संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६६ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-अमृतं च विषं चेति द्वयं लोके प्रवर्तते ।सुधाऽमृतं गरं विषं रस्यं तद्द्वयमेव हि ॥१॥अरस्य तद्भवेद्वा न भवेच्चेत् कीदृशं हरे ।यज् ज्ञात्वाऽयं लोकजनो विरज्येत दधीत वा ॥२॥श्रीपुरुषोत्तम उवाच-समुद्रमथने पूर्वं समुत्पन्नं महाविषम् ।पपौ श्रीशंकरो योगी तमस्तुवन् महर्षयः ॥३॥अत्युग्रं कालकूटाख्यं संहृतं भगवन् हर ।त्वया सुरक्षितं सर्वं प्रतिष्ठितं कृपानिधे ॥४॥समर्थोऽसि महेशोऽसि रक्षकोऽसि विषादन ।सदा जय सुयोगिँस्त्वं ब्रह्माऽसि संगवर्जितः ॥५॥श्रुत्वैवं प्रहसन् शंभुर्विषं प्राहेतरन्मुनीन् ।न विषं कालकूटाख्यं संसारो विषमुल्बणम् ॥६॥संहरेत् तद्विषं यस्तु स समर्थो ह्यनेन किम् ।योगी सर्वप्रयत्नेन संहरेन्मायिकं विषम् ॥७॥मायिकस्य ये विषस्य हर्तारस्ते हि शंकरा ।शं कुर्वन्ति गुरवो वा देवाः सन्तोऽतिनिर्मलाः ॥८॥योगिनो वा महात्मानः शान्तिदा मोक्षदा हि ते ।संसारविषहर्तारः समर्थास्ते हि साधवः ॥९॥सनकाद्याः साधवस्ते शुकाद्या योगिनस्तथा ।सत्यश्च ब्रह्मचारिण्यो वासनाक्षयकारिकाः ॥१०॥संसारोऽयं द्विविधोऽस्ति मूर्तश्चाऽमूर्त इत्यपि ।मूर्तो वै दम्पतीरूपोऽमूर्तस्तु वासनात्मकः ॥११॥मिथ्याज्ञानं वासनायाः कारणं वासनाबलात् ।गार्हस्थ्यं विषयाणां च भोगवत्त्वं सरागिणाम् ॥१२॥रागे द्वेषः सखारूपः साहाय्यदोऽप्यनिष्टके ।एतौ द्वौ भवतो दोषौ प्रवर्तकौ निवर्तकौ ॥१३॥सगुणा सा प्रवृत्तिश्च निवृत्तिश्च क्रियाकरी ।सक्रियस्य भवेदाद्यक्षणसम्बन्ध उद्भवः ॥१४॥वृद्धिः पुष्टिर्दृढता च ह्रासः क्षयो लयादिकम् ।पुनः कर्मानुसारेणोद्भवो लयान्तको भवेत् ॥१५॥एवं संसारचक्रेऽत्रे भ्रमन्नपि विवेकवान् ।रागद्वेषादिरहितो मुक्तो भवति बन्धनात् ॥१६॥गराणि सन्ति बहूनि वदामि शृणु पद्मजे ।मिष्टं गरं कुटुम्बस्याऽभिमानं जन्मतो भवेत् ॥१७॥माता पिता सखा बन्धुश्चाभिमानं महद् गरम् ।गृहं मे वाटिका मे च क्षेत्रं मे पेटिका च मे ॥१८॥धनं मे च सुवर्णं मेऽम्बरं मे गरमुत्तमम् ।मान्यं मम वचो नित्य मदुक्तं सत्यमेव तत् ॥१९॥अग्र्यं वाक्यं चाऽप्रधृष्यं ममैव मान्यमेव तत् ।विजयो मे निश्चयो मे मान्यो नान्यस्य कस्यचित् ॥२०॥निर्णीतं च मया यत् तत् स्वीकार्यं सर्वथा जनैः ।गरं चैतन्महत्प्रोक्तं यन्मदेन प्रपीड्यते ॥२१॥बलं विषं परं प्रोक्तं क्लेशद युद्धकृद्धि तत् ।कलाज्ञानं गरं चापि सम्पद्गरं नु नाशकृत् ॥२२॥विषयास्तु गरं लक्ष्मि महानिरयपातिनः ।विषया विषमेवाऽस्ति यदावेशोऽप्रतिक्रियः ॥२३॥तृष्णा विषं परं लक्ष्मि रागो विषं महत्तरम् ।द्वेषो विषं वह्निरूपं चिन्ता गरं तु नाशकृत् ॥२४॥कामो गरं समस्तानां विषाणां विषमुल्बणम् ।निरयोत्थं निरयाणां प्रदं निरयवासदम् ॥२५॥मोहो विषं तथाऽनिष्टकरं दुःखप्रदं महत्॥मुग्धः कृत्यं न जानाति मोहदग्धो विनश्यति ॥२६॥सत्ता विषं परं चास्ते राज्यं विषं तु मारकम् ।जिह्वाशिश्नोदरगृध्ना विषं कालप्रकूटकम् ॥२७॥नास्तिकत्वं गुरोः पित्रोरवमानं विषं गुरु ।हन्यते येन सहसाऽधोगतिं नाशमेति च ॥२८॥शापो विषं दुःखितानां सतामस्निग्धता विषम् ।अधर्मश्च विषं स्वर्गदाहकं भूतिनाशकम् ॥२९॥निन्दा चौर्यं बलात्कारो विषाणीमानि मूलतः ।निकृन्तनानि कर्तुर्वै विनाशकानि चाऽचिरात् ॥३०॥मत्सरोऽसहनं चेर्ष्या नेत्रं हृन्मानसं तु तैः ।निजं निजं तु भवनं कृतं च दह्यते पुमान् ॥३१॥एवं विषैरावृतोऽयं चाविद्यापरिवेष्टितः ।नारकी सर्वथा चास्ते विषमेतद् दुरन्तकम् ॥३१॥उद्भिज्जः स्वेदजश्चापि तथाऽण्डजो जरायुजः ।त्यागाभावाद् भ्रमन्त्येवाऽज्ञानवासनकर्मभिः ॥३३॥षाट्कौशिकं सगरं च भजत्येव कलेवरम् ।प्रथमं पितृतो जन्म बीजदानात्मकं मतम् ॥३४॥गर्भाज्जन्म द्वितीयं च बालरूपं तु तन्मतम् ।तृतीयं ब्रह्मसूत्राच्च विवाहाश्च चतुर्थकम् ॥३४१॥पञ्चमं सर्वसन्न्यासात् षष्ठं तु मरणोत्तरम् ।सप्तमं मोक्षभाक्त्वं च ततो जन्म न विद्यते ॥३६॥बैजिकं पाशवं चापि मानवं कर्मबन्धनम् ।आच्युतं प्रैतकं चाप्यपुनर्भवं हि सप्तमम् ॥३७॥एवमेतानि जन्मानि विषाक्तानि भवन्ति हि ।बीजमात्रस्य चाधानं बैजिकं जन्म चोच्यते ॥३८॥पशुवद् भ्रूणजन्माप्तं पाशवं बालजन्म तत् ।मनुं मन्त्रं च गायत्रीं यज्ञोपवीतमित्यपि ॥३९॥मानवाँश्च वृषानेति मानवं जन्म चेति तत् ।विवाहः कर्मबन्धश्च कारागारसमा स्थितिः ॥४०॥कर्मबन्धनरूपं तज्जन्म दाम्पत्यरूपकम् ।सर्वं त्यक्त्वा विरागः सन् सन्यासं लभते तु यः ॥४१॥तस्य जन्माऽऽच्युतं प्रोक्तं हरेः शरणयायिनः ।देहत्यागे प्रेतभावे सूक्ष्मशरीरयोगकृत् ॥४२॥धर्माधर्मयुतो देही भ्रमत्येवेति जन्म तत् ।प्रैतकं प्रोच्यते पुनर्भवार्थं यत्र तत्र वा ॥४३॥मोक्षार्थं निर्गुणां भक्तिं कृत्वा त्यक्त्वा ऋणानि च ।छित्वा बन्धान् संविलीय विनाश्य गरलानि च ॥४४॥यः प्रयाति हरेर्धामाऽपुनर्भवं हि जन्म तत् ।अनुत्तरविषादः स महामृताद एव सः ॥४५॥सप्तमं जन्म चासाद्य मरणं नाऽस्य विद्यते ।एवं लक्ष्मि षड्विषाणि विशालानि भवन्ति वै ॥४६॥क्रूराणि दाहकान्येव पाचकानि समन्ततः ।गर्भे दुःखान्यनेकानि योनिमार्गेऽपि वै तथा ॥४७॥भूतले चापि शय्यायां कौमारे यौवने ततः ।भोगे योगे व्यवहारे वार्धके पारवश्यगे ॥४८॥अशक्तौ निर्धने रोगे मरणे प्रेतके तथा ।याम्ये खनौ विषाक्तानि दुःखान्येव विवेकिनः ॥४९॥तिर्यक्षु मानवे याक्षे पैशाचे राक्षसे सुरे ।पितृगणे भोगवत्सु गान्धर्वे चाप्सरोगणे ॥५०॥ऐन्द्रे ब्राह्मे प्राकृते वैराजे प्रजापतिगृहे ।पौरुषे कालकवले दुःखं विषं महत्तमम् ॥५१॥पार्थिवं च तथाऽऽप्यं च तैजसं चापि मारुतम् ।व्यौमं च मानसं चापि बौद्धं तथाऽऽभिमानिकम् ॥५२॥प्राकृतं च विषं दुःखं चादौ मध्ये तथाऽन्तके ।वर्तमानानि दुःखानि भविष्यन्ति गराणि च ॥५३॥देशे काले क्रियायां च दुःखानि विविधानि च ।छिन्नमूलतरुर्यद्वत् त्ववशः पतति क्षितौ ॥५४॥पुण्यवृक्षक्षयाद् देवा गां पतन्ति परा अपि ।पापजन्यं तथा दुःखं प्रसह्य दुःखमित्यपि ॥५५॥नारकाणां नरकेऽपि राज्ञां चाऽप्राप्य मानसम् ।विहिताऽकरणाच्चापि यतीनां वर्णिनां तथा ॥५६॥संसारभयमग्नानां दुःखं विरागिणामपि ।कीटपक्षिमृगाणां च पशूनां गजवाजिनाम् ॥५७॥गरं दुःखं दुःखवच्चाऽत्यजतो दुःखमेव तत् ।वैमानिकानां सर्वेषां दुःखं कल्पाधिकारिणाम् ॥५८॥स्थानाभिमानिनां चापि मन्वादीनां विषं स्थलम् ।देवानां चापि दैत्यानामन्योन्यविजिगीषया ॥५९॥रक्षसां च नृपाणां च विषं दुःखं जगत्त्रये ।श्रमार्थमाश्रमाः सन्ति विश्रामो विद्यया भवेत् ॥६०॥विद्या दुःखमपात्रे च तस्मात् सत्पात्रतां लभेत् ।साधुसंगेन सततं जायते सत्यपात्रता ॥६१॥तया धार्यं भवेद् ब्रह्म कृपयाऽपि सतां रमे ।नेत्रे धार्यं परब्रह्म कर्णे धार्यो हरिस्तथा ॥६२॥कृष्णो धार्यस्त्वचां योगे विष्णुर्धार्यो रसाश्रये ।घ्राणे धार्यः परमेशः पदे धार्यः प्रभुः स्वयम् ।पायौ लिङ्गे चान्तरात्मा धार्यो व्यापक ईश्वरः ॥६३॥धार्यो मनसि मायेशो हृदि धार्यो नरायणः ।बुद्धौ धार्यो माधवश्च ऋषीकेशस्तु चिन्तने ॥६४॥पृथ्व्यां धार्यः परमात्मा जले धार्यो जलेशयः ।धार्यस्तेजसि धामेशो वायौ धार्यो विराट्पतिः ॥६५॥महाविष्णुश्चाऽम्बरे च धार्योऽहं तु निजात्मनि ।द्रष्टव्योऽहं ततो लक्ष्मि श्रोतव्योऽहं तथा हरिः ॥६६॥घ्रातव्यश्च रसितव्यः स्पर्शितव्योऽहमेव च ।मन्तव्यश्चापि बोद्धव्योऽहंकर्तव्योऽप्यहं हरिः ॥६७॥चेतयितव्य एवाऽहं वक्तव्योऽहं तथा प्रभुः ।आदातव्यश्च गन्तव्यः सर्गायितव्य इत्यहम् ॥६८॥आनन्दयितव्य एवाऽहं तत्त्वे तत्त्वे स्थितोऽस्म्यहम् ।प्राणे प्रयाणे याने च पाने स्थैर्ये स्थितोऽस्म्यहम् ॥६९॥सर्वात्मानं चरन्तं मां समुपासीत चात्मवान् ।अन्नस्थं चापि वारिस्थं प्राणस्थं मानसे स्थितम् ॥७०॥विज्ञानस्थमुपासीत मां हरिं पुरुषोत्तमम् ।इन्द्रियस्थं च मात्रास्थं कालस्थं जीवसंस्थितम् ॥७१॥सर्वस्थं मामुपासीत संसारविषछित्तये ।अमृतं चाक्षरेशं मां परमात्मानमान्तरम् ॥७२॥प्रसन्नं हरिमीशेशं सहस्थं सहजं प्रभुम् ।अज्ञानं तु मलं क्ष्वेडं त्यक्त्वा मां ज्ञानगोचरम् ॥७३॥चाऽपरोक्षं विदित्वैवाऽमृतत्वं त्वाप्नुयाद् बृहत् ।ज्ञानमेवाऽभ्यसेन्नित्यं मद्गोचरं प्रधानतः ॥७४॥ज्ञानेनैकेन भायुक्तो भक्तिस्नेहानुयोजितः ।त्यक्तसंगविषो मुक्तो मामुपैति न संशयः ॥७५॥इह लोके परे वापि कर्तव्यं नाऽस्य विद्यते ।जीवन्मुक्तो यतस्तस्य वासनाऽपि लयंगता ॥७६॥ज्ञानभक्तिरतश्चाऽयं ब्रह्मवित्परमार्थतः ।एवं स मुक्तः संसाराद् दुःखविषादिवर्जितः ॥७७॥गुर्वाश्रये स्थितो याति धामाऽक्षरं परात्मनः ।योगिनः सर्वपापानि जीर्यन्ते गरलानि च ॥७८॥क्रीडन्नपि न लिप्येत गरैर्नानाविधैरपि ।ध्यानं निर्विषमेवाऽऽस्ते श्रीहरेः सर्वदा रमे ॥७९॥ब्रह्मशीलो मम ध्यानं कुर्याद् गुरोः प्रसंगमात् ।मयि तत्तानताभावं प्रान्ते मल्लीनतामपि ॥८०॥विन्दत्येव हि मद्भक्तो गरं त्वस्याऽमृतं भवेत् ।एवं गराणि सर्वाणि चामृतान्यस्य भान्ति ह ॥८१॥भूतानि सूक्ष्ममात्राणि विषया विषयोद्भवाः ।अगुणाश्च गुणाश्चापि क्रिया गराणि यानि तु ॥८२॥तानि सर्वाण्यमृतानि कल्पितानि परे मयि ।एवं वै विषपो भक्तः समर्थो नेतरः क्वचित्। ॥८३॥पृथ्वीं जलं च तेजश्च धर्तुं शक्तो ह्ययं भवेत् ।वायुं व्योम तथा धर्तुं चाष्टावृत्तीस्तथेश्वरान् ॥८४॥धर्तुं शक्तो भवेच्चाऽयं प्रकृतिं पुरुषं ह्यपि ।कालं धर्तुं समर्थश्च भवेत् तदात्मको मम ॥८५॥अक्षरात्मा भवेच्चापि मुक्तान् धर्तुं प्रभुर्ह्यपि ।यथाऽहं तु तथा सोऽयं प्रारंभावननाशनम् ॥८६॥कर्तुं जायेत शक्तो मदात्मकैश्वरभाववान् ।पारमेशपदं प्राप्य सर्वं कर्तुं प्रभुर्भवेत् ॥८७॥विषं विद्यादनुभूत्या परिहारं विचिन्तयेत् ।अविषं वा चोग्रविषं भुक्त्वा विषं विनाशयेत् ॥८८॥अविषाः साधवः प्रोक्ता उग्रविषो हरिस्त्वहम् ।साधुसंगान्मम पानान्निर्विषो जायते विषी ॥८९॥अविषस्य मम स्नेहाद्भक्त्या मम प्रसादनम् ।प्रसादेन द्रुतं मुक्तिः प्रतिज्ञैषा रमे मम ॥९०॥गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा ।वृद्धो वा मुच्यते देही प्रसादात्परमात्मनः ॥९१॥अण्डजश्चोद्भिज्ज उत स्वेदजोऽपि प्रमुच्यते ।जराजो वा नरो नारी मुच्यते मे प्रसादवान् ॥९२॥ममैवांशा देहिनोऽपि मम योगविशेषिणः ।मम भावेन सम्पन्नाः प्रयान्ति परमां गतिम् ॥९३॥मया निभालिता भक्ता ममांऽशा मत्पदाश्रिताः ।कृपापात्राणि तरन्ति संसारविषसागरम् ॥९४॥यथा तैलं जलयोगे तरत्येवोर्ध्वमुद्गतम् ।तथा देही कृष्णयोगे तरत्येवोर्ध्वमुद्गतः ॥९५॥यथा वह्निः स्वभावेन यात्यूर्ध्वमेधितो ह्यति ।तथा देही सुभक्त्या मे यात्यूर्ध्वं वर्धितो ह्यति ॥९६॥यथा योगी महैश्वर्यैर्ब्रह्मद्वारं प्रयाति वै ।तथा सोऽयं ममैश्वर्यैः परब्रह्म प्रयाति हि ॥९७॥यथा गोपी ह्यजं प्राप्य गायत्रीत्वमुपागमत् ।तथा गोपो हरिं प्राप्य गोलोकं समवाप्नुयात् ॥९८॥यथा लक्ष्मीर्हरिं प्राप्य हृदये वासमाप सा ।तथा भक्तो हरिं प्राप्याऽक्षरे वासमवाप्नुयात् ॥९९॥यथा माया हरिं प्राप्य हरौ सा प्रविलीयते ।तथा भक्तो हरिं प्राप्य हरौ सम्प्रविलीयते ॥१००॥यथा पत्नी कान्तलग्ना पृथक्त्वे नैव वेत्ति सः ।तथा भक्तो हरौ लग्नो भेदं नैजं न वेत्ति च ॥१०१॥यथा तु शर्करा दुग्धे रसतामुपयाति च ।तथा कृष्णे कृष्णकर्मा भक्तौ दुग्धत्वमृच्छति ॥१०२॥यथा स्निग्धं मानसं वै स्नेहपात्रे मिलत्यपि ।तथा स्निग्धो मम भक्तो मय्यपृथङ् मिलत्यपि ॥१०३॥यथाऽऽनन्दः प्रमोदश्च सुखान्यात्मनि चाऽपृथक् ।तथा भक्तो दिव्यरूपः परमात्मनि चाऽपृथक् ॥१०४॥इत्येवं ते मया लक्ष्मि विषहारत्वमीरितम् ।पठनाच्छ्रवणादस्य विषं सर्वं व्यपोहति ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने संसारविषाणां तद्धरणोपायानां च निरूपणनामा षट्षष्ट्यधिकशततमोऽध्यायः ॥१६६॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP