संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच -शृणु त्वं शिवराज्ञीश्रि! ब्रह्मणः पितृवत्सरे ।नवविंशे नवत्यात्मकल्पे च सप्तमे मनौ ॥१॥आसीद्वै मम लोकेऽत्र प्राकट्यं शृणु पद्मजे! ।ब्रह्मणो गुप्तरोमभ्यश्चाऽसुरश्चित्ररूपवान् ॥२॥मयूरनामको जज्ञे सपक्षपिच्छचञ्चुकः ।पादयुक्तः कामरूपधरः पर्वतसन्निभः ॥३॥डयमानोऽम्बरे त्वाकर्षयति ग्रहमण्डलम् ।पृथ्व्यां गच्छन् ग्रामकूटान् पर्वतान् समकर्षति ॥४॥जलेऽन्तः सम्प्रविष्टः सन् संक्षोभयति वारिधीन् ।कम्पयत्येव पृथिवीं देवाँस्त्रस्तान् करोति च ॥५॥मानुषान्नागसर्पांश्च सहस्रशो हरत्यपि ।क्वचिद् भवति देवः स महेन्द्राभः स्वरूपवान् ॥६॥क्वचिच्च मानवं रूपं सम्राण्णिभं बिभर्त्ति च ।क्वचिन्महर्षितुल्यश्च तेजःपरिधिशोभनः ॥७॥जायते कामरूपो वै मोहको बलवानपि ।तपश्चचार राजस्य लोभाद् वर्षसहस्रकम् ॥८॥ब्रह्मा तुष्टो वरं प्रादान्मृत्युर्हरिं विना न ते ।स त्वेवं प्राप्य वचनं तुष्टो निःशंक एव ह ॥०५॥सत्ये लोके जने स्वर्गे मानवे चातलादिषु ।तत्तद्रूपधरो भूत्वा याति भुंक्ते प्रहृष्यति ॥१०॥क्वचिद् देवगृहान् गत्वाऽमृतं भुक्त्वा प्रयाति च ।देवीं वा मानवीं नारीं हृत्वा याति स्थलान्तरम् ॥११॥यक्षिणीं राक्षसीं नीत्वा स्मृद्धिं नीत्वा प्रयाति वा ।दानवीं वा सतीं नागीं नीत्वा याति वनान्तरम् ॥१२॥गा वत्सतरीरश्वान् गजान्नीत्वा प्रयाति च ।मेरोर्द्रोण्यां वनाढ्यायां शतयोजनविस्तरे ॥१३॥अरण्ये स्वालयं चक्रे स्मृद्धं सुभोगशोभनम् ।हृत्वा हृत्वा नरान्नारीर्देवीर्वा राक्षसीश्च वा ॥१४॥सर्वं नैजं स कृत्वैव भुंक्ते भोगमयं च तत् ।युद्धे न मरणं याति ब्रह्मणो वरदानतः ॥१५॥सर्वत्र गतिमत्वाच्च विजयं लभते सदा ।एवं सम्राट्समो जातः पृथिव्यां स्वबलाद्धि सः ॥१६॥नृपानन्यान् शनैर्जित्वा नृपेश्वरोऽभवत्ततः ।साम्राज्यं मम सर्वत्र पार्थिवं चेति वक्ति च ॥१७॥उद्धोषणां कृतवाँश्च चक्रवर्त्यहमेव यत् ।बली सर्वत्र गत्वैव जयत्याक्षितिमण्डलम् ॥१८॥नृपान् राज्येऽसुरान् प्रतिष्ठाप्य राज्यं करोति च ।एवं शनैः समभवच्चक्रवर्ती मयूरकः ॥१९॥प्रधर्षितुमथेन्द्राणीं स्वर्गलोकं जगाम सः ।उद्धृत्य तां चाम्बरेणोड्डीय यावद् भुवं प्रति ॥२०॥प्रयाति तावदेवेन्द्रो वज्रेणैनं जघान ह ।वज्रं चाऽनलप्रख्यं तज्जग्रास चञ्चुसंधृतम् ॥२१॥अथ त्रासं जगामेन्द्रः वीक्ष्य मायूरकं बलम् ।निववृते निजं स्थानं दिक्पालेभ्यो न्यवेदयत् ॥२२॥सज्जाः सर्वेऽपि दिक्पाला युद्धार्थं समुपाययुः ।यमः कुबेरश्चेशानो वरुणो निर्ऋतोऽनिलः ॥२३॥अनलोऽर्कश्च रुद्रश्च पृथ्व्यां सर्वे समाययुः ।सबलाः सज्जशस्त्राश्च विनेदुश्चाम्बरे च ते ॥२४॥भुत्वा नादान् समरार्थान् गर्जना द्युसदां तथा ।मयूरो निर्ययौ शीघ्रं युद्धार्थं बलसंयुतः ॥२५॥दशसाहस्रसेनानीसहितोऽब्जभटान्वितः ।युयुधे घोरसंग्रामं सम्वत्सरं हि मानवम् ॥२६॥हतं सैन्यं हि बहुधा स्वस्य तदप्यजीवयत् ।आसुर्या विद्यया मिथो युयुधे द्युसदीश्वरैः ॥२७॥मायूरका महाक्रूरा आसुरा वै समन्ततः ।साकं देवगणैः सर्वे युयुधिरेऽतिनिर्भयाः ॥२८॥नान्तो युद्धस्य भवति मायूरो नापि नश्यति ।विरामो न सुराणां च मनुष्या दुःखिनोऽभवन् ॥२९॥मानव्यश्च सुराण्यश्च सत्यो नागिन्य इत्यपि ।दैत्यान्यश्चापि वै त्रस्ता निर्यान्ति स्म न वै बहिः ॥३०॥त्रैलोक्यां सर्वलोकेषु प्रजासु चापि राजसु ।उद्वेजनं च दुःखं च वर्ततेऽस्य सदा तदा ॥३१॥निर्विण्णाश्चाऽथ वै देवाः परिश्रमं गता बहुम् ।निस्तेजस्को रविर्जातो महेन्द्रो भग्नमानसः ॥३२॥वरुणः क्षीणशक्तिश्च यमो विभ्रमतां गतः ।निर्ऋतोऽपि क्षीणसैन्योऽभवत्तत्र रणे तथा ॥३३॥ईशानोऽपि हतोत्साहः कुबेरः क्षीणसत्त्वकः ।अग्निस्तैक्ष्ण्यविहीनश्च मरुद्रोदनमाचरम् ॥३४॥अन्ये देवा गताशाश्चाऽभवन्नृपास्तु तद्वशाः ।एवं काले समापन्ने दुःखे च सर्वतोऽधिके ॥३५॥देवा रणं विहायैव ययुस्ते ब्रह्मणो गृहम् ।प्रार्थयामासुरत्यर्थं जगदुः स्वापकृष्टताम् ॥३६॥आसुरस्य बलं चापि रक्षार्थं चान्वरोधयन् ।ब्रह्मा श्रुत्वा तु तानाह यतिष्ये भवतां कृते ॥३७॥सर्वे चैवाऽत्र तिष्ठन्त्वाराधयन्तु हरिं परम् ।हरिं विना न वै तस्य नाशकोऽन्योऽस्ति मद्वरात् ॥३८॥इत्युक्ता देवताद्याश्चाराधयामासुरुत्सुकाः ।मामनादिश्रीशनारायणं श्रीपुरुषोत्तमम् ॥३९॥अहं साकं त्वया लक्ष्मि! गजाऽऽरूढोऽक्षराद् द्रुतम् ।उपाययौ सत्यलोकं तदा ब्रह्मसभास्थलम् ॥४०॥ब्रह्माद्याः स्वागतं पूजां मम चक्रुस्ततः परम् ।जगदुर्निजदुःखं चाऽसुरनाशं प्रवव्रिरे ॥४१॥तदाऽहं चाऽसुरनाशं पद्मजे! समचिन्तयम् ।यान्तु नैजान् प्रदेशानित्यवदं च सुरानहम् ॥४२॥शीघ्रं सुरा ययुर्नैजान् देशानहं च मानवम् ।रूपं धृत्वाऽऽजगाम क्ष्मां यत्राऽऽलयोऽसुरस्य वै ॥४३॥क्षात्रं रूपमहं धृत्वा सशरं धनुषा युतम् ।गत्वा च गोपुरे तस्य भिक्षायात्रां व्यधापयम् ॥४४॥मयूरश्च तदा दूतैर्विज्ञप्तः स्वयमेव तु ।आतिथ्यार्थं गोपुरं स्वं चाऽऽजगाम समुत्सुकः ॥४५॥नत्वा मां किन्नु भिक्षायां याचसे त्विति चाऽऽह सः ।युद्धभिक्षां देहि मेऽत्र याचेऽहं नाऽपरामिति ॥४६॥याचितः स ददौ भिक्षां जलं धृत्वा करे तदा ।शस्त्रेण शस्त्रं संयुज्य धनुषाऽऽप्ता मयाऽपि सा ॥४७॥तत्रैव युद्धं ह्यभवद् गोपुराऽग्रे वनोत्तमे ।घोरं तेनैव साकं वै मासान्तं सुभयंकरम् ॥४८॥सुराणां मानवानां च पितॄणां शीलसञ्जुषाम् ।राज्ञां चापि प्रवीराणां रोमहर्षणकारकम् ॥४९॥देवा आकाशमार्गेण ज्ञात्वा युद्धप्रवर्तनम् ।पश्यन्त्यागत्य तत्रैव जयं वदन्ति मे तदा ॥५०॥एकोऽहं वै मयूरेण युद्धं करोमि नाऽपरः ।मासान्ते मम बाणैश्च शस्त्रैरस्त्रैर्गदादिभिः ॥५१॥भिन्नपिच्छोऽभवत्तूर्णं निराशोऽप्यभवत्तदा ।मायूरकान्निजयोद्धृन् योजयामास संयुगे ॥५२॥ते साहाय्यकरास्तस्य मामावृत्त्य समन्ततः ।युयुधिरेऽतिवेगेन चाऽर्बुदास्ते मयूरकाः ॥५३॥मायारूपधराश्चापि मायाशस्त्रधरास्तथा ।मायावेषधराश्चापि मायायुद्धकरास्तथा ॥५४॥मृषादेहधराश्चापि मृषासैन्यनिरूपिणः ।सर्वे मया हतास्तत्र सुदर्शनेन वै क्रमात् ॥५५॥दग्धा मृता मयूरास्ते सुदर्शनस्य तेजसा ।मायूरकी पुरी दग्धा भक्ता मया सुरक्षिताः ॥५६॥शच्यादिकाः प्रिया याश्च मानव्यश्चापि मानवाः ।नरा नार्यो देवताश्च मया तत्रैव रक्षिताः ॥५७॥आसुरास्ते हताः सर्वे मायूरवंशयोगिनः ।सर्वे निरवशेषास्ते कृताः सुदर्शनेन वै ॥५८॥मायूरकस्तथा दृष्ट्वा विनाशं स्वस्य सर्वथा ।अन्धो भूत्वा महाखड्गं धृत्वा करे विहायसा ॥५९॥अद्रिप्रायं वपुः कृत्वा पपात मम मस्तके ।हन्तुं मां खड्गधारेण तावन्मया सुदर्शनम् ॥६०॥अधस्तात्प्रेरितं तस्मै ददाह तं तदाऽम्बरे ।भस्मीभूतः समस्तो वै व्योम्न्येव समपद्यत ॥६१॥देवदुन्दुभयो नेदुः पुष्पवृष्टिर्ममोपरि ।चन्दनाऽक्षतवृष्टिश्च जयघोषास्तथाऽभवन् ॥६२॥मायूरवंशजा नार्यो रुरुदुर्वै तदा मुधा ।देवानाहूय च तदाऽवातरं तत्र पत्तने ॥६३॥मायूरके महारण्ये सर्वस्मृद्धिसुशोभने ।कारागारं विलोक्याऽपि तत्स्थानमोचयं जनान ॥६४॥देवानमोचयं तूर्णं तथा देवीरमोचयम् ।शचीमुख्यादेवताश्चाऽमोचयं मानवीस्तथा ॥६५॥तद्राज्ये देवताः सर्वा देवाश्च मानवा अपि ।मां क्षत्रं परमात्मानं श्रीहरिं पुरुषोत्तमम् ॥६६॥तीर्थजलैरभिषिच्य पुपूजुर्हि विधानतः ।प्रतिष्ठापयामासुश्च श्रिया साकं समुत्सुकाः ॥६७॥अनेकाः कन्यका नार्यो मयूरवंशजास्तदा ।अनाथा मां परं नाथं प्राप्य ता वव्रिरे मुदा ॥६८॥मया यज्ञे पाविताश्च गृहीता विधिना करे ।ब्रह्माद्यैरर्पिताः सर्वा मम पत्न्यस्तदाऽभवन् ॥६९॥एवं मया मयूराख्यो महासुरो हतः पुरा ।मां विना तस्य वै नाशो नान्येन निर्मितो यतः ॥७०॥तस्य तेजो निर्गतं तु मय्येव शान्तिमाप ह ।मुक्तिंगतोऽसुरः सोऽपि तथाऽन्येऽपि च ये हताः ॥७१॥सर्वे मोक्षं गता मे यत् सुदर्शनेन वै हताः ।मोचिताश्चापि राजानो मां प्रपूज्य परेश्वरम् ॥७२॥ययुस्ते वै निजदेशान् सुराश्च त्रिदिवं गताः ।नागपत्न्यश्च मानव्यस्तथा देव्योऽप्यनाथिकाः ॥७३॥मां विवाह्य स्थिता सर्वा मम पत्न्यस्तदा प्रिये ।त्वं सर्वासां राजराज्ञीनाम्नी श्रीरभवस्तदा ॥७४॥अयोनिजा क्षात्ररूपधर्त्री मत्पार्श्वशालिनी ।अथ पिच्छान्मयूरस्य संगृह्य मार्जनी त्वया ॥७५॥कृता भूमार्जनार्थं वै तथा मत्पार्षदैरपि ।मार्जनिकाः कृताः सर्वाः सुरूपाः शोभना अपि ॥७६॥अथाऽहं स्वविमानेन भूतले सर्वतो दिशि ।यत्र यत्राऽसुराश्चासन् मयूरेण नृपीकृताः ।तत्र तत्रैव गत्वा च हत्वा तान् मूलतः प्रिये! ॥७७॥ददौ राज्यानि सर्वाणि क्षत्रियेभ्यो यथायथम् ।एवं मया मम सर्वं साम्राज्यं भूतलेऽभितः ॥७८॥स्थापितं च तदा श्रेष्ठं वैष्णवं परमात्मना ।अनादिश्रीकृष्णनारायणेन चक्रधारिणा ॥७९॥अनादिश्रीक्षत्रनारायणरूपेण रक्षता ।अनादिश्रीराजराज्ञीसहितेन स्मर प्रिये! ॥८०॥मया क्षात्रवृषाः सर्वे पालिताः क्षितिमण्डले ।सर्वे यज्ञाः कृताश्चापि रक्षिताश्च प्रजा अपि ॥८१॥देवता रक्षिताश्चाऽपि धर्ममार्गाः प्रवर्तिताः ।सत्रप्रथाः कृताश्चापि वेदमार्गाः प्रपोषिताः ॥८२॥नीतयः स्थापिताश्चापि साधवो रक्षितास्तदा ।सन्मठाः कारिताः श्रेष्ठा देवादयाश्च कारिताः ॥८३॥तीर्थानि रक्षितान्येव भिक्षुकाश्चापि रक्षिताः ।कथा नारायणस्याऽपि सर्वा नित्यं प्रवाचिताः ॥८४॥सत्यः साध्व्यः पालिताश्च धर्मे सदा प्ररक्षिताः ।भक्तिश्च मम ते चापि सर्वक्ष्मायां प्रवर्तिता ॥८५॥वैदिकश्चाप्यात्मबोधः कल्पे तदा मयोदितः ।सभायां मे तदा लक्ष्मि! दशसाहस्रसाधवः ॥८६॥दशसाहस्रविप्राश्च दशसाहस्रसाध्विकाः ।दशसाहस्रबटवो दशसाहस्रवैदिकाः ॥८७॥दशसाहस्राऽतिथयो दशसाहस्रभिक्षुकाः ।दशसाहस्राऽनाथाश्च दशसाहस्रजापकाः ॥८८॥दशसाहस्रमखिनो दशसाहस्रसत्रिणः ।दशसाहस्रयमिनो दशसाहस्रतापसाः ॥८९॥व्रतिनो दशसाहस्रा दशसाहस्रपण्डिताः ।दशसाहस्रदासाश्च दशसाहस्रदासिकाः ॥९०॥दशसाहस्रयोगज्ञा दशसाहस्रचारणाः ।नित्यं तिष्ठन्ति सत्त्वस्था ज्ञानयोगपरायणाः ॥९१॥मम भक्तियुताः सर्वे मम सत्रे प्रभोजिनः ।मम मूर्तेश्च धर्तारो ध्यानमार्गे कृतादराः ॥९२॥बभूवुः कृतवासाश्च सदा स्वात्मनिवेदिनः ।मया पृथ्व्याः कृतं राज्यं साप्तसामुद्रसंवृतम् ॥९३॥मानवानां हि मोक्षार्थं देवानां सुखलब्धये ।पातालादिनिवासाश्च स्वर्गादिकनिवासिनः ॥९४॥अन्वसरँश्च मां सर्वे भेजुर्मां सकलेश्वरम् ।आकल्पं तु तदा चाहं न्यवसं भूतलेऽनिशम् ॥९५॥वैकुण्ठतुल्या पृथिवी निरातंका तदा ह्यभूत् ।कल्पद्रुमास्तथा कामधेनवः कामवल्लिकाः ॥९६॥चिन्तामणयः सर्वत्र तदाऽऽसन् मम योगतः ।सदा कृतयुगश्चापि कालश्चैकविधोऽभवत् ॥९७॥मानस्यश्चापि च स्पार्शन्यश्च दार्शनिकास्तथा ।तथा च सहवासिन्यश्चासन् वै सृष्टयस्तदा ॥९८॥स्मर सर्वं राजराज्ञीश्रि! त्वं राजाधिराजताम् ।जानाम्यहं तु तत्सर्वं नान्ये जानन्त्यबुद्धयः ॥९९॥अवताराः परे चापि तदाऽऽसन्मे यथोचिताः ।देवमानवरूपाश्च तत्तत्कार्यनिवर्तकाः ॥१००॥इत्येवं कथितं तेऽत्र प्राकट्यं मम पद्मजे ।पठनाच्छ्रवणाद्वाऽपि भुक्तिमुक्तिफलप्रदम् ॥१०१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो नवविंशे वत्सरे मायूरकासुरनाशार्थम् अनादिश्रीराजनारायणस्य राजराज्ञीश्रीसहितस्यप्राकट्यमित्यादिनिरूपणनामा चतुर्विंशतितमोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP