संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं वेधसो याक्षनामके ।पञ्चत्रिंशे वत्सरे च कल्पेऽष्टाशीतियुच्छते ॥१॥तृतीये च मनौ जातं प्राकट्यं मे शृणु प्रिये ।अंशुक्रमथो राजर्षिस्तदासीद् दक्षिणे व्रती ॥२॥मेरोः सन्निहिते देशे नालवेयप्रजाधिपः ।समस्तस्य नलवस्य भूखण्डस्य नियामकः ॥३॥अन्ये सहस्रभूपाश्च करदास्तस्य चाऽभवन् ।दानी ध्यानी व्रती भक्तः साधुसेवी श्रवी मखी ॥४॥हरिन्यासी निवेदी च विश्वासी पूजको मम ।नृपोंऽशुक्रमथो लक्ष्मि महावैष्णवसत्क्रियः ॥५॥यथाऽभवत्तथा तस्य पत्न्योऽपि हरिदीक्षिताः ।वैष्णव्यः शतसंख्याश्चाऽभवन् हरिपरायणाः ॥६॥दात्र्यो ध्यात्र्यो व्रतिन्यश्च भक्ताः साधुप्रसेविकाः ।श्रविण्यश्च मखिन्यश्च हरिन्यासिन्य इत्यपि ॥७॥आत्मनिवेदिकाः सर्वा विश्वासिन्यश्च पूजिकाः ।पातिव्रत्यपराश्चापि मयि सर्वकृतादराः ॥८॥मदर्चायां लग्नचित्ता मत्साधुदिव्यदृष्टिकाः ।पत्यौ हरौ सत्सु नित्यं समसेवासमादराः ॥९॥राज्ञः पुत्रास्त्रिशतानि पुत्र्यः शतद्वयं तथा ।पितृवत् मातृवत् सत्सु हरौ सेवापरायणाः ॥१०॥मनसा वस्तुभिर्देहैः सेवन्ते भगवत्कुलम् ।सर्वे चासन् दिव्यभावा विदेहाः सिद्धपुंगवाः ॥११॥नैषां राज्ये कदाऽप्यासन् नीतयो दुःखविप्लवाः ।नाऽवग्रहो नातिवृष्टिर्न युद्धं भूमिकम्पनम् ॥१२॥न शैत्याभिभवश्चौष्ण्योपद्रवोऽपि न वै क्वचित् ।न रोगाश्चाऽभवन् राष्ट्रे नाऽकालमृत्यवो जनाः ॥१३॥अन्नवस्त्रादिमोदिन्यः प्रजा भूषामहोत्सवाः ।परस्परप्रसन्नाऽनुरागिण्यश्च सदाऽभवन् ॥१४॥परस्परसहायाश्च नित्यमत्पूजनान्विताः ।मह्यमर्पय्य खादिन्यो भोगिन्योऽर्पय्य मेऽखिलम् ॥१५॥हृष्टपुष्टा नरा नार्यो द्वेषहिंसादिवर्जिताः ।न स्तेना न कदर्याश्च राज्ये तेषां तदाऽभवन् ॥१६॥सर्वरसप्रदा पृथ्वी ऋतवः फलपुष्पदाः ।वृथा वल्लीविरुधश्चाऽऽस्तम्बात् फलसुमप्रदाः ॥१७॥असत्यं मानवे नासीत् कापट्यं न प्रजास्वपि ।तृष्णा नासीद् भोगवृत्तिः सन्तोषः संव्यवर्तत ॥१८॥देवा महर्षयः सन्तः सिद्धाः साध्व्योऽप्यहर्निशम् ।यतयो ब्रह्मशीलाश्च भुंजतेऽस्य सहस्रशः ॥१९॥अन्नसत्राणि राज्येषु कृतानि तेन भूभृता ।भुंजते लक्षशो विद्यार्थिनो विद्यार्थकन्यकाः ॥२०॥प्रतिखेटं प्रतिग्रामं प्रतिग्रामं प्रतिपत्तनमस्य वै ।अन्नसत्रेऽतिथयश्च गृह्णन्ति भोजनं वरम् ॥२१॥प्रातर्नित्यं प्रतिग्रामं देवानां सर्वसम्पदाम् ।पूजनं नृपतेरेव धनादिभिः प्रजायते ॥२२॥घटिकाकालपर्यन्तं कृत्वा संकीर्तनं हरेः ।भुंजतेऽतिथिवर्गाश्चाऽनाथाद्या अस्य सत्रके ॥२३॥सायं भजन्ते मां लोका रात्रौ संकीर्तयन्त्यपि ।दिवा मत्कार्यपरमास्ततः स्वार्थपरा जनाः ॥२४॥एवंविधाः प्रजास्त्वस्य देहाऽनादरतत्पराः ।तपस्यो भक्तिमत्यश्च साधुसेवापरायणाः ॥२५॥साधुरूपो हि भगवान् चेतनोऽत्र क्षितौ सदा ।कोटिरूपो राजते वै प्रजानां श्रेयसां करः ॥२६॥साधुरेव हि भगवान् साधुरेव हि तारकः ।साधुः सद्गतिदाता च साधुमूर्तिः स्वयं प्रभुः ॥२७॥साधुर्यन्मानवं रूपं दृश्यतेऽस्मत्समं ह्यपि ।दिव्यं तत् तत्क्रिया दिव्या मोक्षदो भगवान् स्वयम् ॥२८॥दर्शनं स्पर्शनं पादसंवाहनं प्रसेवनम् ।भोजनं बहुधा सेवा सर्वं साधोः प्रमुक्तिम् ॥२९॥साधूनां परिचर्या या सकृद्वा बहुधापि वा ।पापनाशकरी सर्वा ब्रह्ममुक्तिप्रदायिनी ॥३०॥ये पुत्रा दीक्षिता दिव्या हरेरेव हि वंशिन ।भवन्ति जन्मभूत्यागास्त एव हरिरूपिणः ॥३१॥तत्क्रियायां ब्रह्मचर्यं व्रतं दानं च दक्षिणा ।तपो धर्मो विवेकश्च भक्तिः सर्वं प्रतिष्ठितम् ॥३२॥साधोर्हस्तौ हरेर्हस्तौ सत्पादौ चरणौ हरेः ।सतां मुखं कृष्णमुखं त्वक् श्रीहरेः सतां त्वचम् ॥३३॥नेत्रे द्वे श्रीहरेर्नेत्रे सजिह्वा जिह्विका हरेः ।सन्मस्तकं हरेर्मूर्धा सन्नासा नासिका हरेः ॥३४॥सत्कर्णौ श्रीहरेः कर्णौ सद्दन्ता दशना हरेः ।सतां कण्ठो हरेः कण्ठो हरेर्वक्षः सतामुरः ॥३५॥सतां तुन्दं हरेस्तुन्दं सत्कटिः श्रीहरेः कटिः ।सतां दृष्टिर्हरेर्दृष्टिः सतां स्पर्शो हरेर्हि सः ॥३६॥सतां प्रसन्नता या सा हरेरेव प्रसन्नता ।सुखं सतां तु सेवोत्थं हरेरेव सुखं मम ॥३७॥मोदः प्रमोदश्चानन्दश्चोत्सवा ये सतां मताः ।ते सर्वे श्रीहरेरेव ममानन्दाः पृथङ् न वै ॥३८॥सतां सन्तोषणं सर्वं मम सन्तोषणं हि तत् ।सतामिन्द्रियवर्गो यो ममेन्द्रियाणि तानि वै ॥३९॥सतां बुद्धिर्मम बुद्धिः सन्तोऽहं सर्वदा भुवि ।अहं सन्तः सदा लोके भवामि बहुरूपवान् ॥४०॥अपरिग्रहधर्माणः सन्तो मे ब्रह्ममूर्तयः ।सतां धर्मार्थकामा ये ते मे सर्वे मताः सदा ॥४१॥इत्येवं कमले राजा राज्ञ्यश्च निर्मलान्तराः ।कुमाराश्च कुमार्यश्च प्रजा भृत्यास्तथेतराः ॥४१॥सर्वे सतां प्रसंगैस्ते ह्यासन् मम परायणाः ।सिद्धयः कल्पलतिकाः कल्पपात्राणि तद्गृहे ।चिन्तामणय एवापि कामगावः सदाऽवसन् ॥४३॥लक्षशः साधवश्चापि साध्व्यश्च कृतभक्तयः ।भजन्ते मामाश्रमस्था निष्कामा मत्परायणाः ॥४४॥अथ तेषां भक्तिं विलोक्याऽऽत्मनिवेदिताम् ।कृपयाऽहं तदेयेषोषितं साध्वीसतां गणे ॥४५॥माधवाख्ये मम मासे राजा चकार कीर्तनम् ।मासिकं चाऽखण्डितं च त्रिंशद्दिनं मखात्मकम् ॥४६॥हरे नारायण विष्णो कृष्ण केशव माधव ।परब्रह्म प्रभो श्रीश पुरुषोत्तम सत्पते ॥४७॥नमोऽनादिकृष्णनारायणाय परमात्मने ।नमोऽन्तरात्मने साधुस्वरूपायाऽखिलात्मने ॥४८॥नमः साध्वीस्वरूपाय श्रीकान्ताय सदात्मने ।नमो भक्तिप्रलभ्याय सेवासाध्याय चक्रिणे ॥४९॥स्वतन्त्रस्त्वं चाऽक्षरेशो वर्तसे मुक्तकोटिषु ।तथाऽत्राऽऽयाहि साक्षाद्वै दिव्यमूर्तिर्यथाऽसि नः ॥५०॥इत्येवं भजनं चक्रुः राजा प्रजाश्च साधवः ।तैः सहाऽयं कीर्तयामि नृत्यामि च हसामि च ॥५१॥भुञ्जे तिष्ठामि संयामि निषीदामि वदामि च ।पिबामि चापि जिघ्रामि रसयामि स्वपिम्यपि ॥५२॥प्रमोदे चानन्दयामि विहरामि नमामि च ।प्रसेवे साधुवेषोऽहं साधुषु तन्मखोत्सवे ॥९३॥गूढरूपं च मां ते तु नैव जानन्ति माधवम् ।साधुं कंचित् प्रजानन्ति केचनैव समाजके ॥१४॥त्व तदाऽभूः सती साध्वी बाला शीलपरायणा ।काषायाऽम्बरवेषा च प्रत्यक्षा गूढसद्गुणा ॥५५॥गूढरूपा गूढचिह्ना साध्वीसेवापरायणा ।साध्वीनां मण्डले तत्र व्यचरः समवर्तना ॥५६॥न ताः साध्व्यः प्रजानन्ति लक्ष्मीं त्वां गोचरामपि ।मम माया तथा चास्ते स्वतन्त्राऽऽवरणात्मिका ॥५७॥अन्नसत्रं मखसत्रं तथा कीर्तनसत्रकम् ।माधवान्ते प्रपूर्णं च जातं वै पूर्णचन्द्रके ॥२८॥दिने सायं कथां चक्रुर्मम माहात्म्यबोधिनीम् ।साधवश्चापि सत्यश्च राजा प्रजा महोत्सवे ॥५९॥मम पूजां ततश्चक्रुर्निशि मूर्तौ सुवस्तुभिः ।नीराजनं ततश्चक्रुः पुष्पाञ्जलीर्ददुस्ततः ॥६०॥भोजनानि प्रददुश्च ततः सवाद्यनर्तनम् ।कीर्तनं तालमानाद्यैः सुस्वरैस्तालिकादिभिः ॥६१॥किंकिणीघुर्घुरशब्दैश्चक्रुर्जागरणान्विताः ।तदाऽहं कीर्तनाऽऽकृष्टः प्राविरासं हि नर्तकः ॥६२॥नर्तकी त्वं बालिका वै बालोऽहं षोडशाब्दिकः ।चतुर्दशाऽऽब्दिकी त्वं च सुवेशाभूषणान्विता ॥६३॥मायूरपिच्छमुकुटा दिव्यकुण्डलशोभना ।नृत्यार्हसर्ववेषाढ्या प्रसन्ना नाट्यकोविदा ॥६४॥अहं चापि तथारूपः सर्वयोग्यपरिग्रहः ।सभायां रङ्गमध्ये चागतोऽलक्ष्यप्रदेशतः ॥६५॥न वै कैश्चिदहं ज्ञातो ज्ञाता वा च कुतो न्विमौ ।चकिता नौ विलोक्याऽऽसन् राजाद्यास्ते सभाजनाः ॥६६॥आवयोर्वै महत्तेजः सभायां प्रासरत्तदा ।आनन्दमोदसौख्यानि प्रासरन् वै समाजके ॥६७॥मिष्टं स्वेष्टं कामितं च महासौख्यं तदाऽभवत् ।जनानां त्वावयोर्योगान्नृत्यगीतिप्रतालनैः ॥६८॥अस्मल्लीनास्तदा सर्वे प्रत्ययैकप्रतानिताः ।चाक्षुषमात्रवेगाश्च श्रवणाकृष्टमानसाः ॥६९॥व्यपश्यन् निर्निमेषा मां त्वां दिव्यां श्रीं श्रियःपतिम् ।अनन्तकोटिसूर्याभमसंख्यचन्द्रशोभनाम् ॥७०॥मां त्वां व्यलोकयन् लोकाः कृपालुं च कृपान्विताम् ।कीर्तनं स्नेहभजनं कारणं सत्प्रसेवनम् ॥७१॥दिव्यभावः सदा सत्सु हेतवो दर्शने हि नौ ।अथाऽनृत्यन्त भक्तान्यो भक्ताश्चाकृष्णमानसाः ॥७२॥परमानन्दमग्नाश्च देहातिभानवर्जिताः ।सर्वेषां देहिनां तत्र दर्शनं चावयोः शुभम् ॥७३॥दिव्यं यथाऽक्षरे धाम्नि तथाऽभवत् क्षणं तदा ।अथानन्तरमेवाऽहं तेजस्तिरो व्यधापयम् ॥७४॥आकृष्टा वृत्तयस्तेषां स्वास्थ्यमाप्ता यथेन्द्रियम् ।ततो नौ निजतुल्यौ ते व्यलोकयन्तुपस्थितौ ॥७५॥विनिवृत्ता द्रुतं नृत्याद् गायनात् कीर्तनादपि ।महाश्चर्यभरा नेमुर्दण्डवत्त्वां च मां जनाः ॥७६॥ददुर्मुख्यासनं स्वर्णसिंहासनं नृपादयः ।आवां सिंहासनस्थौ च पुऽपूजुस्ते कृतादराः ॥७७॥चन्दनैरक्षतैश्चापि पुष्पैर्हारैः सुगन्धिभिः ।राजाद्या रत्नहारैश्च सौवर्णरशनादिभिः ॥७८॥मुकुटाद्यैश्च भूषाभिर्धूपैनैंवेद्याभोजनैः ।मिष्टपानैश्च ताम्बूलैर्नीराजनेन संस्तवैः ॥७९॥नमस्कारैश्च ते सर्वे दण्डवद्भिः पुनः पुनः ।जयशब्दैर्हर्षनादैर्वेत्रधृग्घोषणैस्तथा ॥८०॥सर्वे प्रसादयामासुरत्यर्थं त्वां च मां तदा ।तुष्टुवुः परया प्रीत्या ज्ञात्वा वै परमेश्वरम् ॥८१॥साधव ऊचुः-यत्र क्वापि भवेज्जन्म पश्चात्पुण्यप्रतापतः ।भवच्छरणमापन्नाः पुत्राः स्मो भगवँस्तव ॥८२॥अच्युतो वै पिता यस्य ते त्वच्युता भवन्ति वै ।वयं चाऽच्युततां प्राप्ताः कृपैषा श्रीहरे तव ॥८३॥सुपुत्रेषु च दिव्येषु कृपया त्वं समागतः ।स्नेहपात्राणि संवीक्ष्य प्रत्यक्षः सा कृपाऽपरा ॥८४॥अथाऽतोऽपि सदा सत्सु वासो यथा तनौ तथा ।सतां मध्ये वस कृष्ण कृपेयं पारमार्थिकी ॥८५॥यथा धाम्नि तथा सत्सु मण्डलेषु निवासनम् ।सदा साधुस्वरूपेण करोतु परमां कृपाम् ॥८६॥साध्व्य ऊचुः-मातर्लक्ष्मि महामातस्त्वा वयं शरणागताः ।मोक्षार्थिन्यो ब्रह्मसाध्व्यो भवत्याः पुत्रिका वयम् ॥८७॥मातृवात्सल्यमत्यन्तं सुतासु तु निसर्गजम् ।तत्पुरस्कृत्य जननि ददासि दर्शनं हि नः ॥८८॥अबलानां बलोपेतं भाग्यमद्य प्रवर्तते ।दिव्यतां प्राप्य ते योगान्मुक्ततां याम एव ह ॥८९॥करुणा तेऽप्यतुल्याऽस्ति यत्साध्वीषु विभावनम् ।तत्रापि चातिकारुण्यं यदि वासं प्ररोचयेः ॥९०॥प्रार्थनामुररीकृत्य यथेष्टं प्रकरोत्विह ।अनादिश्रीकृष्णनारायणाज्ञयाऽक्षरेश्वरि ॥९१॥राज्ञी प्रोवाच-धन्याहं मम पुत्र्यश्च पुत्रा राज्यं नृपस्तथा ।प्रजा धन्या मम लक्ष्मि यदत्र दर्शनं तव ॥९२॥कुरु वासं सदा चाऽत्र तव सर्व भवत्यपि ।दास्यहं सर्वदा तेऽस्मि वस लक्ष्मि कृपां कुरु ॥९३॥संसारे लाभ एवाऽत्र प्राप्तः साध्वीसमागमः ।भवत्या दर्शनं साक्षात् स एवानन्यलाभकः ॥९४॥राजोवाच--कुलं राज्यं धनं वंशः सर्वं कृष्ण भवत्कृते ।मयाऽर्पितं कृतं कृत्स्नं त्वदात्मकं त्वदर्थकम् ॥९५॥कृपेयं दर्शनं साक्षात्तवाऽत्र सत्समागमात् ।प्राप्तव्यं सर्वमेवाऽद्य प्राप्तं चात्यन्तिकं फलम् ॥९६॥सर्वदा वस मे गेहे कृपां कृत्वा परेश्वर ।इत्युक्त्वा प्रणनामैव पवात पादयोर्नृपः ॥९७॥तथास्त्वोमिति तं चोक्त्वा न्यवसं साधुमण्डले ।अनादिश्रीसाधुनारायणः साकं त्वया प्रिये! ॥९८॥आकल्पान्तं ततः साध्वीनारायण्याऽवसं क्षितौ ।स्मर त्वां मां तथा सर्वं चावतारान् परानपि ॥९९॥पठनाच्छ्रवणाच्चापि स्मरणान्मुक्तिमाव्रजेत्॥प्राकट्यं मे तवोक्तं वै मोक्षदं कृपयाऽन्वितम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चत्रिंशद्वत्सरेंऽशुक्रमथनृपतेर्भक्त्याऽनादिश्रीसाधुनारायणस्य साध्वीनारायण्या लक्ष्म्या सह प्राकट्यमित्यादिनिरूपणनामा नवविंशतितमोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP