संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि! ततश्चापि प्रज्ञाताख्ये तु षोडशे ।वेधसो वत्सरे चैकादशे तु कल्पके तथा ॥१॥नवमे च मनौ तत्र प्राकट्यं तु यथा मम ।पृथ्व्यामासीत्तदा धर्मो ब्रह्मकुमारयोगिनः ॥२॥ब्रह्मणश्चाऽभवत्पुत्रो ब्रह्मकुमारसंज्ञकः ।आबाल्याद् ब्रह्मचार्येव सत्यलोके पुराऽभवत् ॥३॥तस्य शिष्या नैष्ठिकाश्च सत्यलोकेऽभवंस्तदा ।स्वर्गे पृथ्व्यां विचरन्ति स्मोपदेशपरायणाः ॥४॥आर्षकुमारसंज्ञश्च शिष्यः पृथ्व्यामुपादिशत् ।मनुष्येभ्यः शीलधर्मं नैष्ठिकं ब्रह्मचर्यकम् ॥५॥नरा नार्यश्च ये देहधारिणः पुण्यशालिनः ।पापा वा ब्रह्मचर्यस्था वर्तन्ते नैष्ठिका यदि ॥६॥ते तु मुक्ता भवन्त्येव मायापाशविवर्जिताः ।ब्रह्मचर्यं कामदाहः कामजयो हि देहिना ॥७॥शीलव्रतेन कर्तव्यो मोक्षदं साधनं परम् ।नार्या चाऽक्षतया स्थेयं नरेणाऽस्खलितेन च ॥८॥एवं शीलव्रतिनाऽत्र भाव्यमाजीवनं सदा ।ब्रह्मचर्यं ब्रह्मरूपं परब्रह्माप्तिकारणम् ॥९॥परब्रह्मणि सम्प्राप्ते ऋणं पापं न विद्यते ।अशुद्धिस्तत्र नास्त्येव साध्व्यां साधौ च नैष्ठिके ॥१०॥ब्रह्मचर्यं महादीक्षा ब्रह्मचर्यं परं बलम् ।ब्रह्मचर्यं मोक्षमार्गो ब्रह्मचर्यं परं पदम् ॥११॥यज्ञदानवतां लोके जन्मानि तु बहून्यपि ।जायन्ते च ततो ब्रह्मव्रतेन मोक्षणं भवेत्। ॥१२॥ब्रह्मव्रतस्य मोक्षः स्यादेकेनैव तु जन्मना ।ब्रह्मव्रतस्य तु सदा प्रसन्नः परमेश्वरः ॥१३॥अग्नयो देवताद्याश्चाऽभियन्ति ब्रह्मचारिणः ।अव्याहता गतिर्मोक्षेऽन्यत्राऽपि ब्रह्मचारिणः ॥१४॥ब्रह्मचारी महापापान् पवित्रयति तत्क्षणात्॥ब्रह्मचारिस्नातवारि पिबन्ति पितरोऽपि च ॥१५॥ब्रह्मचारी स्वयं देवो देवता ब्रह्मचारिणी ।हर्यंशा अवतारा वै ब्रह्मचर्यपरा जनाः ॥१६॥ब्रह्मचारिप्रसंगेन ब्रह्मभूया भवन्ति वै ।दर्शनं स्पर्शनं चापि वन्दनं सेवनादिकम् ॥१७॥पादजलं माननं च स्वागतं भोजनादिकम् ।तत्क्षणात् पावयत्येव कृतं यद् ब्रह्मचारिणः ॥१८॥गुरवो बहवो लोके ज्ञानदा शुष्कयत्निनः ।गुरवः शीलयुक्ता ये सत्यास्ते तारकाः पराः ॥ १९॥नारी शीलव्रता साक्षाद् बोध्या नारायणी सती ।नरः शीलव्रती साक्षाद् बोध्यो नारायणः प्रभुः ॥२०॥एवमार्षकुमारेण सम्प्रदायो हि नैष्ठिकः ।आसीत्पृथ्व्यां तदानीं वै स्थापितो ब्रह्मचारिणः ॥२१॥कोटिशो वै नरा नार्यो ब्रह्मचर्यपरायणाः ।नैष्ठिकाश्च बभूवुर्वै तदा पृथङ्निवासिनः ॥२२॥साध्व्यः पृथङ्निवसन्ति स्त्रीणामेवाऽऽश्रमेषु ताः ।नराः पृथङ् निवसन्ति नराणामाश्रमेषु ते ॥२३॥परस्पराश्रमान्नैव प्रविशन्ति स्त्रियो नराः ।परस्परं न स्पृशन्ति नरान्नारीश्च शीलिनः ॥२४॥शृणु त्वं शिवराज्ञिश्रि! त्वेवं शीलप्रतापिनाम् ।देवाश्च पितरश्चापि दर्शनार्थं प्रयान्ति हि ॥२५॥ब्रह्मशीलाश्च ताः साध्व्यः प्रकाशन्ते च चन्द्रवत् ।सूर्यवच्च प्रकाशन्ते तेजोभिः शीलजैस्तदा ॥२६॥एवं तेजोमयान् देहान् दृष्ट्वा देवा नरास्तथा ।दूरादाश्रमतोऽप्येवाऽम्बराद् वा च वनादपि ॥२७॥मोहं प्रयान्ति बहवः सतीषु धैर्यवर्जिताः ।अथ दैत्या दानवाश्च राक्षसाश्च सुरा नराः! ॥२८॥मानवा नृपवर्गाश्च सत्तावन्तो नरा अपि ।सतीवर्गान् ब्रह्ममग्नान् ब्रह्मशीलान् स्थले स्थले ॥२९॥वनेऽरण्ये नदीतीरे विलोक्य तीर्थवासगान् ।मुग्धा मोहं परं गत्वा चक्रुर्वै धर्षणं क्वचित् ॥३०॥उद्धता नियमं भंक्त्वा प्रविशन्त्याश्रमाँस्तथा ।शीलसाध्वीर्धर्षयन्ति चापहरन्ति वाऽऽश्रमात् ॥३१॥ब्रह्मव्रतात् पातयन्ति ह्यसुरा नृपिशाचकाः ।नृपाश्च नृपभृत्याश्च स्तेनाश्च योधिनस्तथा ॥३२॥प्रसह्याऽऽविश्याऽऽश्रमाँश्च भ्रंशयन्ति सतीः व्रतात् ।एवं वै बहुधा जाते त्वेकदा शुक्रकोऽसुरः ॥३३॥दैत्यैः साकं समायातो मन्दाकिन्यास्तटे तदा ।आश्रमे तत्र वै ब्रहाचारिणीनां सुरक्षिते ॥३४॥व्योममार्गेण सहसाऽवतीर्णो योगिनीगणे ।नार्यश्चाश्रमवासिन्यो ब्रह्मचर्यपरायणाः ॥३५॥सशुक्रकाँस्तदा दैत्यान् विलोक्य दुद्रुवुर्भयात् ।इतस्ततोऽप्यधावँश्चाश्रमवृक्षेषु भीवशाः ॥३६॥साध्व्यस्त्रासं ययुस्तत्र धर्षिता व्रतखण्डिताः ।तत्र चैकाऽभवत् साध्वी नाम्ना सुदर्शिनी सती ॥३७॥अखण्डिताऽक्षता ब्रह्मचर्यपरोर्ध्वराजसी ।वाक्सिद्धा दिव्यरूपा च कल्पलतेव योगिनी ॥३८॥चमत्कारपरा वाचा सर्वभस्मविधायिनी ।सूर्योज्ज्वला सुपुष्टा च युवती ब्रह्मचारिणी ॥३९॥अग्निः सूर्यस्तथा वायुः यत्स्पर्शे भयमेति च ।तां वृक्षाधो ध्यानमग्नां ब्रह्मलग्नामवस्थिताम् ॥४०॥विलोक्य शुक्रकः शीघ्रं धर्षितुं समुपागतः ।स्पृष्टवाँस्तां बलाद् यावत् तावत् साध्वी विलोक्य तम् ॥४१॥शशाप व्रतविघ्नोऽसौ भस्मीभवतु तत्क्षणम् ।शुक्रको दैत्यपूज्योऽपि तत्क्षणाद् भस्मतां गतः ॥४२॥अथाऽन्या ब्रह्मचारिण्यो न्यवेदयन् व्रतक्षतिम् ।तदा क्रुद्धा पुनः साध्वी सुदर्शनी शशाप ह ॥४३॥अद्यावधि सतीनां ये प्रधर्षणप्रकारिणः ।भूतले वा तथा स्वर्गेऽन्यत्र ये संवसन्त्यपि ॥४४॥तत्र ते द्रुतमेवाऽद्य भवन्तु भस्मसात् क्षणात् ।इत्युक्त्वा सा सती हस्तगतं वारि मुमोच ह ॥४५॥तावत् सर्वे ब्रह्मव्रतविनाशकास्तु येऽभवन् ।यत्र यत्र तु लोकेषु दग्धास्तत्र च तत्र च ॥४६॥अथापि रोषमापन्ना सुदर्शनी महासती ।विचारमकरोत् तत्र नरेभ्यो विघ्नशान्तये ॥४७॥नराः पृथ्व्यां समागत्य स्वर्गादिलोकवासिनः ।प्रधर्षयन्ति ये साध्वीः प्रधर्षणेच्छुका अपि ॥४८॥नार्यो भवन्तु ते चात्र सर्वदा न नराः पुनः ।ये तु भूतलवासाश्च नरा नृपादयोऽपि च ॥४९॥धर्षयन्ति सतीः साध्वीर्बलात् तेऽपि सदा भुवि ।नार्यो भवन्तु सततं न वै ते तु नराः पुनः ॥५०॥पृथिव्यां नरवर्गोऽयं मानवो व्रतभंगकृत् ।मास्तु सर्वे भवन्त्वेव नार्यो मा सन्तु ते नराः ॥५१॥बालका अपि वृद्धा वा युवानो वा नरा जनाः ।सर्वे भवन्तु नार्यो वै सतीव्रतभयाऽप्रदाः ॥५२॥इत्युक्त्वा हस्तगं वारि मुमोच सा सुदर्शिनी ।तावत् सत्याः प्रभावाद्वै भूलोकोऽयं समन्ततः ॥५३॥नारीमात्रोऽभवत्तूर्णं नराः सर्वे स्त्रियोऽभवन् ।एकोऽपि मानवो वर्गो नररूपो न शिष्यते ॥५४॥बालकाः कन्यकारूपा वृद्धा वृद्धस्त्रियोऽभवन् ।युवानश्च युवत्यो वै तदाऽभवन् गृहे गृहे ॥५५॥नगरे नगरे खण्डे खण्डे चावार्धि सर्वथा ।नौकास्वपि स्थिता नार्योऽभवँस्तदा प्रवासिनः ॥५६॥हाहाकारो महानासीदाश्चर्यं परमं च तत् ।चतुर्दशसु लोकेषु पृथ्व्यां तत्तु विशेषतः ॥५७॥सर्वे नराः प्रपश्यन्ति निजचिह्नानि वै रहः ।देहांगानां विवृत्तिं वै नारीचिह्नमयी तदा ॥५८॥लज्जामवापुः परमां मुखं न दर्शयन्ति ते ।अश्मश्रुलाः सकेशाश्च सस्तनाः सभगास्तथा ॥५९॥सर्वे नरा अभवँश्च क्षितौ नारीस्वरूपिणः ।जातिस्मराश्च ते सर्वेऽवापुर्दुःखं परं तदा ॥६०॥अन्यलोकेषु दैत्याद्याः स्वस्वबान्धवमण्डले ।परां लज्जामवापुश्च ययुस्ते हास्यतां तदा ॥६१॥सुरा अपि तथाकार्या विघ्नकर्तार एव ते ।स्त्रीरूपा अभवँश्चापि देवेषु हास्यतां गताः ॥ ६२॥स्वस्वपत्नीसन्निधौ ते चावमानं गतास्तदा ।धिक्कारतां गताश्चापि शीलधर्षणकारिणः ॥ ६३॥चमत्कारो महाञ्जातस्त्रिलोक्यां नरयोषिताम् ।नरा नैव हि विद्यन्ते भूतले कोपपात्रकाः ॥६४॥नारीराज्यं समस्तं वै भूतलं सर्वतोऽभवत् ।नारीप्रजात्मकं सर्वं भूतलं वै तदाऽभवत् ॥६५॥अथ वै वेधसः पुत्रः कामदेवो नरोऽपि च ।नारीरूपस्तदा जातः साध्वीदेहस्थितो हि यः ॥६६॥स च पत्नीं रतिं प्रीतिं त्यक्त्वा नारीस्वरूपवान् ।सत्यलोकं ययौ तूर्णं पश्यन् स्वर्गेऽपि सदृशीम् ॥६७॥नार्यापत्तिमयीं देवस्थितिं सत्येऽपि तादृशीम् ।शुक्रस्य दग्धतां चापि शुश्राव तत्र वै पथि ॥६८॥सुदर्शन्याः प्रकोपस्य कारणं सर्वसृष्टिषु ।धर्षणं च सतीनां यत् तन्मूलं नरनाशनम् ॥६९॥स्थले स्थले तथा सर्वलोके वार्ता च साऽभवत् ।सुदर्शिन्या महाकोपान्नरा नार्योऽभवन् भुवि ॥७०॥कामदेवो ब्रह्मणे तु गत्वा सभाजनेषु वै ।ब्रह्मकुमारकायाऽपि न्यवेदयद् यथायथम् ॥७१॥स्त्रीरूपं चाऽप्यनङ्गं च वीक्ष्यते जहसुस्तदा ।आश्चर्यचकिताः सर्वेऽप्यहो सत्या बलं त्विति ॥७२॥ब्रहाचर्यबलं श्रेष्ठं बलेभ्यो बलवत्तमम् ।ब्रह्मचर्याद्बलं श्रेष्ठं समं वाऽन्यन्न विद्यते ॥७३॥साधनानि समस्तानि समस्तानि तपांसि च ।व्रतान्यपि समस्तानि तिष्ठन्ति ब्रह्मचर्यके ॥७४॥मोक्षस्य साधनं चैतद् रक्षायाः साधनं परम् ।ऐश्वर्यसाधनं श्रेष्ठं ब्रह्मचर्यं विशिष्यते ॥७५॥अथ नारायणीश्रि! त्वं शृणु पश्चात् स्त्रियो भुवि ।विना पतिं च ताः सर्वा ममाराधनमाव्यधुः ॥७६॥दुःखिताः प्रमदाः सर्वा गर्भवत्योऽपि बालिकाः ।असूयन्त न वै बालान् ततश्चाऽभ्यधिदुःखिताः ॥७७॥वंशबीजानि नष्टानि कथं कुलप्रवाहणम् ।भविष्यतीति ताः सर्वा जातिस्मरा नरास्तथा ॥७८॥मां समाराधयामासुः श्रीहरिं पुरुषोत्तमम् ।एतादृशस्य शापस्य वारयिता न चापरः ॥७९॥सुरा अपि तथा प्राहुर्विना मां पुरुषोत्तमम् ।ततो ब्रह्मा हरश्चापि तथा प्राहतुरेव ह ॥८०॥विना नारायणं ब्रह्मपरं श्रीपरमेश्वरम् ।नास्य शापस्य शान्तेस्तु कर्ताऽन्यो विद्यते प्रभुः ॥८१॥भक्ताया ब्रह्मचारिण्याः सत्याः शापो दुरन्तकः ।नित्यनैष्ठिकधर्मात्मा समर्थोऽत्र पुमुत्तमः ॥८२॥इति निर्णीय सर्वेषु लोकेषु प्रमदागणाः ।भक्त्या चाराधयामासुर्मां हरिं पुरुषोत्तमम् ॥८३॥स्त्रीराज्यं केवलं भूमौ स्त्रीप्रजाः सन्ति तास्तथा ।ये चागच्छन्ति वा भूमौ ते भवन्ति हि योषितः ॥८४॥ते सर्वे वै प्रचक्रुश्च भक्त्या त्वाराधनं मम ।शतवर्षाणि वै भूमौ स्त्रीसृष्टिरेव केवला ॥८५॥न वा सृष्टिर्न जाता च प्राचीना वर्तते हि सा ।चतुर्दशनिवासाश्च स्त्रीभावभयतस्तदा ॥८६॥पृथ्व्यां केऽपि नचाऽऽयान्ति पूजायामपि देवताः ।गणेशो न समायाति नायान्ति ऋषयोऽपि तु ॥८७॥पूजने च व्रतोद्याने सुरा नायान्ति वै भयात् ।शापोऽयं दारुणश्चाति विष्णुश्चापि बिभेति यत् ॥८८॥नारीभवनभीत्या तु ब्रह्मा नायाति वै तथा ।ब्रह्मकुमारकश्चापि नायाति पृथिवीं तदा ॥८९॥सतीशापनिवारार्थं केऽपि नायान्ति वै सुराः ।ये चायान्ति प्रजायन्ते भूतले प्रमदा हि ताः ॥९०॥एवं रोधो महाञ्जातोऽसह्यस्त्रीभवनात्मकः ।अज्ञाता ये समायान्ति तेऽपि स्त्रियो भवन्ति यत् ॥९१॥नारीवर्गान्मृतान्नेतुं येऽपि विष्णोस्तु पार्षदाः ।यमदूताश्च वा भूमावागतास्ते स्त्रियोऽभवन् ॥९२॥एवं ते पार्षदा गत्वा स्त्रीस्वरूपा हरेः पुरः ।आश्चर्यकारिणो जाताः शापः सत्या दुरासदः ॥९३॥यमदूताः स्त्रियो भूत्वा हास्यभावमुपागताः ।परलोकेऽपि नेतॄणामागमो तेन रोधितः ॥९४॥भुक्ता अपि तथा दूता अपि भवन्ति वै स्त्रियः ।का कथा तत्र चान्येषां मृत्युर्नायाति तद्भयात् ॥९५॥मरणं जायते नैवायुष्यक्षयेऽपि वै तदा ।अमृता पृथिवी जाता नारी वैकुण्ठसदृशी ॥९६॥अहो सामर्थ्यमेवाऽत्र ब्रह्मचारिबलस्य वै ।अन्यथाकर्तृता नारायणस्येव तदाऽभवत् ॥९७॥कालो नारीभावभयान्नायाति वै क्षितौ तदा ।पुंवर्गो वै न चायाति सतीशापभयाद् भुवि ॥९८॥अथाऽहं श्रीहरिश्चापि स्त्रीभिश्चाराधितस्तदा ।नारीरूपभयाद् भूमावागन्तुं नेष्टवांस्तदा ॥९९॥किन्त्वविचारयं धाम्नि कलया शापवारणम् ।कर्तव्यमिति धाम्नैव नारी भूत्वा समाययौ ॥१००॥दिव्या दिव्यस्वरूपा च दिव्यमुक्ताश्च पार्षदाः ।सर्वे नारीस्वरूपा च भूत्वा भुवं समागताः ॥१०१॥हसन्त्यो वै वयं सर्वा लक्ष्म्यादिभिः सुनर्मिताः ।परस्परं प्रमोदिन्यः सर्वा वयं त्वया सह ॥१०२॥आयाता भूतलं रम्यं यत्र सुदर्शनी सती ।देवाश्च ऋषयश्चापि मुक्ताश्चान्ये तथाऽपरे ॥१०३॥कुतूहलभृताः सर्वे भूत्वा नार्यस्ततो हि ते ।द्रष्टुं समागताः सर्वाः सुरा भूत्वा च योषितः ॥१०४॥नारीब्रह्माण्डकश्चायं समुत्सवो जगत्त्रये ।अव्याप्नोत् सर्वथा कर्णाकर्णीभावेन सर्वतः ॥१०५॥परस्परं प्रपश्यन्ति नार्यो नारीर्नराः पुरा ।जातिस्मराश्च ते सर्वे प्रमोदन्ते हसन्त्यपि ॥१०६॥श्रीकृष्णोऽपि समायातो गोलकाद् राधया सह ।सोऽपि राधासखी जाता राधिका वै द्वितीयका ॥१०७॥नारायणोऽपि वैकुण्ठाल्लक्ष्म्या साकं समाययौ ।सोऽपि नारायणी जाता लक्ष्मीसखी सुशोभिता ॥१०८॥नरनारायणश्चापि नरी नारायणी तदा ।अभवतां भुवि नार्यो तापस्यौ शोभिते तदा ॥१०९॥शंकरः शांकरी जाता सत्या तत्र विलोकिता ।एवमन्ये च ये तत्र समायाताः कुतूहलात् ॥११०॥सर्वे नार्यः समभवन् महाखेलोऽभवद्धि सः ।परस्परं प्रपश्यन्ति स्पृशन्ति स्त्रीस्वभाववत् ॥१११॥हसन्ति च प्रमोदन्ते स्त्रीकृतं हि स्त्रिया जगत् ।नारायणं चकारैषा नारायणीं सुदर्शनी ॥११२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः षोडशे वत्सरे आर्षकुमारशिष्यया ब्रह्मचारिण्या सुदर्शन्या स्वप्रधर्षणकारिणां शुक्रादीनां दोषेण तथाभूलोकनरादीनां शापद्वारा स्त्रीकरणमित्यादिनिरूपणनामा त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP