संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि कथां चान्यां मम भक्तस्य शोभनाम् ।मायाख्ये नगरे त्वासीद् भक्तो मे व्याघ्रसंज्ञकः ॥१॥आबाल्याद् दैवभावश्च साधुषु स्नेहवान् शुचिः ।यतयो ये समायान्ति वैष्णवा न्यासिनीऽपि च ॥२॥दर्शनार्थं प्रयात्येव साधूनां शीघ्रमेव सः ।पादसंवाहनं वारिसमानयनमित्यपि ॥३॥करोति पात्रशुद्ध्यादि मार्जनं च सदाश्रमे ।प्रसादं च समश्नाति सेवते च सतः सदा ॥४॥एवं भक्तियुतो भक्तो महाशीर्वादमाप ह ।चिरं जीव चिरं तिष्ठ सुखी भव समृद्धिमान् ॥५॥अथाऽयं साधुसेवायां वर्तमानोऽपि चैकदा ।बालभावेन लोभेन पतितां स्वर्णशृंखलाम् ॥६॥जग्राह चौर्यरूपेण वासुदेवविभूषणम् ।साधवस्तु गताश्चान्यग्रामं व्याघ्रस्तु शृंखलाम् ॥७॥मार्जनादौ लब्धवाँश्चाऽप्रकाशेऽरक्षयद्धि ताम् ।आनीय स्वगृहे स्वर्णशृंखलां निदधे पुटे ॥८॥नैव जानाति कश्चिद्वै तथाऽयं समरक्षयत् ।माता वै त्वस्य पेटायां नैव जानाति शृंखलाम् ॥९॥पितापि चारणो नाम्ना कूटदेवो न शृंखलाम् ।जानाति तद्विधां स्वर्णशृंखलां काष्ठपेटके ॥१०॥धृतां स्वयं विजानाति चाऽप्रकाशे प्रपश्यति ।पुनश्च तत्र पेटायां गुप्तां तां निदधाति च ॥११॥अथ साधुः श्यामनामा विष्णुमूर्तेः प्रपूजकः ।ग्रामान्तरे तु पूजायां यावदिच्छति शृंखलाम् ॥१२॥अदृष्ट्वा पूजने कालेऽतर्कयत् पतिता भवेत् ।पृच्छां चाऽकारयद् भक्तैर्द्वारा मायापुरे मुहुः ॥१३॥व्याघ्रं भक्ताः समपृच्छन् व्याघ्रो दृष्टा न चेति वै ।प्रत्युत्तरं ददौ तेभ्यो लोभेन च भयेन च ॥१४॥एवमसत्यभावस्य व्याघ्रस्य चौर्यपापतः ।स्वर्णचौरस्य करयोद्वयश्चांऽगुलिकासु तु ॥१५॥गलत्कुष्ठान्यभवँश्चांऽगुष्ठयोरपि सर्वथा ।शरीर श्वेतकुष्ठाश्चाऽभवन् चौर्याघजं फलम् ॥१६॥भजते भगवन्तं मां तथौषधं करोत्यपि ।कुष्ठा नैव विलीयन्ते दुःखी चातीव सोऽभवत् ॥१७॥साधुसेवाफलभाक् च स्वर्णचौर्याघभागपि ।शुश्राव स कथां लक्ष्मीसंहितायाश्च तत्र ह ॥१८॥श्रुतवान् स्वर्णचौर्यस्य फलं कुष्ठो भवेदिति ।प्रायश्चित्तं तस्य चापि श्रुतवान् स्वर्णदानकम् ॥१९॥ब्रह्मकृच्छ्रव्रतं चापि ब्रह्मकूर्चव्रतं तथा ।सप्ताहिकं प्रकुर्याच्चेत् स्वर्णस्तेयी प्रमुच्यते ॥२०॥अथाऽयं चाऽप्रकाशे वै छद्मनोदरपीडनम् ।बहिः प्रकाशयित्वैव ब्रह्मकूर्चव्रतं व्यधात् ॥२१॥पपौ वारि दिने त्वाद्ये खदिरपत्रपाचितम् ।द्वितीये तु पपौ वारि किंशुकपुष्पपाचितम् ॥२२॥तृतीये तु पपौ वारि बिल्वपत्रप्रपाचितम् ।चतुर्थे तु पपौ वारि पद्मफलप्रपाचितम् ॥२३॥पञ्चमे तु पपौ वारि ह्युदुम्बरप्रपाचितम् ।षष्ठे पपौ दर्भपत्रपाचितं च ततः परम् ॥२४॥उपोषणं सप्तमे तु चकार मां भजन् मुहुः ।आराधना चकाराऽपि मूर्त्यग्रे मम चाघहाम् ॥२५॥हरे स्वर्णं मया चाऽऽप्तं मार्जनं तत्र कुर्वता ।तत्पाप कुष्ठरूपं वै लग्नं मे तत्क्षमापय ॥२६॥स्वर्णमालां प्रदास्यामि तस्मै तु साधवे पुनः ।ब्रह्म कूर्चव्रतेनापि प्रायश्चित्तं कृतं मया ॥२७॥रोगोऽयं मे नाशमेतु भक्तार्थं त्वं कृपां कुरु ।त्राहि पाहि जगन्नाथ श्रीहरे पुरुषोत्तम ॥२८॥पाप्युद्धारप्रकर्तस्त्वं भक्तं मां परिरक्षय ।एवं मां च ऽर्थयामासाऽत्यर्थमश्रूणि वाहयन् ॥२९॥चिन्तयामास मरणं यदा कुष्ठो न नश्यति ।सुष्वापैवं चिन्तयानः स्वप्नेऽहं तस्य सन्निधौ ॥३०॥दर्शयामास रूपं मे शंखचक्रगदाधरम् ।हसन्नहं जगादैनं भक्त शोचसि किं वद ॥३१॥स आह मां कृपासिन्धो लोभात् स्वर्णस्य शृंखला ।साधोर्विष्णोर्मया चाप्ता पतिता भूतले तु सा ॥३२॥रक्षिता मे गृहे चास्ते फलं भुनज्मि कुष्ठकम् ।श्रुत्वा कथां स्वर्णचौर्यप्रायश्चित्तं मया कृतम् ॥३३॥ब्रह्मकूर्चव्रतं कृष्ण पापं नाशय मे प्रभो ।इत्येवं प्रार्थयामास ततोऽहं तस्य सन्निधौ ॥३४॥स्वप्नं विलुप्य सहसा जागरे तं समानयम् ।सोऽपि तत्रोत्थितस्तूर्णं मां विलोक्य परेश्वरम् ॥३५॥प्रेमगद्गदपूर्णोऽभूत्तुष्टाव दण्डवत्तथा ।ननर्त प्रेमपूर्णश्च ययाचे च क्षमां तथा ॥३६॥ततोऽहं तस्य दोषस्य नुत्तये तं जगाद ह ।स्वर्णस्य शृंखला मह्यं देहि तेऽघं गतं खलु ॥३७॥अथ व्याघ्रो ददौ मह्यं समुत्थाय तु शृंखलाम् ।मया धृता स्वकण्ठे सा तावत् सा शृंखला तदा ॥३८॥ते साधवो यत्र गता अभवँस्तत्र तत्स्थले ।मूर्तिकण्ठे गता चासीत् साधुस्तु दृष्टवाँश्च ताम् ॥३९॥जहर्ष तां स्वर्णमालां विलोक्य च मुहुर्मुहुः ।कथयामास सर्वेभ्यश्चमत्कारं हरेः परम् ॥४०॥भक्तार्थं भगवानेव योगं क्षेमं करोति हि ।सम्पदि विपदि चापि चिन्तयत्येव भक्तकम् ॥४१॥यो यस्य वै भवेद् भक्तस्तदर्थं भगवान् स्वयम् ।भगवत्त्वं ददात्येव नैजैश्वर्यं समस्तकम् ॥४२॥एवं लक्ष्मि परेशस्य कृपया व्याघ्रभक्तराट् ।द्रागेव कुष्ठताहीनो जातः पापविवर्जितः ॥४३॥सुभगो रूपवाँश्चापि यथापूर्वं व्यजायत ।तस्मादहं स्वयं नारायणो रक्षामि चाश्रितम् ॥४४॥पापिनं वा कल्मषाढ्यं मायादोषाभिसंप्लुतम् ।वासनाशतकोट्याढ्यं धर्मकर्मादिवर्जितम् ॥४५॥अपि मां शरणं प्राप्तं मदर्थत्यक्तजीवितम् ।मदर्थसर्वव्यापारं मदर्थध्यानपूजनम् ॥४६॥मयि सर्वस्वार्पणं च रक्षामि सर्वथा जनम् ।शृणु चान्यां कथां दिव्यां पापतापप्रणाशिनीम् ॥४७॥धनग्रामेऽभवद् विप्रो ग्रामयाजक उत्तमः ।उत्तमाख्यः सकुटुम्बः कर्मकाण्डप्रधानकः ॥४८॥सर्ववर्णजनानां वै कर्मकाण्डप्रसाधकः ।नृपस्यापि गुरुः सोऽपि नृपकार्यं करोति च ॥४९॥नृपान्नं वै गुरु प्रोक्तं चौराणामन्नमित्यपि ।अदातॄणां जनानां च पतितानां तथा गुरु ॥५०॥भुक्तं न जीर्यति लक्ष्मि पीतं चापि न जीर्यति ।वस्त्रपात्रादिकं दाने गृहीतं नापि जीर्यति ॥५१॥शय्यागोस्वर्णदानादिः परिग्रहो न जीर्यति ।ग्रामयाजकएवाऽसावुत्तमो नाम भूसुरः ॥५२॥लोभेन सर्ववर्णानामग्राहयद्धनादिकम् ।भुंक्ते पिबति चाश्नाति रमते मोदते गृहे ॥५३॥सम्पत्तिश्चास्य वै श्रेष्ठाऽभवन्नृपाधिका गृहे ।रत्नहाराः स्वर्णमालाः स्वर्णपर्यंककासनम् ॥५४॥भवनानि विचित्राणि दासा दास्यो ह्यनेकशः ।गोमहिष्यादिकाश्चापि गजवाजिरथादयः ॥५५॥सर्वमस्याऽभवद् ऋद्धं पुत्राः पुत्र्योऽपि सौख्यदाः ।भार्याऽपि भक्तिसम्पन्ना धर्मयुता पतिव्रता ॥५६॥अथाऽस्य दानभारेण पापिनां द्रव्यसञ्चयैः ।पापिनामन्नपानाद्यैर्जलोदरं दरोऽभवत् ॥५७॥उदरं पीड्यते तेन महोदरं हि लम्बते ।पच्यते नहि भुक्तं वा पीतं जीर्यति नैव च ॥५८॥सुखं नाऽस्य क्षणं चापि जायते ऋद्धिभिस्तदा ।वैद्याश्रमान् ययौ रोगशान्त्यर्थं च तथाप्यपि ॥५९॥औषधानां प्रयोगेषु बहुष्वपि जलोदरम् ।नष्टं नैव हि प्रत्युत व्यवर्धत दिने दिने ॥६०॥अथैकदा ययौ देवायनर्षिं प्रति भूसुरः ।न्यवेदयन्निजं रोगं साधवे प्रप्रणम्य सः ॥६१॥साधुर्ददौ हरेर्नाम मालां च तुलसीजनिम् ।ओहरे श्रीकृष्णनारायण मां निरुजं कुरु ॥६२॥इति जापं भूसुरायोपादिदेश सहस्रकम् ।नित्यमेवेति सोऽप्येवं जजाप प्रत्यहं मुदा ॥६३॥भजते मां सदा सोऽयं रोगनाशार्थमेव ह ।आर्तो भजते मां नित्य वैभवी भजते न वै ॥६४॥वैभव्यार्तो भजते मां स्वार्थार्थं सोऽभजद् यथा ।एवं वर्षोत्तरे काले भक्तिं प्रकुर्वतः पुरः ॥६५॥दययाऽहं दर्शनं स्वं ददौ रोगप्रशान्तये ।साधूनां मण्डलं कृत्वा ययौ तस्य गृहं प्रति ॥६६॥सोऽपि रोगप्रशान्त्यर्थं भोजनादि ददौ मुदा ।स्वर्णरूप्याम्बराद्यं च साधुभ्यो विविधं ददौ ॥६७॥प्रार्थयामास चात्यर्थं रोगशान्त्यर्थमित्यपि ।अहं साधुगुरुर्भूत्वा हस्तं तस्योदरेऽदधम् ॥६८॥चमत्कारो यथा स्याद्वै तथाऽस्योदरतस्तदा ।जलोदरो महान् रोगो मूर्तिमान् समपासरत् ॥६९॥कद्रूपः सभयश्चापि दुद्राव च दधाव च ।गतो रोगो भूसुरश्च स्वस्थोऽभवत् क्षणान्तरे ॥७०॥जलं शुष्कं तदा जातं जाठरश्चाऽभवच्छुभः ।वयं सर्वे साधवस्तु शीघ्रमदृश्यतां गताः ॥७१॥सोऽपि विज्ञाय मां नारायणं ततोऽभजन् मुहुः ।एवं लक्ष्मि मया भक्तो निरामयस्तदा कृतः ॥७२॥सोऽपि चान्ते ययौ धामाऽक्षरं मे परमात्मनः ।पठनाच्छ्रवणाच्चाऽस्याऽऽरोग्यं भुक्तिश्च मोक्षणम् ॥७३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कुष्ठिनो व्याघ्राख्यस्य स्वर्णचौरस्य चारणभक्तस्य कुष्ठितानाशनम् उत्तमाख्यस्य ग्रामयाजकविप्रस्य भक्तस्य जलोदरनाशनं भगवद्दर्शनं मुक्तिश्चेत्यादिनिरूपणनामा अशीत्यधिकशततमोऽध्यायः ॥१८०॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP