७॥हानिप्रदं हि पैशुन्यं शिक्षणं तु गुणप्रदम् ।पैशुन्यं नैव कर्तव्यं कर्तव्यं शिक्षणं क्वचित् ॥६८॥योग्यता चेद्भवेत्तर्हि नान्यथा शिक्षणं ह्यपि ।पित्रे मात्रे तथा भ्रात्रे स्वस्रे ननान्द्रे योषिते ॥६९॥पतये बन्धवे शिष्यायाऽपि पुत्र्यै सुताय वा ।वध्वे वृद्धाय बालाय वक्तव्यं पिशुनं नहि ॥७०॥राज्ञे राज्ञ्यै ह्यमात्याय राजपुत्राय सर्वथा ।प्रजाभ्यो नैव वक्तव्यं पैशुन्यं नृपतेः क्वचित् ॥७१॥खवासजातिदोषेण पैशुन्यमेकदाऽकरोत् ।राज्ञे निवेदयामास राज्ञ्या दानं कृतं त्विति ॥७२॥गुप्तं हीरकरत्नादि दत्तवती द्विजातये ।साधुभ्यो भोजनं चापि भूषाश्च प्रददाविति ॥७३॥अथ राजा गुप्तधनं दाने दत्तं विदित्य च ।राज्ञीमाहूय पप्रच्छ वद दत्तं धनादिकम् ॥७४॥अनाज्ञया प्रदत्तं यन्नेष्टं कृतं हि तन्मम ।प्रच्छन्नं ते धनं सर्वं तवार्थं रक्षितं सदा ॥७५॥न दानार्थं भवेत्तद्वै दत्तं तन्नोचितं कृतम् ।नार्या विहाय पत्याज्ञां न कर्तव्यं तु किञ्चन ॥७६॥यातु तै पितरं राज्ञि प्रच्छन्ना न प्रिया प्रिया ।प्रच्छन्नव्ययकर्त्री या सा क्वचित् सर्वनाशिनी ॥७७॥प्रजायेत मया नैतादृशी रक्ष्या गृहे प्रिया ।याहि स्वपितरं देवि वस तत्र चिरं सुखम् ॥७८॥इत्युक्ता सा बहुशोकं प्राप्ता रुरोद भामिनी ।अथ राजा खवासस्य द्वाररूपस्य दानके ॥७९॥दण्डं व्यधाद्धि सर्वस्वहारकं निगडेऽकरोत् ।कर्ता कारयिता चानुमोदयिता समोऽनये ॥८०॥इति राजा ददौ दण्डं जहार गृहवाटिकाः ।धनद्रव्यं जहाराऽपि भक्तस्य वाटधारिणः ॥८१॥वाटध्रोऽपि हरिं भेजे निगडस्थोऽतिदीनवत् ।राज्ञी मानविहीना च स्वसौधेऽशनवर्जिता ॥८२॥व्रतस्था ह्यभवत्तूर्णं मर्तुकामा तु वैष्णवी ।दानधर्मे न वै दुःखं कथं दुःखमुपस्थितम् ॥८३॥दुःखहरो हरिकृष्णो दुःखं मे व्यपकर्षतु ।इत्येवं मम मूर्त्यग्रे कृताऽनशनिका स्थिता ॥८४॥निगडस्थोऽपि वाटध्रस्तथैवाऽनशने स्थितः ।दानकार्ये न वै दण्डो भवेन्मत्वा हरिं प्रतिं ॥८५॥निवेद्य दुःखमुत्पन्नं दध्यौ स्वहृदये प्रभुम् ।प्रकाशेऽपि स वृत्तान्तः प्रससार प्रजादिषु ॥८६॥प्रजासु विप्रवर्गेषु साधुषु प्रमदासु च ।शोको विवेश सहसा राज्ञा योग्यं न तत्कृतम् ॥८७॥एवं वार्ता तु सर्वत्र प्राचरद् दानशंसिनी ।दानं धर्मो हि राज्ञां वै राज्ञ्या कृतं शुभं कृतम् ॥८८॥राज्ञो द्रव्यस्य नास्त्येव न्यूनता राज्यभोगिनः ।इत्येवं वै प्रजास्वेवाऽभवद् वार्ताऽतिशोभना ॥८९॥राज्ञीदुःखविनाशार्थं वाटधारस्य शान्तये ।प्रजाश्चापि हरिं स्मृत्वाऽऽशीर्वादान् सुखदान् ददुः ॥९०॥विगतेऽनशने तत्र सप्ताहे निशि माधवः ।अनादिश्रीकृष्णनारायणोऽहं निगडालये ॥९१॥भक्तरक्षाकरोऽगच्छं राज्ञ्याश्च मन्दिरे तथा ।शंखचक्रगदापद्मकिरीटहारशोभितः ॥९२॥दत्वा स्वदर्शनं दुग्धपानं राज्ञ्यै ददावहम् ।वाटध्राय ददावेव दुग्धपानं ततः परम् ॥९३॥आश्वासनं प्रदायैव राजसौधमुपाययौ ।विप्ररूपोऽतितेजस्वी धर्मशस्त्रविदां वरः ॥९४॥राजाऽऽसनं ददौ मे च मया पृष्टो निरामयम् ।अक्लेशं च कुटुम्बस्य स चाह मां तु सामयम् ॥९५॥वृत्तान्तं कथयामास क्लेशस्य कारणं नृपः ।उपादिशं ततो राज्ञे स्त्रीधने स्त्री स्वतन्त्रिका ॥९६॥तत्रापि दानरूपे तु योग्या सा पुण्यकारिणी ।पतिस्तरति नार्या वै धर्मिण्या भक्तियोषिता ॥९७॥गोदानं रत्नदानं च भूषादानं हि तारयेत् ।पतिं नृपं महापापं श्रेष्ठदानं हि तारयेत् ॥९८॥तस्माद् राजन् सतीं नारीं प्रमानय यथोचितम् ।वाटध्रं मानय चापि सत्कार्यकारिणं त्विह ॥९९॥इत्युक्त्वा तैजसा व्याप्तमदर्शयं स्वयं स्वकम् ।रुपं राज्ञे मुमुदाऽसौ राजा पपात पादयोः ॥१००॥ययाचे स क्षमां चापि मोक्षं नारायणालये ।अदृश्योऽहमभवं च पूजामादाय यत्कृताम् ॥१०१॥राजा राज्ञीं खवासं च मानयामास सत्कृतैः ।उत्सवं कारयामास दानशंसां शुभां तथा ॥१०२॥कलहं शान्तयामास स्नेहभाषणदानकैः ।प्रत्यर्पणैस्तु वाटध्रायाऽपि मानं व्यधात्तथा ॥१०३॥एवं लक्ष्मि मया भक्ता राज्ञी तदा सुरक्षिता ।मर्तुकामा मूर्छिता सा क्षुधया दुग्धपायिता ॥१०४॥वाटधरोऽपि मे भक्तो रक्षितो राजदण्डतः ।अथ काले समापन्ने राजानं भक्तिवेदिनम् ॥१०५॥राज्ञीं वाटधरं चापि विमानेनाऽनयं निजम् ।अक्षरं परमं धाम पैशुन्यवर्जितं ततः ॥१०६॥पठनाच्छ्रवणादस्य स्मरणात् पापनाशनम् ।भुक्तिं मुक्तिं लभेच्चापि स्वर्गं स्वेष्टं परं रमे ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वाटधरस्य पिशुनखवासस्य तथा द्वैपीराज्ञ्याश्च सुतारसिंहनृपतेर्दण्डाद् भगवता कृतं रक्षणं मोक्षणं चेत्यादिनिरूपणनामा विंशत्यधिकद्विशततमोऽध्यायः ॥२२०॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP