संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १९३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १९३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९३ Translation - भाषांतर पुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं ब्रह्मघ्नस्य प्रमोक्षणम् ।आसीद् वाटासीनराख्ये ग्रामे राजीवभूपतिः ॥१॥राज्ञी तस्याऽभवत् साध्वी नाम्ना कुन्दनदेविका ।पुत्री पुत्रवती धर्मपरायणा तपस्विनी ॥२॥भक्ता मे श्रीहरेश्चापि व्रतध्यानपरायणा ।असूर्यम्पश्या चाऽस्पृश्या नरान्तरैः क्वचिद् रमे ॥३॥पतिव्रत्यपरा देवपूजास्नानादितत्परा ।चातुर्मास्यव्रतकर्त्री हर्युत्सवविधायिनी ॥४॥दानधर्मपरा चापि परोपकारशालिनी ।साधुसत्कारसेवार्थं कृतसर्वस्वमंगला ॥५॥दीनानाथगवां सेवाविधात्री सूर्यपूजिका ।कन्यकामानकर्त्री च ममाराधनतत्परा ॥६॥अतिथ्यभ्यागतादिभ्यो भोजनाम्बरदायिनी ।तीर्थकर्त्री स्वामिनश्च पादपूजापरा सदा ॥७॥एवं संस्कारसम्पन्ना नित्यमालाप्रजापिनी ।देवदर्शनरक्ता च नित्यं कथाश्रवान्विता ॥८॥क्षेमं च कुशलं चापि वेत्ति या स्वप्रजासु वै ।अहिंसाधर्मनिरता सत्यव्रतपरायणा ॥९॥यस्याः पुण्येन राष्ट्रं वै शोभते मोदते बहु ।प्रजाश्चास्या निरातंका निरामयाः सुसम्पदः ॥१०॥अथ लक्ष्मि सुवर्णे वै सुगन्धो न कृतो यथा ।तथा सुवर्णभार्यायामपि स्वामी त्वधोगतिः ॥११॥राजाऽस्याः स्वपतिः क्रूरो न देवान् मनुते स्वचित् ।धर्मकर्मादिकं व्यर्थं जानात्येवाऽभिमानवान् ॥१२॥न विप्रान्न च साधूँश्च गणयत्येव धार्मिकान् ।अवमानं करोत्येव पूज्यानां त्वविवेकवान् ॥१३॥न स्नानं नैव दानं च न पूजां नापि सद्व्रतम् ।न तीर्थं नापि सत्कारं सत्कर्मापि करोति सः ॥१४॥देवद्रव्यं विप्रधनं साधुधनं च धार्मिकम् ।नाणकं परकीयं यल्लभ्यते बलतोऽपि वा ॥१५॥आहरत्येव लुब्धात्मा नैव मुञ्चति कस्यचित् ।स्तैन्याद् बलात् कराल्लुञ्चायाश्च युद्धात् प्रपीडनात् ॥१६॥कपटाच्छद्मतो लब्धं सर्वं न्याय्यं स वेत्ति वै ।अन्यायं न्यायमेवाऽयं जानाति नृपकर्म तत् ॥१७॥प्रजानां यद्धनं सर्वं क्षेत्रं भूमिर्गृहादिकम् ।व्यापारा आयभागाश्च प्रजाश्च मे धनं हि तत् ॥१८॥पुत्राः पुत्र्यो धेनवश्च वृषभा वाजिनो गजाः ।यानवाहनपशवः सर्वं राज्ञश्च वेत्ति सः ॥१९॥राज्यं राज्ञो न चान्यस्य जडं वा चेतनात्मकम् ।पृथ्वीपतिर्यतो राजा पार्थिवाश्च नृपस्य वै ॥२०॥पृथ्वीं भुंक्ते यतो राजा ततो भुंक्ते हि पार्थिवान् ।सर्वांश्चापि विकाराँश्चेत्येवं मनुते भूपतिः ॥२१॥विशेषताऽस्य विप्रेषु द्वेषश्चासीत्तु जन्मतः ।विप्रा वृथा नयन्त्येव लड्डुकान् दक्षिणास्तथा ॥२२॥वृथा भिक्षाटनाश्चेति विप्राः प्रत्यक्षलुण्टकाः ।मत्वैवं ब्राह्मणान् दृष्ट्वा निष्कासयति दूरतः ॥२३॥दण्डयत्येव बहुधा भिक्षितं चाहरत्यपि ।शृणु लक्ष्म्येकदा विप्रास्तीर्थंकरास्तु विंशतिः ॥२४॥बहुचराप्रभक्तास्ते वाटासीनरमाययुः ।मार्गे विश्रान्तिलाभार्थं राज्ञ्या ते सत्कृतास्तदा ॥२५॥भोजनाम्बरपानाद्यैर्दक्षिणादानवाहनैः ।राज्ञा ज्ञातं धनं तेषामग्रेऽपि चास्ति वै तदा ॥२६॥राज्ञा दत्तं च विपुलं तीर्थमिषेण तत्परम् ।लोभेन नृपतिः श्रुत्वाऽऽह्वयद् विप्रान् स्वसन्निधौ ॥२७॥लुलुण्ट तद्धनं सर्वं विप्राणां स ततोऽपि च ।कारागारे रुषा सर्वान् न्यवासयच्च तद्दिने ॥२८॥अथ विप्रास्तु संक्रुद्धाः शापं ददुस्तदोल्बणम् ।राज्यं तव विनष्टं स्यात् कुटुम्बादिविवर्जितः ॥२९॥आरण्यकः कापटी च भव क्षुद्रो हि भिक्षुकः ।फलं विंशतिवर्षाणि भुक्त्वा च पाशवीं तनुम् ॥३०॥प्राप्य दुःखानि सर्वाणि भुंक्ष्व नास्तिक निर्दय ।शापो दत्तो दिने विप्रै रात्रौ वटोदराधिपः ॥३१॥ससैन्यस्त्वाययौ युद्धेनोपाहरत् समस्तकम् ।राज्ये निजं देशपालं नियोज्य निगडे स्थितान् ॥३२॥विप्रान् विमोचयित्वा च राज्ञ्यै प्रादाय जीविकाम् ।नृपतेश्च कुटुम्बं च संरक्ष्य तत्र वै ततः ॥३३॥राजीवं धर्तुमेवाऽप्यन्वेषयामास यद्यपि ।किन्तु स्वनगरं त्यक्त्वा गुप्तमार्गेण सत्वरम् ॥३४॥निर्ययौ राजीवभूपो नर्मदावनभूस्थलीम् ।विप्राणां शापदोषेण विंशतिवत्सराणि सः ॥३५॥अरण्ये पाशवं दुःखं लब्धवान् क्षुद्रतान्वितम् ।अथ राज्ञी भजते स्म सपुत्रपुत्रिका तु माम् ॥३६॥कुन्दनदेवीतिनाम्ना ख्याता कृष्णपरायणा ।अरण्यस्थोऽपि राजीवो दुःखितो हि स्वपापतः ॥३७॥पापं बहुतरं चक्रे लुण्टनं पशुमारणम् ।एवं वने प्रवसतश्चैको विप्रस्तु नर्मदाम् ॥३८॥स्नातुं गच्छन् वने तत्र मिलितोऽस्य समीपगः ।राजीवश्चापि विप्रं तं पप्रच्छ वद मेऽधुना ॥३९॥क्व यासि किं तवाऽग्रेऽस्ति देहि सर्वं च मेऽत्र वै ।विप्रः प्राह ममाऽग्रेऽस्ति पाथेयं च धनं मनाक् ॥४०॥यात्रामात्रोपभोगार्थं न दास्ये ते वनेचर ।एवं विवदतोस्तत्र तयोर्युद्धमजायत ॥४१॥राजीवेन हतो विप्रो पाषाणैर्मर्दितो हृदि ।विप्रोऽयं नर्मदातीरे प्रेतस्तत्र व्यजायत ॥४२॥राजानं प्राणहन्तारं ववल्गे ब्रह्मघातिनम् ।राजा शापेन दुर्भाग्योऽधिकोऽथ रक्षसाऽर्दितः ॥४३॥विचित्तोन्मत्तजडवद् बभ्रामारण्यभूमिषु ।अथापि कुन्दनदेवी ब्रह्मशीलपरायणा ॥४४॥निद्रायामेकदाऽरण्ये ददर्श तं तु दुःखिनम् ।क्षुधातृषातिसन्तप्तं राक्षसाविष्टयुन्मदम् ॥४५॥पाशवीं वृत्तिमापन्नं राक्षसीं रीतिमास्थितम् ।मृतं पशुं च वा पतत्रिणं खादन्तमित्यपि ॥४६॥स्मरन्तं चोच्चरन्तं च कुन्दना कुन्दनेति च ।कृष्णवर्णं रोमशं च रूक्षजटाधरं तथा ॥४७॥अन्यमिव ज्ञायमानं विवृत्ताखिलतत्त्वकम् ।शबरं वा पारधिं वा घातकं श्वपचं च वा ॥४८॥तद्वद् विलोक्यमानं वै भयदं दर्शनादपि ।अतिदुर्गन्धिशरीरं मलिनं जरठं यथा ॥४९॥कुन्दना कुन्दना चेति व्याहरन्तं मुहुर्मुहुः ।एतादृशं पापमूर्ति वनेचरं प्रवीक्ष्य सा ॥५०॥क्षणं विचारमकरोत् स्वप्ने कोऽयं भवेदिति ।अथ सा भयमापन्ना प्राह कस्त्वं वनान्तरे ॥५१॥स चाह राजीवनामा कुन्दनापतिरस्म्यहम् ।पीडितः शापपापेन रक्षसाऽपि विशेषतः ॥५२॥समुद्धरेत् कुन्दना मां तदा मे सद्गतिर्भवेत् ।यावच्छृणोति निद्रायां कुन्दना नृपनोदितम् ॥५३॥तावन्निद्रा गता राज्ञ्याः प्रातः सा प्रबुबोध ह ।उत्थिता शोकमापन्ना पतिदुःखेन दुःखिता ॥५४॥हस्तामलकवद दृश्यं वीक्षमाणा त्वरान्विता ।स्नात्वा पुपूज साध्वी मां श्रीपतिं कष्टहारिणीम् ॥५५॥शोकातिशोकवदनोत्तप्तातितप्तमानसा ।उच्चार्याश्रुकृताविलनेत्रा तुष्टाव मां सती ॥५६॥नाथ त्वं पूर्णकामोऽसि नाऽऽप्तव्यं वे हि शिष्यते ।तथाप्यत्र हि संसारे कथमायासि मे वद ॥५७॥भक्तेच्छापूरणार्थं चेन्मम वाञ्छां प्रपूरय ।यदि भक्ताऽस्मि ते शिष्या दासी वेति च मन्यसे ॥५८॥मोक्षणीयोऽरण्यदुःखाद् राजीवो रक्षसा धृतः ।यदि पापप्रभोगेण कर्मनाशोऽस्ति सर्वथा ॥५९॥दयालो ते दयालुत्वं व्यर्थं व्यर्थस्तवाऽऽगमः ।व्यर्था भक्तिश्च ते सर्वाऽर्थार्थिनोऽर्थाऽप्रपूरणात् ॥६०॥नारी त्वर्थार्थिनी ह्यस्मि तथापि तव दासिका ।अनादिश्रीकृष्णनारायणोद्धारं विधापय ॥६१॥यदि पापिकृते कृष्ण कृपा ते नैव जायते ।मम पुण्यं ददाम्यस्मै तेन त्वं तं समुद्धर ॥६२॥यदि ब्रह्मप्रदण्डेन दग्धे दया न तेऽस्ति चेत् ।मयि कृत्वा दयां कृष्ण मत्पतिं पातुमर्हसि ॥६३॥यदि भूसुरहन्तुस्तु दण्डः पूर्णो विधीयते ।तदा तद्दण्डमधुना मयि योक्तुं समर्थये ॥६४॥तस्य त्वर्धांगना चास्मि चार्धशुभाशुभार्थिनी ।मम भक्तेर्जन्यपुण्यं त्वर्धं तस्य प्रतिष्ठतु ॥६५॥तस्य पापं चार्धकर्म ममाऽत्रापि प्रतिष्ठतु ।एवं नारायणविष्णो न्यायेन नियमेन च ॥६६॥अपि योग्यविनिमयेनापि तं पातुमर्हति ।आसुराणां स्वयं हन्ता मुक्तिदोऽपि भवस्यतः ॥६७॥राजीवस्यापि भगवन् सुखकृद् भव केशव ।भक्ताया मम शान्त्यर्थं मदर्थितं विभावय ॥६८॥भामाकृते यथा पारिजातोद्यमस्त्वयोह्यते ।भामाऽहं तव दास्यस्मि मत्पारिजातमर्थये ॥६९॥कल्पे कल्पे त्वया कृष्ण भामा तुष्टा विधीयते ।पारिजातप्रदानेन भामा तुष्टा विधेहि माम् ॥७०॥भक्त्या त्वां तोषयाम्यत्र त्वं दानेन प्रतोषय ।सेवया स्त्री नरश्चार्थप्रदानेन परस्परम् ॥७१॥प्रसादयतः सर्वत्र तथा त्वं कर्तुमर्हसि ।सनाथाया अपि नाथ ह्यनाथां स्थितिमीक्षसे ।कुन्दना कुन्दना चेति राजीवोऽरण्यके वदन् ॥७२॥उद्धारं त्वर्थयत्येव समुद्धर कृपां कुरु ।यावन्नोद्धारयसे त्वं चाऽनशने वसाम्यहम् ॥७३॥इत्युक्त्वा कुन्दनादेवी लक्ष्मि चानशनं व्यधात् ।एकासना निर्जला च निराहारा निराशया ॥७४॥जितनिद्रा जिताहारा मरणे कृतनिश्चया ।नेत्रे प्रमील्य हृदये ध्यानस्था सा बभूव ह ॥७५॥आवर्तयति मालायां मां जपे त्वनिवर्तिनी ।धारणाध्यानवृत्तिभ्यां मां बबन्ध हृदन्तरे ॥७६॥न चचाल क्षणं क्वापि महावेगदृढीकृता ।राजीवमोक्षणं कांक्षमाणा मत्परमाऽभवत् ॥७७॥अहं तस्या मनो ज्ञात्वा पतिमोक्षार्थमेव तु ।आन्तरस्थो बहिस्तूर्णमुपाययौ सुरूपवान् ॥७८॥शंखचक्रगदापद्मधरो लक्ष्मीरमान्वितः ।सर्वाऽऽभरणभूषाढ्यस्तथा पार्षदसेवितः ॥७९॥प्रसन्नवदनः शान्तो वरदानप्रतत्परः ।तेजःपरिधिसंव्याप्तविग्रहो दिव्यभूषणः ॥८०॥एवंविधं तु मामग्रे स्थितं सा कुन्दनाऽऽन्तरात् ।मया सम्बोधिता तूर्णं समाधेर्बहिरागता ॥८१॥वीक्ष्य मां परमात्मानं समुत्थाय सती द्रुतम् ।पपात पादयोर्मे द्राक् समाश्लिषच्च वक्षसि ॥८२॥मम स्पर्शनमात्रेण दिव्यदृष्टिर्व्यजायत ।व्यलोकयद्वने नैजं पतिं स्वप्ने विलोकितम् ॥८३॥शीघ्रं मां लम्बहस्तेन व्यदर्शयत्पतिं निजम् ।दुःखिनं रक्षसा व्याप्तं मोक्षयितुं तदाऽऽर्थयत् ॥८४॥अहं तत्रैव सहसा पत्युर्मोक्षार्थमेव ह ।गरुडे संस्थितो भूत्वा नीत्वा साकं च कुन्दनाम् ॥८५॥यत्राऽऽरण्ये वर्तते स राजीवस्तत्र पक्षिणा ।आगच्छं चावतीर्याऽथाऽम्बरात् साकं तया रमे ॥८६॥राजीवं तु भ्रमन्तं स्वकमण्डलुजलेन वै ।अप्रोक्षयं ततस्तत्र रक्षो यो वल्गितोऽभवत् ॥८७॥जलं पीत्वाऽथ तूर्णं वै दिव्यदेहो बभूव ह ।मां स्तुत्वा मत्प्रतापेन विमानेन दिवं ययौ ॥८८॥राजीवोऽपि तदा स्वस्थमना सुष्ठुप्रभानवान् ।भूत्वा ज्ञात्वा निजां पत्नीं मां तथा परमेश्वरम् ॥८९॥ननाम पादयोर्मे वै प्रणनाम च दण्डवत् ।कुन्दनादेविका तस्मै सर्वं वृत्तं न्यवेदयत् ॥९०॥ततो मया पुनर्वार्भिः प्रोक्षितः पावनोऽभवत् ।पापानां नाशनं चक्रेऽपाययं वारि मत्करैः ॥९१॥गरुडे तं समारोप्याऽऽनयं वाटासनं पुरम् ।राज्ञ्या मन्त्रो दापितश्च राजा त्यक्त्वाऽभिमानकम् ॥९२॥जग्राह मम मन्त्रं च कण्ठीं च तौलसीं तथा ।वैष्णवो भगवद्भक्तोऽभवच्चास्तिकभावनः ॥९३॥पुत्राः पुत्र्यस्तथा सर्वाः प्रजाः प्रसन्नतां गताः ।अथ क्षेमं तथा तेषां कुशलं सम्विधाय च ॥९४॥अन्ते ममाऽक्षरे लोके गमनार्थं वचो मम ।दत्वा तिरोभवं शीघ्रं वटोदरनृपं प्रति ॥९५॥अगच्छं ब्राह्मणो भूत्वा भिक्षामिषेण तत्र ह ।याचितोऽथ स राजा वै भास्करविक्रमाभिधः ॥९६॥वद विप्र प्रदास्ये ते यदिच्छाविषयं तव ।जगाद मह्यं च ततोऽर्थयं राजीवरक्षणम् ॥९७॥वाटासीनस्य राज्यं प्रत्यर्पयितुं पुनः पुनः ।राजेश्वरस्तथोदारो नृपस्तथास्त्विति द्रुतम् ॥९८॥उक्त्वा पत्रं प्राहिणोच्च प्रधानं प्रति तद्विधम् ।राज्यं प्रदापयामास राजीवाय द्विजोऽप्यहम् ॥९९॥पुना राज्ञ्यै नृपतये दत्वा मे दर्शनं तथा ।तिरोभावं गतश्चाहं ततः कालान्तरे रमे ॥१००॥राजीवं कुन्दनादेवीं तथा पुत्रान् सुपुत्रिकाः ।वैष्णवं तत्कुटुम्बं च धामाऽक्षरं समानयम् ॥१०१॥एवं मया पुरा भक्त्या पत्न्याश्चाराधनेन वै ।पापोऽपि ब्रह्महाश्चापि राजीवो रक्षितो वनात् ॥१०२॥राक्षसान्मोचितश्चापि राक्षसोऽपि प्रमोचितः ।राजीवनृपतेः सर्वे कुटुम्बं मोचितं ह्यघात् ॥१०३॥कुन्दनायाः प्रतापेन व्रतेनाऽनशनेन वै ।ममाऽऽराधनभक्त्या च राज्यं स्वं प्रापितं पुन ॥१०४॥एवं लक्ष्मि मम भक्त्या भुक्तिर्मुक्तिर्भवेदिह ।पठनाच्छ्रवणाच्चाऽस्य भुक्तिं मुक्तिं लभेत्तथा ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वाटासीनारनृपतेर्ब्रह्मघ्नस्य राक्षसाभिभूतस्य हृतराज्यस्य कुन्दनदेवीराज्ञ्याः परमभक्त्या भगवद्दर्शनं दुःखमोक्षणं चेत्यादिनिरूपणनामा त्रिनवत्यधिकशततमोऽध्यायः ॥१९३॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP