संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणुनारायणीश्रि त्वं चर्मकारस्य शोभनाम् ।कथां नाम्ना मंगलस्य मम भक्तिसमन्विताम् ॥१॥भक्तो मंगलदेवाख्यश्चर्मकारोऽतिसेवकः ।अभवद् द्रोणिकापुर्यां कुटुम्बी चर्मकार्यकृत् ॥२॥महिषीणां गवां सारंगाणां केसरिणां तथा ।व्याघ्राणां करिणां चान्यजातीनां पशुवर्ष्मणाम् ॥३॥मृतानां चर्मणां शुद्धिं संस्कारैः प्रकरोति सः ।विक्रीणाति सुमूल्यैश्च चर्माणि संस्कृतानि वै ॥४॥चर्मणां च पवित्राणामासनानि विधाय तु ।मृगाणां च मृगेन्द्राणां साधुभ्यः स ददात्यपि ॥५॥साधुसमागमं नित्यं गत्वा साधुमठेऽन्वहम् ।करोति चत्वरादीनां मार्जनं गोपुरादिषु ॥६॥सतां पादरजो धृत्वा मस्तके हृदये मुखे ।देहे स्नात्वा रजोभिश्च धूलीष्वपि लुठत्यपि ॥७॥अहो भाग्यं सतां पुण्यरजसा स्नामि चर्मकृत् ।सतां प्रसन्नतां लब्ध्वा प्रयास्यामि परं पदम् ॥८॥एवं वदन् महिमानं पादजलं पिबत्यपि ।सतामुच्छिष्टमन्नं च भुंक्ते पत्रावलिस्थितम् ॥९॥अशुद्धश्चर्मकृद्देहः शुद्धः प्रसादतः सताम् ।सर्वपापानि नष्टानि चर्मकृत्त्वं गतं मम ॥१०॥अहो सन्तः अहो कृष्णः अहो जन्म ममाऽत्र च ।नीचजातावधिकोहं भाग्यवान् सेवयाऽस्मि वै ॥११॥एवं जानन् महिमानं कृष्ण कृष्ण स्मरत्यपि ।चर्मसु श्रीकृष्णनारायणनाम लिखत्यपि ॥१२॥ददाति दाने साधुभ्यः श्रेयः स्वं चार्थयत्यपि ।चर्मजन्योपकरणान्यन्यान्यपि विधाय च ॥१३॥विक्रीणाति लिखित्वा श्रीकृष्णनारायणाभिधाम् ।गृहांगणे तोरणे चालिखत् कृष्णनरायणम् ॥१४॥सर्वं कृष्णमयं तस्य भक्तस्य वर्तते रमे ।आपणोऽपि कृतस्तेन कृष्णनारायणापणः ॥१५॥चित्रितश्चाभितो भित्तिद्वारतोरणभूमिषु ।राधाकृष्ण हरे लक्ष्मीनारायण रमापते ॥१६॥वल्लभ प्रभो कमलापते श्रीकंभराजने ।गोपालबालक श्रीमन्नारायण परेश्वर ॥१७॥भगवन्नघहन् पुण्यं चावहन् चान्तरे स्थित ।एवं नामभिः सर्वत्र तथा च प्रतिमादिभिः ॥१८॥चित्रितश्चापणः सर्वो गृहं च चित्रितं तथा ।एतादृशोऽयं भक्तो मे स्नात्वा पूजां करोति मे ॥१९॥समर्प्य धूपदीपादि नैवेद्यं फलमित्यपि ।ताम्बूलं जलमित्यादि परिहारं करोति च ॥२०॥भुक्त्वा प्रसादजं चान्नं तत उद्यममेति हि ।कर्मचारास्तस्य भृत्याः सर्वेऽपि पूजनं मम ॥२१॥कृत्वा कर्मसमारम्भं विदधत्यनिशं रमे ।रात्रौ संभूय च कथां कीर्तनं रचयन्त्यपि ॥२२॥गायन्ति मम गाथाश्च मोदन्ते च यदुत्सवैः ।यदि व्रताहो भवति जाग्रत्याप्रातरेव च ॥२३॥प्रातः कुर्वन्ति मिलिता उद्यापनं व्रतस्य ते ।भोजयन्ति पूजयन्ति भक्तान् चर्मकरान् बहून् ॥२४॥अन्यानपि समायातान् सत्कारयन्ति वस्तुभिः ।साधवो ये तथायोग्या अन्ये वा नगरे निजे ॥२५॥य आयान्ति च तेभ्यस्ते पादत्राणे ददत्यपि ।एवं वै बहुधा सेवां कुर्वन्ति भक्तिसंविदः ॥२६॥प्रसन्नाः साधवश्चैषां भवन्त्याशीःप्रदा यथा ।भवन्तु सुखिनो भक्ता भक्तौ निर्विघ्नसत्फलाः ॥२७॥चिरञ्जीवाः पावनाश्च सर्वविपद्विवर्जिताः ।सतीनां च सतां सन्तु सेवकाः पुण्यशालिनः ॥२८॥एवमाशीर्वादमाप्ता भवन्ति कृपया सताम् ।अथैकदा पूर्णिमायामाश्विनस्य निशाकरे ॥२९॥सर्वकलाप्रपूर्णे चाम्बरं प्राप्ते महोत्सवम् ।चक्रुस्ते चर्मकारा वै कौमुद्यां प्रतिमां हरेः ॥३०॥अवस्थाप्यासने रम्ये ज्योत्स्नायां तां समर्चयन् ।चन्दनै रम्यवस्त्रैश्चाऽलंकारैः शोभनैस्तथा ॥३१॥नीराजनादिकं चक्रूरर्नैवेद्यं शर्करायुतान् ।दुग्धमग्नान् पृथुकाँश्च समार्पयत् हि विष्णवे३२॥महास्थाले प्रसादं च निधाय तमनावृतम् ।रासं भगवतश्चाग्रे खेलयामासुरुत्सुकाः ॥३३॥हस्तपादादितालैस्ते । कीर्तयामासुरच्युतम् ।प्रेममग्ना अभवँश्च भ्रमन्तो वलयाकृतिम् ॥३४॥चक्रयन्ति हरिं मां ते गायन्ति चोत्प्लवोत्सुकाः ।आलापयन्ति तालैश्च कूर्दन्ति विविधक्रमैः ॥३५॥निषद्योत्थाय च भ्रान्त्या विलुठ्योत्थाय यान्ति च ।तालं गृह्णन्ति ददति सन्मुखाः प्रतिसन्मुखाः ॥३६॥एवं प्रमोदमानन्दं भुञ्जते मम सेवकाः ।लक्ष्मि यदा निशामध्ये चान्द्रीदुग्धायिते स्थले ॥३७॥तदाऽहं भगवान् विष्णुर्लुब्धो भक्तिरसायने ।रासैकाग्रमना भूत्वा पश्यामि संशृणोमि च ॥३८॥मूर्तावेव यथा ते मां नैव पश्यन्ति तत्तथा ।प्रसन्नोऽहमभवँ च प्रेमबद्धः प्रियः प्रभुः ॥३९॥शृणु तत्राऽभवद् यद्वै गीतिलुब्धो भुजङ्गमः ।पार्श्ववासः समागत्य गृहकोणे स्थिरोऽभवत् ॥४०॥श्रुत्वा रासरसां गीतिं श्रुत्वा सतालकीर्तनम् ।घ्रात्वा स्थालस्थपृथुकान् सदुग्धशर्करान् शुभान् ॥४१॥दृष्ट्वा निर्जनसंस्थाँश्च गत्वा शनैः शनैश्च तान् ।आस्वाद्य जिह्वया दुग्धं पीत्वा मिष्टं पुनः पुनः ॥४२॥प्रसादपावितः शीघ्रं सभयः प्रययौ दरम् ।अथ रासान्तविश्रान्तिं प्राप्य प्रसादलब्धये ॥४३॥पंक्तिशश्चाऽभवन् सर्वे विषाक्तान् पृथुकान् जनाः ।पर्यवेषयन् भक्तास्तान् पंक्तौ सहस्रदेहिनाम् ॥४४॥पृथुकान् भुक्तवन्तस्ते माहात्म्यवेदिनो जनाः ।आबालवृद्धाः सर्वे ते कृष्णसर्पविषान्वितान् ॥४५॥सर्वे भुक्त्वा जलं पीत्वा सुप्ताः क्षणं तु चत्वरे ।विषमूर्छामगमँस्ते बहवो मरणोन्मुखाः ॥४६॥अभवन् विषदग्धास्ते देहभानविवर्जिताः ।अथाऽन्ये न्यूनगरलस्पर्शा विविदुरुल्बणम् ॥४७॥विषप्रकोपमन्येषां स्वेषां च मस्तकभ्रमम् ।पिशङ्गनीलहरितरङ्गाऽऽभा नेत्ररश्मिषु ॥४८॥ते परीक्षां प्रचक्रुर्वै शीघ्रं .च विविदुर्विषम् ।प्रकाशं जगदुः सर्वे पृथुका गरलान्विताः ॥४९॥भक्षिता वै ततो मूर्छा मृत्युदा समुपस्थिता ।सर्वे शीघ्रं घृतपानं चक्रुर्विषनिवृत्तये ॥५०॥वमनं सविषं तेषां जातं विषनिवर्तनम् ।अथापि बहवो भक्ता विषेण वै मृता इव ॥५१॥अभवँस्तान् जीवयितुं प्रार्थयन् मां परे जनाः ।रुरुदुर्बहवस्तत्र स्त्रीपुत्राः पतिबान्धवाः ॥५२॥सस्मरुर्मां परमेशं प्राणदं चान्तरस्थितम् ।तेषां विक्लवभावं च रोदनं भजनं व्रतम् ॥५३॥भक्तिं वीक्ष्य प्रसन्नोऽहं तूर्णमाविर्बभूव ह ।साधुरूपः कृतकुक्षिविषहौषधपेटिका ॥५४॥अतिष्ठं शोककर्तॄणां सन्निधौ वृत्तसंश्रवः ।तूर्णं वृत्तान्तमावेद्य जलमाधाय वै घटे ॥५५॥तत्रौषधरसं क्षिप्त्वाऽददां चाचमनीयकम् ।मूर्छितानां मृततुल्यावस्थानां सहसा मुखे ॥५६॥तालौ जलस्य स्पर्शेन गतमूर्छास्तदाऽभवन् ।अमृतास्तेऽभवँश्चापि लब्धाऽऽसुज्ञानसञ्चराः ॥५७॥उत्तस्थुर्द्राक् समस्ता वै भजन्तो निद्रिता यथा ।स्वस्थास्ते स्वप्नवत्तत्र ज्ञातवन्तो निजापदम् ॥५८॥विषं चामृततां प्राप्तं साधोरोषधिवारिणा ।अथ सर्वे मिलित्वा ते साधोर्ददुर्हि भोजनम् ॥५९॥पानं रम्यं चासनं च विश्रान्त्यर्थं निशोत्तरे ।पादसंवाहनं तस्य चक्रुस्ते जीविता जनाः ॥६०॥सेवामग्ना जनास्ते तु पप्रच्छुः साधुमेव तम् ।भगवन्निष्ठताऽऽप्तानां कथं विघ्नं प्रजायते ॥६१॥तमुवाच तदा साधुर्विघ्नं कृष्णेच्छया खलु ।परीक्षार्थं जायते वै न तु विघ्नं हि तन्मतम् ॥६२॥कृष्णप्रसन्नतादार्ढ्यं भक्तिदार्ढ्यं भवेत्ततः ।सर्वविघ्नविनाशं च साक्षादेत्य करोति सः ॥६३॥आपत्काले तु भक्तानां स्मरणं श्रीहरेर्भवेत् ।चमत्कारे दर्शिते तु भक्तिदार्ढ्यं भवेद् बहु ॥६४॥अहोऽयं भगवानस्ति सर्वदुःखनिवारकः ।तस्य सेवा प्रकर्तव्या मोक्षदा सुखदा शुभा ॥६५॥एवं भवन्ति संकल्पा ऐश्वर्यवीक्षणे सदा ।अथाऽनैश्वर्यवीक्षायां नृनाट्यमनुकुर्वति ॥६६॥कृष्णे खेदो भवेदेव न चायं भगवानिति ।बहुकालं मया सेवा कृता सा विफला त्विह ॥६७॥यथाऽहं निर्बलश्चास्म्यसमर्थः पारतान्त्रिकः ।तथाऽयं निर्बलश्चास्ते ह्यशक्तः पारतान्त्रिकः ॥६८॥मयि कामस्तथा क्रोधो लोभो मोहो भयं यथा ।तथा कृष्णे कामलोभक्रोधमोहभयानि वै ॥६९॥सन्ति तस्मान्न वै चाऽयं भगवान् किन्तु मानवः ।एवं प्राकृतमतिमान् कृष्णे प्राकृतमर्त्यधीः ॥७०॥दोषान् स्ववत् कल्पयति सन्नष्टदिव्यभावनः ।तस्माद्धरौ सदा भाव्यं दिव्यभावप्रभाविणा ॥७१॥मन्तव्या पूर्णता स्वस्य न मे प्राप्यं हरिं विना ।न मे साध्यं परं किञ्चिच्छिष्यते हरिसाधनम् ॥७२॥अत्र वै मिलितः साक्षाद्धरिस्तत्रास्ति तत्पदम् ।ब्रह्मधामापि तत्रास्ति मुक्तास्तत्र वसन्ति च ॥७३॥अत्र हरौ विद्यमाने पृथ्व्यादि सर्वमुत्तमम् ।दिव्यमेव सभा दिव्या भक्ता दिव्या नराः स्त्रियः ॥७४॥तेषां योगे ममानन्दो वर्तते भगवन्मयः ।धन्योऽहं कृतकृत्योऽहं यदत्र वर्तते हरिः ॥७५॥साधुरूपो मूर्तिरूपो वर्तते भगवानिह ।एवं भक्तस्य संकल्पा जायन्ते चात्मवेदिनः ॥७६॥देवाश्चेशा अवतारा मुक्ता यत्सम्पदा सुखाः ।स एव भगवानत्र राजते पुरुषोत्तमः ॥७७॥यदक्षरं व्यापकं च ब्रह्मधाम परात्परम् ।तत्परो भगवान् कृष्णनारायणस्त्विहाऽऽगतः ॥७८॥मिलितोऽत्र महाराजो मद्भाग्यान्तो न विद्यते ।तस्य कृष्णस्य योगेन जीवनं नः पुनः खलु ॥७९॥दिव्ये नित्ये परे धाम्नि यः श्रीकृष्णो विराजते ।निजतुल्यैर्महामुक्तैरसंख्यातैरुपासितः ॥८०॥तेषां वै दिव्यमुक्तानां श्रीकृष्णस्य प्रतापतः ।एकैकरोम्णि तेजोऽस्ति कोटिकोट्यर्कसदृशम् ॥८१॥तादृशानामसंख्यानां मुक्तानां तेज उज्ज्वलम् ।समस्तं लीयते त्वेकरोम्णि तादृक् तदक्षरम् ॥८२॥ब्रह्मधामाऽस्ति दिव्यं वै सच्चिदानन्दलक्षणम् ।तथाविधानि धामानि धाम्नां तेजांसि यान्यपि ॥८३॥समस्तानि कृष्णनारायणैकरोम्णि लीनताम् ।यान्तीति तादृशी भूतिर्वर्तते परमात्मनः ॥८४॥तादृशो भगवान् कृष्णः समर्थोऽति महान् हरिः ।कृपावशो देहिनां तु श्रेयसे सर्वशक्तियुक् ॥८५॥धृतदिव्यनराकारो नरवन्नृषु जायते ।तिरोधाय महैश्वर्याण्यपि नराकृतिरस्ति सः ॥८६॥तस्य भक्त्या समस्तानि दुःखानि यान्ति लीनताम् ।कालस्य कर्मणां मायायाश्च तस्य न बन्धनम् ॥८७॥सेवया श्रीहरेस्तस्य रक्षणं जायते सदा ।यथा मया सता रक्षा भवतां विहिताऽत्र वै ॥८८॥तथा कृष्णः कारयति साधुद्वारा निजाऽवनम् ।भक्ता जीवाश्चेतनाश्च माया तत्त्वानि यानि च ॥८९॥सर्वमस्य शरीरं वै व्याप्यं चाधीनमित्यपि ।वश्यं चापि भवत्येव सर्वमस्य महात्मनः ॥९०॥तेषु सर्वेषु तत्त्वेषु मुक्ताऽक्षरेश्वरेष्वपि ।व्यापको वर्तते कृष्णो मायाजीवादिकेष्वपि ॥९१॥सर्वेषां प्रेरकः कृष्णः स्वतन्त्रश्च नियामकः ।सवैश्वर्ययुतः सर्वशेषी कल्याणकृत्प्रभुः ॥९२॥आविर्भूय क्षितौ न्राभो नृनाट्यं विदधाति सः ।सेवध्वं तं हरिं ये वै दिव्यभावा नराः स्त्रियः ॥९३॥ते सर्वे श्रीहरेः सर्वमैश्वर्यं प्राप्नुवन्ति ह ।ब्रह्मरूपा ब्रह्मभावाः सप्रेमसेविनो हरेः ॥९४॥व्रह्मलोकेऽपि तद्रूपाः सेवन्ते परमेश्वरम् ।तस्मादत्र हरिः सेव्यः साधुरूपोऽतिरक्षकः ॥९५॥साधौ नारायणश्चास्ते भक्तेच्छापूरकः स्वयम् ।एवं मंगलदेवाद्या लक्ष्मि प्रोक्ता मया तदा ॥९६॥विविदुस्ते मयि कृष्णं मां कृष्णं केचिदित्यथ ।सिषेविरेऽतिभावेन साधुरूपं पुनः पुनः ॥९७॥सती मंगलदेवस्य पत्नी नाम्ना विभावरी ।सिषेवे मां पादसंवाहनाद्यैरतिभावुकी ॥९८॥अथाऽहं प्रार्थितस्तैश्च मोक्षार्थं वै पुनः पुनः ।तथाऽस्त्वेवाऽकथयं स्वां दिव्यामदर्शयं तनुम् ॥९९॥वीणायुक्तं समुकुटं श्यामसुन्दरविग्रहम् ।कोटिमन्मथरूपातिरूपं किशोरमुज्ज्वलम् ॥१००॥राधादिभिर्वन्दितं च ब्रह्मप्रियाभिसेवितम् ।कोटिमुक्तमहामुक्तानिकाजुष्टं श्रियः पतिम् ॥१०१॥एतादृशं च मद्रूपं दर्शयित्वा क्षणान्तरे ।मूर्तौ तिरोभवं ते तु महाश्चर्यपराः पुनः ॥१०२॥ननृतुः कीर्तनं चक्रुः साक्षात् कृष्णस्य दर्शनात् ।एवं नित्यं भेजिरे ते चातिभक्त्या तु नित्यशः ॥१०३॥प्राप्ते काले तु तान् दिव्याक्षरं धाम परात्परम् ।विमानेनाऽनयं चास्थापयं मुक्तेषु तत्र च ॥१०४॥भक्तं मंगलदेवं च पत्नीं विभावरीं तथा ।अरक्षयं मे सेवायां पादयोरक्षरे स्थले ॥१०५॥एवं लक्ष्मि मया रक्षा कृता चर्मकृतां तदा ।तेभ्यो मन्त्रं दत्तवाँश्च साधुरूपो दयावशः ॥१०६॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।जेपुर्भेजुः सस्मरुर्मां ययुर्मे परमं पदम् ॥१०७॥पठनाच्छ्रवणादस्य स्मरणात् सेवनादपि ।भजनाल्लभते भूतिं दिव्यां दिवं च मोक्षणम् ॥१०८॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मंगलदेवाख्यचर्मकारभक्तस्य भक्त्या साक्षादागत्य भगवता विषवारणं कृतमित्यादिनिरूपणनामात्रयोदशाधिकद्विशततमोऽध्यायः ॥२१३॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP