संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणुनारायणीश्रि त्वं गुरोर्बलं महत्तमम् ।महापापातिपापानां नाशकं परमोज्ज्वलम् ॥१॥जालन्धरे महापीठे देशे दासक्रियापरम् ।खशजातिकुटुम्बं वै न्यवसन्मामके पुरे ॥२॥विष्णुदासो हि नाम्नाऽभूत् खशो धर्मपरायणः ।अनिवेद्य विष्णवे च गुरवेऽप्यनिवेद्य सः ॥३॥नैव भुंक्तेऽन्नवस्त्रादि फलं जलाद्यपि क्वचित् ।विष्णुदासस्य वै तत्र गुरुर्मोक्षपरायणः ॥४॥साधुर्नाम्ना ऋषिधर्मो मोक्षदो भक्तिकारकः ।नित्यं त्रिषवणस्नायी त्रिकालदेवतार्हणः ॥५॥व्यवस्थापरवृत्तिश्च त्रिगुणक्लेशवर्जितः ।अयाचितान्नपत्रादिवृत्तिर्दिगम्बरः सदा ॥६॥नदीतीरे कृतावासो वृक्षाऽधो निर्जने स्थितः ।नित्यं वै भजते नारायणं मां पुरुषोत्तमम् ॥७॥द्वन्द्वसहिष्णुरेवाऽयं रागद्वेषविवर्जितः ।निरीहोऽप्यतिनिष्कामो वृद्धो दोषविवर्जितः ॥८॥वाक्सिद्धश्चापि मौनी च जयत्येव च मां सदा ।आर्ताश्चायान्ति चार्तीनां नाशार्थं शरणं यदा ॥९॥आशीर्वादैर्जलदानैः रजोदानैर्व्यपोहति ।दुःखानि शरणार्थिनां परोपकारभूषणः ॥१०॥लोकाः फलानि वस्त्राणि मिष्टान्नानि धनानि च ।अग्रे समर्प्य तिष्ठन्ति प्रयान्ति तं प्रपूज्य च ॥११॥साधुर्वस्तूनि नैवाऽयं स्पृशति नापि पश्यति ।अन्ये तु भिक्षुका यद्वा पशवो वा हरन्ति च ॥१२॥निर्मोहो निर्ममश्चाऽयं वर्तते चाप्यमायया ।एवंविधं गुरुम् ऋषिधर्मं खशो निषेवते ॥१३॥खशपत्नी रामणी च सेवते मार्जनादिभिः ।पत्रपुष्पाद्यर्पणैश्च पादसंवाहनादिभिः ॥१४॥खशस्याऽऽसीत् कन्यका च नाम्ना लीलावती शुभा ।द्वादशाब्दा हि साधोः सा सेवायां वर्तते सदा ॥१५॥देवार्थं पुष्पवल्लीनां जलसेकादिकर्मणि ।श्रद्धावती भक्तिमती भक्तानां स्वागतादिषु ॥१६॥सा चाऽज्ञानवशा कन्या वृक्षेषु जलसेचने ।बिलवासां मूषिकां सापत्यां ददर्श निर्गताम् ॥१७॥बालभावेन कन्या सा धृत्वाऽपत्यानि तानि च ।दूरं गत्वा निचिक्षेप बालान् मातृवियोजितान् ॥१८॥मूषिका भयमापन्ना तृणपुंजान्तरे स्थिता ।स्वल्पान् बालानाददाना कन्यां शशाप वै तदा ॥१९॥मद्वियुक्ताश्च मे बाला यथा दुःखगतास्तथा ।भवती पितृमात्रादिवियुक्ता दुःखिनी भव ॥२०॥मूषिकायास्तु शापोऽयं दारुणो वै व्यजायत ।दिनान्तरे च तत्पाकफलं प्राप्तं हि कन्यया ॥२१॥कन्या सायं गुरुं संसेव्य गृहं याति यावता ।मार्गे म्लेच्छो युवा कश्चित्प्राप्तो जग्राह कन्यकाम् ॥२२॥रोरूयमाणां शीघ्रं तां निनाय बलवान् वनम् ।वनाद् वनान्तरं रात्रौ दूरदेशं गतोऽभवत् ॥२३॥म्लेच्छेन स्वगृहे दासी कृता सा कन्यका खशी ।मद्यं वै पायितं चापि मांसं च भोजितं तथा ॥२४॥व्यवायितं तथा पापं हिंसादि कारितं मुहुः ।म्लेच्छकर्म समस्तं वै कारितं तेन कन्यया ॥२५॥म्लेच्छी सा ह्यबला चाप्यज्ञाताऽरण्यस्य मार्गकम् ।नैव जानाति वै नित्यं शोचत्येव गृहागमम् ॥२६॥अथैकदा पुरे म्लेच्छोत्सवोऽभवद् विवाहजः ।तत्राऽऽययुर्गायिकाश्च गणिकाश्चोत्सवे तदा ॥२७॥सैषा खशी सुरूपा च गणिकाः समलोकयत् ।दासीभावेन ताम्बूलं ददाति नर्तनादिषु ॥२८॥नियोजिता हि म्लेच्छेन गणिकासेवनं व्यधात् ।गणिका तां समपृच्छत् क्व ते माता पिता सुते ॥२९॥खशी श्रुत्वा जगादैव सर्वं वृत्तान्तकं निजम् ।भावं ज्ञात्वा गमनस्य हरणार्थं मनो व्यधात् ॥३०॥विश्वासं सम्प्रदायैव संकेतं चाऽकरोत् ततः ।अथ कालान्तरे संकेतानुसारेण कन्यकाम् ॥३१॥म्लेच्छगृहाद्धि निष्कास्याऽप्रापयद् गणिका गृहम् ।गणिकायाः शुभा दासी ततोऽभवद्धि कन्यका ॥३२॥व्यवायादौ प्रवृत्ता चाऽभवद्धर्मविवर्जिता ।महापापातिपापानि करोति गणिकावशा ॥३३॥अथ कालान्तरे रुग्णाऽभवद्वै गणिका ह्यति ।उदरेन्द्रियरोगार्ताऽभक्षयच्चौषधान्यपि ॥३४॥नैवाऽऽरोग्यं लभते वै गणिका सा शुशोच ह ।कथं रोगो भवेद् दूरं भगन्दरात्मको मम ॥३५॥दासी खशी तदोवाच गुरुर्मेऽस्ति महान् प्रभुः ।समर्थो रोगनाशाय वाक्सिद्धिस्तत्र याहि वै ॥३६॥श्रुत्वैवं गणिका ज्ञात्वा वृत्तान्तं तु गुरोः शुभम् ।सज्जा बभूव सहसा द्रव्यखशीसमन्विता ॥३७॥अन्या दासीश्च गणिका भाण्डाँश्च पुरुषानपि ।आदाय गणिकाऽरण्यमुल्लंघ्य यत्र राजते ॥३८॥साधुस्तत्र नदीतीरे समायाताऽतिभावतः ।खशी लीलावती चाऽतिप्रसन्नाऽभूद्धृदन्तरे ॥३९॥साधुं ननाम भावेन प्राप्ता स्वं पितरं यथा ।गुरुं देवं प्रणम्यैव वृत्तान्तं स्वं न्यवेदयत् ॥४०॥गणिकायाश्च वृत्तान्तं रोगनाशार्थकं ह्यपि ।न्यवेदयत्ततः साधुः प्राह कर्मफलं तदा ॥४१॥यया यादृक् कृतं पूर्वं तया तादृक् प्रभुज्यते ।लीलावति! त्वया बाला मूषिकाया वियोजिताः ॥४२॥वृक्षाणां वारिदानार्थकाले मूषिकया तदा ।शप्ता त्वं च वियोगेन पित्रोर्दुःखं गता ततः ॥४३॥गणिकेयं व्यवायेन रोगं भुंक्ते निकृष्टकम् ।किन्तु त्वया मम सेवा कृता पूर्वं फलं हि तत् ॥४४॥कारयामास मे प्राप्तिं पुनश्चाऽस्या मिषेण वै ।गणिकेयं चातिथीनां सेवापरायणाऽभवत् ॥४५॥भक्तायास्तव योगेन मद्योगं समुपागता ।साधुं नयति सत्संगः कुसंगस्तु ह्यसाधुकम् ॥४६॥दुष्टं कर्म दुःखयति सती सुखयति क्रिया ।साधुसंगस्तु पुण्येन जायते नान्यथा सुते ॥४७॥तव पापानि सर्वाणि मार्जये म्लेच्छजानि वै ।गणिकायाश्च पापानि मार्जये चापि पुत्रिके ॥४८॥ममाऽत्र सन्निधौ वासं पर्णशालां विधाय वै ।कुर्वन्त्यत्रैव च व्रतं कायशोधार्थमित्यपि ॥४९॥इत्युक्तास्ताः समस्ताश्च वृक्षाऽधोभूतले शुभाम् ।पर्णकुटीं विधायैव वासं चक्रुर्हि सन्निधौ ॥५०॥एकभुक्तं व्रतं ताभ्यो ददौ च ऋषिधर्मकः ।पञ्चगव्यं व्रते चाप्यप्राशयद् वै दिनत्रयम् ॥५१॥ततो मन्त्रान् ददौ लक्ष्मि! ताभ्यः ऋषिवरः शुभान् ।'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ॥५२॥'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ॥५३॥'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।'ब्राह्म्यहं श्रीकृष्णनारायणभक्ताऽस्मि शाश्वती ॥५४॥अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।इतिमन्त्रान् ददौ कर्णे हस्ते जलं ददौ तथा ॥५५॥ 'ओ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।इत्युक्त्वा ऋषिधर्मः स जलं व्यामोचयद् भुवि ॥५६॥तावत्तत्राऽभवल्लक्ष्मि! महाश्चर्यं च तच्छृणु ।लीलावत्यास्तथा तासां गणिकानां शरीरतः ॥५७॥समन्ततो नीलवर्णा निर्ययुः काकपक्षिणः ।निर्ययुश्च ततो घूकास्ततश्च मशका अपि ॥५८॥पिशाचाश्च ततश्चापि कद्रूपाः क्रूरविग्रहाः ।वृक्णाः कृशाः क्षुधिताश्च दुर्बलाः काणखञ्जकाः ॥५९॥कुष्ठिनश्च जडाश्चान्धा दुर्गन्धा मलसंभृताः ।निर्ययुश्च रुधिराढ्याः सर्वांगविषमास्तदा ॥६०॥रुरुदुस्ते ऋषिं वीक्ष्य नग्नाः सर्वे निराश्रयाः ।लीलावती गणिकाद्या आपुश्चाश्चर्यमेव च ॥६१॥तास्तु ऋषिं गुरुं नत्वा पप्रच्छुः के इमे गुरो! ।गुरुः प्राह सुते! सर्वपापानि सन्ति वः खलु ॥६२॥मया मन्त्रप्रदानेन निष्कासितानि देहतः ।काका इमे श्वपचानां संगजानि ह्यघानि वै ॥६३॥घूकाश्चेमे गणिकात्वे कृतान्यघानि सन्ति वै ।मशका मद्यपानस्य पापानि सन्ति तानि वै ॥६४॥पिशाचाश्च भवतीनां मांसाऽशनान्यघानि वै ।तानि सर्वाणि देहेभ्यो युष्माकं निर्गतानि वै ॥६५॥रुदन्ति तानि सर्वाणि पश्यन्त्विमानि योषितः ।पापान्यपि तदा लक्ष्मि! चक्रुर्वै प्रार्थनां मुने ॥६६॥निराधाराणि सर्वाणि वयं सुदुःखितानि ह ।ऋषे मोक्षं विधेह्यत्र जलदानेन सर्वथा ॥६७॥श्रुत्वा ऋषिर्निजं पादं दक्षं प्रक्षाल्य तेषु वै ।अञ्जलिना निचिक्षेप गृहीता बिन्दवश्च तैः ॥६८॥पीताः सर्वे बिन्दवश्च तृप्तान्यघानि वै तदा ।एवमृषिः पुनश्चापि चिक्षेपापि जलाञ्जलिम् ॥६९॥अथ दिव्यस्वरूपास्ते यथा देवास्तथाऽभवन् ।अथाऽञ्जलिं तृतीयं च चिक्षेप देवतोपरि ॥७०॥तूर्णं त्र्यक्षा गणाः सर्वे बभूवुः शूलधारिणः ।पापान्यपि पुण्यजना अभवँस्ते सहस्रशः ॥७१॥सर्वे नराकृतयश्च दिव्यरूपधराः शुभाः ।ऋषेराज्ञां समादाय नत्वा हिमालयं ययुः ॥७२॥ततो मेरुं ययुः सर्वे पुण्यजना हि तेऽभवन् ।ख्याता देवगणाः सर्वे साधोरेव प्रतापतः ॥७३॥अथ पापादिशून्याश्च गणिका देवता यथा ।अभवन् दिव्यरूपाश्च ताभ्यः पादजलं ददौ ॥७४॥ऋषेः पादजलं पीत्वा नीरुग्णा गणिकाऽभवत् ।अन्याश्चापि जलं पीत्वा नष्टसंसारवासनाः ॥७५॥योगिन्यश्च यथा साध्व्यस्तथा सर्वास्तदाऽभवन् ।रोगा निर्गत्य तूर्णं वै नत्वा कैलासकं ययुः ॥७६॥सर्वा दीक्षां जगृहुश्च साध्वीनां गणिका हि ताः ॥भाण्डाश्च जगृहुर्दीक्षां साधूनां तत्र वै तदा ॥७७॥ 'हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ।अनादिश्रीकृष्णनारायणाऽक्षरपते विभो ॥७८॥इत्येवं भजनं चक्रुस्तत्राश्रमे च संहिताः ।लीलावत्याः पितरौ च प्राप्य पुत्रीं सुखान्वितौ ॥७९॥बभूवतुर्हि कमले भक्तौ गुरुप्रतापतः ।साधुदीक्षां जगृहतुः खशौ तौ तत्र स सद्गुरोः ॥८०॥पापनाशात्मिकी वार्ता प्रासरत् सर्वतोदिशि ।मानवाः पापनाशार्थं चाययुश्चकितास्तदा ॥८१॥नरानार्यो जगृहुश्च दीक्षां श्रीवैष्णवीम् ऋषेः ।ताः संविधाय मुक्ताँश्च प्रेषयामास चाऽक्षरम् ॥८२॥शिष्याश्चापि च शिष्यांश्च प्रेषयामास चाक्षरम् ।ऋषेः संकल्पमात्रेण विमानानि चिदम्बरात् ॥८३॥पार्षदैः सहितान्येव विष्णुमूर्तियुतानि वै ।आगतानि च तान्यारुह्यैव ययुः परं पदम्॥८४॥वैकुण्ठवासा अभवन् गणिकाद्या गुरोर्बलात् ।लीलावती तथा तस्याः सख्यः पञ्च तथाऽपराः ॥८५॥सहस्रशोऽभवन् धाम्नि वैकुण्ठे श्रीहरेर्मम ।सेयं लीलावती तेऽस्ति काशीराजसुताऽधुना ॥८६॥भगिनी तव चाऽत्राऽऽस्ते ब्रह्मप्रिया विवाहिता ।गणिका सा सुशीलाऽऽस्ते सखी तेऽत्र समुद्रजे ॥८७॥इत्येवं शिवराज्ञीश्रि मम योगेन निर्गुणः ।ऋषिधर्मो निर्गुणश्च तद्योगेन नराः स्त्रियः ॥८८॥निर्गुणा एव जायन्ते मुक्ता एव न संशयः ।ऽकामात् क्रोधाद् भयाल्लोभान्मा ये याः पर्युपासते ॥८९॥मद्भक्ताँश्चापि साधूँश्च गुरून् तानुद्धराम्यहम् ।अपि पापा दुराचारा गुरोर्योगेन पावनाः ॥९०॥जायन्ते धामवासाश्च किमुत व्रतिनां तु मे ।गुरौ वै कृतसर्वस्वा गुरुतीर्शेनषेविणः ॥९१॥गुरौ विश्वासमापन्नाः प्रयान्ति परमं पदम् ।गुरुर्देवो गुरुः कृष्णो गुरुर्दीक्षा हि पावनी ॥९२॥गुरुर्व्रतं गुरुर्दानं गुरुर्यस्या मतो हरिः ।गुरुतीर्थप्रतापेन भवाऽब्धिं सा तरत्यपि ॥९३॥प्रयाति परमानन्दं धामाऽक्षरं हि शाश्वतम् ।मम वासमयं दिव्यं सर्वधामपरं प्रियम् ॥९४॥सर्वतृप्तिप्रदं सर्वकामनापूरकं पदम् ।न न्यूनं वर्तते तत्राऽश्नुते भोगान् मया सह ॥९५॥वध्वो वापि विधवा वा ह्यधवा वा निराश्रिताः ।गुरुतीर्थं परं प्राप्य मुच्यन्ते भवसागरात् ॥९६॥पठनाच्छ्रवणाच्चाऽस्य स्मरणात् कथनादपि ।भुक्तिर्मुक्तिर्दिव्यगतिर्धामप्राप्तिः प्रजायते ॥९७॥सकामानां स्वर्गलब्धिर्निष्कामानां प्रमोक्षणम् ।मत्कामानां मम प्राप्तिः पुरुषोत्तमशार्ङ्गिणः ॥९८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे ऋषिधर्ममहर्षेर्योगेन लीलावत्याः सुशीलादीनां च पापानां विगमे ब्रह्मप्रियात्वप्राप्त्यादि-निरूपणनामा चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP