संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१५ Translation - भाषांतर पुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं शिलाहारकथां तथा ।नाम्ना दामशिलादौ वै पुरा सुदामपत्तने ॥१॥न्यवसत् सकुटुम्बोऽयं खन्यश्मविक्रयोद्यमः ।शतशो वै जना भृत्या यत्रोद्यमं प्रकुर्वते ॥२॥शिलास्तु महतीर्दीर्घा निष्कासयन्ति भूस्तरात् ।प्रेषयन्ति विदेशेषु देवराजालयार्थिकाः ॥३॥शिखराणि विचित्राणि प्रासादा भिन्नजातयः ।श्वेतशिलामया दिव्याः शिल्पकलादिशोभिताः ॥४॥जायन्ते शिल्पिवर्याणां कलाभिस्तच्छिलाकृताः ।पाषाणानां हि खननं दिवा तु खनिभूस्तरे ॥५॥सततं तदभिज्ञैस्तु क्रियते दामनोदितैः ।द्रष्टा दामशिलादो वै प्रमाता मूल्यकृत्तथा ॥६॥निरीक्षणं यथाकालं कुरुते खनिभूस्तरे ।कर्मचारा यतन्ते च निष्कासनेऽधिरोहणे ॥७॥शक्ट्या गन्त्रिकायां च बहुसाधनसम्पदः ।तत्र दामशिलादो वै क्रयार्थं चाऽऽगतार्थिने ॥८॥शिला ददाति मूल्येन दाम्ना यथोचिताः शुभाः ।मूर्तियोग्या बहुमूल्याः सौधयोग्यास्तथाविधाः ॥९॥गृहयोग्या भित्तियोग्याः स्तरयोग्यास्तथाऽपराः ।विभिन्नमूल्यभावैश्च ददाति तास्तदर्थिने ॥१०॥भृत्या दामशिलादस्य गन्त्र्यामारोहयन्ति ताः ।वृषभैरुष्ट्रकैर्हस्तिवर्यैश्च गेण्डकैस्तथा ॥११॥महिषैर्यन्त्रवयैश्चाऽऽकर्षयन्ति सुगन्त्रिकाः ।सर्वत्र रक्षणं नारायणो हि भगवान् स्वयम् ॥११॥करोत्यारोहणे चावरोहणे च प्रसारणे ।उत्थापनेऽपसरणे विवर्तने विदारणे ॥१३॥शतभारास्तत्र काचित् काचित्ततोऽधिगुर्विणी ।तदर्धाश्च तदर्धाश्च खन्यन्ते नित्यमेव ताः ॥१४॥क्वचिच्छिलातिभारेण शकटी भंगमेति हि ।शिलातले हि शकटी चूर्णिता कच्चरायते ॥१५॥अकस्मादापदाद्यासु रक्षत्येव प्रभुर्हरिः ।विचार्येत्थं कर्मचारान् दामशिलाद उत्तमम् ॥१६॥हरे नारायण स्वामिन् वल्लभ श्रीपते हरे ।इत्येवं भजनं संकीर्तनं च रटनं हरेः ॥१७॥उपादिदेश सततं रक्षणं येन मोक्षणम् ।स्वयं करोति भजनं भृत्यान् प्रकारयत्यपि ॥१८॥शिलासु कृष्णनामानि गुणवन्ति न्ययोजयत् ।कृष्णशिला रामशिला नारायणशिला तथा ॥१९॥लक्ष्मीशिला रमोपला राधोपला हरोपला ।देवोपला मन्दिराऽश्मा मूर्त्युपला सतीशिला ॥२०॥विष्णुशिला ब्रह्मशिला परमेशशिलेति च ।देवीशिला सूर्यशिला तीर्थशिला गुरूपला ॥२१॥मोक्षशिला चात्मशिला मुक्तिशिलेति वै तथा ।अवतारशिला तद्वद् गोलोकप्रस्तरस्तथा ॥२२॥वैकुण्ठशिला चक्राश्मा शालग्रामशिला तथा ।भगवत्प्रस्तरश्चापि जनार्दनशिलेति च ॥२३॥योगशिला ज्ञानशिला ध्यानशिलेति नामभिः ।शिलावर्गाः कृतास्तेन नारायणप्रसत्तये ॥२४॥नारायणं रटिष्यामि शिलायोगेन मानवाः ।शुभनाम ग्रहीष्यन्ति पापनाशकमुत्तमम् ॥२५॥इत्यभिप्रेत्य नामानि हरेः सुयोजितानि वै ।तेन दामशिलादेन शिलासु मोक्षदानि हि ॥२६॥मानवा अपि गृह्णन्ति शिलाव्याजेन शार्ङ्गिणः ।नामानि भृत्यवर्गाश्च श्रेष्ठिनः पावनानि वै ॥२७॥एवं भक्तेन सद्भक्तिः कारिता कीर्तनात्मिका ।पाविताश्च नरा नार्यः प्राकृता अपि नामभिः ॥२८॥पुण्यं महत्तमं तस्य जातं प्रसन्नतात्मकम् ।ममाऽनुग्रहरूपं वै वर्धतेऽपि निरन्तरम् ॥२९॥भक्तभक्तिं समाकर्ण्य तद्गृहं मानवा रमे ।सन्तो भक्ताः समायान्ति धार्मिका यात्रिभिक्षुकाः ॥३०॥मिलित्वा ते प्रकुर्वन्ति भजनं मम कीर्तनम् ।शिलाजन्यां मम मूर्तिं सम्प्रतिष्ठाप्य वै गृहे ॥३१॥पूजयन्ति सदा भावैर्महोत्सवैः सुवस्तुभिः ।गायनं नर्तनं गीतिं कुर्वन्ति रासमग्रतः ॥३२॥धूपदीपादिकं चापि नैवेद्यं च जलं च मे ।समर्प्य मत्प्रसादं ते गृह्णन्ति च वियन्ति च ॥३३॥एवं सत्संगसंघो वै दामशिलादमन्दिरे ।पुष्टिं प्राप्तस्तदा लक्ष्मि प्रसन्नोऽहं विशेषतः ॥३४॥अभवं च प्रतिमायां वर्तमानो निरन्तरम् ।कृतां सेवां च गृह्णामि रक्षां करोमि सर्वथा ॥३५॥अथैकदा गृहे भक्तश्चासीद् भृत्यास्तु वै खनौ ।क्रोशदूरेऽभवन् सर्वे शिलानिष्कासने रताः ॥३६॥दीर्घा महोपला तैश्च निष्कासिता बहिः कृता ।आरोपिता शकट्यां च भग्ना सा शकटी द्रुतम् ॥३७॥शकटीपार्श्वगा भृत्याः कर्मचारास्तु येऽभवन् ।तेषु द्वित्राः शकट्यां वै कच्चरिताः शिलातले ॥३८॥हाहा शोकस्तदा तत्र व्यजायत जनेषु वै ।जलं कच्चरिताः पातुं प्रार्थयामासुरेव ते ॥३९॥ददुर्वारि ततो मूर्छां प्रापुस्ते मरणोन्मुखाः ।अथाऽन्ये सस्मरुर्नारायणं मां रक्षकं प्रभुम् ॥४०॥प्रयत्न सहसा चक्रर्भाराक्रान्तावनाय ते ।शकटीं च शिलां चाप्युत्तोल्य सम्भूय मानवैः ॥४१॥निष्कासिताः कच्चरिता द्वित्रास्ते कर्मचारिणः ।अभाना गतभानास्ते मृत्यून्मुखाः सुदुःखिताः ॥४२॥वर्तन्ते तावदेवाऽपि कर्मचारैर्निवेदितः ।भक्तो दामशिलादो वै गृहे गत्वा तु सत्वरम् ॥४३॥आययौ स खनिं यावत् स्मृत्वा नारायणं हि माम् ।तावदहं साधुवेषोऽटवीतश्चाययौ खनिम् ॥४४॥भोजनार्थं भिक्षुकः सन् जलार्थं भिक्षयन् जलम् ।विलोक्य तान् कच्चरितानाश्चर्यपरमोऽभवम् ॥४५॥स्तब्धोऽभवं क्षणं ते तु प्रार्थयामासुरच्युतम् ।हरे कृष्ण दीनबन्धो समुज्जीवय दीननॄन् ॥४६॥मनुष्यहत्या भक्तस्य यथा न स्यात् प्ररक्षय ।रंकरक्षाविधाता त्वं भक्तेच्छापूरको भवान् ॥४७॥सर्वदुःखप्रहाता त्वं प्ररक्षय निजाञ्जनान्।नाऽत्रौषधं भवेच्छक्तमस्थिकच्चरचूर्णिते ॥४८॥देहे रक्तातिरिक्तेऽत्र विना त्वां जीवनं नहि ।चमत्कारं विना सिद्धिं विना नैषां हि जीवनम् ॥४९॥मृतप्राया मृगाश्चेमे नान्यस्त्वां योगिनं विना ।नवीकर्तुं समीकर्तुं सन्धिं कर्तुं क्षमोऽपरः ॥५०॥इत्येवं वदमानानां शृण्वन् साधुर्जलं करे ।समादाय ददौ तेभ्यो मुखे त्वाचमनीयकम् ॥५१॥रक्षां निधाय कुक्षिस्थं भस्म धृत्वा करद्वये ।मर्दयामास भग्नानां देहेष्वभित आदरात् ॥५२॥तावत्ते स्वस्थतां प्राप्ताः सन्धिता नीरुजीकृताः ।रक्तपूर्णा अभवँश्च यथापूर्वं तथैव ते ॥५३॥उत्थिताः स्वप्नतो यद्वत् प्रणेमुः साधुयोगिनम् ।जीवनं प्राप्य विश्रान्तिं लेभुः क्षणं सतः पुरः ॥५४॥साधुर्भिक्षां जगृहे च जलान्नं बुभुजे ततः ।तेऽपि सर्वे प्रसादं च सम्यग् बुभुजिरे मम ॥५५॥अथ शान्त्या निषेदुस्ते सेवमानाः पदाम्बुजे ।पप्रच्छुर्मां पापनाशकरं साधनमुत्तमम् ॥५६॥नारायणस्य विज्ञानं मूर्तिरूपं तथोत्तमम् ।अहं वै कथयामास सर्वं तेभ्यो यथातथम् ॥५७॥सतां सेवा हरेर्भक्तिस्तीर्थानां सेवनं तथा ।पापनाशकराण्येव भवन्ति भगवत्कृपा ॥५८॥सतां समागमेनैव विज्ञानं श्रीहरेर्भवेत् ।सच्छास्त्राणां शीलनेन कथायाः श्रवणेन च ॥५९॥पूर्वसंस्कारबलतो विज्ञानं जायते हरेः ।योगाभ्यासेन सहसा कल्मषाणां विनाशने ॥६०॥योगिगत्या ब्रह्मगत्या कृष्णमूर्तिः प्रकाशते ।पिण्डेऽस्ति घटना रम्या यादृशी तादृशी पुनः ॥६१॥वैराजे वर्तते चापि सूक्ष्मा स्थूलेत्यभेदतः ।देहे तु मानवे नाड्यो ब्रह्माण्डे नदिकास्तु ताः ॥६२॥देहे तु कुक्षयः सन्ति ब्रह्माण्डे चाऽब्धयस्तु ते ।पादमूलं तु पातालं मूर्धा सत्यं कटिर्हि भूः ॥६३॥देहस्थेन्द्रियनाडीनां वैराजेन्द्रियनाडिकाः ।कारणानि ततश्चैक्यभावा भवन्ति ता इमाः ॥६४॥योगाभ्यासरता जिह्वाप्रान्तं यान्ति समाधिना ।तदा वैराजजिह्वाया अन्तं पश्यन्ति योगिनः ॥६५॥एवं सर्वेन्द्रियाणां तु प्रान्तं यान्ति समाधिना ।तदा वैराजेन्द्रियाणामन्तं पश्यन्ति योगिनः ॥६६॥सुषुम्णा वर्तते मध्ये देहेऽत्र नाभिमूर्ध्वगा ।वामे चेडा पिंगला तु दक्षे स्थिता सदाऽस्ति वै ॥६७॥सुषुम्णान्तं तु मूर्धानं गत्वा वैराजमीक्षते ।सा तु दीर्घा ब्रह्मरन्ध्राद् वैराजं योगमृच्छति ॥६८॥तेजःकिरणरूपा वै वैराजात्पुरुषावधिम् ।महापुरुषरन्ध्रात् सा तेजःकिरणसंज्ञिता ॥६९॥अक्षरेण च तादात्म्यं गता ततो हरौ हि सा ।प्रमातादात्म्यमापन्ना विद्यते किरणात्मिका ।अतः सुषुम्णामार्गेण योगी याति परं पदम् ॥७०॥हरेः किरणं निर्यन् स्यात् सर्वावतारमन्तगम् ।ईश्वरेषु च जीवेषु वर्तते व्यापकं हि तत् ।तद्ब्रह्म तच्च विज्ञानं सत्त्वं प्रकाश एव तत् ॥७१॥तस्य भासा सर्वमिदं विभाति ज्ञानदीप्तिमत् ।स्नेहातिशयतश्चैवंविदः प्रभा विवर्धते ॥७२॥जाग्रति वा स्वापके वा सुषुप्तौ वा यदा यदा ।हरौ स्याल्लीनता यस्य स्नेहेन तत्र तं व्रजेत् ॥७३॥संकल्पेन हरेश्चापि शक्त्या चापि हरेस्तथा ।ज्ञानशक्त्या क्रियाशक्त्या चेच्छाशक्त्या हरेस्तथा ॥७४॥जीवेशाः सम्प्रवर्तन्ते जानन्तः क्रिययाऽन्विताः ।कर्मवशा सर्वजीवाः स्वतन्त्रा नहि सन्ति वै ॥७५॥हरेर्ज्ञानक्रियेच्छाभिः क्रियेच्छाज्ञानिनः खलु ।फलप्रदाता भगवान् कर्मणामस्ति सर्वथा ॥७६॥हरेस्ताः शक्तयो नॄणां स्वस्वकर्मानुसारतः ।ज्ञानादीन् प्रेरयन्त्येव तेन सृष्टिः प्रवर्तते ॥७७॥सृष्टेर्जीवा हरौ ध्यानाभ्यासाद् दिव्या भवन्ति वै ।दिव्यदृष्टय एवापि तदा ब्रह्मसुदर्शनम् ॥७८॥मायागुणादिशून्यं तन्निर्गुणं ब्रह्म तैजसम् ।निजैर्दिव्यगुणैर्युक्तं सगुणं ब्रह्म शाश्वतम् ॥७९॥परेशं परमात्मानं परब्रह्म सनातनम् ।प्राप्नुवन्ति महात्मानः सतां सत्संगसत्फलाः ॥८०॥नराकारं दिव्यमूर्तिं श्रीपतिं तं सतां पतिम् ।दिव्यमूर्तिं परात्मानं यान्ति तद्योगिनस्त्विमे ॥८१॥दिव्यतां यान्ति बहवस्तत्समा ब्रह्मरूपिणः ।यथा ब्रह्मप्रिया दिव्या यथा मुक्ता ह्यसंख्यकाः ॥८२॥यथा लक्ष्मीर्यथा राधा यथा सती सरस्वती ।तथा दिव्या भवन्त्येव नरा नार्यः परात्मगाः ॥८३॥तस्मान्नारायणः कृष्णो भजनीयो हि रक्षकः ।मोक्षदः स्वर्गदश्चापि सुषुम्णामार्गलब्धिमान् ॥८४॥खनौ नारायणो नित्यं स्मरणीयो जनार्दनः ।सतां मूर्तौ हरिश्चास्ते सेवनीयः सतां गतिः ॥८५॥इत्युक्त्वा निर्भयान् कृत्वा ददौ मन्त्रं तदा त्वहम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८६॥अथ ते मां गुरुं मत्वा लक्ष्मि निजालयं प्रति ।निन्युः साधुस्वरूपं मां चमत्कारिजनं गुरुम् ॥८७॥भोजयामासुरत्यर्थं पाययामासुरिष्टकम् ।पायसं शर्करायुक्तं सेवयामासुरादरात् ॥८८॥पूजयामासुरेवाऽपि क्षमां ययाचिरे ततः ।पादामृतजलं मे ते पपुर्मयाऽपि वै तदा ॥८९॥आशीर्वादैर्योजिताश्च कृपया भक्तिगोचराः ।भुक्तिर्मुक्तिर्भवतां वै यथेष्टा जायतां सदा ॥९०॥अथाऽहमभवं लक्ष्मि जिगमिषुस्तदा तु ते ।कृष्णप्रत्यक्षलाभार्थं कृष्णदर्शनलालसः ॥९१॥ययाचिरे मया तथाऽस्त्विति तत्र नियोजिताः ।अपश्यन् मां शंखचक्रगदाब्जधारिणं हरिम् ॥९२॥आश्चर्यं परमं प्राप्ताः प्रत्यक्षयोगिनो यथा ।दिव्या दिव्यस्वरूपास्ते व्यजायन्त तदा द्रुतम् ॥९३॥ननृतुश्च जगुश्चापि मुमुदुश्चातिहर्षुलाः ।पुपूजुर्मां परब्रह्म रक्षकं प्राणरक्षकम् ॥९४॥अथाऽहं तत्र मूर्तौ मे तिरोऽभवं हि पश्यताम् ।तेषां तदा समारभ्य तेऽपि मूर्तिनिषेविणः ॥९५॥सर्वथाऽऽत्मनिवेदाश्चाऽभवन् भक्ताः सहस्रशः ।अथ काले समायाते भक्तं दामशिलादकम् ॥९६॥तस्य भृत्यान् बहून् भक्तान् तथा पत्नीं कलाभिधाम् ।विमानेनाऽनयं धामाऽक्षरं मे शाश्वतं परम् ॥९७॥एवं लक्ष्मि मया रक्षा कृता भक्तिश्च कारिता ।ज्ञानं दत्तं च सामर्थ्यं मुक्तिश्चापि कृता शुभा ॥९८॥एवं मदीयभक्तानां प्रान्ते मोक्षं करोम्यहम् ।ददामि दिव्यतां चापि भक्त्या साध्यो यतोऽस्म्यहम् ॥९९॥पठनाच्छ्रवणादस्य स्मरणात् स्तवनादपि ।भुक्तिर्मुक्तिर्भवत्येव तथेष्टा शुभदा गतिः ।वल्लभः श्रीगुरुः स्वामी प्रभुः सर्वगतिस्त्वहम् ॥१००॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शिलाहारस्य दामशिलादनामकभक्तस्य भृत्यानां रक्षणं दामशिलादादेश्चान्ते मोक्षणं च भगवता कृतमित्यादिनिरूपणनामा पञ्चदशाधिक-द्विशततमोऽध्यायः ॥२१५॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP