संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवजन्ये! श्रि! वेधसो वत्सरे ततः ।अष्टादशे लयभावाऽभिधे द्वादशकल्पके ॥१॥एकादशे मनौ तत्र युगह्रासबलात् खलु ।विनाशे साधुधर्माणां साधुदीक्षाक्षये तथा ॥२॥मोक्षमार्गस्य रोधे च दैवपैत्र्यविधौ गते ।पुनस्तत्स्थापनार्थं च रेवया साकं हरिः स्वयम् ॥३॥प्राविरासं चाऽग्रजस्य वषड्विप्रस्य सद्गृहे ।वषट्कारोऽभवन्नाम्ना विप्रो व्रतपरायणः ॥४॥तापसो हृतसर्वस्वो दुष्टनास्तिकमानवैः ।पीडितो मम भक्तोऽसौ त्यक्त्वा ग्रामे वनं ययौ ॥५॥भजते स्म सदा मां श्रीकृष्णनारायणं हरिम् ।फलैर्मूलैर्दलैः पुष्पैर्भावनैर्मानसैस्तथा ॥६॥नित्यं मां प्रातरेवाऽसौ पूजयत्येव वस्तुभिः ।भार्या तस्य तथा साध्वी जपसेवापरायणा ॥७॥नित्यं त्वां श्रीसतीं लक्ष्मीं नारायणीं सनातनीम् ।पूजयत्येव विधिना भोजयत्येव सत्फलम् ॥८॥जलं पुष्पं दलं चापि समर्पयति सादरम् ।कीर्तनं भजनं मे च ते चोभौ कुरुतः सदा ॥९॥मध्याह्ने च तथा सायं मम ध्यानपरायणौ ।अरण्यवासौ नित्यं च तावास्तां वै विदेहिनौ ॥१०॥देहार्थं वैभवा भोगा यस्य नैव क्वचित् खलु ।हर्यर्थं वैभवा यस्य विदेहः स भवेत् प्रिये ॥११॥एवं वै वर्तमानौ तावनपत्यौ सुखाश्रयौ ।वार्धक्यं किञ्चिदापन्नौ वने वृक्षनिवासिनौ ॥१२॥तयोरेवं हि वसतोः पुत्रपुत्र्येषणाऽभवत् ।वषट्कारस्य मनसि पुत्रैषणा व्यजायत ॥१३॥स्वधावत्याश्च मनसि पुत्र्येषणा व्यजायत ।माता त्विच्छति कन्यां वै सर्वकार्ये सहायिनीम् ॥१४॥पिता प्रेच्छति पुत्रं वै सर्वकार्ये सहायकम् ।पुत्रपुत्र्येषणावन्तौ गृहधर्मपरायणौ ॥१५॥उभौ तौ मां प्रार्थयतः पूजनान्ते मनोरथम् ।लोके लक्ष्मि! जनानां वै त्र्येषणा जायते मुहुः ॥१६॥लोकैषणा तथा वित्तैषणा पुत्रैषणा खलु ।नारायणस्य भक्तानां लोकैषणा प्रशाम्यति ॥१७॥यतो भक्त्या परं धाम भक्ताः प्राप्स्यन्ति वै ध्रुवम् ।साधूनां तोषिणां चापि वित्तैषणा प्रशाम्यति ॥१८॥जलाऽन्नाऽम्बरलाभश्च यात्रामात्रः सतां यतः ।पुत्रैषणा सपुत्राणां ज्ञानिनां च प्रशाम्यति ॥१९॥उत्तमर्णा धनाप्त्यर्थं जायन्तेऽपत्यरूपिणः ।तादृशानामपत्यानामसत्त्वे सुखमेव यत् ॥२०॥अपत्यानां गर्भकेऽपि जनने पालने तथा ।पोषणे लग्नकरणे व्यये रोगे हि दुःखकम् ॥२१॥तथापि लोकवाक्यानां स्पर्शो येषां प्रजायते ।विधुरोऽयं ह्यपुत्रोऽयं निर्वंशोऽयं तथैकलः ॥२२॥एवंविधानां वाक्यानां येषां नास्ति सहिष्णुता ।तेषां मायाभिभूतानामेषणाद्रुः प्रजायते ॥२३॥ज्ञानहीनस्य भक्तस्य मूल्यं भवति लौकिके ।ज्ञानिनो मम भक्तस्य दग्धं मामन्तराऽखिलम् ॥२४॥यस्य दग्धं हि सर्वं वै मायिकं तस्य किं न्विह ।पुत्रेण लोककार्येण राज्येन वैभवेन वा ॥२५॥भौतिकस्य तु पुत्रस्यैषणा बन्धाय कल्प्यते ।वषट्कारस्य विप्रस्य पुत्रैणषा ह्यभूत् किल ॥२६॥किन्तु सा मद्गोचराऽभूत् हरिर्मे सुततां व्रजेत् ।स्वधावत्याश्चैषणाऽपि लक्ष्मीर्मे बालिका भवेत् ॥२७॥एवं मद्योगसंकल्पौ तयोरास्तां शुभाश्रयौ ।तौ संकल्पौ सदा दिव्यौ मायाबन्धनवर्जितौ ॥२८॥आस्तां तयोः शुभौ तस्मान्मया ध्यानं कृतं तयोः ।पितरौ तौ विधातव्यो धर्मस्थापनहेतवे ॥२९॥तयोस्तु भक्तयोश्चापि संकल्पयोः प्रपूर्तये ।अनादिश्रीकृष्णनारायणोऽहं च त्वया सह ॥३०॥विमृश्य तद्वनं यातो गोचरस्तापसोऽभवम् ।अतिथीभूतश्चाहं त्वं मम सार्था च भिक्षुकी ॥३१॥गतवन्तौ तयोर्वासं वने वै भक्तयोः पुरम् ।तापसौ सजटौ चीरवल्कलौ रूक्षवेषिणौ ॥३२॥विप्रौ नारायणं नाम रटन्तौ मालिकान्वितौ ।साधुधर्मौ भिक्षुकौ वै मध्याह्ने समुपस्थितौ ॥३३॥तदा तौ हृष्टमनसौ चक्रतुः स्वागतं शुभम् ।पाद्यमर्घ्यं चासनं च मधुपर्कं फलादिकम् ॥३४॥सलिलं शुभवचनं ददतुस्तौ तदा हि नौ ।मया भिक्षा स्वीकृता च त्वयाऽपि स्वीकृता ततः ॥३५॥पादसंवाहनं तौ चक्राते नौ च प्रषेवणम् ।धन्यौ स्वो यत् सतोः सेवा साध्वोश्चाद्य प्रपद्यते ॥३६॥साधुसेवापापहन्त्री दिब्यपुण्यप्रदायिनी ।भुक्तिदात्री मुक्तिदात्री सर्वसंकल्पपूरणी ॥३७॥कल्पवल्लीसमा कल्पद्रुमतुल्या फलप्रदा ।चिन्तामणिसमा सेवा कामधेनुसमा सताम् ॥३८॥साधवो यस्य वै गेहे समायान्ति हरिप्रियाः ।तद्गृहं सर्वदा तीर्थं वनं वा पत्तनं च वा ॥३९॥अन्यतीर्थानि कालेन पावयन्ति यथाबलम् ।साधुतीर्थं तूर्णमेव पुनन्ति सेविनो जनान् ॥४०॥यत्र साध्वागमस्तत्रागमो वै श्रीहरेर्ध्रुवः ।यत्र हर्यागमस्तत्र मुक्तानामागमो ध्रुवः ॥४१॥यत्र मुक्तागमस्तत्र मुक्त्यागमश्च वै तथा ।मुक्तेर्यत्रागमस्तत्र भक्त्यागमोऽपि वै ध्रुवः ॥४२॥यत्र भक्त्यागमस्तत्र धर्मागमोऽपि वै ध्रुवः ।ज्ञानवैराग्ययोश्चाप्यागमश्च सम्पदां ध्रुवः ॥४३॥यत्र नारायणः कृष्णः सद्भिः सहोपपद्यते ।तत्र लक्ष्मीश्च कमला श्रीः सिद्धिः शाश्वती ध्रुवा ॥४४॥यत्र नारायणः कृष्णस्तत्र यज्ञा व्रतानि च ।तपांसि चापि सर्वाणि सुराः सर्वेऽपि तत्र च ॥४५॥यत्र नारायणः सद्भिर्भुंक्ते फलजलादिकम् ।तत्र वै भुंजते देवाः पितरश्च जगत्त्रयम् ॥४६॥अद्य वै वनवासो नौ साध्वोरागमकारणात् ।सफलः खलु सञ्जातो राज्याधिकोऽपि मोददः ॥४७॥अद्य नौ त्वनपत्यत्वं विलीनं सत्प्रसेवनात् ।अद्य नौ निर्धनत्वं च महत्यर्थे फलप्रदम् ॥४८॥अद्य नौ जीवनं जातं सार्थकं सुप्रजीवनम् ।अद्य नौ मानसौ भावौ पूरितौ निश्चितौ त्विह ॥४९॥मन्यावहेऽद्य कालोऽपि पवित्रतां प्रयास्यति ।शकुनानि शुभान्येव जायन्ते भवदागमात् ॥५०॥स्फुरन्ति शुभबोधानि चाङ्गानि नौ त्वदागमात् ।वसतामत्र पूज्यौ वै सेवयिष्याव आदरात् ॥५१॥सतां सेवाप्रसंगेन तरन्ति देहिनोऽभवम् ।वने च निर्जने चात्र भवद्वासेन शोभनः ॥५२॥सत्संगो मोदजनको नः प्रत्यहं भविष्यति ।एषा बकुलवृक्षाऽधोभागे वै पर्णशालिका ॥५३॥भवद्भ्यामर्पिता रम्या शीतातपनिवारणी ।आवां त्वन्यां करिष्यावः कुटिं स्वाश्रयदायिनीम् ॥५४॥इत्युक्त्वा विप्रयुगलं पतितं पादयोर्हि नौ ।मयोक्तं च तदा ताभ्यां कुशलं भवतोः सदा ॥५५॥निरामयं चाभ्युदयः सुखमस्तु च शाश्वतम् ।आवां वनेचरौ स्वोऽत्र नैकस्थाननिवासिनौ ॥५६॥निर्बन्धनौ सर्ववासौ गुप्तकुटिनिवासिनौ ।भवद्विधानां विप्राणां भक्तानां तु समागमे ॥५७॥दैवेच्छया जायमाने तिष्ठावो गोप्रदोहनम् ।तथापीश्वरभक्तानां निर्मलानां तपस्विनाम् ॥५८॥गृहे सञ्जायते क्वापि पक्षपातो हि नौ मुधा ।प्रेम्णाऽऽतिथ्यं गृहीतं च गृहीतं स्वागतं तथा ॥५९॥आज्ञां प्राप्य गमिष्यावो वनान्तरं च वोऽस्तु शम् ।तदा तौ चाश्रूणि मुक्त्वा प्राहतुर्नौ मुदान्वितौ ॥६०॥कुटिर्यत्र सतां संगः सा कुटिर्न तु पार्णिकी ।वासो यत्र सतां योगः स वासो न तु भूमिगः ॥६१॥जीवनं च सह सद्भिर्जीवनं न तु भोजनम् ।सुखं. सेवा सतां नित्यं कर्तव्यं नाऽपरं शुभम् ॥६२॥आवां साधुस्वरूपौ स्वो यास्यावोऽनुभवत्पदम् ।यद्वाऽत्र कुरुतां वासं सेवालाभो हि नौ भवेत् ॥६३॥भवदागमने वृक्षा मोदन्ते वनपक्षिभिः ।भवदागमने वल्ल्यो विकासन्ते सुपुष्पकैः ॥६४॥भवदागमनेऽङ्गानि हृदयाढ्यानि सर्वथा ।अनुभवन्त्यपूर्वाणि सुखान्यानन्दकानि च ॥६५॥तिष्ठते च ततोऽत्रैव दासौ स्वो भवतोरिह ।मयोक्तौ च तदा तौ वै कथमीदृक् पराऽऽग्रहः ॥६६॥क्रियतेऽत्र भवद्भ्यां वै वदतं हार्दमेव नौ ।तावुभावाहतुस्तत्र वने त्वेकाकिनौ सदा ॥६७॥आवां वासं प्रकुर्वश्च भवतां तु स्थिताविह ।सार्थवासो भवेदेव सतां संगो हि दुर्लभः ॥६८॥सपत्नीकगृहस्थस्य वासस्त्वेकाकिनो वने ।भयदो वै ततः स्थेयं गृहस्थेन सहायिना ॥६९॥द्वयोर्गृहस्थयोर्वासः शोभनो वै वनान्तरे ।त्रयाणां चाधिकानां च वासो वै चातिशोभनः ॥७०॥नारीणां तु सतीधर्मान्वितानां धर्मपालने ।साहाय्यं स्यात् प्रमदा हि साध्व्यः साध्व्यः सुखाश्रयाः ॥७१॥तस्माद् वां रोचयावोऽत्र वासं साधुप्रधर्मिणोः ।विना वै भवतोर्वासं शान्तिनौ न भविष्यति ॥७२॥तदा मयोक्तं च तथाऽस्त्वित्योमित्यभिनोदितौ ।सुखं चावापतुस्तूर्णं हर्षान्वितौ बभूवतुः ॥७३॥आवां सुखस्थितौ तयोश्चावासे कृतपूजनौ ।मुदा सायं गतं वार्तालापैः सद्धर्मबोधनैः ॥७४॥सन्ध्यां कृत्वा निशायां च हरेर्वार्ता विधाय च ।सुष्वुपुश्चापि चत्वारो निशान्ते च द्वयोरपि ॥७५॥ब्राह्ममुहूर्ते पूर्वे वै समये शोभने तदा ।विप्रस्य चापि विप्राण्याः स्वप्ने चावामुपागतौ ॥७६॥लक्ष्मीनारायणौ साक्षात्तापसौ समुपागतौ ।पुत्ररूपोऽप्यहं जातस्त्वं स्वप्ने पुत्रिकाऽभवः ॥७७॥यमलं च द्विजाभ्यां वै प्राप्तं बालस्वरूपि तत् ।प्राप्य विप्रौ सुमुदितौ ततः स्वप्नं न्यवर्तत ॥७८॥आवामदृश्यतां प्राप्तौ तौ तु जागरितौ तदा ।अभवतां ततो द्रष्टुं तौ स्वकुट्यां तु नावुभौ ॥७९॥अदृष्ट्वा सुमहाश्चर्यं प्राप्तौ च मुदितौ ततः ।आवां तत्र तदा लक्ष्मि! वायुदेवं हि गर्भगम् ॥८०॥समाहूय ददतुश्च गर्भाज्ञां गर्भदर्शनम् ।प्रकारस्य यथा गर्भवती वै प्रमदा भवेत् ॥८१॥वायुश्चैवं चकाराऽपि गर्भकुक्षौ वसन् सदा ।यथा गर्भवती नारी तथौदरमदर्शयत् ॥८२॥आवामदृश्यरूपेण वर्तमानौ तदाश्रये ।प्रतिमायां समये त्वागते यमलमेव ह ॥८३॥प्रादुर्भूतौ यदा वायुर्गर्भद्वाराद् विनिर्ययौ ।शंखचक्रगदापद्मधारिणौ यमलात्मकौ ॥८४॥कन्याकुमारकौ चोभावजायेवहि तत्पुरः ।अयोनिजावपि यद्वद् योनिजाविव वै तदा ॥८५॥आकाशात्पुष्पवृष्टिश्च देवमुक्तकृताऽभवत् ।दुन्दुभयो निनेदुश्च वने जातो महोत्सवः ॥८६॥ऋषयश्च समाजग्मुस्तत्र दर्शनहेतवे ।मंगलं बहुधा तत्र जातं जनेस्तदाऽऽवयोः ॥८७॥कृतसंस्कारकौ सर्वविधौ च यमलात्मकौ ।आवां वृद्धिं गतौ तत्राऽरण्ये च ब्रह्मचारिणौ ॥८८॥साधुधर्मपरौ साधुदीक्षायुक्तौ स्वयंकृतौ ।अजायेवहि तत्रैव ब्रह्मसूत्रान्वितावपि ॥८९॥अथाऽरण्यनिवासेभ्यो ग्रामवासेभ्य इत्यपि ।उपादिशावः साधूनां धर्मान् त्यागाश्रमार्थिनाम् ॥९०॥कामदेवस्य वै त्यागो जिह्वारासनवर्जनम् ।मोहदर्शनसन्त्यागः स्नेहस्पार्शनवर्जनम् ॥९१॥चलशब्दादिसन्त्यागो विकृतिगन्धवर्जनम् ।परिग्रहस्याऽसंगश्च रागद्वेषविवर्जनम् ॥९३२॥यात्रामात्राऽन्नसलिलग्रहणं चाऽनिकेतनम् ।मौनं कर्मपरित्यागो हरौ सर्वार्पणात्मना ॥९३॥तपोधर्मो निग्रहश्च वासनात्यजनं सदा ।ममाऽहंत्याजनं चापि दैह्यभिन्नप्रबोधनम् ॥९४॥सर्वद्रोहाकरणं च क्षमा सहिष्णुता दया ।अध्यात्मचिन्तनं नित्यं परमेशस्य पूजनम् ॥९५॥ब्रह्मस्थित्या वर्तनं च शोकमोहविवर्जनम् ।अयाचिते च सम्प्राप्ते सन्तोषश्चार्जवं तथा ॥९६॥काषायाम्बरधारित्वं करपात्रकता तथा ।यथाऽपेक्षाऽम्बरग्राहो यथासुखं वने स्थितिः ॥९७॥ओं नमः श्रीशीलनारायणाय परमात्मने ।इतिमात्रजपश्चापि भक्तिश्च परमात्मनि ॥९८॥इत्येवं वै नराणां च नारीणां साधुवृत्तिता ।शिक्षिता वै तदाऽऽवाभ्यां मानवेभ्यः सुखावहा ॥९९॥अनादिश्रीकृष्णनारायणेन परमात्मना ।मया त्वया तदाऽनादिसाधुधर्माः प्रवर्तिताः ॥१००॥अनादिश्रीशीलनारायणेन परमात्मना ।अनादिस्वामिनीनारायण्या त्वयाऽन्वितेन ह ॥ १०१॥सहोदरेण वै भ्रात्रा मया साधुस्वरूपिणा ।सहोदर्या च वै स्वस्रा त्वया साध्व्या सुयोषिता ॥१०२॥कोटिशो मानवा जाताः साधवः शीलवर्तनाः ।साध्व्यश्च कोटिशो जाताः शीलव्रतपरायणाः ॥१०३॥ततो यज्ञाश्च संजाता व्रतानि विविधानि च ।भजनं पूजनं चापि मन्दिराणि ममापि च ॥१०४॥शीलस्य नियमश्चापि दैवपैत्र्यक्रियास्तथा ।तीर्थसेवा साधुसेवा सर्वे धर्माः प्रवर्तिताः ॥१०५॥अनादिश्रीशीलनारायणेन वै मया तदा ।सर्वं जानाम्यहं लक्ष्मि! स्मर प्राकट्यमेव यत् ॥१०६॥अन्येऽपि च तदा तत्राऽवतारा मम नैकशः ।अभवन् कार्यवशगा जानाम्यहं न चेतरः ॥१०७॥इत्येवं कथितं मे ते प्राकट्यं शीलहेतवे ।स्मरणाच्छ्रवणाच्चापि पाठनान्भुक्तिमुक्तिदम् ॥१०८॥आकल्पान्तं त्वावयोश्च तदाऽभवं निवासनम् ।धर्मार्थं साधुरूपेण कोटिभिः साधुभिः सह ॥१०९॥शिष्यप्रशिष्यशाखाश्च व्यवर्धन्त तदा क्षितौ ।मात्रे पित्रे ततो मुक्तिं दत्वा गतौ निजाक्षरम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टादशे वत्सरे साधुधर्मस्थापनार्थम् अनादिश्रीशीलनारायणस्य प्राकट्यमित्यादिनिरूपणनामा पञ्चदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP