संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १४८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १४८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायाणीश्रि त्वं हृदुत्थवैकृतानि तु ।शरीरोत्थानि चान्यानि शकुनस्फुरणानि च ॥१॥शरीरे स्फुरिते मूर्घ्नि पृथ्वीलाभो भवेदपि ।ललाटे स्थानवृद्धिः स्यान्भ्रूनसोः प्रियसंगमः ॥२॥नेत्रस्फुर्तौ भृत्यलाभो दृगुपान्ते धनागमः ।ऊर्ध्वे मध्ये चापगमो द्रव्यस्यैव प्रजायते ॥३॥दृङ्मूले स्फुरिते लक्ष्मि जयः शीघ्रं भवेदिति ।अधःस्फुर्तौ स्त्रिया भोगः श्रवणान्ते प्रिया श्रुतिः ॥४॥नासिकायां प्रीतिसौख्यं प्रजाप्तिरधरोष्ठजे ।कण्ठस्फुर्तौ भोगलब्धिर्भोगवृद्धिस्तथांऽसयोः ॥६॥बाह्वोः स्फुर्तौ सुहृत्स्नेहो हस्तयोस्तु धनागमः ।पृष्ठस्फुतौ न विजयो वक्षःस्फुर्तौ जयो भवेत् ॥६॥कुक्षिस्फुर्तौ प्रीतिलाभः स्तने स्त्रीप्रसवो भवेत् ।नाभिस्फुर्तौ स्थानहानिरन्त्रस्फुर्तौ धनागमः ॥७॥जानुसन्धौ परैः सन्धिर्बलिभिश्च समागमः ।जङ्घास्फुर्तौ खण्डभागेविनाशः स्यान्न संशयः ॥८॥पादयोः स्फुरणे लक्ष्मि धिष्ण्यस्थानमवाप्नुयात् ।पादतलस्फुरे चाध्वप्रवासो लाभकृद् भवेत् ॥९॥वामे नार्या सदा लाभा दक्षे पुंसः स्फुरादयः ।अलाभदा विपर्यस्ता भवेयुर्नात्र संशयः ॥१०॥अनिष्टस्फुर्तिजनने हवनं तर्पणं तथा ।सुवर्णेन प्रकर्तव्यं दानं च भोजनादिकम् ॥११॥शान्तिस्तत्र वैष्णवी वा रौद्री कार्या सुखाप्तये ।अथ हृदुत्थविकृताकारान् निद्रामयान् शृणु ॥१२॥अनिष्टान् दुष्टफलदान् दृष्ट्वा शान्तिं प्रकारयेत् ।नाभिं विनाऽन्यगात्रेषु तृणवृक्षांकुरोद्भवः ॥१३॥चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।मलिनाम्बरधारित्वमभ्यंगः पङ्कमर्दनम् ॥१४॥पंके च मग्नता चोच्चैः पातो दोलाधिरोहणम् ।अर्जनं पक्वलौहानामश्वानां मारणं तथा ॥१५॥रक्तपुष्पद्रुमाणां च मण्डलस्याऽधिरोहणम् ।वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ॥१६॥भक्षणं पक्वमांसानां तैलस्य कृसरस्य च ।नर्तनं हसनं चापि विवाहो गीतमित्यपि ॥१७॥तन्त्रीवाद्यविहीनानां वाद्यानामभिवादनम् ।स्रोतोऽवगाहनं चापि स्नानं गोमयवारिभिः ॥१८॥पंकेन स्नानमेवापि धूलीतोयेन वापि च ।मातुः प्रवेशो जठरे चितारोहणमित्यपि ॥१९॥इन्द्रध्वजाभिपतनं पतनं चन्द्रसूर्ययोः ।दिव्यान्तरिक्षभौमानामुत्पातानां च दर्शनम् ॥२०॥देवद्विजातिभूपालगुरूणां क्रोधनं तथा ।आलिङ्गनं कुमारीणां पुरुषाणां तु मैथुनम् ॥२१॥हानिश्चापि स्वगात्राणां विरेकवमनादिकम् ।दक्षिणाशाभिगमनं व्याधिनाऽभिभवोऽपि च ॥२२॥पुण्यहानिः फलहानिः स्वप्ने गृहस्य मार्जनम् ।गृहस्य पतनं क्रीडा पिशाचैर्वानरैः सह ॥२३॥ऋक्षक्रव्यादकुनरैः कुस्त्रीभी रमणं तथा ।परादभिभवश्चापि पराच्च दुःखसंभवः ॥२४॥काषायाम्बरधारित्वं काषायिस्त्रीसमागमः ।स्नेहपानं स्नेहमग्नता रक्तपुष्पलेपनम् ॥२५॥भोजनानां भ्रष्टता च काष्ठानां दर्शनं तथा ।गन्त्रीणां मार्गभ्रंशश्च बहुसंयावभोजनम् ॥२६॥वेश्यानां दर्शनं तासां स्तन्यपानं तथा खलु ।शतघ्नीनां स्फोटनादि तथोच्छिष्टादिभोजनम् ॥२७॥रंगकारगृहाणां च दर्शनं घातकस्य च ।तडागानां प्रवाहेषु पतनं सस्यदाहनम् ॥२८॥कलहश्च जलैर्नौकाभरणं चान्धदर्शनम् ।कालीकट्यां निषदनं ह्युपानत् मस्तके स्थितम् ॥२९॥विरुद्धाक्षरविन्यासा प्रवासे निजदर्शनम् ।चित्रमूर्त्यदृश्यता च गणेशशवमस्तकम् ॥३०॥उष्ट्रस्य दर्शनं भोज्यभक्षणे विघ्नता तथा ।मुण्डनं चाब्धिपतनं लिंगाद् रक्तस्रवस्तथा ॥३१॥जीर्णाम्बरधरत्वं च गुरोर्विप्रस्य क्रुद्धता ।भषमाणश्वाऽवलोकः फणाध्रग्रहणं मृतिः ॥३२॥चन्द्रशालादितश्चापि शिलासु पतनं तथा ।वनिमार्जाराऽवलोकः कृष्णपुंकृतलक्ष्यकम् ॥३३॥निशानं धूष्कृतीनां च मृषाऽऽयुधस्य स्फोटनम् ।तक्रकृसराप्राशश्च वस्तूनां विगमोऽपि च ॥३४॥शत्रूणां दर्शनं चापि विष्टायां पादपातनम् ।षटपदीयजन्तूनां च विष्ठायां दर्शनं तथा ॥३५॥यवनाद्यैः कृतं कर्णनासिकयोश्च कर्तनम् ।नग्नं स्वदर्शनं तैलाक्तं रक्तस्त्रीसुयोजनम् ॥३६॥मुकुटादेः पश्चभागे विवर्तनं प्रपातनम् ।शिखाप्रपातनं कल्गेः प्रपातनं दतामपि ॥३७॥लिंगस्य पतनं चापि पत्नीप्रज्वलनं तथा ।गलपाशावलोकश्च ताडने मरणं तथा ॥३८॥गोस्त्रीवधादिकं स्वप्ने महोत्पातादिदर्शनम् ।पितॄणां दर्शनं चापि परदेशपलायनम् ॥३९॥सर्वैः कृतस्तिरस्कारः शवाधिरोहणं तथा ।शत्रुभिश्च धृतश्चापि द्रव्यस्य तु भुवस्तलात् ॥४०॥भूत्वा पिपीलिका यानं वृश्चिका वा तथाविधम् ।पत्न्याः पलायनं चापि सर्वस्वनाशसूचकम् ॥४१॥कन्यावैधव्यभावश्च देवालयविनाशनम् ।रक्तस्रावो रक्तरोगः क्षयरोगस्य दर्शनम् ॥४२॥मृतगर्भप्रसवश्च गर्भिणीमरणं तथा ।विमानपतनं चापि शकटीभंग इत्यपि ॥४३॥व्याघ्रधृतिः सिंहकृतं मारणं स्वस्य वै वने ।मकरैर्धर्षणं चापि गह्वरे पतनं तथा ॥४४॥खाते रोधस्तथा नैजे भवने रोधनं तथा ।पादयोर्बन्धनं चापि विदायं बहुभिर्जनैः ॥४५॥चाण्डालीभोग एवापि चाण्डालभोग इत्यपि ।भूतानां दर्शनं स्वप्ने भयदाऽरण्यदर्शनम् ॥४६॥हिंस्राणां दर्शनं चापि वह्निमध्ये प्रवेशनम् ।यानेन स्वर्गगमनं श्मशानगमनं तथा ॥४७॥याम्यावलोकनं चापि कालपुरुषदर्शनम् ।प्रेतस्य दर्शनं स्वप्ने पाशधरस्य दर्शनम् ॥४८॥राजदूतस्याऽवलोको गरुडस्यापि दर्शनम् ।तुलसीभक्षणं चापि गोमयैर्भूविलेपनम् ॥४९ ॥झंझावातेनोह्यमानत्वं च यन्त्रेण कर्षणम् ।समाजे कर्चनं चापि पादैः प्रदलनं तथा ॥५०॥वमनं रक्तकमिश्रं वमने कीटदर्शनम् ।कृष्णसर्पस्य दंशश्च भोजने कृमिदर्शनम् ॥५१॥अद्रीणां चालनं चापि भवनानां च चालनम् ।कन्यानां बालसूतिश्च स्त्रीणां विकृतसूतिता ॥५२॥नराणां श्मश्रुप्रपातः स्त्रीणां श्मश्रुप्ररोहणम् ।नराणां स्त्रीवेषवत्त्वं स्त्रीणां पुरुषवेषिता ॥५३॥अस्तनीत्वं तथा स्त्रीणां नराणां स्तनयुक्तता ।स्वप्ने चेद् दृश्यते त्वेतद् देशहानिर्महाभयम् ॥५४॥राजा स्वप्ने हतो दृष्टो राज्यनाशो भवेद्ध्रुवम् ।वृक्षाणां गमनं चापि वल्लीनां गमनं तथा ॥५५॥कन्यानां गमनं चापि विदेशं प्रति दृश्यते ।लक्ष्मीहानिश्च दुर्भिक्षं भवेदेव न संशयः ॥५६॥सरितां गमनं चाप्युद्वेलताऽब्धेः समन्ततः ।जलेन प्रलयस्तत्र खण्डस्य च क्षितेरपि ॥५७॥पृथिव्या वा प्रलयः स्यान्नात्र कार्या विचारणा ।देवालयानां गमनं चाद्रीणां गमनं तथा ॥५८॥शिलासैन्यविहारश्च देशनाशफलो भवेत् ।दुर्गे शब्दास्तु जायन्तेऽज्ञाता भयावहा यदि ॥५९॥दुर्गनाशभयं तत्र राज्यनाशभयं भवेत् ।कक्षासु गर्जना रात्रावाकस्मिकी भवेद् यदि ॥६०॥रोगव्याप्तिर्महामारी प्रजानाशोऽति जायते ।हसन्ति गृहकोणेषु वानराः ऋक्षका यदि ॥६१॥गृहं शून्यं भवेदेव मासान्ते नात्र संशयः ।मुण्डी रक्ताम्बरः स्वप्ने दृश्यते दण्डधृग् यदि ॥६२॥मरणं तत्र जायेत विनाशः सम्पदामपि ।वनदेव्यो यत्र शुष्काः क्षीणाश्च वृद्धकन्यकाः ॥६३॥सगर्भा शुष्कदेहाश्च दृश्यन्ते स्वप्नके यदि ।भग्नपादाश्च खञ्ज्यश्च वृक्ण्यः शृंगककुद्मिकाः ॥६४॥अनावृष्टिहता लोका म्रियन्तेऽत्र न संशयः ।गावो यत्र विशस्यन्ते म्लेच्छैः स्वप्नेऽवलोक्यते ॥६५॥तत्र म्लेच्छोपद्रवाश्च जायन्ते नात्र संशयः ।क्रव्यादा यत्र दृश्यन्ते नगरोपरि यूथशः ॥६६॥नगरस्य विनाशः स्याद् रक्षा रुद्रमखैर्भवेत् ।उज्ज्वला उज्जलाः कन्या रुदन्ति यान्ति यत्स्थलात् ॥६७॥तत्र विद्याविनाशः स्यादुद्योगानां विनाशनम् ।कलाकौशल्यनाशश्च दारिद्र्यं रंकताऽऽपतेत् ॥६८॥विधवानां मण्डलानि दृश्यन्ते यत्र चाभितः ।कबन्धानां मण्डलानि तत्र नाशो हि संगरात् ॥६९॥अनृतौ पशवो यत्र स्खलन्ति पाशवीषु वै ।धर्मभंगो भवेद् देशे म्लेच्छाचारविवर्धनम् ॥७०॥एवमादीनि चान्यानि कुष्ठादिदर्शनं तथा ।दुःस्वप्नानि भवेयुश्च द्राक् तेषां कथनं वरम् ॥७१॥भूयः प्रस्वापनं चापि कल्कस्नानं तिलैरपि ।होमोवह्नौ ब्राह्मणानां सतां पूजा सुरार्चनम् ॥७२॥स्तुतिः श्रीहरिकृष्णस्य वासुदेवस्य पूजनम् ।नागेन्द्रमोक्षश्रवणं बालकृष्णस्य पूजनम् ॥७३॥रुद्रयागो विष्णुयागश्चोत्सवो हरिकीर्तनम् ।कारयेत् स्वगृहे लक्ष्मी कथां नारायणाश्रिताम् ॥७४॥लक्ष्मीनारायणसंहितायाः पारायणं महत् ।भये महति सम्प्राप्ते कारणीयं भयापहम् ॥७५॥स्वप्नं तु प्रथमे यामे सम्वत्सरे फलप्रदम् ।षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्तृतीयके ॥७६॥चतुर्थे मासमात्रेण प्रातर्दशाहकृत्फलम् ।स्वप्नद्वये शुभाशुभे रात्रौ स्यातां तदा फलम् ॥७७॥पश्चाद् दृष्टस्य जायेत प्राग्दृष्टं लोपमीयते ।एतेषामसतां स्वप्ने दर्शने तन्निवारणम् ॥७८॥ग्रहयज्ञं विष्णुयज्ञं रुद्रयज्ञं सतीमखम् ।पितृयज्ञं भोज्ययज्ञं दानपुण्यं समाचरेत् ॥७९॥राज्ञा धर्मप्रसक्तेन प्रजानां च हितेप्सुना ।ग्रहयज्ञाः प्रकर्तव्या लक्षहोमसमन्विताः ॥८०॥नदीनां संगमे चापि देवानामग्रतस्तथा ।तटाकसन्निधौ दैवतीर्थे भूमिं परीक्षयेत् ॥८१॥खनेत् कुण्डं हस्तमात्रं चाष्टोत्तरसहस्रकम् ।हवनं तत्र कर्तव्यं शान्तिस्तेन प्रजायते ॥८२॥द्विगुणं लक्षहोमे च कोटिहोमे चतुर्गुणम् ।अष्टौ वै ऋत्विजः कार्या मूलक्षीरफलाशनाः ॥८३॥रत्नानि दानयोग्यानि मण्डपे सन्निधापयेत् ।गायत्र्या दशसाहस्रं मानस्तोकेन षड्गुणः ॥८४॥त्रिंशद् ग्रहादिमन्त्रैश्च चत्वारो विष्णुदैवतैः ।कुष्माण्डैर्जुहुयात् पञ्च कुसुमाद्यैस्तु षोडश ॥८५॥होतव्या दशसाहस्रं बादरैर्जातवेदसि ।श्रियो मन्त्रेण होतव्याः सहस्राणि चतुर्दश ॥८६॥शेषाः पञ्चसहस्राणि होतव्यास्त्विन्द्रदैवतैः ।हुत्वा शतसहस्रं तु पुष्यस्नानं समाचरेत् ॥८७॥कुंभैः षोडशसंज्ञैश्च सहिरण्यैः सुमंगलैः ।स्नापयेद् यजमानं तु ततः शान्तिर्भवेद् ध्रुवम् ॥८८॥हस्त्यश्वरथयानानि भूमिवस्त्रधनानि च ।अनडुद्गोशतं दद्यात् ऋत्विजां चात्र दक्षिणाम् ॥८९॥मासे पूर्णसमाप्तौ तु लक्षहोमः प्रकीर्तितः ।कोटिहोमविधानं तु शृणु लक्ष्मि नदीतटे ॥९०॥ऋत्विजः षोडश तत्र दीक्षा साम्वत्सरी मता ।चैत्रे वा कार्तिके होमारंभं कृत्वा तु वत्सरम् ॥९१॥कारयेत् यजमानस्तु पयोभक्षी फलाशनः ।यवादिव्रीहयो माषास्तिलाश्च सर्षपास्तथा ॥९२॥पालाशाः समिधः शस्ता वसोर्धारा तथोपरि ।आद्यमासे तु ऋत्विग्भ्यो दद्याद्वै क्षीरभोजनम् ॥९३॥द्वितीये कृसरां दद्याद्धर्मकामार्थसाधिनीम् ।तृतीये मासि संयावं चतुर्थे मोदकान् शुभान् ॥९४॥पञ्चमे दधिभक्तं च षष्ठे तु सक्तुभोजनम् ।पूपाँश्च सप्तमे दद्यादष्टमे घृतपूपकान् ॥९५॥मिष्टौदनं च नवमे दशमे यवमिष्टकम् ।एकादशे माषवटान् द्वादशे षड्रसान् दिशेत् ॥९६॥अहतवासाः संवीतो दिनार्धं जुहुयाच्छुचिः ।इन्द्राद्यादिसुराणां च प्रीणनं सार्वकामिकम् ॥९७॥सर्वदानानि देवानामग्निष्टोमं च कारयेत् ।विधिना कारयेत्तत्र पूर्णाहुतिं शते शते ॥९८॥सहस्रे द्विगुणा देया यावच्छतसहस्रकम् ।पुरोडाशो देवताभ्यो देयः समर्चयेद् द्विजान् ॥९९॥सुरान् पितॄन् तर्पयेच्च पिण्डार्पणैर्विधानतः ।होमान्ते दक्षिणां दद्यात्तुला शिक्यद्वयान्विताम् ॥१००॥बध्वाऽऽत्मानं तोलयेच्च पत्नीं च तोलयेत्तथा ।सुवर्णेन रजतेन शर्कराभिश्च हीरकैः ॥१०१॥दद्याद् दानं राजसूयफलं स्याद् विघ्ननाशकम् ।प्रीयतां श्रीहरिकृष्णः सर्वयज्ञेश्वरः प्रभुः ॥१०२॥इत्युक्त्या प्रणमेद् विप्रान् भोजयेल्लक्षमानवान् ।सर्वोपघाता नश्यन्ति पुण्यान्यस्य भवन्ति च ॥१०३॥न शोचेज्जन्ममरणे कृताकृतविचारणे ।यथाशक्ति प्रकुर्याद्वा ग्रहादिमखमुत्तमम् ॥१०४॥सर्वतीर्थविधानस्य सर्वयज्ञविधेः फलम् ।एवं कृत्वाऽऽप्नुयाल्लक्ष्मि! श्रवणात्पठनादपि ॥१०५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दुःस्वप्नाद्युपघात तच्छान्त्यर्थकग्रहयज्ञादिनिरूपणनामा अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥१४८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP