संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-कदा काले प्रदानेन स्वर्णगोभूमयः फलम् ।कीदृशं समददति तन्मे बोधय केशव ॥१॥श्रीपुरुषोत्तम उवाच-दत्वा दानानि प्रथमे दिने शुक्लस्य पद्मजे ।श्राद्धभोजनयुक्तानि प्राप्नुयात् सुभगाः प्रियाः ॥२॥द्वितीयायां तथा दत्वा लभते कन्यकाः सुतान् ।तृतीयायां तथा दत्वा लभते श्रेष्ठवाजिनः ॥३॥चतुर्थ्यां तु तदा दत्वा लभते पशुगोधनम् ।पञ्चम्यां तु तथा दत्वा लभते सद्गुणान् सुतान् ॥४॥षष्ठ्यां तु च तथा दत्वा लभते सद्यशो बलम् ।सप्तम्यां तु तथा दत्वा लभते क्षेत्रवाटिकाम् ॥५॥अष्टम्यां तु तथा दत्वा लभते द्रव्यमुत्तमम् ।नवम्यां तु तथा दत्वा हस्त्युष्ट्राऽश्वादिकान् लभेत् ॥६॥दशम्यां तु तथा दत्वा कामधेनुयुतो भवेत् ।एकादश्यां तथा दत्वा रूप्यशेवधिमान् भवेत् ॥७॥द्वादश्यां तु तथा दत्वा स्वर्णरत्नादिमान् भवेत् ।त्रयोदश्यां तथा दत्वा लोकराजस्तथा भवेत् ॥८॥चतुर्दश्यां तथा दत्वा साम्राज्यं समवाप्नुयात् ।पूर्णमास्यां तथा दत्वा चमत्कारी जनो भवेत् ॥९॥अमायां तु तथा दत्वा सर्वान् कामानवाप्नुयात् ।मे जयन्त्यां तथा दत्वा मोक्षं परममाप्नुयात् ॥१०॥नक्षत्रेषु विशेषेण दानफलं वदामि च ।कृत्तिकायां प्रदानेन भवेद्वै विगतज्वरः ॥११॥रोहिण्यां सम्प्रदानेन चापत्यवान् भवेज्जनः ।दानेन मृगशिरसि तेजस्वी मानवान् भवेत् ॥१२॥आर्द्रायां तु प्रदानेन जयवान् सर्वदा भवेत्॥पुनर्वसौ प्रदानेन धनवान् ऋद्धिमान् भवेत् ॥१३॥पुष्ये दानप्रदाता तु सर्वथा पुष्टिमान् भवेत् ।आश्लेषायां प्रदानेन धीरान् पुत्रानवाप्नुयात् ॥१४॥मघायां तु प्रदानेन प्रजाप्राधान्यमाप्नुयात् ।पूर्वाफाल्गुनिकादानाच्छ्रेष्ठभाग्ययुतो भवेत् ॥१५॥उत्तराफाल्गुनीदानाद्बह्वपत्यो भवेज्जनः ।हस्ते दानप्रकर्ता तु कार्यफलानि चाप्नुयात् ॥१६॥चित्रायां तु प्रदानेन लभेद् रूपवतः सुतान् ।स्वातौ दानप्रदाता तु वाणिज्यरत्नवान् भवेत् ॥१७॥विशाखायां प्रदाता तु सुपुत्रो बहुपुत्रवान् ।अनुराधासु दाता स्याच्चक्रवर्ती प्रधानकः ॥१८॥ज्येष्ठायां सम्प्रदाता वै चाधिपत्यं लभेदिह ।मूले दानप्रकर्ता तु लभेदारोग्यमुत्तमम् ॥१९॥पूर्वाषाढाप्रदानेन यशोभाङ्मानवान् भवेत् ।उत्तराषाढिकादानाद् वीतशोको भवेत् सदा ॥२०॥दानं त्वभिजिति कुर्वन् भिषक्सिद्धिमवाप्नुयात् ।श्रवणे दानकर्ता तु लभेत्सुपरमां गतिम् ॥२१॥धनिष्ठायां प्रदाता स्यादाचार्यो गुरुराण्नृपः ।शतभिषाप्रदानेन धातुसिद्धिमवाप्नुयात् ॥२२॥पूर्वभाद्रपदादानफलं चाजाविकादिकम् ।उत्तरप्रोष्ठपदादो गोवाजिगजवान् भवेत् ॥२३॥रेवत्यां तु प्रदानेन स्वर्णरूप्यादिमान् भवेत् ।अश्विनीदानकर्ता स्यान्महिष्यश्वादिमान् जनः ॥२४॥भरण्यां दानदो दीर्घजीवी भवेन्न संशयः ।गोभूस्वर्णप्रदाता वै सर्वफलान्यवाप्नुयात् ॥२५॥परीक्षेत न वै दानपात्राणि दानधर्मवित् ।दैवे पैत्र्ये च साधव्ये परीक्षेत न वै क्वचित् ॥२६॥विद्यावन्तो भक्तिमन्तो ब्रह्मिष्ठाः सर्वपावनाः ।सदाचारपरा ब्रह्मदेयाश्च सामगा द्विजाः ॥२७॥मातापितृसेवकाश्च देवानां सेवकास्तथा ।ब्रह्मचर्यपराः शुद्धा यतयः सर्वपावनाः ॥२८॥सत्यधर्मव्रतशीलाः पुण्यतीर्थनिषेविणः ।मखाभिषेकवन्तश्चाऽवभृथस्नानकारिणः ॥२९॥पारायणप्रवक्तारस्तापसाः कीर्तने रताः ।मोक्षमार्गपराः कथावाचका धर्मदेशकाः ॥३०॥गुरुमन्त्रप्रदा वृद्धादरा गोसेवकाश्च ये ।साधवः साधुसेवाढ्याः पात्राणि सर्वपावनाः ॥३१॥अग्र्या धर्मप्रलेखेषु मोक्षलेखेषु चाग्रगाः ।विद्याश्रया ज्ञानशीलाः शान्ता वै पंक्तिपावानाः ॥३२॥यावदेते प्रपश्यन्ति पंक्तिं पुनन्ति तत्क्षणात् ।ध्यानज्ञानपरा भक्तिपरास्तपःपरास्तथा ॥३३॥निर्गुणक्रियया युक्ताः साधवः पंक्तिपावनाः ।प्रेतानां मुक्तिदाः सन्तो भोजिताः पूजिता नताः ॥३४॥भक्तिमन्तस्तापसाश्च सन्तो ब्रह्माण्डपावनाः ।तपश्चैषामिन्द्रियाणां निग्रहः परमं मतम् ॥३५॥मनसो निग्रहश्चापि श्रीहरेर्धारणं सदा ।त्यागस्य चापि सम्पत्तिस्तप उत्तममेव तत् ॥३६॥उपवासो ब्रह्मचर्यं मौनं क्षमा तपः परम् ।तितिक्षा तुष्टिरौदार्यं सहनं तप उत्तमम् ॥३७॥ऋतवादित्वमेवाऽपि विघसाशित्वमित्यपि ।अमृताशित्वमेवापि परमं तप उच्यते ॥३८॥एकभुक्तो भवेदेव सदोपवासिवत् खलु ।एकपत्नीव्रतश्चापि ब्रह्मचारी सदा भवेत् ॥३९॥ऋतुमात्रप्रसंगी च साधुरेव भवेद्धि सः ।स्त्रीमात्रसंगरहितो मुक्तो भूमौ न संशयः ॥४०॥स्वर्णस्त्रीपाशरहितो द्विभुजः परमेश्वरः ।तादृशी स्त्री धर्मयुक्ता साक्षान्नारायणी मता ॥४१॥साध्वी सा दानपात्रं च सती पात्रं तथोत्तमम् ।विधवा दानपात्रं चाऽप्यनाथा दानपात्रकम् ॥४२॥कन्यका दानपात्रं च वृद्धा दानस्य पात्रकम् ।निराश्रया दानपात्रं यदि भक्तिवृषान्विता ॥४३॥दानदाता पवित्रो वै सदा भवति भक्तिमान् ।विभज्य च ततो भुंक्तेऽमृतभोजी भवेद्धि सः ॥४४॥देवेभ्यः सन्निवेद्याऽत्ता विघसाशी भवेद्धि सः ।एतादृशस्य भवने ह्यदृश्या अपि ऋद्धयः ॥४५॥मूर्तरूपं परं प्राप्य मोदन्ते मोदयन्ति तम् ।देवताः पितरः सिद्धा योगिनो यतयस्तथा ॥४६॥सन्त ईशा ईश्वराण्यो रमन्ते दातृमन्दिरे ।अप्सरसश्च गन्धर्वाः सुरा देव्यश्च साधवः ॥४७॥सत्यश्च भाग्यवत्यश्च तथा च कामधेनवः ।पुत्राः पौत्राः सुताः पुत्र्यो गावश्चास्य भवन्ति हि ॥४८॥एवं दातुः कुटुम्बं वै सर्वं देवकुलं भवेत् ।पशवो देवपशवः सस्यानि दैवतान्यपि ॥४९॥स्वर्णरूप्यादिकं सर्वं लक्ष्मीरूपं सुदैवतम् ।भाग्यान्यपि च सर्वाणि रूपं भूषाश्च दैवतम् ॥५०॥एवं दातुर्भवेदेव दिव्यं दैवं कुटुम्बकम् ।तस्माल्लक्ष्मि प्रदातव्यं स्वर्णं गौः पृथिवी शुभा ॥ ५१॥यदि पाचनशक्तिः स्याद् ग्रहीतव्यं न चान्यथा ।अल्पशक्तेः पुण्यनाशो भवत्येव प्रतिग्रहात् ॥५२॥सप्तर्षिभ्यः पुरा राजा वृषादर्भिः समुत्सुकः ।रत्नान्यदर्शयद् दातुं नाऽगृह्णन् ऋषयस्तदा ॥५३॥वृषादर्भिः स्वयं प्राह समर्थाः स्थ प्रतिग्रहे ।प्रतिग्रहस्तारयति वृणुध्वं वित्तमुत्तमम् ॥५४॥सुवर्णानि रूप्यकाणि मौक्तिकानि च हीरकान् ।मणीन् श्वेतगजानश्वान् श्वेतान् गोवृषभाँस्तथा ॥५५॥गृष्टीश्चाग्न्याः कामधेनूर्ग्रामान् क्षेत्राणि चार्पये ।राज्यं राज्ञीर्दासवर्गान् दासीदास्ये महासभाः ॥५६॥प्रासादान् सरितश्चाद्रीन् दास्ये वनानि सर्वशः ।गृह्णन्तु ब्राह्मणा मेऽद्य विप्राश्च साधवो मम ॥५७॥अदेयं मे विद्यते न मोक्षार्थं प्रयते यतः ।दत्वा पात्रेभ्य एवाऽत्र लप्स्येऽहं शाश्वतं फलम् ॥५८॥इत्येवं त्वर्थयन्तं वै दानं दातुं ह्युपस्थितम् ।ऋषयः प्राहुरव्यग्रा धीराः शान्ताः प्रतोषिणः ॥५९॥राजन् प्रतिग्रहो राज्ञां मध्वास्वादो विषोपमः ।तद् दाव इव निर्दह्यात् प्राप्तो राजपरिग्रहः ॥६०॥अप्रतिग्राह्यमेवाऽतः प्रेत्येह च सुखेप्सुना ।राजधनं प्रतीच्छन् वै पापिष्ठां लभते गतिम् ॥६१॥यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।सर्वं तन्नाऽलमेकस्य तस्माद् विद्वान् शमे वसेत् ॥६२॥उत्पन्नस्य रुरोः अंगं वर्धमानस्य वर्धते ।पुरुषस्य स्त्रियाश्चापि तथेच्छा वर्धते सदा ॥६३॥न तल्लोके द्रव्यमस्ति यल्लोकान् परितर्पयेत् ।समुद्रतृष्णः पुरुषो न कदापि प्रतुष्यति ॥६४॥कामं कामयमानस्य कामो यदोपयुज्यते ।प्रकामः स प्रवर्धेत सतृष्णश्चाति विध्यति ॥६५॥प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् ।परिग्रहे तपः सर्वं नश्यत्येव न संशयः ॥६६॥तपःसंचय एवेह विशिष्टो द्रव्यसञ्चयात् ।तस्माद् राजान् धनं तेऽस्तु मा विषं सेचय द्विजे ॥६७॥दावं राजधनं नैवेच्छामः शान्ता महर्षयः ।स्वस्ति तेऽस्तु महाराज! यामो वयं दिवं पुनः ॥६८॥इत्युक्त्वा प्रययुः सर्वर्षयो दानग्रहं विना ।वृषादर्भिस्ततः सम्यज्ज्ञातवान् दानघोरताम् ॥६९॥अपात्रेऽर्पितदानस्याऽपथ्यत्वं सुतरां खलु ।तस्मात् पात्रं हि दानानां पुण्याश्रया द्विजास्तथा ॥७०॥सन्तोऽपि भगद्भक्तास्तेभ्यो देयं विशेषतः ।विप्रा अपि हरेर्भक्तास्तेभ्यो देयं विशेषतः ॥७१॥ये लोभं नैव कुर्वन्ति स्वार्थमात्रविवर्जिताः ।श्रीहरेः पूजकास्तेभ्यो देयं दानं विशेषतः ॥७२॥पात्रजनः सर्वरीत्या लोभं सदा विवर्जयेत् ।हरये चाऽर्पणं मत्वा गृह्णीयान्नान्यथा क्वचित् ॥७३॥वृषादर्भिस्ततो लक्ष्मि प्रयागे कुंभयोगके ।ददौ दानानि गत्वैव साधुभ्यस्तानि भाववान् ॥७४॥अथाऽऽगतं विमानं च वैकुण्ठाद् यामुने तटे ।गंगायाः संगमे विष्णुपार्षदैः शोभितं तदा ॥७५॥राजानं पार्षदा नीत्वा ययुर्विकुण्ठधाम ह ।एवं साधुजनानां वै सेवया मोक्षणं रमे! ॥७६॥भवत्येव न सन्देहस्तस्मात् पात्रं समर्जयेत् ।दद्याद्भावेन तस्मै च हरयेऽर्पणमस्त्विति ॥७७॥अथ दद्याच्छत्रदानं चोपानद्दानमित्यपि ।धोत्रकञ्चुकदानं च शिरस्त्राणसमर्पणम् ॥७८॥भवेच्छत्रपतिस्तेन भवेद्विमानगस्तथा ।दद्यात् सिंहासनदानं राज्याधिपो भवेत्ततः ॥७९॥दद्याच्चामरदानं च वेत्रदानं तथाऽर्पयेत् ।ध्वजदानं प्रकुर्याच्च रथदानं चरेत्तथा ॥८०॥कोशदानं प्रकुर्याच्च कणसञ्चयदानकम् ।इक्षुक्षेत्रप्रदानं च सस्यक्षेत्रप्रदानकम् ॥८१॥सरोवराऽर्पणं चापि शाकवाटीप्रदानकम् ।उद्यानपुष्पवाट्यादेर्दानं कुर्यात्प्रयत्नतः ॥८२॥शाटीभूषाकञ्चुकीन कुर्याद् दानानि वै तथा ।खद्वाशय्याप्रदानानि कुर्यात् प्रेतस्य मुक्तये ॥८३॥पात्रगर्गरिकादानं कलशस्थालिकाऽर्पणम् ।शृंगारवस्तुदानानि दद्यात् प्रेतस्य मुक्तये ॥८४॥उदकुंभीदुग्धकुंभीदधिकुंभीप्रदानकम् ।जलद्रोणीघृतकुंभीकण्डन्यादिसमर्पणम् ॥८५॥मुशलस्य प्रदानं च मार्जनीसम्प्रदानकम् ।व्यजनादेः प्रदानं च दीपपेटीप्रदानकम् ॥८६॥शय्याध्रीसम्प्रदानं च पात्रध्रीसम्प्रदानकम् ।चुल्लिकापेषणीदानं दर्वीचीपिटिकाऽर्पणम् ॥८७॥सन्दंशदानं कांगकेशीदानं दर्पणदानकम् ।रशनारज्जुदानानि कारयेत् प्रेतमुक्तये ॥८८॥जलदानं रन्धितान्नप्रदानं च फलार्पणम् ।पयःपाकादिदानं च मिष्टान्नानां प्रदानकम् ॥८९॥गोधूमशालितिलानां दानानि विविधानि च ।कुर्याद् रसमधुक्षारार्पणं प्रेतस्य मुक्तये ॥९०॥महाकम्बलदानानि महाम्बरप्रदानकम् ।महाशृंगारदानानि कुर्यात् प्रेतस्य मुक्तये ॥९१॥एकादश्यादिपुण्यानां दानं कुर्यात् प्रयत्नतः ।व्रतदानं तपोदानं भक्तिदानं कथाऽर्पणम् ॥९२॥जपदानं धर्मदानं कुर्यात् प्रेतस्य मुक्तये ।वायुवाहनदानं च वह्निवाहनदानकम् ॥९३॥जलवाहनदानं च भूवाहनप्रदानकम् ।नरयानप्रदानं च यन्त्रवाहनदानकम् ॥९४॥सौधदानं मन्दिरस्य दानं प्रासाददानकम् ।ग्रामदानं वर्मदानं कुर्यात् प्रेतस्य मुक्तये ॥९५॥शृणु लक्ष्मि पुरा नैजे चाश्रमे संवसन् ऋषिः ।क्रीडन् वै धनुषा बाणान् जमदग्निर्मुमोच ह ॥९६॥तानानीय शरान् पत्नी रेणुकाऽदात् पुनः पुनः ।मध्याह्ने विषतापश्च सूर्यस्योग्रोऽभवत्तदा ॥९७॥दग्धपादा तु सा पत्नी शनैरायात् पतिं प्रति ।मुनिः प्राह कथं कान्ते! चिरायते शराऽऽहृतौ ॥९८॥पत्नी प्राहाऽर्कतापेन दग्धापादा भवामि वै ।मुनिस्तूर्णं समाकर्ण्य शरान्मुमोच भास्करम् ॥९९॥सूर्यस्त्रस्तश्चाययौ च विप्ररूपो मुनिं प्रति ।उवाचर्षे हत मा मां प्रसादये क्षमस्व माम् ॥१००॥मुनिः प्राह मम पत्न्याः पन्थाः सुखगमो यथा ।भवेत् तापविहीनो वै तथा सूर्य विधापय ॥१०१॥श्रुत्वा सूर्यो ददावस्मै छत्रोपानहमाशु वै ।स्वल्पं यानं कामगं च भूषाम्बराणि वै तथा ॥१०२॥पात्रमक्षयमेवाऽपि कल्पछायां वितानजाम् ।हारं तापहारं चापि तृप्तिदं चामृतं तथा ॥१०३॥उपकरणान्यन्यानि ददौ सूर्यः सुखानि च ।ययौ नत्वा दिवं चाऽर्को रेणुकाऽभूत् सुखाश्रया ॥१०४॥अपाददग्धा मृदुला ऋषिः प्रसन्नतां गतः ।एवं छत्रादिदानं वै प्रवृत्तं सूर्यमूलकम् ॥१०५॥तत्तद्दानप्रदानेन जीवतां प्रेतदेहिनाम् ।दुःखशान्तिर्भवत्येव पुण्येन मोक्षणं भवेत् ॥१०६॥पठनाच्छ्रवणादस्य सर्वदानफलं भवेत् ।लक्ष्मि! दानफलं सर्वं पुनरायाति दातरि ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विविधदानैः प्रेतोद्धारो भवति, दानपात्रं श्रेष्ठं साधुजनश्चेत्यादौ वृषादर्भेः सूर्यस्य च निदर्शनमित्यादिनिरूपणनामा त्र्यधिकशततमोऽध्यायः ॥१०३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP