संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २०३

द्वापरयुगसन्तानः - अध्यायः २०३

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं वायकस्य कथां शुभाम् ।
धुरिलाख्ये पुरे नाम्ना तूलवायीति वायकः ॥१॥
न्यवसत् सकुटुम्बोऽयं राजप्रजादृतः सदा ।
सूक्ष्मतन्त्वादिवयने कुशलः सूत्रनिर्मितौ ॥२॥
सूक्ष्मातिसूक्ष्मसूत्राणि निर्माति कलया नखैः ।
सूत्रयन्त्रेण च लूतातन्तुसमा हि तन्तवः ॥३॥
ज्जायन्ते कलया तस्य सूक्ष्मातिसूक्ष्मपेशलाः ।
अम्बरे तस्य तन्तूनां निर्मितं धार्यतेऽम्बरम् ॥४॥
दृश्यते नैव किरणेष्वेवं तनु प्रजायते ।
स्वर्णोर्मिकायां शाटीं च प्रसारयितुं शक्यते ॥५॥
धोत्रं तथोत्तरीयं चोष्णीशं तादृक् प्रजायते ।
राज्ञीवेषार्हवस्त्राणि तत्तन्तुभ्यो भवन्ति वै ॥६॥
वायकोऽयं तुरीं वेमानं च संयोजिकां तथा ।
शलाकां चेति सूक्ष्माणि वयने संयुनक्ति हि ॥७॥
सूक्ष्मतमाः सूक्ष्मतरा सूक्ष्माश्च सूक्ष्मसदृशाः ।
स्थूलसूक्ष्मा मध्यस्थूलाः स्थूलाः स्थूलतरास्तथा ॥८॥
स्थूलतमा जाड्यगात्रास्तन्तवः संभवन्ति वै ।
फालिका विविधा रम्याः कुकट्यः संभवन्ति च ॥९॥
पेटिकाश्चापि तन्तूनां शालायां तूलवायिनः ।
उत्पद्यन्ते करजैश्च यन्त्रतर्कटिकादिभिः ॥१०॥
रन्टकैर्भ्रमचक्रैश्च जायन्ते तन्तवः शुभाः ।
नार्यो नरा हि बहवो बह्व्यश्च कर्मचारिकाः ॥११॥
उत्पादयन्ति सूत्राणि कार्पासान्यपराणि च ।
समनाडिकसूत्राणि यथार्थवलयानि च ॥१२॥
अन्यूनानतिरिक्तानि ग्रन्थित्रूटीवियुञ्जि च ।
स्थूलसूक्ष्मादिदोषैश्च वर्जितानि शुभानि च ॥१३॥
एतेषामेव तन्तूनां प्रायो वस्त्राणि वै प्रजाः ।
राजानः श्रेष्ठिनश्चापि धारयन्तीति विश्रुतम् ॥१४॥
तूलवायिमहामुद्रा मुद्र्यते मानवर्धिनी ।
सूत्रेषु तज्जवस्त्रेषु श्रैष्ठ्यं प्रद्योतते सदा ॥१५॥
एवंविधस्तूलवायी विशालकार्यकारकः ।
तथापि सर्वकार्येषु मम भक्तिं चकार सः ॥१६॥
यन्त्रेषु श्रीकृष्णनाम साधनेष्वायसेष्वपि ।
श्रीकृष्णनाम सर्वत्र फालिकाकुकटीष्वपि ॥१७॥
वासे भित्तौ च शालायां मुद्रितं कृष्णनाम ह ।
कर्मचाराः समस्ताश्च कर्मचारिण्य इत्यपि ॥१८॥
अनादिश्रीकृष्णनारायणनाम गृणन्ति हि ।
तूलवायी स्वयं नित्यं भजते मां नरायणम् ॥१९॥
स्नात्वा प्रपूज्य मां पश्चादुद्यमे चानुरोहति ।
प्रसादं मम नैवेद्यं चान्नं जलं फलादिकम् ॥२०॥
भुंक्ते कुटुम्बसहितश्चात्मनिवेदिवत् सदा ।
वस्त्रपात्रासनाद्यानि निवेद्य मे युनक्ति च ॥२१॥
एवंविधो भक्तराण्मे भजते मां समाहितः ।
अथाऽयं वायको यन्त्रेऽनवधानतया द्रुतम् ॥२२॥
चक्रवेगे गतहस्तः पतितश्चूर्णितः करे ।
स्कन्धात् करः पृथग्जातो मूर्छितो मम भक्तराट् ॥२३॥
सस्मार मां द्रुतं सोऽपि हृदि रक्षामयाचत ।
कर्मचाराः समस्ताश्च ज्ञात्वा मे नामकीर्तनम् ॥२४॥
चक्रुः पार्श्वे समागत्य तत्राऽहं चौषधप्रदः ।
कुशलो वैद्यराट् भूत्वा चिकित्सकः समागतः ॥२५॥
सन्धिनीं रक्तरोधां च पोषिणीं स्थितिस्थापिकाम् ।
ओषधिं सह नीत्वैव तूर्णं चोपस्थितोऽभवम् ॥२६॥
करेण तु जलं दत्वाऽऽनने मूर्छां न्यवारयम् ।
सन्धिन्या स्कन्धमूलं च कबन्धे सन्न्ययोजयम् ॥२७॥
रक्तरोधनिकया च रक्तस्थैर्यं व्यधापयम् ।
पोषिण्या बाहुकरयोश्चांगुलीनां यथायथम् ॥२८॥
पुष्टिं विधाय च स्थितिस्थापिन्या सुकरं करम् ।
अकरवं तथा धैर्यं दत्वाऽऽसने स्थितोऽभवम् ॥२९॥
अथ ते दिव्यरूपं मां विलोक्य मुग्धमानसाः ।
विश्वासं परमं प्राप्ता मां श्रीकृष्णं हि मेनिरे ॥३०॥
तुष्टुवुस्ते ववन्दुश्च पुपूजुश्च ययाचिरे ।
क्षमामुद्धरणं चापि मायापाशविमोचनम् ॥३१॥
सतां समागमं कृष्णे भक्तिं ज्ञानं ययाचिरे ।
तथाऽस्त्वित्यवदं तेभ्यो ज्ञानं च मामकं परम् ॥३२॥
अददां लक्ष्मि सर्वेभ्यो दिव्यं च मम दर्शनम् ।
तथाऽस्त्वित्यददां तेभ्यो भुक्तिं मुक्तिं च सम्पदः ॥३३॥
तिरोभावं ततः स्थानादथ कालान्तरे पुनः ।
देहान्ते क्रमशस्ताँश्च नीतवानक्षरं मम ॥३४॥
तूलवायी यदा वृद्धोऽभवन्नद्धश्च मुक्तये ।
पुनश्चाऽहं दर्शनं स्वं दत्तवान् तूलवायिने ॥३५॥
तूलवायी समपृच्छन्मां हिते जगतां कृते ।
कीदृशोऽस्ति भवान् धाम्नि कीदृश्यो मुक्तकोटयः ॥३६॥
कीदृशं ते गृहं धाम कीदृशा ईश्वरा अपि ।
कीदृश्यश्चावतारिण्य ईश्वर्यः सत्य इत्यपि ॥३७॥
कीदृशाः साधवस्ते च कीदृश्यो मुक्तयस्तव ।
कीदृश्यः सिद्धयस्तेऽपि कीदृशोऽहं तवाश्रितः ॥३८॥
कथंकारो निवत्स्ये ते धाम्नि मे वद माधव ।
अहं लक्ष्मि तूलवायिजिज्ञासां समशान्तयम् ॥३९॥
शृणु भक्तो भवाम्यत्र दिव्यस्ते नेत्रगोचरः ।
सोऽहं धाम्नि भवाम्येव सर्वथा दिव्यमूर्तिमान् ॥४०॥
अपारगुणसौन्दर्यलावण्यौज्ज्वल्यसागरः ।
साकारः सर्वमुक्तानां निभालनीयो माधवः ॥४१॥
द्विभुजः सर्वदा चास्मि रूपान्तराणि चेच्छया ।
धारयामि सहस्रादिभुजानि बहुरूपवान् ॥४२॥
सर्वरसः सर्वगन्धः सर्वरूपो भवाम्यहम् ।
सर्वस्पर्शः सर्वशब्दः सर्वानन्दो भवाम्यहम् ॥४३॥
किशोरोऽस्मि ब्रह्मप्रियाऽसंख्यमुक्तानिकापतिः ।
हरिप्रियाऽसंख्यमुक्तपतिः पुष्टशरीरवान् ॥४४॥
सेवायोग्यः सर्वकामप्रपूरोऽस्मि ममाऽक्षरे ।
अक्षरे धाम्नि तत्रैव वसन्ति मुक्तकोटयः ॥४५॥
सर्वे मत्परमा दिव्या मत्समानसुमूर्तयः ।
दिव्यसर्वगुणाढ्यास्ते साकाराः सुखवार्धयः ॥४६॥
एतादृशा मम मुक्ताः किशोराश्चातिसुन्दराः ।
तेजस्विनोऽतिरम्याश्च मनोहरा वसन्ति हि ॥४७॥
ममाऽक्षरं परं व्योम परंधाम परं गृहम् ।
सहस्रकोटिस्तम्भालीसंशोभत्स्वर्णनिर्मितम् ॥४८॥
सहस्रकोटिकलशं सर्वर्द्धिसिद्धिसंभृतम् ।
सहस्रकोटिकक्षाढ्यं वर्तते बहुविस्तरम् ॥४९॥
सर्वकामाः सर्वकल्पा सुमूर्तास्तत्र सन्ति वै ।
सर्वभोगमयीशय्याः सर्वसिंहासनानि वै ॥५०॥
गजासनं महार्घ्यं च विद्यते मम मन्दिरे ।
एतादृशं परं धाम यत्र वसामि शक्तिभिः ॥५१॥
सहितश्चापि मुक्तैश्च सहितो दिव्यविग्रहः ।
मत्तः प्राविर्भवन्त्येवाऽवताराः कृष्णकोटयः ॥५२॥
नारायणा असंख्याता रामा नराश्च कोटयः ।
मुनयोऽसंख्यधामानो भवन्त्यवतरन्ति च ॥५३॥
वासुदेवादयश्चापि हिरण्यगर्भकोटयः ।
वैराजा ईश्वरा भूमानश्च ब्रह्माण इत्यपि ॥५४॥
रुद्राश्च विष्णुवर्याश्च भवन्तीश्वरकोटयः ।
मत्तः प्राप्य महैश्वर्याण्येवाऽवतारकोटयः ॥५५॥
भवन्ति चेश्वराः शुद्धसत्त्वप्रकर्षभोगिनः ।
तेषां च शक्तयः सर्वा मया वै प्रकटीकृताः ॥५६॥
ईश्वराण्यो भवन्त्येव संसारसारशक्तयः ।
आनन्दखनयस्ताश्च ततः सत्यो भवन्ति च ॥५७॥
साध्व्यस्ता ब्रह्मरूपिण्यो ब्रह्मचर्यपरायणाः ।
शीलव्रतार्थिदेहिन्यः सांख्ययोगिन्य इत्यपि ॥५८॥
अवतारिण्य एवाऽपि लक्ष्म्यस्ताः कमलाः श्रियः ।
रमास्ता राधिकास्ताश्च सम्पदस्ता भवन्ति च ॥५९॥
एवंविधानि मे धाम्नि चैश्वरे मण्डलानि वै ।
भवन्ति तादृशाल्लोकादिहाऽऽयान्ति तु पार्षदाः ॥६०॥
त्यागमात्रपरा भक्तास्ते दिव्या मूर्तयो मम ।
साधवस्ते भवन्त्येव सर्वकल्याणकारकाः ॥६१॥
मुक्तयः साधुसेवायां वर्तन्ते दिव्यविग्रहाः ।
सालोक्याः सार्ष्टयश्चापि सारूप्याश्च सयोगिकाः ॥६२॥
एतादृशा भवन्त्येव मुक्तयो दिव्यसौख्यदाः ।
सिद्धयः सर्वदर्शिन्यः सर्वश्रावणिकास्तथा ॥६३॥
सर्वप्राप्तिस्वरूपाश्च सत्यकामावसायिताः ।
सर्वकामदुघाश्चापि पूर्णानन्दभृताः सदा ॥६४॥
सुमूर्ताः सर्वपूर्णाश्च भवन्ति सेविका मम ।
मुक्तो भूत्वा भवाँस्तत्र तूलवायिन्! निवत्स्यति ॥६५॥
मम मूर्तिसमाकारो दिव्यैश्वर्ययुतोऽन्वहम् ।
पूर्णानन्दभृतो दिव्यः किशोरः संनिवत्स्यति ॥६६॥
तत्र वसतो भवतो निर्विकल्पा स्थितिः परा ।
भविष्यति यथा नान्यद् दृष्टिगतं च ते भवेत् ॥६७॥
ब्रह्मीभूतस्य ते तत्र मदन्यन्नैव गोचरम् ।
सर्वं खलु त्विदं ब्रह्म परं नान्यद् विलोकनम् ॥६८॥
मम तादात्म्यमाप्तस्य मुक्तास्तेऽपि न गोचराः ।
अक्षरं गोचरं तेन त्वं न तवापि गोचरः ॥६९॥
एतादृशीं परां ब्राह्मीं स्थितिं तत्र गमिष्यसि ।
साकारे मम रूपे त्वं सदा मग्नो भविष्यसि ॥७०॥
तव दृष्ट्यां न वै मुक्ता नाऽक्षरं कुत ईश्वराः ।
कुतो माया कुतो जीवाः सर्वं ब्रह्मात्मकं तव ॥७१॥
एवंस्थितिस्तव तूलवायिंस्तत्र भविष्यति ।
कृपया मे तव मुक्तिस्तादृशी संभविष्यति ॥७२॥
निर्विकल्पा विदेहा मत्तादात्म्या स स्थितिर्मता ।
अत्रत्या ये मम मुक्ताः सन्ति जीवनमुक्तयः ॥७३॥
ते तु मायां प्रपश्यन्ति जीवाँस्तत्त्वानि सर्वथा ।
ईश्वरान् सर्वधामानि सविकल्पसमाधयः ॥७४॥
वीक्षमाणा अपि मायाकालकर्मसु नैव ते ।
बध्यन्ते नापि हन्यन्ते सज्जन्ते नैव तेषु च ॥७५॥
निर्लेपास्ते प्रवर्तन्ते देहेन्द्रियादिभिस्त्विह ।
त एते मम भक्ता वै भवन्त्यात्मनिवेदिनः ॥७६॥
धर्मज्ञानविरागाढ्यां भक्तिं कुर्वन्ति मे सदा ।
सविकल्पा भक्तिमन्तो मुक्ता मे साधवस्त्विह ॥७७॥
तथा च गृहिणश्चापि यतयो न्यासवेदिनः ।
सन्न्यासिन्यो विरागिण्यो भवन्ति साध्विका अपि ॥७८॥
सविकल्पस्थितयस्ते ताश्च नवविधां मम ।
भक्तिं कुर्वन्ति सततं प्रेम्णा सर्वार्पणात्मना ॥७९॥
श्रवणं मे कथायाश्च मल्लीलानां प्रकीर्तनम् ।
स्मरणं मम मूर्तेश्च मम पादादिमर्दनम् ॥८०॥
साधूनां पादयोश्चापि देहस्यापि प्रमर्दनम् ।
अर्चनं चन्दनाद्यैर्मे वन्दनं वचनैर्मम ॥८१॥
दास्यं दत्वा समस्तं मे समीपे चासनं मम ।
सर्वाज्ञापालनं दास्यं चानुवृत्त्या हि वर्तनम् ॥८२॥
सख्यं सौहार्दभावश्च क्रियैक्यं च निरन्तरम् ।
आत्मनिवेदनं चाप्यात्मीयसर्वनिवेदनम् ॥८३॥
सर्वथा सहवासश्च पत्नीवद् भृत्यता तथा ।
एवंविधा मम भक्तिः सविकल्पस्य योगिनः ॥८४॥
सर्वथा मन्मयत्वेन भवत्येव सुखप्रदा ।
एवंविधया भक्त्या च स्नेहेन सेवया मम ॥८५॥
ज्ञानेनोत्कर्षभावेन सान्निध्यकरणं तु यत्॥
उपासना मता सा च सर्वदिव्यप्रकाशिनी ॥८६॥
सर्वविधानां ज्ञानानां प्रवाहाणां हरौ मयि ।
योजनं बहुधा चापि मुहुश्चोपासना हि सा ॥८७॥
मननं निश्चयश्चापि स्मरणं श्रीहरेर्मम ।
दिव्यः किशोरः कृष्णोऽहं कोटिमुक्तादिसेवितः ॥८८॥
अक्षरे सन्ति मे वंशा मुक्ता मुक्तानिकाः शुभाः ।
सर्वभूषान्वितश्चास्मि सर्वमनोहरो हरिः ॥८९॥
अनन्तैश्वर्यसम्पद्वाननन्तर्द्धिगुणाश्रयः ।
एवंविधस्य मे ज्ञानं वेदनं सा ह्युपासना ॥९०॥
भक्तिं स्नेहं तथा सेवामुपासनां वचःस्थितिम् ।
संसाधयति यो देही जीवन्मुक्तः स उच्यते ॥९१॥
सोऽयं भवति लोकेऽत्र सविकल्पसमाधिमान् ।
ततो ब्रह्मस्थितिं लब्ध्वा सज्जते मयि माधवे ॥९२॥
देहेन मनसा वाचा क्रिययेन्द्रियवृत्तिभिः ।
आत्मना भावनया च संस्कारैर्वेदनादिभिः ॥९३॥
ध्यानेनापि धारणयाऽर्पणेन रोधनेन च ।
तादात्म्येन द्रवीभावेनैक्येन यो विदेहवत् ॥९४॥
विदेही स भवेद् भक्तो निर्विकल्पसमाधिमान् ।
प्राप्यैवं परमां दिव्यां मुदं स मोदते मयि ॥९५॥
एवं ते कथितं सर्वं तूलवायिन् द्रुतं कुरु ।
याहि मे धाम परमं सर्वानन्दभृतं द्रुतम् ॥९६॥
इत्युक्तः स मया लक्ष्मि तूलवायी नमन् प्रभुम् ।
देहं विहाय दिव्यो वै जातो मुक्तशरीरवान् ॥९७॥
दिव्यं विमानमारुह्य ययौ धामाऽक्षरं मम ।
एवमन्येऽपि भक्ता मे तूलवायिसकर्मिणः ॥९८॥
मया कालेन सर्वे ते प्रापिता मेऽक्षरं पदम् ।
एवं भक्तो भवेल्लक्ष्मि भक्तिमान् मदुपासकः ॥९९॥
तस्मै दत्वा दर्शनं मे नयामि धाम मे परम् ।
भुक्तिं मुक्तिं ददाम्येव रक्षां करोमि सर्वथा ॥१००॥
पठनाच्छ्रवणादस्य स्मरणात् पालनात्तथा ।
भुक्तिं मुक्तिं लभेच्चापि सुखं मे परमं लभेत् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने तूलवायिनामकस्य सूत्रवायकस्य भक्त्या भगवाँस्तस्य तत्कर्मचाराणां च रक्षां कृत्वा दर्शनं दत्वा मोक्षं कृतवानित्यादिनिरूपणनामा त्र्यधिकद्विशततमोऽध्यायः ॥२०३॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP