संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं लोहकारस्य वै कथाम् ।मे पावनस्य भक्तस्य नाम्ना नालीकरस्य वै ॥१॥नालीकरो मम भक्तोऽवसद् वक्रनदाऽऽह्वये ।नगरे लोहकारो वै कुटुम्बेन समन्वितः ॥२॥लोष्ठानां शृंखला दीर्घाः स्वल्पाश्च कीलकाँस्तथा ।पट्टाँश्च कुण्डलाँश्चापि पट्टिका लोष्टपत्रिकाः ॥३॥लोष्टपात्राणि बहूनि लोहोपकरणान्यपि ।अनसा च ग्रहाणां च साधनानि करोत्यपि ॥४॥भस्त्रायाश्चालने श्वासे प्रश्वासे श्रीनरायणम् ।लोहघ्नोन्नयने तस्य पातने लोहपीटने ॥५॥लोहसन्धानकार्यादौ स्मरते मां नरायणम् ।भस्त्रां मत्वा रमादेवीं वह्निं मत्वा नरायणम् ॥६॥मालां मत्वा चालदण्डं भजते मां हरिं सदा ।लोहकूट्टीं पापपुञ्जकूट्टीं मायां विचिन्त्य च ॥७॥लोष्टानि मायिकान्येव मत्वा हन्ति विमुक्तये ।लोहघातोत्थशब्दाँश्च प्रणवान् मनुते स च ॥८॥एवं नालीकरो भक्तो ब्रह्मदृष्ट्याऽऽत्मबोधवान् ।वर्तते भक्तियुक्तश्च मूर्तिं मे पूजयत्यपि ॥९॥प्रातः स्नात्वा गृहे मूर्तिं नत्वा धूपं करोति च ।दीपं कृत्वा पुष्पमालां चन्दनं मेऽर्पयत्यपि ॥१०॥सुगन्धसारं दत्वा मे नैवेद्यं दुग्धशर्कराम् ।पोलिकाश्च समर्प्यैव जलं ताम्बूलकं तथा ॥११॥समर्प्य मे क्षमां याचित्वाऽथ भुंक्ते पिबत्यपि ।एवमेव ततो लोहशालायामपि माधवम् ॥१२॥स्मृत्वा गत्वा नमस्कृत्य धूपं कृत्वा च दीपकम् ।पुष्पमालां शर्करां च तथाऽन्यत् फलमुत्तमम् ॥१३॥यथाकालं समर्प्यैव ततः कार्यं करोति च ।लोहकार्याणि मे भक्त्या करोति शुद्धमानसः ॥१४॥एवंविधस्य भक्तस्यैकदाऽभवत् सुचिन्तनम् ।रात्रौ नित्यं प्रकर्तव्यं भजनं बहुभिः सह ॥१५॥सङ्घेन भजनं कार्यं बहूनां मोक्षसाधनम् ।एवं शुभेन मनसा स्वग्रामजनबान्धवान् ॥१६॥जगाद मण्डलं भक्तेर्विधातुं च तदापि ते ।प्रहर्षेणाऽस्थापयँश्च भक्तमण्डलमुत्तमम् ॥१७॥नरा नार्यो निशारंभे मिलित्वा घटिकाद्वयम् ।नित्यमारेभिरे कृष्णनामसंकीर्तनं शुभम् ॥१८॥सर्वे जना नगरस्थाः श्रुत्वा वीक्ष्य शुभक्रियाम् ।सहकारं ददुस्तत्र युयुजुर्भक्तमण्डले ॥१९॥सहस्रशो जना भक्तिं कुर्वन्त्युत्साहसंभृताः ।उत्सवान् श्रीहरेः सर्वान् वाद्यनृत्यादिभिस्तथा ॥२०॥शृंगारपूजनाद्यैश्च जागराद्यैः समुत्सुकाः ।कुर्वन्ति च यथाकालं लक्ष्मि स्वश्रेयसे यताः ॥२१॥तेषां भक्तिं विलोक्याऽहं भक्तिप्रवर्तकस्य मे ।भक्तस्य लोहकारस्य प्रसन्नोऽहं तदाऽभवम् ॥२२॥एकदा भक्तिवृद्ध्यर्थं तेजो मयाऽतिभास्वरम् ।निर्यन्मत्प्रतिमाभालाद् दर्शितं तेभ्य उज्ज्वलम् ॥२३॥शामितं च मया तूर्णं तेन ते भक्तिगौरवाः ।विशेषतो मम भक्तिमकुर्वन् भावगर्भिताम् ॥२४॥ज्ञातारश्चाऽभवन् मूर्तौ तिष्ठतो मम शार्ङ्गिणः ।मन्दिरं कृतवन्तस्ते लक्ष्मीनारायणस्य ह ॥२५॥तत्र पूजाप्रवाहादि चक्रिरे च यथाधनम् ।अहं मूर्तौ निवसामि त्वया साकं समुद्रजे ॥२६॥अपहरामि सर्वेषां दुःखानि विपदोऽन्वहम् ।मानतास्ते प्रकुर्वन्ति रोगदुःखविनाशिनीः ॥२७॥आध्यात्मिकाऽऽधिदैवाधिभौतिकाधिविनाशिनीः ।सर्वाः पीडा नाशयामि स्वस्थास्ते च भवन्ति वै ॥२८॥भजन्ते मां चातिभावैश्चमत्कारादिकीर्तनैः ।अथैकदा सतीत्वं च जाता तापसीवेषिणी ॥२९॥अहं च तापसो योगी भूत्वाऽगमं निशामुखे ।भक्तमण्डलमालक्ष्य मन्दिरस्याऽन्तिके स्थले ॥३०॥यथा दीनजनो रङ्कः कश्चिद् भिक्षुक उद्गतः ।त्वं तथा दीनचित्ता च भिक्षुकी व्रतवर्जिता ॥३१॥धर्मस्नानार्हणशून्या मलिना प्राकृती यथा ।अहं तथैव मलिनो दर्शकानां तु चित्तहाः ॥३२॥एकं तु बालकं स्वल्पं मलमूत्रादिसंभृतम् ।गरुडं बालरूपं तं कृत्वा कुक्षौ पुरोऽभवम् ॥३३॥एवं त्रिकं च ते वीक्ष्य याचमानं च दीनवत् ।मन्दिराग्रे समायातं दयापरास्ततोऽभवन् ॥३४॥आहूय वेदिकायां ते न्यषादयन् सुखेन च ।अयच्छन् भोजनं लक्ष्मीनारायणप्रसादजम् ॥३५॥अपत्याय पयश्चापि ददुस्ते भावनान्विताः ।कृत्वा च भोजनं पानं वयं लक्ष्मि सुखस्थिताः ॥३६॥वितर्दिकायामभवन् ते चक्रुर्नामकीर्तनम् ।चत्वरे रासमारेभुस्तालवाद्यसुनर्तनैः ॥३७॥नरा नार्योऽसंख्यजना भक्तिं चक्रुर्हि भावुकाः ।कृत्वा ते कीर्तनं यावत् क्षणं विश्रान्तिमादधुः ॥३८॥तदोत्थाय त्वया साकमहं तत्र हि चत्वरे ।करतालैर्मञ्जिरैश्च सनृत्यं कीर्तनं व्यधाम् ॥३९॥आश्चर्यं परमं प्राप्ता दृष्ट्वा मां त्वां च ते तदा ।प्रसन्नास्ते च पप्रच्छुः शान्तं मां श्रेयसे मुहुः ॥४०॥साधो कल्याणदं किञ्चिद् वदाऽत्र नः कृपां कुरु ।श्रुत्वाऽहं च तदा लक्ष्मि ज्ञानं तेभ्यो ददौ मम ॥४१॥प्रेम्णो हेतुं भगवति माहात्म्यं निजगाद वै ।माहात्म्यज्ञानवत्प्रेम्णि विश्वासोऽपि च कारणम् ॥४२॥मायापुरुषकालानां स्वभावगुणकर्मणाम् ।जडचेतनतत्त्वानां नियन्तारं हरिं श्रयेत् ॥४३॥सर्वस्वतन्त्रकर्तारं सर्वावतारकारणम् ।सर्वशक्तिप्रदातारं नारायणं हरिं श्रयेत् ॥४४॥प्रेम्णाश्रयेत् परात्मानं माहात्म्यज्ञानवान् जनः ।प्रीत्या संसेव्य तं नाथं परधाम समर्जयेत् ॥४५॥कुर्याद् वै वासनानाशं सर्वथा तु विवेकवान् ।लौकिकेषु विषयेषु रुचिरिच्छाऽस्ति मे तु या ॥४६॥कियतीति विविच्यैव ह्यपनेया तु सा ततः ।कियती वा हरौ चास्ते रुचिरिच्छा तु पावनी ॥४७॥मायायां च हरौ तुल्या न्यूना वा चाधिकाऽपि वा ।विविच्येति हरौ वर्धनीया प्रयत्नतः सदा ॥४८॥हसनीया च मायायां निर्मूला यावती भवेत् ।क्षयिष्णुत्वं दुःखदत्वं बन्धकृत्त्वं तु मायिके ॥४९॥पदार्थजाते भवतीत्येवं ज्ञात्वा विवर्जयेत् ।रुचिं त्यजेन्मायिकेषु मुक्तानामपि बन्धनीम् ॥५०॥अरुचेर्वासनानाशो जायते द्रुतमेव ह ।सत्संगात् कृष्णसम्बन्धात् कृष्णकीर्तनगायनात् ॥५१॥कृष्णे रुचिर्भवत्येव साक्षाद् योगाद् विशेषतः ।एवमभ्यासयोगेन कृष्णे प्रीतिर्विवर्धते ॥५२॥मायिके मलतुल्ये च भोग्ये रम्ये तथेतरे ।रुचेर्नाशो भवेत्तूर्णं भगवद्रसवेदिनः ॥५३॥ब्रह्ममयं भासतेऽस्य दिव्यं नारायणात्मकम् ।भगवन्निष्ठभक्तस्य ब्रह्मभावः परो वृषः ॥५४॥स्थितिः सा परमा महाभागवती प्रमोदिनी ।मायाभिमानरहिता भगवद्भावशोभिता ॥५५॥वासनायाः प्रणाशार्थं प्रीत्यर्थं च हरेस्तथा ।साधयेदात्मनिष्ठां च वैराग्यं श्रेष्ठमित्यपि ॥५६॥कृष्णमाहात्म्यातिशयविज्ञानं स्वसमर्पणम् ।साधयेद् भगवन्निष्ठां सतां समागमं चरेत् ॥५७॥निर्वासनात्मनिष्ठानां सतां सेवां प्रसाधयेत् ।प्रसन्नतां सतां लब्ध्वा जयेन्मायां परं व्रजेत् ॥५८॥अतिधैर्यं लभेज्ज्ञानादाश्रयात्परमात्मनः ।सतां सत्संगसाहाय्याद्धैर्यं दृढं हरौ भवेत् ॥५९॥आत्मनिष्ठायुजा भक्त्या धैर्यस्थैर्थं तथा भवेत् ।धीरस्य मुक्तभावस्य विघ्ना नैव भवन्ति च ॥६०॥भक्त्यन्तरायरूपाश्च सिद्धयो नोपयान्त्यपि ।पक्वभक्तपरीक्षार्थं समायान्ति हि सिद्धयः ॥६१॥श्रीहरेराज्ञया तास्तु लोभयन्ति मुहुः श्रितम् ।तथापि ता न पश्येच्च जित्वा याति परं पदम् ॥६२॥एवंविधस्य भक्तस्य कृष्णो वशे स्वयं भवेत् ।मायाया वासनाशून्यो यश्च कृष्णार्पिताऽखिलः ॥६३॥कृष्णार्थकृतसर्वस्वस्तस्य प्रीतो हरिः सदा ।कृष्णेऽतिप्रेमवद्भक्तहृदयाच्छ्रीहरिः क्वचित् ॥६४॥प्रेमरज्ज्वा नद्धवर्मा गन्तुं शक्तो न जायते ।'तस्यैव भगवान् पाता स्वामी कान्तश्च मोक्षकृत् ॥६५॥मायादुःखहरश्चास्ते हृदये सर्वथा सह ।एतादृशस्य भक्तस्य गुणा दिव्या भवन्ति हि ॥६६॥सत्यशौचादयो ये च सर्वे कृष्णसमाश्रयात् ।कृष्णस्य दिव्यविज्ञानाज्जायन्ते भक्तिमत्यपि ॥६७॥कालकर्मस्वभावानां मायायाः पुरुषस्य च ।ईश्वराणां नियन्ता श्रीबालकृष्णोऽस्ति माधवः ॥६८॥कर्ता पोष्टा च संहर्ता सृष्टीनां श्रीपतिः प्रभुः ।अस्ति गोपालबालः स सर्वेषां हृदयेषु सः ॥६९॥निर्लेपो वर्तते स्वामी राधारमाप्रधीपतिः ।एवं ज्ञात्वा हरौ कृष्णे सम्बन्धं प्राप्तवान् दृढम् ॥७०॥यस्तस्य श्रीहरेः सम्बन्धिनो दिव्यगुणा अपि ।आविर्भवन्ति भक्ते वै सर्वैश्वर्याणि सर्वथा ॥७१॥चक्षुर्दीपप्रसंगेन प्रभागुणं प्रविन्दति ।यथा तथा हरेर्योगाद् भक्ते गुणा विशन्ति च ॥७२॥स्वतन्त्रो जायते कृष्णतुल्यः कृष्णप्रसादतः ।सर्वं कर्तुं सिद्धिमाँश्च नित्यसिद्धोऽपि जायते ॥७३॥यथेन्द्र आययौ नारायणं नरं तपःक्षतिम् ।कर्तुमप्सरसां व्रातैर्निरस्तश्चोर्वशीजनेः ॥७४॥एवं सिद्ध्या सिद्धिमन्तो निरस्यन्ते सुसिद्धिना ।भक्तेन मूलमायाऽपि निरस्यते हरेर्बलात् ॥७५॥देवा भक्ता भवन्त्येव भगवद्गुणयोगिनः ।आसुरा न प्रजायन्ते भगवद्गुणिनः क्वचित् ॥७६॥महतां तु सतां कृपापारावारे प्रविश्य च ।पापिनो भगवद्भक्त्या क्वचिद् गुणा विशन्ति हि ॥७७॥प्रसन्नाः सेवया सन्तो नाशयन्ति हि दुर्गुणान् ।आसुरत्वं नाशयन्ति कुर्वन्ति दैवभावुकम् ॥७८॥यस्तु रङ्कजनान् गर्वादवजानाति भक्तकान् ।सोऽपि तत्पापपुञ्जेन दैवोऽप्यासुरतां व्रजेत् ॥७९॥शप्तो भवेद् ब्रह्मदग्धो गुणास्तत्र विशन्ति न ।दीनाऽवमानं तस्मान्न कर्तव्यं क्वचिदेव ह ॥८०॥दीनाग्रे दीनवत् स्थेयं तेन कृष्णः प्रतुष्यति ।गर्ववत्सु कृपां नैव करोति भगवान् क्वचित् ॥८१॥गुणास्तेषु शुभा नैव जायन्ते द्रोहिषु क्वचित् ।मृदोर्भक्तस्य दीनस्य द्रोहेण पुण्यसंक्षयः ॥८२॥जायते नाऽत्र सन्देहो नावमान्या हि दुर्बलाः ।बाह्यतो मलिनाश्चापि हृदये शुद्धभावनाः ॥८३॥भक्ता भगवतो मान्या मोक्षदाः साधवो हि ते ।तेषां हृदये भगवानन्तर्यामी विराजते ॥८४॥सहैव वर्तते दीननाथो ह्यनाथरक्षकः ।भक्तानामवमानेन रुष्टो भवति माधवः ॥८५॥अवमानयितुस्तूर्णं विनाशं कुरुते स्वयम् ।कारयत्याशु चान्येन रङ्कभक्तवशंवदः ॥८६॥नालीकर! वयं दीना मलिना मक्षिकावृताः ।सभयाश्चात्र भोज्यार्थं ह्यायाता दीनमानसाः ॥८७॥तिरस्कारो भवद्भिर्न कृतः सत्कार आदृतः ।अतः प्रसन्नहृदया भवामोऽत्र सुखान्विताः ॥८८॥यूयं भक्ता भगवतः सत्या निर्मानिसेवकाः ।वरदानं चार्थयन्तु रोचते यदि मानसे ॥८९॥इत्युक्त्वाऽहं यदा लक्ष्मि मूर्तिं नत्वा च मामकीम् ।गन्तुमियेष दूरं च तावद् बालो मलं व्यधात् ॥९०॥नालीकरो जलं निन्ये ददौ वै तस्य योषिते ।तत्स्त्री नाम्ना कुन्दनिका बलिं लब्ध्वा करात्तव ॥९१॥मलप्रक्षालनं चक्रे भावेन बालकस्य ते ।तावन्मेऽपि विशेषेणाऽभवत् प्रसन्नता ह्यति ॥९२॥भक्तेभ्यः प्रददौ नैजं दर्शनं दिव्यमद्भुतम्।शंखचक्रगदापद्मधरं श्रीश्यामसुन्दरम् ॥९३॥तव रूपं सुन्दरं च लक्ष्मि व्यदर्शयँस्तथा ।बालकस्य स्वरूपं च गारुडं समदर्शयम् ॥९४॥अथ भक्ताः कृतकृत्या व्यजायन्त हृदन्तरे ।ननृतुर्दर्शनं कृत्वा पूजयामासुरुत्सुकाः ॥९५॥वव्रुस्ते वरदानं च मोक्षार्थं नेतरत्तदा ।तथाऽस्त्विति वरं दत्वा तिरोभावं क्षणान्तरे ॥९६॥लक्ष्मीनारायणमूर्तौ विवेशाऽहं त्वया सह ।गरुडः पक्षिमूर्तौ च विवेश सहसा तदा ॥९७॥एवं स्वं दर्शनं दत्वा सुखं तेभ्योऽददां परम् ।अथ काले गते नालीकरस्य लोहकर्मभिः ॥९८॥वक्षसि श्वासरोगोऽभूत् सर्वथा श्वाससञ्चरः ।दमाख्येन हि रोगेण पीडितो भक्तराण्निजम् ॥९९॥कार्यं कर्तुमशक्तो मां प्रार्थयामास मूर्तिगम् ।द्रागाविर्भूय हस्तेन मया दुग्धं प्रपायितम् ॥१००॥हस्तेन तस्य हृदयं स्पृष्ट्वा रोगो विनाशितः ।अथ तूर्णं तिरोभूत्वा मूर्तौ सदाऽवसं रमे ॥१०१॥आयुष्यस्य क्षये नालीकरं तथा स्त्रियम् ।कुन्दनिकां विमानेनाऽनयं धामाऽक्षरं परम् ॥१०२॥एवमन्यानपि भक्ताननयं धाम चाक्षरम् ।ये भजन्ति च मां भक्त्या गुणान् गृह्णन्ति मे तथा ॥१०३॥सतां सेवां प्रकुर्वन्ति प्रेमभावेन सर्वथा ।सतां प्रसन्नता प्राप्य ते प्रयास्यन्ति मत्पदम् ॥१०४॥पठनाच्छ्रवणाच्चापि स्मरणात् सेवनादपि ।भुक्तिर्मुक्तिर्भवत्येव यथेष्टा परमा गतिः ॥१०५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नालीकरस्य लोहकारस्य भक्त्या श्रीलक्ष्मीनारायणगरुडदत्तदर्शनं तन्मोक्षणं चेत्यादिनिरूपणनामाद्वादशाधिकद्विशततमोऽध्यायः ॥२१२॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP