संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १९४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १९४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं भक्तासरोजिनीपतेः ।चरित्रं प्रमदाघ्नस्य देवविश्रामनामिनः ॥१॥आसीच्चक्रधरो राजा विरामनगराधिपः ।तस्याऽमात्योऽभवद् देवविश्रामाख्यः सुधार्मिकः ॥२॥राज्याभ्युन्नतिकर्ता स प्रजोदयाभिलाषुकः ।राष्ट्ररक्षणयत्नस्थः सदा देवादिपूजकः ॥३॥धर्ममार्गपरश्चापि सत्यधर्मपरायणः ।साधुसाध्वीसतीसेवापरायणोऽतिसेवकः ॥४॥ये केचिद् द्रव्यहीनास्ते याचन्ते देवविश्रमम् ।सोऽपि ददात्यभीष्टं च तोषयत्येव भिक्षुकान् ॥५॥अर्थिनोऽपि प्रतुष्टाश्च महाशीर्वादवादिनः ।स्वर्गं राज्यं महाराज्यं तवाऽस्त्विति वदन्ति च ॥६॥राजाऽपि धार्मिको नित्यं सेवते परमेश्वरम् ।न चौरा नापि धूर्ताश्च न शठा न प्रतारकाः ॥७॥रोचन्ते नृपतेः स्वस्य राज्ये नापि छलप्रियाः ।यथा राजा तथाऽमात्यश्चौरादिदण्डकृत् सदा ॥८॥अभिचारपरा ये च मन्त्रतन्त्रादिजीविनः ।घातका मारका ये ते रोचन्ते नाऽस्य वै क्वचित् ॥९॥अथैकदा बहुचरामातुस्तु सेविका स्त्रियः ।योगिन्यो मन्त्रवेत्त्र्यश्च भिक्षार्थं निर्ययू रमे ॥१०॥यत्र दानेश्वरा भूपा यत्र दानिजनास्तथा ।श्रूयन्ते तत्र तत्रैता भिक्षन्ते वै धनं रमे ॥११॥स्वर्णं रूप्यं चाम्बराणि यानानि वाहनान्यपि ।हीरकान् माणिक्यवर्णान् रत्नानि विविधानि च ॥१२॥विभूषाश्चापि भिक्षन्ते प्रापयन्ति च भिक्षितम् ।बहुचरां महादेवीं समर्पयन्ति तास्तथा ॥१३॥माता बहुचरा लक्षगुणं दास्यति दानिने ।एवं वचः परं स्मृत्वा दानं गृह्णन्ति ताः स्त्रियः ॥१४॥अथ येन ददत्याभ्यः श्रेष्ठिनो वा नृपा जनाः ।तदा तेषां गोपुरेषु गृहद्वारेषु ताः स्त्रियः ॥१५॥आसनानि स्थिरीकृत्य कीर्तयन्ति तु संघशः ।व्रतं धृत्वा ह्यनशनं कलिं कुर्वन्ति तास्तपः ॥१६॥ जय जय मातर्बहुचरे जय जय मातर्बहुचरे ।दानिनस्त्वं धनंकरे जय जय मातर्बहुचरे ॥१७॥एवं तालीं वादयन्त्यः प्रगायन्ति गृहांगणे ।पञ्च वा सप्त वाऽहानि तिष्ठन्ति न प्रयान्ति ताः ॥१८॥गृहाधीशास्ततः प्राप्य पराजयं ददत्यपि ।ताश्च गृह्णन्ति बहुधा स्वर्णं रूप्यं धनादिकम् ॥१९॥अथ चेन्नैवाऽर्पयन्ति धनं द्रव्यं यथेप्सितम् ।प्रसह्याऽनशनं कृत्वा यतन्ते कलहैरपि ॥२०॥गृहीत्वैव प्रयान्त्येव नाऽन्यथा हठतः स्त्रियः ।एवंविधास्ताः सर्वाश्च योगिन्यो दशसंख्यकाः ॥२१॥हठं चक्रुर्धनार्थं वै तदाऽमात्यो ददौ धनम् ।शतं सुवर्णमुद्राणां लब्ध्वापि तोषवर्जिताः ॥२२॥यथाचिरे सहस्रं वै सुवर्णानां तथेतरत् ।रत्नहीरकभूषादि नृपादपि पृथग् धनम् ॥२३॥दशसहस्रमुद्राश्च मणिमौक्तिकमालिकाः ।एवं हठेन युक्तास्ता ययाचिरे न निर्ययुः ॥२४॥अथ याते तु सप्ताहे दीयमाने सहस्रके ।सौवर्णात्मकमुद्राणां यदा तोषं गता न ताः ॥२६॥तदाऽमात्यस्य नाशार्थं मन्त्रं चाप्यभिचारकम् ।राज्ञश्चापि विनाशार्थं मन्त्रं मलिनं चक्रिरे ॥२६॥अथाऽमात्यस्तु पतितो व्यग्रोऽभवत् सुमूर्च्छितः ।घट्यन्तरे पुनः संज्ञां प्राप्य समुत्थितोऽभवत् ॥२७॥राजाऽपि च तथाऽवस्थां प्राप्तो मूर्च्छां ततः पुनः ।उत्थितश्चेति तत्सर्वं कर्तव्यं चाभिचारकम् ॥२८॥अमात्यश्चाऽसहमानोऽसहमानो नृपोऽपि च ।स्वभटैरग्रपूज्यायाः शिरश्छेदमकारयत् ॥२९॥अथाऽन्या अबलाः क्रूरा मृत्युभयेन दुद्रुवुः ।दत्तं धनं गृहीत्वैव त्यक्त्वा शवं मृतस्त्रियाः ॥३०॥प्रधावनं प्रचक्रुस्ताः प्रययुर्नगरान्तरम् ।लोके प्रजायां सर्वत्र स्त्रीहत्यां कृतवान्नृपः ॥३१॥स्त्रीहत्यां कृतवाँश्चाऽस्याऽमात्योऽपीत्ययशोऽभवत् ।अग्निदा गरदा शस्त्रोद्यता मन्त्राभिचारिका ॥२२॥ता एता आततायिन्यः शापदा शत्रुदा तथा ।तासां नाशे न वै दोषः प्राणहा हि वधार्हणा ॥३३॥अतो लक्ष्मि तथारूपाविघाते नैव दूषणम् ।तथापि लोकवादाश्च जायन्ते स्त्रीहनात्मकाः ॥३४॥अयशोबोधकाः सर्वे लोकस्य चित्रिता गतिः ।धिक्कुर्वन्ति प्रजाश्चाऽस्याऽमात्यस्य नृपतेरपि ॥३५॥कारणं चाभिचारादि ह्यविदित्वैव वै मृषा ।अयशः संप्रगायन्ति स्त्रीघ्नोऽमात्यो नृपस्त्विति ॥३६॥अथ राजा चक्रधरोऽमात्यं प्राह शुभं वचः ।देवविश्रामनामानं कलंकस्याऽपनुत्तये ॥३७॥कथंकार्यं कुवदन्त्याः प्रक्षालनं महामते ।यथा प्रजायां सन्तोषः प्रवादक्षालनं भवेत् ॥३८॥पापं यद्यपि हनने नास्त्यभिचारयोषितः ।तथापि कुवदन्त्या वै शान्तये व्रतमाचरेत् ॥३९॥यथा विचार्य सुखदं ब्रूहि चामात्य शोभनम् ।कर्तव्यं तद्यथायोग्यं धर्मकार्यं यथा भवेत् ॥४०॥अमात्यः प्राह भूप त्वं सभामाह्वय शोभनाम् ।वृद्धप्रजाजनानां च तत्राऽऽवेदय मानसम् ॥४१॥राजा श्रुत्वा तथा चक्रे सभां तत्र च मानवाः ।प्रजावृद्धा आययुश्च नरा नार्यः सहस्रशः ॥४२॥अथाऽमात्येन निर्दिष्टः पुरोहितोऽतिधार्मिकः ।बहुश्रुतस्तथा शास्त्रसम्पन्नो वेदपारगः ॥४३॥धर्मविद्देशकालज्ञः प्रेरितोऽमात्यवाक्यतः ।राज्ञा चाज्ञाकृतो धर्मान् सभायां व्याजहार सः ॥४४॥शृण्वन्तु पूज्यवर्गाश्च वृद्धा नार्यो नरास्तथा ।धर्मस्य लक्षणं वच्मि यथाशास्त्रानुसारतः ॥४५॥नोदनालक्षणो धर्मोऽर्थकृन्मोक्षप्रदोऽपि च ।अनर्थकृद् विरुद्धार्थश्चाधोगतिप्रदोऽवृषः ॥४६॥यमार्याः पाल्यमानं वै प्रशंसन्ति वृषो हि सः ।यं तु निन्दन्ति लोकाः स त्वधर्मः परिकीर्तितः ॥४७॥लोकानां धारणं येन पोषणं रक्षणं तथा ।सुखं क्षेमं च कुशलं भवेद्धर्मः स उच्यते ॥४८॥देशे काले च सत्पात्रे स्थितश्चाचार एव यः ।सुखदः स्यात् स धर्मः स्याद् दुःखदः स्यादधर्मकः ॥४९॥धर्मेण जायते कीर्तिः सुखं शान्तिः सदा तथा ।उन्नतिश्चोदयश्चापि स्वर्गं मोक्षश्च शाश्वतः ॥५०॥स एव धर्म उदितो येन राजा प्रजाः सुखाः ।देवपूजा तथा दानं व्रतं दया च दक्षिणा ॥५१॥परोपकारः सततं धर्मोऽयं सर्वदेहिनाम् ।स्नानं जपो देवनमस्कारो देवार्पणं तथा ॥५२॥वृद्धाभिपूजनं धर्मो नृपाभिपूजनं तथा ।आचारः प्रथमो धर्मो ह्यधर्मस्तद्विपर्यये ॥५३॥सतामाचार एवाऽस्ति धर्मो न त्वसतां तथा ।अहिंसा सत्यमस्तेयं ब्रह्मव्रतं तपो दमः ॥५४॥धर्म एव परः प्रोक्तो वृद्धसेवाऽपि दुर्लभा ।साधुसेवा च सत्संगः परो धर्मः प्रकीर्तितः ॥६५॥भूतानामुपकारश्च यथाशक्ति वृषो मतः ।प्रसन्नीकरणं धर्मः प्रसन्नत्वं हि दुर्लभम् ॥५६॥अप्रसादस्तथोद्वेगोऽनुपकारो ह्यसेवनम् ।हिंसाऽनृतं प्रसह्याऽपहरणं दुष्टसंगिता ॥५७॥अधर्म एव भवति त्याज्याश्चायं सदा जनैः ।श्रद्धया दीयते दानं धर्म एव मतो हि सः ॥५८॥प्रसह्य ह्रियते यत्तु स त्वधर्मो हि लुण्टकृत् ।अभिचारो भवेन्मन्त्रैः प्राणानां घातको यदि ॥५९॥अधर्म एव राज्ञां वा प्राणनाशोऽप्यधर्मकः ।प्रधानस्याभिचारेण मारणं चाप्यधर्मकः ॥६०॥देशे काले च पात्रे च हिंसा दुष्टाशयस्तथा ।आततायिक्रिया चापि ह्यधर्म एव कीर्तितः ॥६१॥एतादृशो यदाऽधर्मो नरे नार्यां च बालके ।वालायां वा प्रवर्तेत चाततायिस्वरूपधृक् ॥६२॥इन्तव्य एव शस्त्राद्यैरधर्मोऽधर्मवाँस्तथा ।आततायी प्रहन्तव्यः सर्वथा प्राणरक्षणे ॥६३॥आततायी यदा नैव हन्यते येन सोऽपि वै३।द्रुतं हतो भवेत्तस्माद्धन्तव्य आततायकृत् ॥६४॥एतद्धर्मस्वरूपं वै मयोक्तं भवतां पुरः ।बहुचराया भक्तानां स्त्रीणामत्र प्रपूजनम् ॥६५॥कृतं सहस्रमुद्राभिः सुवर्णानां यथायथम् ।तथापि च बलान्नार्यो हठान्नेतुं दृढाशयाः ॥६६॥अभिचारं प्रचक्रुस्ता नृपेऽमात्येऽतिमारकम् ।अतस्ता आततायिन्यो मारिकाः पूतना यथा ॥६७॥राक्षस्य एव ताः प्रोक्ता हिंसिकास्तामसात्मिकाः ।मन्त्रवेत्त्र्यश्चातताय्यभिचारकार्ययोजिकाः ॥६८॥हन्तव्या एव नास्त्यत्र दोषो धर्म इतिस्थितिः ।वधार्हास्ताः समस्ता वै किन्त्वेका विहताऽऽसु तु ॥६९॥दया कृता न क्रौर्यं तद्धर्म एव न चेतरः ।धर्म एव हि तत्राऽस्ति दुष्टानां मारणं तु यत् ॥७०॥प्राणहानां प्राणनाशो धर्म एव यतः प्रजाः ।स्त्रीवधो दूषणं नास्ति पूतनावध एव सः ॥७१॥कृत्यावधे न वै दोषो धर्म तं वै निबोधत ।सिंह्या नाम्यां तथा व्याध्या वृश्चिक्यां न दयालुता ॥७२॥प्राणघ्नायां तु राक्षस्यां तथा दया न सम्मता ।अत एव न घातिन्यां दया कार्या क्वचिज्जनैः ॥७३॥प्रवृत्तायां प्राणनाशे दया कार्या न सर्वथा ।अप्राणनाशे प्रवृत्तावुपेक्षा तत्र युज्यते ॥७४॥एवंधर्मो भवत्येव तस्मात् प्रजाग्रगामिनः ।भवन्तो यद्ब्रवन्त्वत्राऽभिचारिणीविनाशने ॥७५॥पापं वा यदि वा पुण्यं नोभयं चोभयं च वा ।श्रुत्वैवं ते सभापूज्या ऊचुश्चातीव धार्मिकम् ॥७६॥आततायिवधे दोषो न घातिन्या वधेन च ।अभिचारपरायाश्च वधे दोषो न विद्यते ॥७७॥किन्तु नारीति प्रहतेत्येवंवादविशुद्धये ।विष्णुयज्ञः प्रकर्तव्यः सर्वापवादशान्तिदः ॥७८॥इत्यस्माकं मतं पुण्ये कार्ये राजा करोत्विदम् ।प्रजाजनानां वचनं लक्ष्मि भूपेन मानितम् ॥७९॥अमात्येन स्वीकृतं च सभायां सर्वशुद्धये ।अथाऽऽदाय मुहूर्तं स शुभं मखमकारयत् ॥८०॥मण्डपं कुण्डमुत्कृष्टं देवानां स्थापनानि च ।पूजनानि च दानानि भोजनानि घृतानि च ॥८१॥दक्षिणा विविधाश्चापि हव्यानि समिधस्तथा ।विष्णवे पूजनादीनि कव्यानि ह्यम्बराणि च ॥८२॥अन्नधनानि योग्यानि राजाऽमात्यप्रजा ददुः ।पूर्णाहुतिं प्रचक्रुश्च तदा नारायणो ह्यहम् ॥८३॥अगच्छं श्वपचो भूत्वा भोजनं चाऽर्थयं ततः ।अमात्यः प्रददौ भोज्यं दूरान्मे तु तदा रमे ॥८४॥तदा भुक्तं मया चान्नं पंक्तिपावनकारिणा ।चुलुकं च कृतं हस्तप्रक्षालनं तथा कृतम् ॥८५॥जलं प्रपीतं यावद्वै तावद् राज्ञस्तु देहतः ।कृष्णवर्णो धूम्र एव निर्गत्याऽमात्यगोऽभवत् ॥८६॥अमात्यदेहतः कृष्णा नारी पापा हि निर्गता ।मृता सा योगिनी हत्यारूपा स्त्री ह्यभवद्धि सा ॥८७॥आकृष्टा श्वपचेनैव श्वपचे सा तिरोहिता ।अग्निदग्धा द्रुतं तस्य श्वपचस्य तु मस्तकात् ॥८८॥विद्युद्रूपा प्रभुत्वैव शीघ्रं सा व्योमऽगाभवत् ।अस्तौद् दिव्यस्वरूपा च श्रीपतिं मां रमापतिम् ॥८९॥अभिचारिकनार्या मे मोक्षार्थं भगवान् भवान् ।उपस्थितोऽस्ति यज्ञेऽत्र पूर्त्यर्थं नृपयज्ञयोः ॥९०॥भक्तहस्तेन या हत्या साऽपि मोक्षाय जायते ।पापाया मम हत्याऽपि त्वद्योगेन दिवंप्रदा ॥९१॥मोक्षप्रदा भवत्येव पुण्यं मे जायतेऽधुना ।हरेकृष्ण बालकृष्ण श्रीपते परमेश्वर ॥९२॥बहुचरायास्ते शक्तेः सेविकां मां समुद्धर ।इत्युक्त्वा भगवद्दृष्ट्या तूर्णं सा स्वर्गतिं गता ॥९३॥कालान्तरे हरेर्भक्त्या वैकुण्ठं सा ययौ सती ।अथ राजा कुटुम्बं चाऽमात्योऽपि परमेश्वरम् ॥९४॥मां विज्ञाय हरिं चाऽपि पुपूजुश्च प्रजाजनाः ।तदऽहं द्राक् चतुर्बाहुर्भूत्वाऽध्वरे शुभासने ॥९५॥निवेशितो निषसाद प्रसादं मे ददौ तदा ।सर्वेभ्यः कणकारूपं चरूस्थं तेऽपि जगृहुः ॥९६॥पावनास्ते समस्ता वै जाताः सर्वे ममाऽऽगमात् ।एवं हत्याकलंकं वै मया विनाशितं तयोः ॥९७॥काण्डिकानामिकाया वै योगिन्या मोक्षणं कृतम् ।राजाऽमात्यौ वरदानैः स्वर्गार्थं मोक्षणाय च ॥९८॥आशीर्वादैर्योजितौ च कुटुम्बे चापि वै तयोः ।अथ कालान्तरे स्वर्गवासिनौ तौ मया कृतौ ॥९९॥मोक्षभाजौ तथा तस्मात् कृतौ लक्ष्मि नृपाऽनुगौ ।एवं यज्ञोत्तरं सर्वं कृपया कृतवानहम् ॥१००॥तिरोऽभवं त्वध्वरे चाकषर्यन् तन्मनांस्यपि ।सस्मरुर्थे नरा नार्योऽपि तं धामाऽक्षरं ययुः ॥१०१॥एवं मया स्त्रीहत्यायाः पापं विनाशितं प्रिये ।भुक्तिं मुक्तिं लभेतापि पाठकः श्रावकोऽस्य च ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चक्रधरनृपाज्ञया देवविश्रामाख्यामात्यस्य काण्डिका-योगिनीस्त्रीहत्यायाः पापस्य यज्ञे श्रीहरिणानिवृत्तिः कृतेत्यादिनिरूपणनामा चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP