संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १९२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १९२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां भक्तस्य पावनीम् ।पुरा धनिष्ठकोषाख्यो विप्रोऽभवद् धनादिमान् ॥१॥यज्ञयागकरश्चापि पञ्चायतनपूजकः ।भक्तिपरोऽतिदानी च गोसहस्रधनस्तथा ॥२॥क्षेत्रवाट्यरण्यपतिर्व्यवसायोद्यमान्वितः ।लक्षाणि स्वर्णरूप्याणां यत्कोषे सन्ति वै सदा ॥३॥राजमान्योऽपि बहुधा युद्धपुरेशमानितः ।राजा मालवसिंहश्च नित्यं ताम्बूलकं शुभम् ॥४॥ददात्यस्मै महासौधे सभायां गौरवोर्जितम् ।राज्यातिदुर्वहे कार्येऽस्यैवाऽनुमतिमृच्छति ॥५॥यथामुख्यप्रधानं वै तथा विप्रं समर्हति ।उत्सवेषु समस्तेषु विहारेषु प्रपासने ॥६॥समाजेषु शुभे सर्वविधेये मनुते द्विजम् ।प्रजानामनुरागश्चाऽभवद्धनिष्ठकोषके ॥७॥धनानां स प्रदानं वै साहाय्यार्थं प्रजासु ह ।प्रकरोति विना लेखं वचोमूल्यं हि सत्यता ॥८॥दीनानां च दरिद्राणामनाथानां च योषिताम् ।साधूनां भिक्षुकाणां च वस्त्राऽन्नादिसहायकृत् ॥९॥गृहदानानि बहूनि मन्दिराणि बहून्यपि ।धर्मशालाः साधुमठानुद्दधार सुजीर्णितान् ॥१०॥प्रपास्तथाऽन्नसत्राणि कारयामास राजवत् ।राजाऽपि तेन सर्वत्र साहाय्यदोऽस्य वर्तते ॥११॥धनिष्ठकोषो नित्यं मां भजते परमेश्वरम् ।स्नात्वा सम्पूज्य मां भूपं मिलित्वाऽथ ततः परम् ॥१२॥पञ्चदेवादिकान्नत्वा भुंक्ते नित्यं न चान्यथा ।कुटुम्बं तस्य भक्तं मे सदा मां भजते रमे ॥१३॥अथ राज्यमदो लक्ष्मि मदो धनस्य वै तथा ।यौवनस्य मदश्चापि विपथं नयते जनम् ॥१४॥इन्द्रियाणां प्रवेगश्च विषयाणामुपस्थितिः ।मनसश्चापि चाञ्चल्यं भक्तं क्षिपति कल्मषे ॥१५॥नित्यं नृत्यस्य योगे वा नित्यं वाद्यसमाजके ।नित्यं शृंगारभावो वा रजोभावो विवर्धते ॥१६॥नित्यं विषययोगाश्च नित्यं पदार्थयोगिता ।हरते वेगवच्चित्तं निम्नगमनशालि यत् ॥१७॥तथैवाऽस्य सुभक्तस्य राजसंसदि वर्तनम् ।वारांगनादिनृत्येषु ह्युपस्थितिर्निशादिषु ॥१८॥दासीनां सहवासाद्यैर्मनो विकारमाप्तवत् ।सुरूपा अपि लोभिन्यो धनवाञ्च्छाविमोहिकाः ॥१९॥वारयोषा हावभावैः सेवनैः सहवासनैः ।चिक्षिपुर्मम भक्तं तं मोहे धनिष्ठकोषकम् ॥२०॥विषयेषु सुरम्येषु मग्नं चक्रुः शनैः शनैः ।धनहार्यो धनं लब्ध्वा भोग्यास्तिष्ठन्ति तत्पुरः ॥२१॥भक्तोऽपि मम भक्तिं च विहाय राजसंगतः ।राजोद्याने सदाऽऽवासं प्रायशश्चाऽऽचरत्ततः ॥२२॥कुटुम्बं स्वं क्वचिन्निभालयत्येव चिरेण सः ।बहुधोद्यानवासं स राज्ञा समं करोति यत् ॥२३॥राजापि बालमित्रं यत् सदा तं सेवते सह ।पानभोजनखेलाद्यैर्नृत्यगायनरञ्जनैः ॥२४॥एवं भक्तस्य संयोगे विषयैर्बाह्यवृत्तिभिः ।पूजनं पठनं ध्यानं मम सर्वं शनैः शनैः ॥२५॥क्षतिमाप्तं लयं प्राप्तं भक्तिर्मे खण्डिताऽभवत् ।स्मरति मां कदाचित् स विशेषेण तु योषितः ॥२६॥वारांगनाभिः सञ्जुष्टो वर्तते स व्यवायकृत् ।अथाऽस्य पुत्राः पुत्र्यश्च पत्नी साध्वी सधर्मिणी ॥२७॥नाम्ना स्नेहलतादेवी शुशोच स्वपतिस्थितिम् ।महाभागवती पत्नी भजते श्रीहरिं तु माम् ॥२८॥प्रार्थयत्येव पूजायां पत्युर्धर्मस्य रक्षणम् ।अधर्मस्य परित्यागं यशः कीर्तिं सुवंशजाम् ॥२९॥बालकृष्णहरेकृष्ण पुरुषोत्तममाधव ।तव भक्तस्य चित्ते यच्चाञ्चल्यं तत्प्रशामय ॥३०॥अनादिश्रीकृष्णनारायणश्रीकान्तकेशव ।मम पत्युर्व्यवायस्य व्यसनं त्वं प्रमोचय ॥३१॥राजाऽपि तव भक्तः स्यात्तथा कृष्ण विधेहि च ।गणिका अपि भक्ताः स्युर्यथा ते परमात्मनः ॥३२॥प्रजाश्चापि च भक्ताः स्युस्तथा कृष्ण कृपां कुरु ।व्रतं चाद्यदिनात् तेऽहं वर्षान्तं त्वेकभोजनम् ॥३३॥करिष्ये च तथा साघुसतीसेवा समाहिता ।प्रत्यहं पूजनं ते च करिष्ये घटिकावधिम् ॥३४॥षोडशैरुपचारैश्च कारयिष्ये तु सूतके ।प्रेंखां स्वर्णमयीं चापि मूर्तिं स्वर्णमयीं च ते ॥३५॥कारयिष्ये श्रिया युक्तां राधया रमया युताम् ।पद्मावत्या युतां युक्तां माणिक्यया च शोभनाम् ॥३६॥लक्ष्म्या युक्तां तथा रम्यां विभूषाढ्यां सुयौवनाम् ।शय्यापर्यंकमेवापि कारयिष्ये शुभोत्तमाम् ॥३७॥स्वर्णराजतजन्यं च तवोपकरणान्यपि ।व्यजने चामरे छत्रं पादुके भूषणानि च ॥३८॥कारयिष्ये स्वर्णरत्नमयानि तव तुष्टये ।नित्यं सुगन्धसारैश्च तैलसारैश्च मर्दनम् ॥३९॥अभ्यञ्जनं द्रवैश्चापि पूजनं तुलसीदलैः ।नैवेद्यं घृतमिष्टानैः कारयिष्येऽतितुष्टये ॥४०॥तवोत्सवान् कारयिष्ये वार्षिकान् कान्त केशव ।वणिजं मे पतिं वारांगनाव्यसनान्मोचय ॥४१॥एषा ते शरणं प्राप्ता पतिता तव पादयोः ।मम पत्युस्तु पापानि प्रज्वालय प्रियं कुरु ॥४२॥इत्युक्त्वा स्नेहलतिका दीपोत्सवीदिने हरेः ।कृत्वा मे पूजनं चाप्यासम्वत्सरं व्रतं व्यधात् ॥४३॥उक्तान् सर्वान्नियमान् सा पालयामास भावुकी ।पतिसंस्कारकं नाम व्रतं पूर्णं व्यधाद्धि सा ॥४४॥उद्यापनं व्रतस्याऽपि चक्रेऽन्नकूटवद्दिने ।प्रतिपद्येव कृष्णस्योत्सवं च व्रतपूर्तये ॥४५॥मण्डपं कारयामास कदलीस्तम्भशोभितम् ।तोरणादियुतं रम्यं कुण्डवेदीसमन्वितम् ॥४६॥सिंहासनान्वितं विप्रदेवतादिविराजितम् ।हव्यकव्यादिसामग्रीदानसामग्रिकायुतम् ॥४७॥समिद्वह्नियज्ञकर्मवेदमन्त्रध्वनिश्रुतम् ।साधुसाध्वीविष्णुभक्तकृतपाठादिघोषितम् ॥४८॥वाद्यकीर्तनगीत्याद्यैर्घोषितं दानवर्धितम् ।सत्यस्वरादिलोकानां वासिभिः समधिष्ठितम् ॥४९॥तोर्थागमैर्दिव्यभावं कृष्णपार्षदराजितम् ।ब्रह्मप्रियाविलसितं ध्वजपताकिकाऽन्वितम् ॥५०॥सर्वतोभद्रनामार्थश्रेष्ठमण्डलशोभितम् ।स्थालीकलशपात्राद्यैः शय्यादानादिभिर्युतम् ॥५१॥पूजासामग्रिकाभिश्च पूज्यते यत्र माधवः ।हूयते यत्र वह्नौ च हव्यं विविधजातिकम् ॥५२॥उच्चार्यन्ते वेदघोषा मन्त्रा यत्र च भूसुरैः ।दीयन्ते यत्र दानानि स्वर्णरूप्यमयानि च ॥९३॥भुज्यन्ते भोजनानीष्टमिष्टान्नानि च भूसुरैः ।दीयन्ते तृप्तचित्तैश्चाशीर्वादाः श्रेयसांप्रदाः ॥५४॥पूर्णाहुतिर्घृतानां च धाराभिर्दीयते तदा ।आययौ मण्डपे तत्र वृद्धो नारायणो नरः ॥५५॥विप्ररूपोऽतितेजस्वी लक्ष्मि योऽहं स एव सः ।स्वागतं चार्हणं चक्रुर्देवा मे ऋषयोऽपि च ॥५६॥आसनं मे ददुः श्रेष्ठं वह्निर्मां चाप्यपूजयत् ।उपाविवेश तत्राऽहं सर्वसम्मानितो द्विजः ॥५७॥कस्य यज्ञ इत्यहं वै चापृच्छं वेधसं द्विजम् ।सोमायनो द्विजः सोप्युवाच मां चांगुलिदृशा ॥५८॥अस्याः स्नेहलतिकाया व्रतोद्यापनजोऽध्वरः ।विद्यतेऽद्येष्टसिद्ध्यर्थमस्या इष्टं भवत्विह ॥५९॥भवत्विष्टमिति द्राक् चाऽवदं तत्राऽध्वरेऽप्यहम् ।शृणु लक्ष्मि महाश्चर्यं तदोद्याने व्यजायत ॥६०॥यत्र सौधे महान् श्रेष्ठी राजा भृत्या वसन्ति च ।सौधः स कम्पितो जातो यथा भूकम्पकम्पितः ॥६१॥उद्यानसहितः सौधो नान्यत् किञ्चित्तदा रमे ।मदिच्छयैव जातः स कम्पो भयावहस्तदा ॥६२॥सौधस्तु पतितस्तेन वारांगनाः प्रचूर्णिताः ।राजा श्रेष्ठी सौधपाते मध्यावकाशके स्तरे ॥६३॥पतितौ तत्र भग्नांगौ किन्तु प्रजीवितौ दरे ।सहैव पतितौ मूर्छाविगमे भानसंयुतौ ॥६४॥परस्परं चाह्वयतः का दशा ते धनिन नृप ।धनी प्राह मम पादो भग्नो जानुप्रदेशतः ॥६५॥नृपः प्राह मम हस्तो भग्नः कफोणिकास्थलात् ।नान्यद् दुःखं वर्ततेऽत्र प्राणास्तिष्ठन्ति चावयोः ॥६६॥मरणं नैव जातं वै परमेशकृता त्वियम् ।आवाभ्यां श्रीहरेर्मार्गस्त्यक्त्वा वारांगनागतिः ॥६७॥गृहीता पापदा तस्याः फलं त्विदं विनाशकृत् ।तथापि पूर्वपुण्येन यद्वा सम्बन्धिपुण्यतः ॥६८॥जीवावो दरमध्येऽत्र कृष्णदत्तावकाशके ।अद्यप्रभृति वेश्यानां संगं त्यक्ष्याव एव ह ॥६९॥परमेशं भजिष्यावो करिष्यावो व्रतानि च ।यद्येतस्माद् दुर्गमाद्वै दुर्विभाव्यावकाशकात् ॥७०॥निर्गमिष्याम एवाऽऽवां सप्राणौ भग्नमध्यतः ।नारायणं भजावोऽत्र स नौ रक्षां करिष्यति ॥७१॥एवं तौ निर्णयं कृत्वा हरेकृष्णेति जेपतुः ।लक्ष्मि तौ स्नेहलतिकाध्वरपुण्येन रक्षितौ ॥७२॥अथ युद्धपुरे तूर्णं यज्ञपूर्णाहुतेः परम् ।राजप्रासादपतनं चाश्रूयत प्रजामुखात् ॥७३॥नास्तिक्यस्तु प्रजाः प्राहुर्यज्ञे व्युत्क्रमजं फलम् ।वास्तविकं न तत्तत्र व्युत्क्रमो नाऽभवन्मखे ॥७४॥मदिच्छया हि तज्जातं पापेन श्रेष्ठिनोऽपि च ।वारांगना मम भक्तपातनेन सकल्मषाः ॥७५॥मृता एव स्वपापेन भक्तस्तु रक्षितो मया ।राजाऽपि भक्तयोगेन भक्त्यर्थं रक्षितो मया ॥७६॥आस्तिकास्तु तदा प्राहुः पापा मृताः स्वपातकैः ।अथापि यज्ञपुण्येन न मृतौ श्रेष्ठिभूभृतौ ॥७७॥मनुष्याश्च द्रुतं गत्वा काटमालं समस्तकम् ।शनैः कृत्वा दूरमेवोत्सार्य पाषाणमृत्तिकाः ॥७८॥काष्ठाऽधोभागसंवासौ सजीवौ श्रेष्ठिभूभतौ ।शनैर्निस्सारयामासुर्भग्नांगौषधमाचरन् ॥७९॥गणिकास्तु समस्तास्ताः शवात्मिकाः प्रकूर्चिताः ।मृता एवोपलब्धास्ता याम्यपुरं सिषेविरे ॥८०॥वृद्धस्पृष्टौ वणिग् राजा स्वस्थपादकरौ द्रुतम् ।सम्पन्नौ चाध्वरवार्तां श्रुत्वा प्रहर्षितौ ह्यति ॥८१॥अनादिश्रीकृष्णनारायणो वृद्धस्वरूपधृक् ।हस्ताभ्यां तौ सुपस्पर्श मूढमारो व्यलीयत ॥८२॥पीडापि विगता सर्वा मण्डपे तौ समागतौ ।दृष्टवन्तौ पुण्यकार्यं श्रुतवन्तौ स्त्रिया व्रतम् ॥८३॥पतिदेवस्य शुद्ध्यर्थं राज्ञः शुद्ध्यर्थमित्यपि ।प्रजायाश्चापि शुद्ध्यर्थं व्रतं ज्ञात्वा स्त्रियास्तदा ॥८४॥प्रजा राजा धनी सर्वे प्रशशंसुः पतिव्रताम् ।धन्या नारी हरेर्भक्ता मोक्षार्थिनी च पावनी ॥८५॥श्रेयसोऽर्थे प्रजादीनां यया व्रतं चिरं धृतम् ।यया द्रव्याणि नैजानि दैवकार्ये कृतानि च ॥८६॥अस्याः पुण्येन भूपोऽयं श्रेष्ठी चेति प्ररक्षितौ ।वयं सर्वे भजिष्यामो नारायणं श्रियः पतिम् ॥८७॥राजाऽपि मण्डपे तत्र प्रकाशं व्याजहार तत् ।श्रेष्ठी तथा प्रजाश्चापि व्याजह्रुर्मण्डपे यथा ॥८८॥व्यसनानि समस्तानि त्यक्ष्याम पापकानि च ।भजिष्यामो हरिं कृष्णं बालकृष्णं सनातनम् ॥८९॥प्रायश्चित्तं करिष्यामः कृतानां पापकर्मणाम् ।भविष्यामो वैष्णवाश्च यास्यामोऽन्ते हरेर्गृहम् ॥९०॥इत्येवं लक्षशस्तत्रायाता ये दर्शका अपि ।यज्ञार्थं चाप्यकस्मातार्थं च तेऽपि नराः स्त्रियः ॥९१॥राष्ट्रजा मानवाः सर्वे परिवर्तितमानसाः ।वृद्धविप्रप्रतापेनाऽध्वसे वैष्णवदीक्षणम् ॥९२॥जगृहुर्वृद्धविप्रात्ते व्यसनानि च तत्यजुः ।दध्रुश्च तौलसीं कण्ठीं बालकृष्णेति नाम मे ॥९३॥ 'ओ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।इतिमन्त्रं जगृहुश्चाऽभवँस्ते वैष्णवोत्तमाः ॥९४॥व्रतं चक्रुः कार्तिकस्य शुक्लस्य सर्व एव ते ।एकभुक्तस्त्वमेवापि प्रत्यहं पूजनं मम ॥९५॥दानं नित्यं तथाऽन्नानां भजनं घटिकावधिम्अथाऽहं मण्डपे तत्र दर्शनं स्वं ददौ शुभम् ॥१६॥चतुर्भुजं दिव्यरूपं राधालक्ष्मीरमायुतम् ।पद्मावतीमाणिकीश्रीसहितं सुमनोहरम् ॥९७॥शंखचक्रगदापद्मकौस्तुभहारशोभितम् ।दिव्यतेजोपरिध्याढ्यमुखं केयूरमण्डितम् ॥९८॥दिव्यमुक्तैः पार्षदैश्च महर्षिभिः प्रसेवितम् ।यज्ञानलैर्देवताभिर्देवैश्चाभिप्रपूजितम् ॥९९॥स्नेहलतेष्टपूर्त्यर्थं चागतं परमेश्वरम् ।वीक्ष्य मां पूजयांचक्रुः पादजलं पपुश्च मे ॥१००॥यज्ञप्रसादं जगृहुर्बुभुजुर्महीमानकाः ।सर्वे समाप्तिं यज्ञस्य चक्रुश्चावभृथं ततः ॥१०१॥लुणीनद्यां प्रसस्नुश्च नृपस्य श्रेष्ठिनस्तथा ।प्रजानां यानि पापानि प्रजज्वलुस्तदा रमे ॥१०२॥अवभृथं महास्नानं सर्वपापविनाशकृत् ।तत्र स्नाता हि शुद्ध्यन्ति महापापाऽपराधिनः ॥१०३॥राजा श्रेष्ठी सस्मरतुर्मोक्षार्थं वारयोषिताम् ।द्रागेव मद्बलात् तत्रावभृथस्नानपुण्यतः ॥१०४॥राज्ञा च श्रेष्ठिना दत्तात् सर्वा याम्यालयाद् द्रुतम् ।आययुर्मोचिता दूतैस्तत्र लुण्यास्तटे स्त्रियः ॥१०५॥पपुर्वारि प्रसस्नुश्च मया च प्रोक्षिता जलैः ।दिव्यदेहास्तूर्णमेव जातास्ता पापवर्जिताः ॥१०६॥विमानैः प्रययुः सर्वाः स्वर्गं चिरं ततश्च ताः ।प्रयास्यन्ति स्थिरं धाम वैकुण्ठं परमात्मनः ॥१०७॥एवं ता मोक्षिताश्चापि प्रजाश्च वैष्णवीकृताः ।राजा श्रेष्ठी निर्व्यसनौ कृतौ भक्तियुतौ स्त्रिया ॥१०८॥ततोऽहं पूजनं प्राप्य तिरोभावं द्रुतं ततः ।आयुष्यान्ते स्नेहलतां द्विजं सोमायनं तथा ॥१०९॥धनिष्ठकोषं वणिजं मालवसिंहभूपतिम् ।प्रजाश्च वैष्णवीः सर्वा यथाकालं ममाऽक्षरम् ॥११०॥अनयं भक्तियुक्ताँश्चेत्येवं वै पारदारिकम् ।भक्तं शुद्धं विधायाऽहं लक्ष्मि मुक्तिं नयामि तम् ॥१११॥पठनाच्छ्रवणादस्य स्मरणान्मननादपि ।अपि पापसमाचारः शुद्धो यास्यति मत्पदम् ॥११२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने युद्धपुराधिपेन सह धनिष्ठकोषस्य श्रेष्ठिनो वारांगनाव्यसनिनः स्वस्त्रीकृतभक्तिव्रताराधनादिना श्रीहरिणा मोक्षः कृत इत्यादिनिरूपणनामा द्वानवत्यधिकशततमोऽध्यायः ॥१९२॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP