संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १७

द्वापरयुगसन्तानः - अध्यायः १७

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं च ततो मम ।
वेधसः सृष्टिमानाख्ये वत्सरे चाद्यकल्पके ॥१॥
आद्ये मनौ संप्रवृत्ते ब्रह्मा निद्रां विहाय च ।
प्रभाते देवनद्यां वै स्नातुं ययौ विचिन्तयन् ॥२॥
अद्य सृष्टिं कीदृशीं च कुर्वे त्रिलोकिशोभनाम् ।
मादृशीं सर्वथा कुर्वे भेदभावविवर्जिताम् ॥३॥
इति संकल्प्य वै सस्नौ सन्ध्यां कृत्वा गृहं ययौ ।
नैत्यकं पूजनं कृत्वा सृष्टिशालां समाविशत् ॥४॥
सृष्टियन्त्रं स पस्पर्श गर्भयन्त्रं व्यलोकयत् ।
चतुर्मुखा समस्ता च सृष्टिरद्य प्रजायताम् ॥५॥
इति संकल्पयामास तावन्महर्षयस्ततः ।
स्वतुल्या अभवन् सर्वे चतुर्मुखा द्विजातयः ॥६॥
देवाः सर्वेऽपि च तथाऽभवँश्चतुर्मुखाः शुभाः ।
मानवाश्चापि गन्धर्वाः किन्नराः साध्यदेवताः ॥७॥
किंपुमांसः पशवश्च पक्षिणश्च सरीसृपाः ।
स्वेदजा अण्डजाद्याश्च जरायूजाश्च देहिनः ॥८॥
कललोत्थाश्च यादांसि मृज्जन्याः पत्रसंभवाः ।
तृणोत्था विवरोत्थाश्च पातालादिसमुद्भवाः ॥९॥
सर्वे वेधःप्रसंकल्पाज्जाताश्चतुर्मुखा ननु ।
दैत्याश्च दानवाश्चापि राक्षसा आसुरास्तथा ॥१०॥
यक्षाः पिशाचका भूताः सर्वऽभवँश्चतुर्मुखाः ।
वेधसा पितृभिर्देवैर्मानवैर्भक्तपुंगवैः ॥११॥
कथाप्रसंगे सर्वत्र वर्णितोऽहं चतुर्मुखः ।
सर्वे चतुर्मुखाः सन्तीत्येवं वेदा वदन्त्यपि ॥१२॥
मुक्ताश्चतुर्मुखाः सर्वे ईश्वराश्च चतुर्मुखाः ।
इत्येवं कल्पनां चक्रुर्निजवत् कथका जनाः ॥१३॥
अथ ब्रह्मर्षयः साध्याः साधवो ब्रह्मचारिणः ।
यत्र यत्र कथाशाला विवदन्ति च मत्कृते ॥१४॥
केचिद् वदन्ति भगवानास्ते सहस्रमस्तकः ।
अन्ये वदन्ति भगवानास्तेऽप्यसंख्यमस्तकः ॥१५॥
सर्वत्राननवानास्ते प्रवदन्ति परे तदा ।
अपरे च तदा श्रीशो वर्तते ह्येकमस्तकः ॥१६॥
चतुरानन एवं चेतरे स्म प्रवदन्ति च ।
यथा वयं तथा सोऽपि यथा हरिस्तथा ह्यजः ॥१७॥
यथा ब्रह्मा तथा सर्वे महर्षयस्तथा सुराः ।
तथा च मानवाः सर्वे वयं यथा तथा हरिः ॥१८॥
एवं तत्राऽवदन् केचिदेवमासीद् विवादनम् ।
एतन्निर्णयलाभार्थं विवादा बहवोऽभवन् ॥१९॥
अथर्षिभिर्मानिवैश्च देवैः संहत्य भूतले ।
तटे सुवर्णगंगायाश्चोत्तरे परिषत् कृता ॥२०॥
तत्र द्विजाग्रणीः श्रौतवृषर्षिः प्राह कीदृशः ।
भगवान् वै परब्रह्म यः समुपास्यते प्रभुः ॥२१॥
वैदिकास्तु तदा प्राहुर्वेदप्रामाण्यगामिन ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥२२॥
अन्ये प्राहुश्च तं देवेश्वरेश्वरं हरिं तदा ।
सर्वतः पाणिपादोऽयं सर्वतोऽक्षिशिरोमुखः ॥२३॥
सर्वतः श्रुतिमान् श्रीशः सर्वात्मा स प्रतिष्ठति ।
परे प्राहुर्हरिं तत्र परमेशं सनातनम् ॥२४॥
निर्गुणं च निराकारं निष्क्रियं रूपवर्जितम् ।
अन्ये तदा तु तं प्राहुश्चतुर्मुखं निजादृशम् ॥२५॥
ब्रह्मा प्राह हरिश्चास्तेऽक्षरे धाम्न्येकमस्तकः ।
द्विभुजश्च द्विपाच्चापि द्विचक्षुश्च द्विकर्णकः ॥२६॥
अथाऽपरे तदा प्राहुर्नैव नैवं कदापि वै ।
त्रिनेत्रः स हरिश्चास्ते सर्वदा परमेश्वरः ॥२७॥
एवं विचारे जाते च निर्णयस्तत्र नाऽभवत् ।
अथ ब्रह्मा तदा प्राहाऽऽराधनं प्रति शार्ङ्गिणः ॥२८॥
हरिर्वै कीदृशश्चेत्याराधनागोचरो भवेत् ।
वयमाराधयामस्तं चिरकालं जनार्दनम् ॥२९॥
अथास्ते भगवान् दिव्यस्तथा दृश्यो भविष्यति ।
अथ सर्वे मिलित्वैव स्वर्णनदीतटे च ते ॥३०॥
जपयज्ञात्मिकां मुख्यां बहुभक्त्युपबृंहिताम् ।
आरेभिरे गोचरोऽस्त्वित्याराधनां प्रिये मम ॥३१॥
सहस्रदिव्यमानां ते चक्रुराराधनां मम ।
ततस्तं हवनं चक्रुरुद्यापनात्मकाऽर्हणम् ॥३२॥
उत्सवं सुमहान्तं सम्प्रचक्रुः कीर्तनात्मकम् ।
दानभोजनरूपं च नृत्यगीतपुरःसरम् ॥३३॥
तेषां तु भावनापूर्त्यै मद्रूपनिर्णयाय च ।
भक्तेः फलं प्रदातुं च गोचरोऽहं तदाऽभवम् ॥३४॥
चिदाकाशात्मकं तेजस्तेजोराश्यात्मकं परम् ।
प्रथमं सर्वतस्तत्र निबिडं समदृश्यत ॥३५॥
अपारं चाऽप्यदृश्यं चाप्रवेश्यं चैकरूपकम् ।
अनन्तसूर्यचन्द्राग्निग्रहतेजोऽभिभावकम् ॥३६॥
ततस्तत्राऽसंख्यताना असंख्यभिन्नभास्वराः ।
एकदेशाद् विनिर्यान्तः परार्धकिरणव्रजाः ॥३७॥
अदृश्यन्ताऽभितश्चाधश्चोर्ध्वं पार्श्वेषु सर्वतः ।
तत्स्थले पारदृश्यं च निर्मलं शीतलं सुखम् ॥३८॥
हृद्यं तथाऽनवद्यं च सर्वतेजःपटात्मकम् ।
मूलं परिधिरूपं वै पटलं समदृश्यत ॥३९॥
यन्मध्ये मन्दहास्याढ्या स्नेहप्रेमखनिस्तथा ।
दिव्या ह्यसंख्यकामानां रूपगर्वाभिभाविनी ॥४०॥
मूर्तिस्त्वेकानना नेत्रद्वयकर्णद्वयान्विता ।
एकमूर्धा द्विहस्ता च द्विपादा चोज्ज्वला ह्यति ॥४१॥
समदृश्यत रम्या चानन्दपूर्णा मनोहरा ।
वक्रस्निग्धचाकचक्योज्ज्वलतान्वितमूर्द्धजा ॥४२॥
स्वर्णचञ्चत्तारकल्गिसंशोभन्मुकुटान्विता ।
रत्ननद्धसुसौवर्णमकराकारकुण्डला ॥४३॥
कोटिचन्द्रप्रभाभास्वन्मन्दहास्यानना शुभा ।
स्वर्णहारालिसंराजत्पुष्टवक्षःस्थलान्विता ॥४४॥
भुजंगभुजशोभाढ्या कौस्तुभहारराजिता ।
श्रीवत्सचिह्नयुक्ता च भुजबन्धसुशोभिता ॥४५॥
सौवर्णकटकाढ्या च शंखचक्रादिशोभिता ।
पीताम्बरा पीतरक्तप्रावरणाढ्यकञ्चुका ॥४६॥
सौवर्णरशनायुक्ता स्वर्णकटकशोभना ।
सौवर्णशृंखलायुक्ता स्वर्णनुपूरराजिता ॥४७॥
स्वर्णोर्मिकान्विताऽङ्गुलीयकयुक्तकराग्रजा ।
मीनशूलध्वजधनुर्बाणस्वस्तिकराजिता ॥४८॥
पक्वबिम्बफलतुल्यौष्ठद्वयराजिता शुभा ।
मीनचञ्चलनेत्राढ्या पद्मपत्रायतेक्षणा ॥४९॥
तिलपुष्पोपमनासा द्विचन्द्राभकपोलिका ।
कोटिकामनिवासार्हभ्रूकुटिद्वयकर्षिका ॥५०॥
ऊनषोडशवर्षीया श्मश्रुरेखाविराजिता ।
पुष्टस्कन्धा स्थलपद्ममृदुसत्करपत्तला ॥५१॥
अलक्तरंगवद्भाऽऽढ्या हस्तिशुण्ढोरुशोभना ।
शिरीषपुष्पवन्मृद्वी नखचन्द्रसमुज्ज्वला ॥५२॥
त्रिवल्युदरनाभ्याढ्या सर्वानन्दपरिप्लुता ।
राजीवलोचना शान्ता पद्मप्रकोष्ठशोभना ॥५३॥
सुष्ठुवर्तुलजान्वाढ्या समवृत्तोर्ध्वजंघिका ।
सर्वकामनिवासाढ्यजघनातिमनोहरा ॥५४॥
सर्वसौगन्ध्यसौन्दर्यसर्वमाधुर्यसंभृता ।
सर्ववात्सल्यसौशील्यौदार्यसौहार्दपूरिता ॥५५॥
सर्वैश्वर्यगुणशक्तिचमत्कारनिधानिका ।
सर्वाभरणभूषाढ्यलक्ष्म्या त्वया विराजिता ॥५६॥
अनेकपार्षदैर्युक्ता सेविता मुक्तमण्डलैः ।
मुक्तानीभिर्वन्दिता च मूर्तिर्मे समदृश्यत ॥५७॥
एकमस्तकया लक्ष्म्या सर्वशृंगारशोभया ।
व्यजनेन सुदिव्येन वीजिता वामसंस्थया ॥५८॥
कमलानां सुमालाभिर्युक्तया रम्यया श्रिया ।
आलोकिता तु नेत्राभ्यां नेत्रयोश्चान्तरज्ञयोः ॥५९॥
वीक्षिता सर्वदेवाद्यैः साश्चर्यं सा ह्यपूर्विका ।
अनादिश्रीकृष्णनारायणमूर्तिः सनातनी ॥६०॥
पुपूजुस्ते तदा सर्वे नत्वा मां तादृशं प्रभुम् ।
निर्णयं ते परं जग्मुर्दृष्ट्वा मामेकमस्तकम् ॥६१॥
तुष्टुवुश्च सुराद्या वै नीराजनं व्यधुस्ततः ।
अहं चोपादिदेशैतान् साक्षाद् यथा भवामि च ॥६२॥
देवाद्या यद् भवन्तोऽत्र शृण्वन्तु मां स्वरूपिणम् ।
द्विभुजोऽहं सदा चास्म्यक्षरे धाम्नि परात्परे ॥६३॥
एकाननो दिव्यरूपः स्वेच्छानैकवपुर्धरः ।
चतुर्भुजोऽथवा शतभुजः सहस्रहस्तकः ॥६४॥
तथाविधाननश्चापि भवामि कार्यरोधगः ।
विभिन्नानि स्वरूपाणि भवन्ति तु मदिच्छया ॥६५॥
कार्यं योग्यं विनिर्वर्त्य तिरोदधामि तां तनूम् ।
आराधितो भवद्भिश्च निर्णयार्थं परेश्वर ॥६६॥
सोऽहं यथास्वरूपोऽस्मि तथाऽस्मि चात्र गोचरः ।
एतन्मम स्वरूपं चोपासितव्यं निरन्तरम् ॥६७॥
अनन्तसृष्टिनाशेऽपि यन्न लयं प्रयाति वै ।
नाप्यदृश्यत्वमाप्नोति तद्रूपं मम चैव हि ॥६८॥
धारयन्तु हृदयेषु भजन्त्वेतन्निरन्तरम् ।
पूजयन्तु स्तुवन्त्वेतद्रूपं मे शाश्वतं शुभम् ॥६९॥
अथाऽदृश्यो भवाम्येव पश्यतां भवतामिह ।
विवादं सम्परित्यज्य भजन्तु मां सदेदृशम् ॥७०॥
एवमुक्तेषु देवेषु मानवेषु महर्षिषु ।
मानसान्यभवँस्तेषां क्षितौ मत्स्थापनाय ह ॥७१॥
प्राहुस्ते परमेशं मां देहिनां मोक्षणाय वै ।
निवासं मानवे लोके विधेहि भगवन् सदा ॥७२॥
धर्ममार्गस्तथा मुक्तिः सेवया ते हि देहिनाम् ।
भविष्यति कृपामेतां कुरु श्रीपुरुषोत्तम ॥७३॥
अथाऽहं चिन्तयामास कृपया देहिनां हितम् ।
आत्यन्तिकं च कल्याणं मत्प्रसंगाद् भवेदिति ॥७४॥
मम योगेन भक्ता मे भविष्यन्ति युगे युगे ।
सन्तश्चापि भविष्यन्ति धर्ममोक्षप्रसाधकाः ॥७५॥
तेषां योगेन जीवानां मोक्षणं च भविष्यति ।
तस्मान्मया क्षितौ स्थेयं मानवैः सह पावनैः ॥७६॥
कृत्वा मानवरूपं च चतुर्मुखं यथाप्रजम् ।
लक्ष्म्या चापि तथा चतुर्मुखया स्थेयमेव ह ॥७७॥
इतिनिश्चित्य चाहं वै तदा लक्ष्मि! जनान् मुनीन् ।
तथाऽस्त्विति प्रावदं च सर्वे दुष्टास्तदाऽभवन् ॥७८॥
पुपूजुः परया प्रीत्या पुष्पाक्षतसुचन्दनैः ।
अथाऽहं पितरौ भूमौ व्यचिन्तयं चतुर्मुखौ ॥७९॥
त्वया साकं तदा लक्ष्मि! चाऽदृश्यतामुपाययौ ।
देवाश्च मानवाः सर्वे स्वस्वलोकं ययुस्तदा ॥८०॥
अथाऽहं कृष्णयशसं विप्रं धर्मयुतं शुभम् ।
पितरं चाकल्पयं च तस्याऽहं मानसः सुतः ॥८१॥
भार्यया तु प्रभावत्याऽध्यासितश्च चतुर्मुखः ।
आविरभवं तत्रैव प्रभावत्यंकगः सुतः ॥८२॥
अष्टभुजः पित्राकृतिश्चतुर्मुखोऽतिशोभनः ।
देवदुन्दुभयो नेदुस्तदा कुसुमवर्षणम् ॥८३॥
जयशब्दा अभवँश्चर्षीणां तदाऽऽशिषोऽभवन् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥८४॥
जातमन्त्रो युवाऽनादिचतुर्मुखनरायणः ।
स्वयमेवाऽभवं सर्वेष्टस्य पूरणहेतवे ॥८५॥
त्वं ततश्च मयाऽऽदिष्टा मधुविद्यस्य वै गृहे ।
विप्रस्य माक्षिकीसत्या भार्याया मानसी सुता ॥८६॥
चतुर्मुखाऽष्टहस्ता च व्यजायथाः स्वयं रमा ।
सर्वलक्षणसम्पन्ना सर्वसद्गुणशालिनी ॥८७॥
जातमात्रा युवती त्वं मानसी युगधर्मतः ।
त्वत्पितृभ्यां मदर्थं त्वं कल्पिता परमेश्वरी ॥८८॥
विवाहविधिना च त्वां परिणेमेऽहमुत्तमाम् ।
कुमारिकां पूर्वसर्वस्मरामैश्वर्यशालिनीम् ॥८९॥
तदा सृष्टिश्चतुर्वक्त्रवती चासाद्य मां हरिम् ।
त्वां चासाद्य समानां चाऽसेवयत् समशीलिनी ॥९०॥
आकल्पान्तं तदा चाऽऽसं साकं त्वया शुभानने ।
चतुराननसृष्टीनां सेवाग्रहणहेतवे ॥९१॥
असंख्याताश्चावतारा मम साकं त्वया प्रिये! ।
तेषु तेषु च वर्षस्य कल्पेष्वासन् तथाविधाः ॥९२॥
सर्वकल्याणकर्तारः सर्वसंकल्पपूरकाः ।
वेद्म्यहं सर्वमेवैतन्नान्ये जानन्ति सर्वशः ॥९३॥
स्मर नैजं शिवदेविश्री! जन्म स्वं चतुर्मुखम् ।
प्रमाक्षिकीरमानाम्नी तदा ख्यातिमगाः खलु ॥९४॥
तदा कल्पे तव मूर्तिर्मम मूर्तिश्चतुर्मुखी ।
आसीद् देवालयेष्वत्र स्वर्गादिष्वपि तादृशी ॥९५॥
पृथ्व्यां गृहे गृहे चासन् तथाविधा हि मूर्तयः ।
मां भजित्वा ययुर्धाम जना ये ते द्विहस्तकाः ॥९६॥
दिव्यरूपास्तदा भूत्वा त्यक्त्वा शवं चतुर्मुखम् ।
अष्टहस्तं परित्यज्य भूत्वा चैकानना द्रुतम् ॥९७॥
प्रापुर्मत्पार्षदैर्नीता धामाऽक्षरं परात्परम् ।
मुखानां चाभिधानानि दिङ्नामभिस्तदाऽभवन् ॥९८॥
विप्राणां तु वृषज्ञानविरागभक्तिभाञ्जि वै ।
मुखान्यासन् प्रसिद्धानि भुक्तिमुक्तिप्रदानि वै ॥९९॥
क्षत्रियाणां सान्त्वदामभेददण्डाभिभाञ्जि च ।
वैश्यानां तु च धर्मार्थकाममोक्षाभिभाञ्जि च ॥१००॥
सर्वेषां च सत्यदयायज्ञतपोमयानि च ।
सुखान्यासन् प्रसिद्धानि तत्तत्फलप्रदानि ह ॥१०१॥
दासानां तु व्यवसायदास्यतुष्टिस्तवाऽऽञ्चि च ।
एवमासन् मुखान्येव फलदानि तदा सृजौ ॥१०२॥
इत्येवं श्रीशिवस्वामिसुते! प्राकट्यमेव मे ।
त्वया साकं तदा जातमुदीरितं सुखास्पदम् ॥१०३॥
पठनाच्छ्रवणाच्चास्य स्मरणात्पापनाशनम् ।
यथेष्टर्द्धिप्रापणं च मोक्षलाभः प्रजायते ॥१०४॥
सर्वतीर्थफलान्येव सर्वयज्ञफलान्यपि ।
सर्वव्रतफलान्येव जायन्ते नात्र संशयः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो विंशतितमे वत्सरे सृष्टिसदृशस्याऽनादिचतुर्मुखनारायणस्य प्रमाक्षिकीरमासहितस्य प्राकट्यमित्यादिनिरूपणनामा सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP