संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८६ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-किं कृत्वेह तु राजानश्चान्ये धनमदास्तया ।बलगर्वाश्च वै लोका अश्नुवते परं सुखम् ॥१॥श्रीपुरुषोत्तम उवाच-ब्रह्मिष्ठानां सदा सेवा कर्तव्या सुखमिच्छता ।साधून्नारायणभक्तान् वृद्धाँश्चाप्यभिपूजयेत् ॥२॥पौरजानपदाँश्चापि साधुजनान् बहुश्रुतान् ।भक्त्या दानेन सेवाभिर्नमस्कारैः समर्चयेत् ॥३॥यथाऽऽत्मानं यथा पुत्राँस्तथा साधून् प्रसेवयेत् ।ये चाऽप्येषां पूज्यतमास्तान् विशेषेण पूजयेत् ॥४॥सन्तः पूज्या नमस्कार्या मान्या देवा यथा भुवि ।तेषु तुष्टेषु राज्यादिसम्पदः सुसुखाः सदा ॥५॥कृष्णध्यानप्रसक्तानां ब्रह्मभक्तिं प्रकुर्वताम् ।धर्मज्ञानां सतां नित्यं सेवां कीर्तिं समाचरेत् ॥६॥देवैश्च पितृभिश्चापि गन्धर्वैर्ब्राह्मणैस्तथा ।वसुभिश्च तथाऽऽदित्यै रुद्रैश्च पूजिता यतः ॥७॥अदैवं दैवतं कुर्युदैंवतं चाऽप्यदैवतम् ।यमिच्छेयुः स देवः स्याद् यो नष्टः स पराभवेत् ॥८॥परिवादप्रकर्तारो नश्येयुर्नात्र संशयः ।तस्मात्साधून्पूजयेच्चेश्वरान् वै सुखदुःखयोः ॥९॥एते भोज्याश्च पूज्याश्च किमिच्छवैः सुवस्तुभिः ।नमस्कारैश्चाऽर्पणाद्यै रक्ष्याश्च पितृवन्नृपैः ॥१०॥ईतीनां चापि विघ्नानां शान्तिः सद्भिः प्रजायते ।ब्रह्मवर्चस्विनः सन्तो यज्ञाः साक्षाद् भवन्ति वै ॥११॥ब्रह्मिष्ठं भक्तिसम्पन्नं धर्मशीलगुणान्वितम् ।वासयेत गृहे राजा सन्तं मोक्षप्रदं सदा ॥१२॥सतां मुखे हविर्दत्तं प्रतिगृह्णन्ति चेश्वराः ।पितरो देवताश्चापि मुक्तास्तृप्यन्ति योगिनः ॥१३॥ऋषयो वसवः सिद्धा मनवो भास्कराः शिवाः ।सुराश्च विष्णवो ब्रह्माणश्च साध्या मरुद्गणाः ॥१४॥वालखिल्याश्च गन्धर्वाः किन्नराः पुरुषोत्तमाः ।अवताराः सत आविश्याऽन्नं सुखाः प्रभुञ्जते ॥१५॥यत्र नो भगवद्भक्ता उत्सवे वा महोत्सवे ।ताः सम्पदस्तथाऽऽनन्दाः श्मशानान्ताः प्रकीर्तिताः ॥१६॥यत्रोत्सवेषु सन्तश्च विद्यन्ते शुभदर्शनाः ।त उत्सवा ऊर्ध्वगतिप्रदाः पुण्यमयाः शुभाः ॥१७॥सन्तं विना महाराज्यं श्मशानं याम्यपुष्टिकृत् ।सता युक्तं वनं चापि दिव्यं गोलोकमुक्तिदम् ॥१८॥साधुं यत्र स्थले सन्तं विहरन्तं स्थितं च वा ।पश्यन्ति यमदूताश्च नाभियन्ति स्थलं हि तत् ॥१९॥साधुं जनं विलोक्यैव विघ्ना वियन्ति दूरतः ।रोगा मायाः कालवेगास्त्रस्ता वियन्ति दूरतः ॥२०॥येन येनैव सन्तोऽत्र हविषा तर्पिता मुहुः ।ये सन्तमनुवृत्ताश्च तेषां पुण्यमनन्तकम् ॥२१॥न ते प्रेत्य विनश्यन्ति न ते यान्ति पराभवम् ।यद्वै सतां मुखात्प्राप्तं प्रतिगृह्णन्ति सद्वचः ॥२२॥पापिनोऽपि जनास्ते वै न प्रयान्ति पराभवम् ।यत्किञ्चिद् दृश्यते लोके श्रूयते पठ्यते तथा ॥२३॥सर्वं तच्छ्रीमतां पुण्यसतामाशीर्वचोभवम् ।भूमिः पप्रच्छ पूर्वं वै श्वेतवाराहमीश्वरम् ॥२४॥गृहिणां पापकर्माणि केन नश्यन्ति मूलतः ।वाराहश्च तदोवाच ध्यात्वा श्रेष्ठतमं वचः ॥२५॥साधून् संसेवमानानां पापं सर्वं विलीयते ।साधून् सदा प्रसेवेत पवित्रान् लोकधारकान् ॥२६॥एभ्यो भूतिश्च कीर्तिश्च स्मृद्धिर्बुद्धिः प्रजायते ।भक्तिः प्रजायते तेन पावनी मतिरीयते ॥२७॥महायज्ञो हरेर्भक्तः साधुरेव न संशयः ।साधुं सेवेत सततं भूमे! सर्वविभूतये ॥२८॥विप्रेभ्यश्च परे सन्ति गुरवस्तूपदेशकाः ।गुरुभ्यश्चोपदेष्टॄभ्य उपाध्याया परे मताः ॥२९॥तेभ्यः परा सदा चार्या आचार्येभ्यस्तु शीलिनः ।ब्रह्मचारेभ्य उत्कृष्टा भक्ताः श्रीपरमात्मनः ॥३०॥भक्तेभ्य उत्तमाः सन्ति सदा चात्मनिवेदिनः ।आत्माऽर्पितेभ्य उत्कृष्टाः साधवो मम मूर्तयः ॥३१॥अपरेषां परेषां च परेभ्यश्चापि ते परे ।मत्तोऽपि परमाः सन्तः सतां दासो भवाम्यहम् ॥३२॥साधवो यं प्रशंसन्ति स नरो माधवो भवेत् ।साधूनाक्रोशयति यः पराभवति सोऽचिरात् ॥३३॥यथा महार्णवे क्षिप्तं लवणं संविलीयते ।तथा पापानि साधौ वै क्षिप्तानि यन्ति लीनताम् ॥३४॥साधवो यं प्रशंसन्ति स जातोऽत्र प्रवर्धते ।यशसा सम्पदा स्मृद्ध्या पुष्ट्या लक्ष्म्या स्त्रिया सुतैः ॥३५॥साधवः संविदन्त्येव मार्गं स्वर्गस्य वै तथा ।मोक्षस्यापि निरयस्य कर्मणां च गतिं तथा ॥३६॥भाग्यानां च गतिं चापि विदन्ति साधवो जनाः ।आगताऽनागते चापि विदन्ति जन्मकर्मभिः ॥३७॥सर्वेषां क्षत्रवर्गाणां तेजांसि प्रबलानि च ।ब्राह्मणेषु प्रशाम्यन्ति ब्राह्मणानां तु साधुषु ॥३८॥साधून् वै सेवमानानां रजः सर्वं प्रणश्यति ।इच्छन् कीर्तिं च भूतिं च लोकाँश्चाप्युत्तमोत्तमान् ॥३९॥सतां चानुमते तिष्ठेद् राजा श्रेष्ठी तथेतरः ।जन्मनैव चमत्कारी ब्रह्मिष्ठो यस्तु जायते ॥४०॥नमस्यः सर्वभूतानां स साधुश्चाऽच्युतात्मजः ।सर्वथा सुहृदः सन्तः श्रेयो मात्रविधायकाः ॥४१॥स्मृतिभिः कृष्णयुक्ताभिर्गीर्भिश्च मंगलादिभिः ।आश्रितानां सुश्रेयांसि चानुध्यायन्ति पूजिताः ॥४२॥श्रीश्च वृद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।लक्ष्म्यः सर्वविधाः साधुसंकल्पेन भवन्ति हि ॥४३॥साधवो विविधाः सन्ति दुरासदाः परार्थिनः ।केचिन्नारायणसत्त्वाः शीलसत्त्वाश्च केचन ॥४४॥व्रतसत्त्वास्तपःसत्त्वा ध्यानसत्त्वास्तथाऽपरे ।वैराग्यसत्त्वा विद्यादिसत्त्वा भक्तिबलाः परे ॥४५॥धर्मसत्त्वास्तथौदासीन्यादिमुख्या भवन्त्यपि ।अपि सेव्याः सर्वविधाः सारो ग्राह्यो मुमुक्षुणा ॥४६॥सिंहसत्त्वाः सन्ति केचिन् मृगसत्त्वास्तथाऽपरे ।सर्पसत्त्वाः परेचापि कपिसत्त्वास्तथाऽपरे ॥४७॥अग्निसत्त्वास्तथा चाऽन्ये जलसत्त्वास्तथाऽपरे ।क्ष्मासत्त्वा वायुसत्त्वाश्च भयन्त्येवंप्रकारिणः ॥४८॥असहाः सिंहसत्त्वा वै सर्वसहा मृगा इव ।द्वेषगराः सर्पतुल्या हारकाः कपिसदृशाः ॥४९॥पापघ्ना वह्निसत्त्वास्ते शान्तिदा जलसत्त्विनः ।क्षमन्ते क्ष्मासमाश्चापि गुणग्राहा मरुत्समाः ॥५०॥सिंहसर्पकपितुल्यान् यावदर्थं समाश्रयेत् ।मोक्षार्थं चेतरान् सर्वानाश्रयेन्मतिमान् जनः ॥५१॥साधवो हि महात्मानो देवानामपि देवताः ।सततं पूजयेत् साधून् दास्येन परिचर्यया ॥५२॥एकदा मालतीदेवी पप्रच्छ स्वपतिं नृपम् ।चित्रकेतुं नमस्कृत्य त्रैलोक्यपूजितं सती ॥५३॥केन वृत्तेन राजँस्त्वं त्रैलोक्यमधितिष्ठसि ।श्रैष्ठ्यमेतादृशं केन प्राप्तं ब्रूहि व्रतेन वै ॥५४॥चित्रकेतुस्तु तां प्राह साधुसेवाव्रतं मम ।वन्ध्यं दिनं न मे याति साधुसेवामृते क्वचित् ॥५५॥अग्रतः साधवो मे वै पृष्ठतः साधवोऽत्र मे ।पार्श्वयोः साधवः सन्ति सभायां साधवश्च मे ॥५६॥यात्रायां साधवो मे च भोजने चोत्सवादिषु ।आरम्भे साधवो मे वै वर्तन्ते ब्रह्मशीलिनः ॥५७॥तेषां दास्यं व्रतं मेऽस्ति तेन बृहद्व्रतेन वै ।अधितिष्ठामि लोकांस्त्रीन् हरेर्भक्तिं करोमि च ॥५८॥अन्यानि मे शृणु पत्नि वृतानि शोभनान्यपि ।लोके यैर्मान्यता चास्ते चाऽप्रधृष्यत्वमित्यपि ॥५९॥नाऽसूयामि क्वचित् साधून् सम्मन्ये तान् यथासुखम् ।ब्रह्मिष्ठान्नाऽवजानामि नाऽपराध्यामि कर्हिचित् ॥६०॥अभ्यर्च्याऽभ्यनुपृच्छामि सेवां करोमि नित्यदा ।सदण्डवन्नमः कृत्वा पादौ गृह्णामि वारि च ॥६१॥यामाज्ञां ते निर्दिशन्ति वहामि तोषयामि तान् ।सतो नित्यं शृणोम्येव कथाऽमृतरतान् प्रभून् ॥६२॥एतच्छ्रेष्ठममृतं वै दिव्यं चक्षुश्च पारगम् ।यद् ब्रह्मिष्ठमुखाद् वाक्यं शास्त्रं चाऽऽज्ञा प्रवर्तते ॥६३॥ब्रह्मिष्ठास्तपसा भक्त्या सिध्यन्ति धीबलाः सदा ।आत्मबलां मम बलैर्युक्तास्ते तारयन्त्यपि ॥६४॥वसन्तो ब्राह्मीर्वसतीर्यतयः समदर्शनाः ।निर्वाणस्था हि ते भूमौ श्रेयप्रदाः सुखप्रदाः ॥६५॥भूमिस्तं वै निगिरति यो ब्रह्मिष्ठं न सेवते ।अभिमानः श्रियं हन्ति स्मृद्धस्याऽप्यल्पमेधसः ॥६६॥अभिमानं ततो हित्वा हित्वा राजमदं तथा ।पादसंवाहनं नित्यं करोमि वै सतां मुदा ॥६७॥मां च भक्तं चित्रकेतुं श्रुत्वा श्रुत्वा हि साधवः ।भूभागात् स्वर्गभागाच्च पातालात् सागरादपि ॥६८॥सत्यलोकात् समायान्ति नारदाद्या हि पावनाः ।धन्यं भाग्यं मम चास्ते यः कोटिस्त्रीपतिर्नृपः ॥६९॥साधुभक्त इति ख्यातो यं प्रतियन्ति साधवः ।यद्गृहं साधुसम्पन्नं यन्नार्यः साधुसेविकाः ॥७०॥यो राजा विघसाऽश्यस्मि ततो धन्येतरो नु कः ।यो यो वै याचते किंचिद् ददाम्येव तु तत्क्षणम् ॥७१॥प्रतोषयामि सततं साधून् विप्राँश्च योगिनः ।राज्यं यथा स्वेन्द्रियार्थं साध्वर्थं मे मतं बहु ॥७२॥ब्रह्मिष्ठार्थं मम राज्यं मोक्षार्थं वर्तते प्रिये ।अपीडयन् राजवर्गं प्रदद्यां सर्वमैहिकम् ॥७३॥यथा मे साधवः पूज्यास्तथाऽनु ब्राह्मणा अपि ।ऋत्विक्पुरोहिताचार्याः शिष्याः सम्बन्धिबान्धवाः ॥७४॥स्त्रियो बाला बालिकाश्चाऽनाथा निराश्रयास्तथा ।शरणागतलोकाश्चाऽभ्यागता भिक्षुकास्तथा ॥७५॥अनाधाराश्च मे पूज्या वनिनो गृहिणोऽपि च ।सत्कर्माणः सदा पूज्याः श्रुतवन्तो हरेर्जनाः ॥७६॥अतोऽन्यथा वर्तमाना दण्ड्याः शास्त्रनयेन वै ।भक्तिधर्मः सदाचारो ज्ञानं चात्मविवेचनम् ॥७७॥अहिंसा सत्यमस्तेयमार्जवं दम ईशिता ।अक्रोधश्चाऽनभिमानश्चाऽद्रोहो ह्रीः क्षमा दमः ॥७८॥तितिक्षा वासनानाशस्तृष्णानाशः पवित्रता ।यस्मिन्नेतानि दृश्यन्ते न त्वकार्याणि वै प्रिये ॥७९॥सत्पात्रं तद्भवेल्लोके सर्वदा मानमर्हति ।अपूर्वं चापि पूर्वं वा पारक्यं नैजमेव वा ॥८०॥यद्वा विशेषितं वापि संप्रत्यागतमेव वा ।ब्रह्मिष्ठं श्रेयसिस्थं यत् तत्पात्रं मानमर्हति ॥८१॥लोके भवन्ति बहवश्चाभिमानभरा जनाः ।असूयाद्वेषयुक्ताश्चाऽसहमानाः परान्नरान् ॥८२॥परख्यातिं सहन्ते न परसौख्यं परोन्नतिम् ।न सहन्ते च दह्यन्ति ततो निन्दन्ति सज्जनान् ॥८३॥अप्रामाण्यं सतां वाक्ये वैदिके लोकसम्मते ।मत्वाऽतिलंघनं चापि कुर्वन्ति धर्मसेतुषु ॥८४॥अव्यवस्थां च कुर्वन्ति स्वयं पण्डितमानिनः ।हेतुवादान् ब्रुवन्तश्च सत्सु द्रोहं प्रकुर्वते ॥८५॥आक्रोष्टारस्तथा शास्त्रविरुद्धवादिनः खलाः ।मूढाः कटुकवाचश्च नराः पापपरायणाः ॥८६॥स्वतुल्यान् सुहितान् सृत्वा शुनोऽर्चयन्ति वै खलाः ।मालति! तादृशा दम्भा नरश्वानो जगत्त्रये ॥८७॥कल्याणं नैव कुर्वन्ति नाशयन्ति निजान् परान् ।आत्मनाशं चाऽऽह्वयन्ति ते दण्ड्याः सर्वथा नृपैः ॥८८॥यथा श्वा भषितुं चैव खादितुं चाऽवसज्जते ।तथा ते लोकमर्यादां नाशयितुं ज्वलन्ति वै ॥८९॥तस्माद् राज्ञि! लोकमेलं धर्मं चात्महितं शुभम् ।हृदयं देशकालौ च वीक्ष्याऽऽज्ञां वर्तयेज्जनः ॥९०॥एवं नित्यं वर्तमानः शाश्वतीर्वर्धते समाः ।राजानो वा धनिनो वा बलिनो वा जनास्त्विह ॥९१॥तथैव वर्तमानाश्चेन्नाभिभवन्ति वै क्वचित् ।ऋणमुक्ता हरेर्भक्ता भूत्वाऽन्ते यान्ति मोक्षणम् ॥९२॥इत्येवं चित्रकेतुर्वै मालतीं प्राह साऽपि तु ।हरेर्बलं परं प्राप्याऽसेवताऽहर्निशं सतः ॥९३॥अभजत्परमात्मानं सेवापूजनकीर्तनैः ।नैजं कर्मकलापं सा चकार वै सतां कृते ॥९४॥नृपाज्ञया हि सततं भेजे सत्पुरुषान् शुभान् ।भोजनैर्दानसेवाभिर्जलवस्त्रफलार्पणैः ॥९५॥सा च भक्त्यारूढभावा ददर्श मां परेश्वरम् ।पूजायां दिव्यरूपं वै चतुर्बाहुं विमानगम् ॥९६॥ययाचे मोक्षणं चापि त्वाज्ञामादाय भूभृतः ।तूर्णं च भौतिकं त्यक्त्वा चारुरोह विमानकम् ॥९७॥दिव्या चतुर्भुजा जाता लक्ष्मीसखी शुभानना ।मालती वर्तते धाम्नि ब्रह्मप्रिया नरायणी ॥९८॥एवं साधुप्रसंगेन राजा साधुर्हि चित्रकृत् ।पत्युः साधोः प्रसंगेन मोक्षमार्गमवाप सा ॥९९॥मोक्षगतिमवाप्यैव मालती तु रमासखी ।जाता ब्रह्मप्रिया लक्ष्मि सत्संगो यावदर्थकः ॥१००॥निर्धनो वा धनवाँश्च सगुणो निर्गुणोऽपि वा ।साध्वाश्रयं समालम्ब्य भवत्येव नरायणः ॥१०१॥मदंशो भक्तिवेगेन जायते चोर्ध्वकीर्तिमान् ।तारकः सर्वलोकानां धारकः सर्वधर्मिणाम् ॥१०२॥प्रापकश्चाऽक्षरस्यापि रक्षकश्च निजान्तिके ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने धनमदिबलगर्विनृपादीनामपि परमश्रेयसि चित्रकेतोर्मालित्या दृष्टान्तेन साधुप्रतापफलादिवर्णननामा षडशीतितमोऽध्यायः ॥८६॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP