संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ९८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ९८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९८ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-महत्यापद्गतस्यापि यथोद्धारो द्रुतं भवेत् ।तथा मे दर्शय कृष्णकान्त लोकहिताय वै ॥१॥श्रीपुरुषोत्तम उवाच-प्रणमामि सदा सद्भ्यो येषां ब्रह्मपरं धनम् ।येषां करतले स्वर्गो मोक्षोऽपि वचने स्थितः ॥२॥ये बाला वा युवानो वा वृद्धा वा साधवोऽमलाः ।उद्वहन्ति हरेर्भक्तेर्धुरं नमामि तानहम् ॥३॥ब्रह्मविद्यासु निष्णाता विनीता वशमानसाः ।ब्रह्मभाषाः श्रुतवन्तो व्रतिनः साधुभूषणाः ॥४॥अक्षरब्रह्मरूपाणां संसत्सु ब्रहावादिनः ।मांगल्यरूपा रुचिरा ये तान्नमामि सज्जनान् ॥५॥ये तेषामपि संसेव्या ब्रह्मसदसि चाग्रगाः ।विज्ञानध्यानसम्पन्नास्तेभ्योऽधिस्पृहयाम्यहम् ॥६॥सत्सु शुश्रूषमाणेषु प्रेत्य चेह सुखं महत् ।सर्वापदां विनाशश्च त उद्धारकराः शुभाः ॥७॥सुसंस्कृतानि चान्नानि शीतानि सलिलानि च ।रम्याणि चाम्बराण्येभ्यो दातव्यानि सदा रमे! ॥८॥धन्यः स्याद् यः साधुकुले जन्म लभेत पुण्यवान् ।भवेद् यश्चोत्तरे काले कोटिदेहिप्रमोक्षदः ॥९॥न मे त्वत्तः प्रियतरा लक्ष्मि काऽपि भुवस्तले ।ब्रह्मप्रियाः प्रियाः सर्वाः सन्त प्रियतमा मम ॥१०॥न मे पितरौ कमले तथा प्रियतरौ त्विह ।यथा मे साधवः शान्ताः प्रियोत्तमोत्तमाः सदा ॥११॥महत्यापद्गतस्याऽपि साधवोऽत्र शुभावहाः ।भजनीयाः पूजनीयाः सुराणामपि देवताः ॥१२॥सात्त्वतश्चेति मां लोकाः प्राहुस्तुष्यामि तेन च ।सतां योगेन साध्वीशं मामाहुर्भक्तिकारिणः ॥१३॥यथा भर्त्राश्रयो धर्मो नारीणां विद्यते तथा ।सर्वेषां तु सदाचारः साध्वाश्रयो वृषो मतः ॥१४॥विप्रक्षत्रविशां चापि साधवो गुरवो मताः ।देववत् कृष्णवत् पूज्याः सेवनीया हि साधवः ॥१५॥अग्निवत् सेवनीयास्ते ब्राह्मणैः साधवोऽमलाः ।साधूनां सेवनैस्तिष्ठेद् ब्राह्मण्यं सर्वपावनम् ॥१६॥पत्यभावे यथा नारी देवरं कुरुते पतिम् ।प्रजास्तथा साध्वभावे प्रतिमां कुरुते प्रभुम् ॥१७॥ऋजून् सतः सत्यशीलान् सर्वप्राणिहिते रतान् ।सुहृदः सर्वजीवानां साधून् परिचरेत् सदा ॥१८॥राजा स्वजनकं यद्वद् रक्षेत् साघुजनं तथा ।आश्रमे चान्ववेक्षेत किंस्विदस्तीति जीवनम् ॥१९॥ब्रह्मिष्ठान् ब्रह्म च तथा सर्वथा पालयेद् धनी ।भिक्षातृप्तसतामाशीर्वादानासादयेद्धनी ॥२०॥प्रतिश्रुत्य न दातव्यं तदेव नरकं महत् ।आशाहन्तुर्हि यत्पापं सर्वसुकृतनाशकम् ॥२१॥हुतं दत्तं तपस्तप्तं चाशाहन्तुर्विहन्यते ।आशादानं त्वश्वमेधयज्ञपुण्यं करोति वै। ॥२२॥आशापूर्तिर्विष्णुयागसहस्रफलदा भवेत् ।तस्मादाशां प्रदायैतां पूरयेच्च यथाबलम् ॥२३॥एकदा श्वपचगृध्रौ श्मशाने मिलितौ तदा ।गृध्रं परासुं खादन्तं पप्रच्छ श्वपचः शनैः ॥२४॥किं त्वया वै कृतं पापं यदश्नासि प्रपूतिकम् ।कुत्सितं मृतकं चातिदुर्गन्धं क्लेदितं त्विह ॥२५॥गृध्रः प्राह पुरा चाऽहमभूवं लोभवान् धनी ।प्रतिश्रुत्याऽपि च ददौ नैव वाऽपूर्णमेव वा ।तेन पापेन संजातो गृध्रश्चात्र श्मशानगः ॥२६॥तस्मादेवं चातिदुष्टं भक्षयामि बुभुक्षितः ।परं ते श्वापचं जन्म कथं जातं नु मे वद ॥२७॥श्वपच प्राह पूर्वेऽहं धनधान्ययुतोऽपि सन् ।साधूनां निन्दकश्चाऽऽसं ब्राह्मणोऽपि घृणी सति! ॥२८॥दृष्ट्वा साधून् धिक्करोमि तिरस्करोमि नर्म च ।न ददामि क्वचिद् भिक्षां वारयामि परं ह्यपि ॥२९॥तेन पापेन सर्वस्वं गृहदारसुतादिकम् ।नष्टं वह्निप्रकोपेन दग्धं दग्धोऽहमित्यतः ॥३०॥यमलोकं गतस्तत्र याम्यैरन्धतमिस्रके ।निक्षिप्तौ बहुवर्षाणि निष्कास्य नेत्रजिह्विके ॥३१॥अथाऽहमभवं वागुरिका विष्टामुखी ततः ।सर्पोऽहमभवं पश्चाद् घूकस्ततोऽथ गोधिका ॥३२॥ततोऽस्मि जातश्चाण्डालः साधूनां निन्दनात् खलु ।तस्मान्न साधवः क्वापि तिरस्कार्या हरेः प्रियाः ॥३३॥भिक्षा नैषां वारणीया दानं वार्यं न वै क्वचित् ।तेषां वस्तु न हर्तव्यं देयं तेषां तु तुष्टये ॥३४॥ब्रह्मिष्ठैः साधुभिः साकं साध्वीभिश्च तथा जनैः ।समं विवादो मोक्तव्यो दातव्यं च प्रतिश्रुतम् ॥३५॥न कार्यं निन्दनं तेषां श्रवणीयं न कर्हिचित् ।विप्रत्वस्य न वै गर्वः कर्तव्यः सन्निधौ सताम् ॥३६॥विप्रा ये गृहिणस्ते तु स्त्रीश्मशानप्रसेविनः ।साधुभ्यो निम्नमार्गस्था विप्रैः पूज्या हि साधवः ॥३७॥ये मूत्रक्लिन्नसंसक्तास्ते वै निरयगामिनः ।तानुद्धर्तुं समर्थास्ते साधवः शीलयोगिनः ॥३८॥न स्तेनस्तारयेत् स्तेनमस्तेनो यः स तारयेत् ।न कामी तारयेत् कामादकामस्तारयेद् रतम् ॥३९॥न हर्तव्यं साधुवस्तु क्षन्तव्यं तेषु नित्यशः ।बालाश्च नाऽवमन्तव्याः कृपणा वाऽप्यशक्तयः ॥४०॥आशा कार्या न सततं साधुभ्यः स्वार्थसाधिका ।नैव साधून् नियुञ्जीत भृत्यवद् भोजनाप्तये ॥४१॥जलाप्तये तथा खष्ट्वागेन्दुकाद्युपलब्धये ।आसनार्थं च वासार्थं चाश्रयार्थं च मन्दिरे ॥४२॥नाऽऽयासे योजयेत् साधुं यतः पुण्यं विनश्यति ।साधुवासे गृहस्थैर्वै वस्तव्यं नहि कर्हिचित् ॥४३॥सत्संगार्थं प्रगन्तव्यं क्लेशार्थं नहि कर्हिचित् ।निद्रार्थं मलमूत्रादित्यागार्थं वा सदाश्रमे ॥४४॥गन्तव्यं नैव नैजीयांऽगिककार्यनिवर्त्तये ।साधूनां शान्तिकाले वा विक्षेपश्चलता तथा ॥४५॥अयोग्याचार एवापि कर्तव्यो न कदाचन ।साधूनां सन्निधावुच्चासने स्थेयं न कर्हिचित् ॥४६॥विवादो नैव कर्तव्यो वाचा धनेन कर्मणा ।ज्ञानेन स्वस्य निर्वाहार्थं वा बलेन लोभिना ॥४७॥दुष्टमानुषसंगेन वादः कार्यो न सज्जनैः ।तद्धनाशा न कर्तव्या वशे कार्या न साधवः ॥४८॥निरीक्षणं हि साधूनां कार्यं न दैहिकं क्वचित् ।रागद्वेषस्वभावाः स्वाः प्रयोक्तव्या न साधुषु ॥४९॥साध्वाश्रमे ग्राम्यकथाः क्लेशकथा मृषाकथाः ।भोगकथा न कर्तव्या नोच्चार्यं चाऽपमानकृत् ॥५०॥योजनीयो न गर्वश्च बलं सत्ता न साधुषु ।निम्नीकार्या न वै सन्तो यतः पुण्यं विनश्यति ।५१॥अहं जानामि साधुः किं जानतीत्येव गर्विता ।कर्तव्या नैव वै क्वापि गर्वः पतनकारणम् ॥५२॥साधुं दृष्ट्वा प्रणमेच्चाऽनमनं पुण्यघातकम् ।स्वस्य कामादिकान् दोषान् नारीदोषान् निजात्मकान् ॥५३॥स्वस्वभावस्य कालुष्यं न प्रयुञ्जीत साधुषु ।साध्वाश्रमे प्रगन्तव्यं गुणलाभार्थमेव ह ॥५४॥बहवः सन्ति लोकेऽत्र खलेश्वरा जना अपि ।स्वस्य विषयतृप्त्यर्थं स्पर्शतृप्त्यर्थमित्यपि ॥५५॥दृष्टितृप्त्यर्थमेवाऽपि यान्ति स्त्रीसंघभूस्थलीम् ।मन्दिरे चोत्सवे तीर्थे यत्र स्त्रीजनमर्दनम् ॥५६॥सम्मर्दे सम्प्रयान्त्येव लीलाख्यानकथादिषु ।दोषान् गृह्णन्ति तत्रैव साधूनां योषितां तथा ॥५७॥तेन पापेन जात्यन्धाः कुष्ठिनश्च नपुंसकाः ।जायन्ते दीर्घरोगाश्च दरिद्राः कृपणास्तथा ॥५८॥नार्योऽपि च तथाचेष्टा जायन्ते रोगसंभृताः ।अपत्यादिविहीनाश्च धनधान्यादिवर्जिताः ॥५९॥तस्माद् दोषान्न गृह्णीयात् साध्वीनां च सतामपि ।गुणानेव हि गृह्णीयात् सुखदान् पुण्यदान् शुभान् ॥६०॥यथेक्षुदण्डतः सूक्ष्मकण्टकाँश्चमरान् दलान् ।त्वक्कूर्चान् संविहायैव रसं गृह्णन्ति मानवाः ॥६१॥यथा भोज्यगतान् शाके क्षिप्तान् दग्धमरीचकान् ।पत्रादिकान् परित्यज्य शाकमात्रं प्रभुञ्जते ॥६२॥यथा फलगतान् बीजत्वगादीन् संविहाय वै ।भुञ्जते गर्भमात्रं वै रसान् चूषन्ति देहिनः ॥६३॥यथा वृक्षगतान् दोषाँस्त्यक्त्वा गृह्णन्ति तत्फलम् ।यथा वल्लीगतान् दोषाँस्त्यक्त्वा गृह्णन्ति पुष्पकम् ॥६४॥तथा साधुगताँस्त्याज्याँस्त्यक्त्वाऽर्जयेत तद्गुणान् ।एवं वै वर्तमानस्य पुण्यप्राप्तिः पदे पदे ॥६५॥आयुर्विद्यायशोवृद्धिर्धनधान्यर्द्धिसम्पदाम् ।अनन्तत्वं प्रजायेत साधुसद्गुणसंजुषाम् ॥६६॥साधवो हि यदा तुष्टाः प्रतिनन्दन्ति सेवकम् ।तद्गृहं संभवत्येव सर्वरत्नोपबृंहितम् ॥६७॥पुत्रान् पौत्रान् पशूँश्चापि बान्धवाँश्च कुटुम्बिनः ।ग्रामं जनपदं चापि साधुतुष्टिः प्रपोषयेत् ॥६८॥साधुजनस्य दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः ।मोक्षश्चाऽर्जयितुं शक्यः साधुसेवा परा क्रिया ॥६९॥सद्भ्यो दत्तेन जीवन्ति देवताः पितरोऽपि च ।मुक्तास्तुष्यन्ति भगवान् भुंक्ते साधुजनेषु वै ॥७०॥तस्माद् दानानि देयानि साधुभ्यः प्रविजानता ।तीर्थं सुदिव्यमेवाऽऽस्ते साधुमूर्तिः सुचेतना ॥७१॥अधमोद्धारकाः सन्ति साधवो मम मूर्तयः ।अनाथानां सनाथास्ते दुःखिनां दुःखहारकाः ॥७२॥पापानां क्षालकाश्चापराधिनां दोषनाशकाः ।तिरस्कृतानां शरणप्रदातारो हि साधवः ॥७३॥शृणु पूर्वकथां वच्मि साधुभिस्तारितो द्विजः ।हिमालयेऽभवद् रम्यमाश्रममृषिसेवितम् ॥७४॥ऋषिधामाश्रमं नाम सिद्धर्षिविप्रशोभितम् ।व्रतिभिस्तापसैश्चापि नियमिभिश्च दीक्षितैः ॥७५॥कृतात्मभिस्तथा साधुयतिभिः सन्निवेशितम् ।ऋषेस्तु दीर्घतपसो द्विजश्रेष्ठस्य योगिनः ॥ ॥७६॥तत्र कश्चित् समायातः शबरो वनजीवनः ।ददर्शर्षिगणान् देवकल्पाँस्तपोरतान् शुभान् ॥७७॥निश्चिकाय तपस्तप्तुं पप्रच्छ दीर्घतापसम् ।धर्मं मे भगवन् वक्तुं प्रव्राजयितुमर्हसि ॥७८॥शूद्रोऽहृं कर्तुमिच्छामि शुश्रूषां ते प्रसीद मे ।दीर्घतपास्तदोवाच शूद्रस्त्वं वर्तसे यतः ॥७९॥प्रव्राजयितुं शक्यं न ह्यधिकारविवर्जनात् ।आस्यतां चैवमेवाऽत्र शुश्रूषां कुरु रोचते ॥८०॥शुश्रूषया पराँल्लोकानवाप्स्यसि वनेचर ।इत्युक्तः स शबरोऽपि मुमुदे चाश्रमान्तिके ॥८१॥वृक्षाऽधोभागके नैजां स्थलीं कृत्वा ह्युवास ह ।भोजनं फलपुष्पादि चक्रे शुश्रूषणमृषेः ॥८२॥एकदा स्वस्वभावेन वन्यं शशं दधार सः ।मारयित्वाऽदनं चक्रे ऋषेराश्रमसन्निधौ ॥८३॥अथैनं हिंसकं शूद्रं तत्यजुः ऋषयश्च ते ।शेपुश्च राक्षसो भूत्वा भव दुःखी वनान्तरे ॥८४॥तूर्णं स राक्षसो भूत्वा विकृतो व्यचरद्वने ।क्षुधातृषातिदुःखाढ्यो ययौ गंगातटे ततः ॥८५॥तत्राऽनेन तपोमग्नः साधुर्भक्तिपरायणः ।नाम्ना नारायणमुनिर्दृष्टो वैष्णवसत्तमः ॥८६॥साधुं भक्षयितुं तूर्णं राक्षसः प्रययौ तटम् ।साधुर्दृष्ट्वा राक्षसं तं दृष्ट्या व्यलोकयत्तथा ॥८७॥जलं चिक्षेप शिरसि राक्षसस्य च वर्ष्मणि ।पवित्रो भव धर्मात्मा दुःखाद् विरहितो भव ॥८८॥शापमुक्तो भवाऽत्रैव साधोर्मे सन्निधौ ह्यघिन् ।इत्येवमुक्तः शबरो जलस्पर्शेन सत्वरम् ॥८९॥विहाय राक्षसं भावं दिव्यो बभूव मानवः ।अथ चोद्धारकं साधुं नारायणमुनिं ततः ॥९०॥सिषेवे परया प्रीत्या पावनी लोकपावनः ।शूद्रोऽपि साधुयोगेन भक्तिमानभवत्ततः ॥९१॥साधोराज्ञां गृहीत्वैव ययौ वनान्तरं प्रति ।भेजे नारायणं नित्यं तपश्चचार दारुणम् ॥९२॥शबरः स तु देहान्ते राज्यं श्रेष्ठमवाप्तवान् ।उज्जयिनीनृपो वीरविक्रमो ह्यभवद्धि सः ॥९३॥भुक्त्वा भोगान् हरेश्चापि कृत्वा भक्तिं तथोत्तमाम् ।ययौ धामाऽक्षरं मुक्तो बभूव सत्प्रसंगतः ॥९४॥तत्कुटुम्बं साघुसेवां कृत्वा ययौ परं पदम् ।तस्माद् गृध्र सदा सेव्याः साधवः साधुभूषणाः ॥९५॥आगच्छाऽत्रसमीपेऽस्ति साधुः कृष्णस्तवाऽभिधः ।तमाश्रित्य भविष्यावो धूतपापौ हि पावनौ ॥९६॥इत्युक्त्वा लक्ष्मि ययतुः कृष्णस्तवाभिधं प्रति ।नेमतुस्तुष्टुवतुश्चाऽर्थयामासतुरेव च ॥९७॥मोक्षणं चाथ साधुस्तौ पाययामास वारि च ।प्रसादं भोजयामास कृतवान् पावनो द्रुतम् ॥९८॥पापं प्रज्वालयामास श्रावयामास कीर्तनम् ।नाम नारायणं चापि ददौ तूर्णं हि तावुभौ ॥९९॥भौतिकौ तु तदा देहौ त्यक्त्वा साधुप्रतापतः ।ययतुस्तौ पापहीनौ स्वर्गं देवौ बभूवतुः ॥१००॥साध्वाश्रयेण वै स्वर्गं भुक्त्वा प्रसादसत्फलम् ।कालेन तौ ययतुश्च वैकुण्ठं परमात्मनः ॥१०१॥लक्ष्मीत्येवं साधुसंगो लवमात्रं कृतोऽपि वै ।पावयत्येव पुण्यानां पुञ्जं ददाति सत्वरम् ॥१०२॥राज्यं स्वर्गं ददात्येव मोक्षणं च ददात्यपि।प्रयच्छति महानन्दं सत्संगः कृष्णयोगिनाम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने आपद्गतस्याऽपि साधुसंगतिः कल्याणदेत्यर्थे गृध्रश्वपचयोः शबरस्य च स्वर्गाद्युत्तरं मोक्षणं चेत्यादि-निरूपणनामाऽष्टनवतितमोऽध्यायः ॥९८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP