संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २११ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २११ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २११ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं चण्डालस्य कथामपि ।रायणाग्रमवसतेर्नाम्ना कपिक्षयस्य वै ॥१॥कपिक्षयो हि चाण्डालो रैवताचलसन्निधौ ।अभवत् सकुटुम्बः स रायणायां सुनीतिमान् ॥२॥प्रथमं जातिदोषेण हिंस्रोऽभवद् वने भ्रमन् ।वानरान् वनजान् रक्तान् मारयित्वा स खादति ॥३॥अतस्त्वन्यवनेवासैः कपिक्षयेतिबोधितः ।वानरमारनाम्नैव प्रसिद्धिमगमद्वने ॥४॥अथैकदा वने वृक्षषण्डे स्थितं तु मण्डलम् ।वानराणां महद्वीक्ष्य तान् हन्तुं शरमादधे ॥५॥यावन्मुक्तो न वै बाणस्तावद्वानरसत्तमः ।दिव्यवाण्या जगादैनं शृणु त्वं श्वपचोत्तम ॥६॥श्रुत्वा यथेष्टं यात्रार्थं समाचर निबोध मे ।पुरा त्वं वृषलीगामी द्विजो वेश्यारतोऽभवः ॥७॥नाम्ना प्राज्ञेश्वरो विप्रो धर्मकर्मादितत्परः ।शृंखलाग्रामवास्तव्यो यत्र हिंसा जना अपि ॥८॥वसन्ति स्म च तत्संगात् तेषामन्नस्य योजनात् ।दानमानसहवासान्मनस्ते हिंस्रकं ह्यभूत् ॥९॥देशकालक्रियावाणीसहायानामसत्तया ।असत्ते हृदयं जातं पापप्रियं शनैः शनैः ॥१०॥ब्राह्मणस्य शुभो देहस्त्वया वेश्यासमागमात् ।अधर्मं योजितश्चाप्यभक्ष्याऽपेयादिभिस्तथा ॥११॥क्षुद्रक्रियापरो जातो मद्यमांसपरायणः ।अथ कालेन मरणं तव जातं ततो भवान् ॥१२॥ययौ याम्यपुरं तत्र भुक्तवान् यमयातनाः ।अवशिष्टेन पापेन चाण्डालोऽत्र प्रवर्तते ॥१३॥सा वेश्या वृषली तेऽत्र भार्याऽपि सहगाऽस्ति वै ।सहमित्राणि पापानि ते तेऽत्र सुतबान्धवाः ॥१४॥वर्तन्ते चाण्डालयोनौ पापाः पापनिबन्धनाः ।पापानि त्वं पुरा कृत्वा चाण्डालत्वमुपेयिवान् ॥१५॥ब्राह्मणत्वं त्वया पूर्वं मलवन्मलिनीकृतम् ।विनाशितं महत्पुण्यं स्वर्गं च मोक्षणं तदा ॥१६॥इदानीं च पुनस्त्वं वै वर्तसे मांसभोजने ।घातको वानराणां यन्नरघ्नो भवसि ध्रुवम् ॥१७॥वानरा नरमानुष्यास्तत्पापं नरघातजम् ।बालघातित्वमेवापि स्त्रीघातित्वमपि ध्रुवम् ॥१८॥जायते तव चाण्डाल मानवे दुर्लभे पुनः ।उदरार्थं कुटुम्बार्थं कुरुषे हिंस्रकर्म यत् ॥१९॥पुनस्ते यातनाः सन्ति याम्याश्चाधोगतिः पुनः ।यैः पूर्वे पातितस्त्वं वै तत्कृते यतसे पुनः ॥२०॥कीदृशो मूर्खवर्योऽसि को लाभस्ते निपातिभिः ।पश्य मूर्ख मनुष्यस्य सार्थक्यं धर्मकर्म वै ॥२१॥तथा पश्य निजं मोक्षं पापानां नाशनं सुखम् ।तीर्थं स्वर्णावतीनद्यां दामोदरं नरायणम् ॥२२॥पश्य पुण्यं कुरु द्राक् च त्यज हिंसां सुखी भव ।भवाऽत्र पावनो भक्तो भज कृष्णनरायणम् ॥२३॥नारायणह्रदे स्नात्वा कुरु सर्वाघनाशनम् ।संस्नात्वा रेवतीकुण्डे कुण्डे तथा च वामने ॥२४॥कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरे ।स्नात्वा श्रीसोमतीर्थे च सरस्वत्यां सुखी भव ॥२५॥मूलद्वारवतीपुर्यां स्नाहि याहि दिवं ततः ।गोपनार्थं शुभं तीर्थं कृत्वा याहि गवायनम् ॥२६॥रे मूढ भज गोविन्दं श्रीपतिं कृष्णवल्लभम् ।दयां कृत्वा वृषं धृत्वा कृत्वा भक्तिं हरेस्तथा ॥२७॥याहि ब्रह्मपरं लोकं सनातनं च शाश्वतम् ।कुंकुमवापिकातीर्थे वर्तते परमेश्वरः ॥२८॥दिव्यमानुषदेहो वै ब्रह्मप्रियापतिः कृतिः ।स एव भगवान् जगत्स्रष्टा पाताऽन्तरस्थितः ॥२९॥राधालक्ष्मीपतिः श्रीमद्बालकृष्णः परेश्वरः ।सेवितो नरनारीभिर्वर्तते मानवो यथा ॥३०॥देहान्तेऽपि महापापी तस्य स्मरणमात्रतः ।सर्वपापविनिर्मुक्तो याति धामाऽक्षरं परम् ॥३१॥तं गत्वा भज गोपालबालकं कम्भरासुतम् ।आत्मवन्तं परेशं तं समाश्रय हृदि स्थितम् ॥३२॥राधारमापतेस्तस्य माहात्म्यज्ञानमञ्जसा ।साक्षात्कर्तव्यमेवाऽतो मुक्तिर्भवति शाश्वती ॥३३॥गाढस्नेहाद् भगवति प्रसन्नत्वं प्रजायते ।तेन मुक्तिः करगता भगवद्धामदायिनी ॥३४॥स्नेहः कार्यः सर्वथा वै शृणु चाण्डाल वच्म्यहम् ।नवोढाया यथा पत्यौ तथा चाद्ये सुते यथा ॥३५॥यथा मातरि बालस्य लोभिनस्तु धने यथा ।क्षुधितस्य यथाऽन्ने च भयभीतस्य रक्षके ॥३६॥यादसां तु जले यद्वत् पतंगस्याऽनले यथा ।तथा स्नेहः सदा कार्यः परमेशे सुखप्रदे ॥३७॥त्वचा स्प्रष्टव्य ईशेशो भालनीयश्च चक्षुषा ।श्रोतव्यश्चापि कर्णाभ्यामास्वाद्यश्चूम्बनादिभिः ॥३८॥गन्धस्तस्यैव चाऽऽदेयो रूपं ग्राह्यं हरे सदा ।आश्लेषणीयो भगवान् कीर्तनीयश्च माधवः ॥३९॥आनन्दनीयः श्रीकृष्णः सर्वार्पणं हरौ तथा ।कर्तव्यं च हरेर्गुणग्रहणं कार्यमन्वहम् ॥४०॥माहात्म्यगुणवित्त्याद्यैः स्नेहः कृष्णे प्रजायते ।यद्वा साहजिकः स्नेहो भक्तस्यैव प्रजायते ॥४१॥यथा स्त्रीपुत्रवित्तादौ तथा कृष्णनरायणे ।स्नेहं साहजिकं प्राप्तो ब्रह्मभूयाय कल्प्यते ॥४२॥नैसर्गिकस्नेहवन्तो भवन्ति दिव्यबुद्धयः ।दिव्यक्रियाश्च हर्यर्थं स्नेहस्तेषां प्रपुष्यति ॥४३॥स्नेहस्य पोषणे विघ्नो मानं चेत्तत्र वर्तते ।नाशनीयं सर्वथा तच्छ्रेयोऽध्वनि विघातकृत् ॥४४॥दुःस्वभावाः समस्ता वै नाशनीयाः प्रयत्नतः ।अतिशत्रुधिया ते वै नाशनीया मुमुक्षुणा ॥४५॥मित्रवद् देहवासा ये दुःस्वभावास्तु ते यदि ।मोक्षे विरोधिनः स्युश्चेद्धन्तव्याः सत्समागमैः ॥४६॥सत्संगः सर्वदा कार्यः सतां संगो महौषधम् ।आत्माऽस्मि बलवान् कृष्णसहायवान् सुधर्मवान् ॥४७॥यदिच्छति करोत्येव समर्थो मुक्तयेऽपि च ।रजसां तमसां वेगानुन्मूलयेद्धरिश्रितः ॥४८॥देहाध्यासः कुसंगश्च पूर्वकृत्कर्मसञ्चयः ।मायामोहकराः सन्ति हन्तव्याः सत्समागमैः ॥४९॥विवेकेन प्रहन्तव्यो देहाध्यासः सतां मुखात् ।सत्संगेन कुसंगश्च हन्तव्यः सत्समागमात् ॥५०॥पूर्वजन्मकृताः सर्वे संस्काराः पापकारिणः ।हन्तव्यास्ते सतां नित्यप्रसत्त्या महतामिह ॥५१॥अतिपापस्य पुंसस्तु पापफलं प्रपीडनम् ।आपदश्च समायान्ति तदा तन्नाशहेतवे ॥५२।इतस्ततो धावति द्राक् समन्ताद्धनदो भवन् ।तथापि विपदो यान्ति वृद्धिं दूरे न यान्ति च ॥५३॥अथ भग्नमना भूत्वा याति दुःखतरं जनम् ।श्रुत्वा साधुं च वा वृद्धं निवेदयति चापदः ॥५४॥साधोस्तु वचनं प्राप्य करोति व्रतपूजनम् ।सत्संगं भजनं चापि सेवां स्मरणं शार्ङ्गिणः ॥५५॥एवं बीजबलेनाऽस्य लीयन्ते कल्मषाणि वै ।अकल्मषं च हृदयं जायते निर्मलं ततः ॥५६॥भक्तियोग्यं तत्र कृष्णः सतां वाण्या विराजते ।प्रकाशते शनैश्चापि पुण्यः प्रजायते जनः ॥५७॥एवं वै शुभतां यान्ति संस्कारा मलिना अपि ।चाण्डालो विप्रतां याति दुष्टः सुजनतां तथा ॥५८॥प्रसादेन सतां रंको राजतां लभते द्रुतम् ।प्रसादेन सतां मूर्खः पाण्डित्यं लभते तथा ॥५९॥प्रसादेन सतां पापी पुण्यं स्वर्गं प्रविन्दति ।प्रसादेन सतां दुष्टो जायते पंक्तिपावनः ॥६०॥अतिप्रसन्नताप्राप्त्यै साधूनामग्रतः सदा ।निश्छद्म वर्तितव्यं वै यथाऽनुवृत्तिमेत्य तु ॥६१॥यत्र यत्र रुचिस्तेषां तत्तत् साध्यं विशंकया ।यत्र यत्राऽरुचिस्तेषां तत्तत् त्याज्यं द्रुतं सदा ॥६२॥मानं च लोकलज्जां च गुणगर्वं विहाय वै ।सतां दास्यं प्रकर्तव्यं धार्यं वचः सतां हृदि ॥६३॥सतां प्रसादे विघ्ना ये भवन्ति सेवनेऽपि च ।सर्वे ते दुर्गुणास्त्याज्या ग्राह्याः प्रसन्नताप्रदाः ॥६४॥गुणा यैः स्युः प्रसन्ना वै सन्तस्ते तु गुणा मताः ।धर्मः स एव चोक्तोऽस्ति येन प्रसन्नता भवेत् ॥६५॥सतां चाऽप्रीतिहेतुर्यः स तु दुर्गुण एव वै ।हेयः स एव भक्तेन कार्या प्रसन्नता सताम् ॥६६॥अनुकूले दासभक्ते प्रसीदन्ति हि साधवः ।सतां गुणानां ग्रहणैर्दोषा नश्यन्ति हृद्गता ॥६७॥सन्तो महान्त सेव्यास्ते दिव्यतासंविधायिनः ।गुणानां ग्रहणे भक्तिर्वर्धते परमात्मनि ॥६८॥सतां निष्कामित्वगुणग्रहे निष्कामितां व्रजेत् ।सतां निःक्रोधतागुणग्रहे निःक्रोधतां व्रजेत् ॥६९॥सतां निर्लोभतागुणग्रहे निर्लोभतां व्रजेत् ।सतां निर्मोहतागुणग्रहे निर्मोहतां व्रजेत् ॥७०॥सतां दिव्यरूपगुणग्रहे दिव्यसुरूपवान् ।भवेत् सतां भगवत्त्वगुणग्रहे भवेत्तथा ॥७१॥महैश्वर्यादिशाली वै भवेद् भक्त्या तथोत्तमः ।अन्यत्राऽरुचिरस्याऽस्ति कृष्णे सत्सु रुचिः सदा ॥७२॥भावः कृष्णे सत्पुरुषेऽन्यत्राऽभावोऽस्य वर्तते ।एवंविधस्य वो दास्यं हरौ सत्सु प्रवर्धते ॥७३॥वर्धमानं परं दास्यं निर्मलं प्रीतिहेतुकम् ।विवर्तते वै स्वामित्वे स्वामिनः कृपया क्वचित् ॥७४॥यथा शिष्ये सेवके वा स्वामित्वं कृपया भवेत् ।तथा दासे दास्यभावः स्वामिभावत्वमाव्रजेत् ॥७५॥हरेरग्रे सतामग्रे पक्षपातो न विद्यते ।स्त्री शूद्रो वापि चाण्डालो भक्त्या याति परां गतिम् ॥७६॥इत्येवं वानरेणापि लक्ष्मि कपिक्षयो वनी ।प्रबोधितस्तदाऽऽश्चर्यं प्राप्तवान् बोधमाप्तवान् ॥७७॥कृतकृत्यं निजात्मानं मेने वै पुण्यभागिनम् ।येन वै वानराल्लब्धं ज्ञानं मोक्षप्रदं शुभम् ॥७८॥अथाऽयं प्रतिपप्रच्छ वानरं को भवानिह ।ज्ञानदो मोक्षदश्चापि हिंसादिदोषनाशकः ॥७९॥मायादोषहरश्चापि सर्वाऽज्ञानविनाशकृत् ।वने त्वं चरसि कोऽत्र वद मे तु यथातथम् ॥८०॥धन्योऽहं कृतकृत्योऽहं जातोऽस्मि तव वाक्यतः ।विशेषतो भविष्यामि विदित्वा त्वां च पावनः ॥८१॥श्रुत्वैवं वानरः प्राह वयं चेमे वनेचराः ।वानरा रक्तवर्णा ये ते सर्वे स्वर्गदेवताः ॥८२॥भवामो दिव्यदेहाश्च सर्वे स्वर्गनिवासिनः ।स्वर्गं पुण्यं प्रभुञ्जामः क्षयं पुण्यं प्रयाति च ॥८३॥नूतनं नाऽर्ज्यते तत्र भोगभूमिर्यतो दिवम् ।कर्मभूभिः पृथिवीयं पुण्यं चात्र कृतं मिलेत् ॥८४॥पुण्यार्थं वानरैः रूपैः पर्वते रैवताचले ।फलपत्रादिकं लब्ध्वा देवार्पणं प्रपूजनम् ॥८५॥कृत्वा भुंक्ष्मः प्रसादं वै पावनं मोक्षदं शुभम् ।जलं च स्वर्णरेखाया नारायणह्रदात्तथा ॥८६॥दामोदरह्रदात् पीत्वा वर्धयामः सुपुण्यकम् ।तीर्थे स्नात्वा भाविमोक्षं चेच्छामो मोक्षकामिनः ॥८७॥न वयं वानराः किन्तु देवा वानररूपिणः ।स्वर्गान्ते मानवे लोके जन्म यथा न वै भवेत् ॥८८॥मोक्षो भवेद् यथाऽस्माकं तथा कुर्मोऽत्र तीर्थकम् ।भवानपि तथा तीर्थं करोतु वै फलादनः ॥८९॥कुटुम्बेन सहितस्त्वं प्रयास्यसि परां गतिम् ।लोमशं योगिनं गत्वा चाश्वपट्टसरोवरे ॥९०॥मन्त्रं गृह्ण हरेस्तत्र पावनत्वं भविष्यसि ।इत्युक्तः स प्रणम्यैव चाण्डालो देवतागणम् ॥९१॥शीघ्रं नारायणकुण्डवारि पीत्वाऽश्वसारसम् ।ययौ लोमशनिलयम् प्रणनाम जगाद च ॥९२॥वृत्तान्तं सकलं पश्चादश्वपट्टसरोवरे ।स्नात्वा च कृपया मन्त्रं जग्राह लोमशात् तु सः ॥९३॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।कुटुम्बेन सहितोऽयं भक्तोऽभवद्धरेर्मम ॥९४॥अश्वपट्टसरोयात्रां चक्रे जातश्च पावनः ।पापं तस्य गतं नाशं भक्त्या मे लोमशाश्रयात् ॥९५॥अथ कालान्तरे प्राप्ते काले तत्याज वर्ष्म सः ।भार्याऽपत्यानि सर्वाणि वर्ष्माणि तत्यजुस्तदा ॥९६॥ 'हरेकृष्ण बालकृष्ण लक्ष्मीकान्त रमापते' ।वदन्तस्ते दिव्यदेहा अभवन् मुक्तियोगिनः ॥९७॥विमानं चागतं तत्र मम पार्षदसेवितम् ।तत्राऽऽरुह्य ययुः सर्वे धामाऽक्षरं मम प्रियम् ॥९८॥एवं भक्तस्य कल्याणं कृतं कीशप्रसंगतः ।मया लक्ष्मि कृपयैव चाण्डालस्य हि शाश्वतम् ॥९९॥एवमन्येऽपि मे भक्त्या सतां भक्त्या च पावनाः ।सेवन्ते मां सतश्चापि तेऽपि यान्ति परां गतिम् ॥१००॥पठनाच्छ्रवणादस्य स्मरणाद् यान्ति मोक्षणम् ।सकामाः सम्पदो यान्ति निष्कामा मत्पदं परम् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कपिक्षयात्मकस्य चाण्डालस्य वानररूपदेवोपदेशेन हरौ भक्त्या सकुटुम्बस्य मोक्षणमित्यादिनिरूपणनामैकादशाधिकद्विशततमोऽध्यायः ॥२११॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP