संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ११७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ११७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११७ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-कथं पूर्वे वरं प्राप्ताः कैकसा नाम दैत्यकाः ।येषां जयो भवेल्लोके नारायणीमृधेऽपि वै ॥१॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि कथयामि नारायणीमृते क्वचित् ।विजयो वृणुते नान्यं चान्ते जयो हरिश्रिते ॥२॥किन्तु सन्तपसा सम्यगेधितानां महाहवे ।क्षणं विभाव्यते लक्ष्मि जयवन्नाशकृज्जयः ॥३॥कैकसेयाः सप्तसहोदराः पूर्वे तु भास्करम् ।उद्दिश्य तु तपश्चक्रुः शतवर्षाणि निर्जलम् ॥४॥शुष्कप्राया अभवंस्ते तदा सूर्य उपस्थितः ।कैकसेयान् समुवाच भवतां तपसाऽधुना ॥५॥परितुष्टोऽस्मि भद्रं वो वरं वृणुत दानवः ।इत्युक्तास्ते वरं वव्रुर्योऽस्माकं संयुगे रिपुः ॥६॥नारी नरो मनुष्यो बा देवोऽन्यो ब्रह्मसृष्टिजः ।उपतिष्ठेत तिर्यक् च तेषां नेत्राणि वै तदा ॥७॥अन्धीकर्तुं त्वया सूर्य स्थातव्यं नोऽक्षिषु ध्रुवम् ।भवता घोरतेजोभिर्दहता प्रतिरोधिनः ॥८॥तथाऽक्षिविषयः सर्वो निश्चेष्टो भवतात् तदा ।चक्षुस्तेजोविहीनास्ते रिपवश्चान्धतां गताः ॥९॥स्तब्धशस्त्राश्च निश्चेष्टा हन्तव्याः स्युर्जयश्च नः ।इत्युक्तश्च रविस्तथाऽत्त्विति प्राह हि कैकसान् ॥१०॥प्राहाऽधर्मॆ यदा द्रक्ष्ये गमिष्यामि तदा लयम् ।धर्मयुद्धे सहायोऽहं भविष्यामि न संशयः ॥११॥इत्युक्तास्ते कैकसाः श्रि! जयवत् जयमानिनः ।सूर्यबलाद्विजयार्थं भण्डोक्तास्ते समाययुः ॥१२॥वरदानबलेनैव युद्धे चेरुर्मदोद्धताः ।तदा सूर्यसमाविष्टनेत्रैस्तैस्तु निरीक्षिताः ॥१३॥देवताः स्तब्धनेत्राश्च विफलोत्साहतां गताः ।अभिभूताश्चान्ध्यदोषैः शक्तयो जोषमासत ॥१४॥दैत्या व्यमर्दयन् शक्तिसैन्यं चाऽधर्मयोधनैः ।लक्ष्म्यो विरमिताः स्तब्धा अन्धा व्यापारवर्जिताः ॥१५॥अदृष्टयोऽभवँस्तासां युद्धं योग्यं न धर्मजम् ।न हन्तव्यो रिपुर्युद्धे न्यस्तशस्त्रो निरंगकः ॥१६॥पिबन् द्रवन् पतितश्च बद्धः शरणमागतः ।एतादृशेषु युञ्जाना अधर्मो बाधते हि तान् ॥१७॥कैकसेया अनिवार्य जघ्नुः शरादिभिः सतीः ।देव्यस्ता दैत्यशस्त्रौघैः स्पृष्टगात्रास्तदाऽभवन् ॥१८॥हाहाकरं तदा कृत्वा सस्मरुर्ललितेश्वरीम् ।ललिताश्रीस्तदा सूर्यमधर्मं प्राह सत्वरम् ॥१९॥अयुध्यतां हि योद्धृणां ताडनं दैत्यकारितम् ।अधर्मं पश्य सूर्य त्वं कथं तिष्ठसि शत्रुषु ॥२०॥सूर्यः शापभयेनैव निर्गतो दैत्यनेत्रतः ।शक्तयो विगतान्ध्याश्च युयुधुर्वेगतस्तदा ॥२१॥सिंहनादैर्विनद्यैषून् मोचयामासुरुल्बणान् ।कृष्णरूपभुजंगाभान् बाणान् दैत्या न सेहिरे ॥२२॥इतस्ततो मृद्यमानाः स्थितिं तत्र न लेभिरे ।सावित्र्या प्रहितं चाऽस्त्रं सावित्रं दैत्यकोटिषु ॥२३॥काकसेयाश्च ते सप्त तथा सैन्यस्य कोटयः ।हतास्तदाऽस्त्रवेगेन रक्तनद्यस्ततोऽभवन् ॥२४॥हतशिष्टाः कतिपया भण्डं जग्मुरसुप्रियाः ।शशंसुः स्वविनाशं वै भण्डो निराशतां गतः ॥२५॥सावित्रीं विजयं प्राप्तां शशंसुर्देवतागणाः ।भण्डोऽपि शेषवर्गेण चकार मन्त्रणां तदा ॥२६॥अहो दैत्यकुलानां वै विनाशः समजायत ।उपेक्षामधुना कर्तुं प्रवृत्तो बलवान् विधिः ॥२७॥मद्भृत्यनाममात्रेण विद्रवन्ति दिवौकसः ।तादृशानामिहाऽस्माकमागतोऽयं विपर्ययः ॥२८॥करोति बलिनं क्लीबं धनिनं धनवर्जितम् ।दीर्घायुषमनायुष्कं राजानं रंकसेविनम् ॥२९॥क्व सत्त्वमस्मद्बाहूनां क्वेयं दुर्ललिता वधूः ।यया चेट्या महागर्वाः सेनान्यो विनिपातिताः ॥३०॥जीवग्राहो हि कर्तव्यो भोक्तव्या सा प्रसह्य वै ।तदा निर्वापणं मे स्याद् गृह्णन्तु तां सुजीविताम् ॥३१॥स्त्रीवेषैर्वा भवद्भिश्च दैत्यानीभिश्च वा तथा ।कापट्येन मिलिताभिर्गृह्यतां जीवयोगिनी ॥३२॥यद्वा युद्धं क्रियतां वै चाग्रे महोल्बणं परम् ।विकृष्यन्तां च सैन्यानि तासां सेनामुखे हि नः ॥३३॥पृष्ठे सा स्वल्पसाहाय्या सुग्राहा मे भविष्यति ।ततोऽहं स्त्रीवेषधर्ता यामि तत्रैव यत्र सा ॥३४॥प्रसह्य धृत्वा भुक्त्वा च मारयित्वा ततः परम् ।अन्याः सर्वा नाशयित्वाऽऽगमिष्यामि निजालयम् ॥३५॥सैव निःशेषशक्तीनां मूलभूता महीयसी ।तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति ॥३६॥तामाकृष्य विजित्यैव भुक्त्वा नेष्यामि वा गृहम् ।इति मन्त्रितमन्त्रोऽयं दुर्मन्त्री भण्डदानवः ॥३७॥सेनापतींश्च सैन्यानि नीत्वा ययौ रणाजिरम् ।सायंकालोऽभवच्चापि प्रवृत्तं च तमः परम् ॥३८॥असुराणां प्रदुष्टानां रात्रिरेव बलप्रदा ।तस्यां वै व्यापृतं सैन्यं देवीसैन्याग्रतोऽभवत् ॥३९॥युयुधे शस्त्रघातैश्च तिमिरे प्राणनाशकम् ।देव्यस्तत्र प्रताड्यन्ते म्रियन्ते दैत्यकोटयः ॥४०॥जीवदा जीवनाशाश्च प्रहाराः संभवन्ति हि ।गुप्ताचारा हि भण्डस्य ययुर्यत्र सुरेश्वरी ॥४१॥तत्र युद्धं प्रचक्रुश्च पृष्ठे चाग्रे महामृधम् ।अथ याः शक्तयः कालीप्रभतयो निशासुखाः ॥४२॥भैरव्यो भैरवा रुद्रगणा रुद्राण्य ईशिकाः ।निजघ्नुर्दानवान् दैत्यान् भूत्यो जघ्नुश्च दानवान् ॥४३॥रात्रौ दानवसैन्यं तद् दशाऽक्षौहिणिकात्मकम् ।विनष्टं सर्वमेवैतद् भण्डः पलायितोऽभवत् ॥४४॥विभाता रजनी प्रातः प्रसन्नाश्चाऽभवन् दिशः ।विजेत्रीणां च देवीनां ललिता तोषमासदत् ॥४५॥अथ भण्डो मन्त्रयित्वा सममात्मसुतैः पुनः ।चतुर्बाहुमुखान् पुत्रान् प्रेषयामास संयुगे ॥४६॥त्रिंशत्संख्या दुर्मदास्ते युयुधुश्च दिवानिशम् ।द्विशत्यक्षौहिणी सेना निर्ययौ वेगवत्तमा ॥४७॥श्रीबाला तु महालक्ष्म्याः पुत्री सन्तोषिकाऽभिधा ।या सा कुमारिका योद्धुं तदा सज्जाऽभवद् रणे ॥४८॥शतकोटिसखीयुक्ता सर्वायुधधरा सती ।अष्टादशभुजायुक्ता भण्डसेनां समद्रवत् ॥४९॥ततः प्रववृते युद्धमत्युद्धतपराक्रमम् ।कोटिरूपधरा जाता श्रीबाला युद्धदुर्मदा ॥५०॥दर्शयामास शौर्यं च ललितादुहिता मृधे ।अस्त्रप्रत्यस्त्रमोक्षेण तान् सर्वानभिनत् क्षणात् ॥५१॥नारायणास्त्रमोक्षेण श्रीबाला सा कुमारिका ।द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोद् दिने ॥५२॥युगपत् त्रिंशतो बाजानवासृजत् सा कुमारिका ।ननान्दा तव सन्तोषा भण्डसुतान् यमगृहम् ॥५३॥प्रेषयामास सहसा विभिद्य तच्छिरांसि वै ।शक्तयश्च जगुस्तत्र साघुवादान् मुहुर्मुहुः ॥५४॥ततोऽन्ये जीविताशाश्च स्वल्पा दैत्या प्रदुद्रुवुः ।स्वगृहं तु समासाद्य शोकं भण्डाय सञ्जगुः ॥५५॥अथ श्रुत्वा सुतान्नष्टान् शोकानलपरिप्लुतः ।विललाप स भण्डो वै मत्वा जातं कुलक्षयम् ॥५६॥हा हतोऽस्मि विपन्नोऽस्मि मन्दभाग्योऽस्मि चाऽद्य वै ।नारी कुलक्षयकर्त्री विद्यतेऽद्य ममापि तु ॥५७॥इतिमूर्छालुप्तभानो निष्पपात भुवस्तलम् ।अथोत्थितः खड्गमुग्रमुद्धृत्य व्याजहार सः ॥५८॥इदानीमेव तां लक्ष्मीं खड्गेनाऽनेन खण्डशः ।शकलीकृत्य समरे शान्तिं प्राप्स्यामि शाश्वतीम् ॥५९॥इति खड्गं विधुन्वन् स प्रलपन् संगरे ययौ ।चूषयामि समस्तास्ताः करवाणि निजाः प्रियाः ॥६०॥छिनदानि सुरान् सर्वान् भिनदानि सुरालयान् ।पिनषाणि च सैन्यानीत्येवं क्रुद्धा रणे ययौ ॥६१॥भ्रातरो विहिताः सर्वे सेनान्यश्च हतास्ततः ।युद्धं त्रिदिवसं सर्वं मन्नाशार्थं व्यजायत ॥६२॥नाशो वा विजयो वा स्यान्न बलं स्वबलं विना ।पत्नीं प्राप्स्ये ललितां तां यद्वा नेष्यामि तत्क्षयम् ॥६३॥वदन् मुहुर्मुहुः कृत्वा धुन्वानः करवालिकाम् ।कालाग्निरिव संक्रुद्धः स्त्रीसैन्याग्रे स्थितोऽभवत् ॥६४॥वीक्ष्य तं ललितालक्ष्मीस्तेन योद्धुं प्रचक्रमे ।चक्रराजरथस्तस्याः शुशुभे प्रचचाल तम् ॥६५॥चतुर्वेदमहाचक्रपुरुषार्थमहाभयः ॥आनन्दध्वजसंशोभी नवभूमिसमन्वितः ॥६६॥नवभूमिस्थदेवीभिराकृष्टगुरुधन्विभिः ।परार्धाऽधिकसंख्यातदिव्यादिव्यसहायिभिः ॥६७॥दशयोजनमुन्नद्धश्चतुर्योजनविस्तृतः ।अन्यासामपि देवीनां वाहनानि परार्द्धशः ॥६८॥नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा ।गजभेरुण्डशरभव्याघ्रवातमृगादयः ॥६९॥जगर्जुर्भण्डनाशार्थं दिव्यरूपधराः सदा ।देवदुन्दुभयो नेदुः पतिताः पुष्पवृष्टयः ॥७०॥निमित्तानि प्रशस्तानि लक्ष्मीसैन्ये तदाऽभवन् ।तदा प्रववृते युद्धं सेनयोरुभयोरपि॥७१॥हन्यन्ते दानवसैन्यान्यजस्रं योषितां गणैः ।भूर्जाता तु तदा नृत्यद्दैत्यकबन्धपूरिता ॥७२।दैत्यकेशसहस्राढ्यशिरोभिर्नारिकेलिता ।चक्रकृत्तकरिग्रामा शक्तिध्वस्ताऽसुराशया ॥७३॥दैत्यवीराननव्याप्ता रक्तवाहातिकर्दमा ।यां प्रपश्यामि मृत्योश्च त्रासोऽपि समजायत ॥७४॥चतुर्थे दिवसे दैत्यसैन्यनाशोऽभवत्ततः ।ललिताश्रीसमं युद्धं भण्डासुरस्य चाऽभवत् ॥७५॥अस्त्रप्रत्यस्त्रसंक्षोभैर्विशिखैः प्राणहारिभिः ।महालक्ष्मीप्रमुक्तो वै बाणश्चैको दशाऽभवन् ॥७६॥दशधा शतधा व्योम्नि दैत्यसैन्ये सहस्रधा ।दैत्यांगसंगे सम्प्राप्ता लक्षसंख्याः शरास्तदा ॥७७॥भण्डमर्मप्रभेदान् सा बाणैः सम्यक् चकार ह ।भण्डो मुमोचाऽन्धतामिस्राख्यमस्त्रं भयंकरम् ॥७८।महाभास्करबाणेन महालक्ष्मीर्नुनोद तत् ।पाखण्डास्त्रं भण्डदैत्यो रणे प्रमुमुचे ततः ॥७९॥गायत्र्यस्त्रं मुमोचेयं लक्ष्मीर्नुनोद तत्ततः ।अन्धास्त्रमसृजद् भण्डः सर्वदृष्टिविघातकम् ॥८०॥महालक्ष्मीर्मुमोचाऽथ चाक्षुष्मतमहास्त्रकम् ।अशक्त्यस्त्रं ततो भण्डो मुमोच योषितां गणे ॥८१॥महाशक्त्यस्त्रमुग्रं च लक्ष्मीर्मुमोच तत्प्रति ।अन्तकाऽस्त्रं भण्डदैत्यो मुमोच सर्वनाशकम् ॥८२॥महामृत्युञ्जयाऽस्त्रं तु लक्ष्मीर्मुमोच तत्प्रति ।सर्वाधीतिविनाशास्त्रं भण्डो मुमोच वै तदा ॥८३॥धारणास्त्रं मुमोचेयं लक्ष्मीर्मेधाप्रदं निजाः ।भण्डस्ततो भयास्त्रं च कमला चाभयास्त्रकम् ॥८४॥भण्डो महाऽऽमयास्त्रं च लक्ष्मीर्निरामयास्त्रकम् ।भण्डश्चायुर्नाशनास्त्रं लक्ष्मिर्योगास्त्रमित्यथ ॥८९॥आसुरास्त्रं भण्डकश्च लक्ष्मीर्दुर्गास्त्रकं तदा ।आसुराणां तु लक्षाणां दुर्गानां लक्षयोगिनाम् ॥८६॥सैन्यानि चाभवन् व्योम्नि युयुधुर्बहुवेगतः ।शूलं चक्रं गदां शक्तिं चापं खड्गं शरान् पविम् ॥८७॥दण्डं पाशं गोलकाँश्च धृत्वा धृत्वा परस्परम् ।मारयामासुरत्यर्थं देवीषु न स्पृशन्ति वै ॥८८॥आसुरास्तत्र हन्यन्ते देवीगणैः समन्ततः ।सिंहवाहनमारुह्य दुर्गा युद्धं तथाऽकरोत् ॥८९॥नारायणी महालक्ष्मीर्विजयं संलभेत वै ।अर्णवास्त्रं ततो भण्डो मुमोच योषितां गणे ॥९०॥महालक्ष्मीः शोषणास्त्रं मुमोच त्वम्बरे ततः ।अथ क्रुद्धो भण्डदैत्यो हुंकारमातनोत्ततः ॥९१॥जाताः सहस्रशो दैत्या दुर्गास्ताननयद् यमम् ।अथ भण्डो हरिण्यस्रं लक्ष्मीः सिंहास्त्रमातनोत् ॥९२॥बल्यस्त्रं चासृजद् भण्डो लक्ष्मीर्वामनमस्त्रकम् ।हैहयास्त्रं भण्डकश्च पर्शुरामास्त्रमीश्वरी ॥९३॥रावणास्त्रं ततो भण्डो लक्ष्मीः रामास्त्रमासृजत् ।राजास्त्रं व्यातनोद् भण्डो लक्ष्मीः कृष्णास्त्रमातनोत् ॥९४॥ब्रह्माण्डास्त्रं भण्डदैत्यो व्यूहास्त्रं कमलाऽसृजत् ।कल्पस्त्रं भण्डदैत्यश्च लक्ष्मीः कल्क्यस्त्रमातनोत् ॥९५॥दशावताराः सर्वे ते कृत्वा चासुरनाशनम् ।ललितां श्रीं नमस्कृत्य बद्धांजलिपुटाः स्थिताः ॥९६॥महालक्ष्म्या निदेशेन वैकुण्ठाय च ते ययुः ।मोहास्त्रं चाऽसृजद् भण्डो लक्ष्मीर्ज्ञानास्त्रमातनोत् ॥९७॥लक्ष्मीर्नारायणास्त्रेण दैत्यान् भस्मीचकार ह ।चमूनाथान् समस्ताँश्च भस्मीचकार वह्निना ॥९८॥भण्डं भस्मीचकारापि परब्रह्मास्त्रतेजसा ।नगरं भस्मसाच्चक्रे तलमात्रमशिष्यत ॥९९॥भण्डो मृतोऽथ त्रैलोक्यं जातं सुहर्षनादितम् ।पठनाच्छ्रवणादस्य दैत्यभीतिर्विनश्यति ॥१००॥शत्रुभीतिः कदनानि विनश्यन्ति न संशयः ।भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च भजन्त्यपि ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महालक्ष्म्याः सैन्यैर्भण्डासुरसैन्यानां नाशे कृते भण्डासुरनाशोऽपीतिनिरूपणनामा सप्तदशाधिकशततमोऽध्यायः ॥११७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP