संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं सत्कथां परमां मम ।एकविंशे वेधसो वै वत्सरे वेदवत्सरे ॥१॥कल्पेऽशीतितमे चापि मनौ द्वादशके पुरा ।अभूद् भक्तः पुण्यरातो द्विजो भक्तिपरायणः ॥२॥पत्नी तस्य राधनिकानाम्नी चाभूत् पतिव्रता ।दम्पती चक्रतुर्नित्यं स्नानं ध्यानं ममाऽर्हणम् ॥३॥भजनं चक्रतुश्चापि जपयज्ञं च संघशः ।अखण्डनामधुन्यं च प्रचक्रतुः क्वचित्क्वचित् ॥४॥लक्षतुलसिकापत्रैः पूजनं चक्रतुश्च मे ।कार्तिके च मदर्थं वै व्रतान्युद्यापनानि च ॥५॥नवान्नानां सुमिष्टानां नैवेद्यानि प्रचक्रतुः ।माघे वासन्तिकं चाप्युत्सवं प्रचक्रतुस्तथा ॥६॥पुष्पदोलोत्सवं चापि वैशाखस्य व्रतानि च ।चातुर्मास्ये नियमाँश्च भक्तियुक्तान् प्रचक्रतुः ॥७॥नित्यं प्रचक्रतुः साधुसाध्वीसेवां समुत्सुकौ ।ताभ्यां साधुमुखादाकर्णितं कथाप्रसंगतः ॥८॥अन्नदानात्परं दानं वस्त्रदानं प्रकीर्त्यते ।वस्त्रदानात् परं दानं धनदानं प्रकीर्त्यते ॥९॥धनदानात्परं दानं गोदानं सम्प्रकीर्त्यते ।गोदानाच्च परं दानं कन्यादानं प्रकीर्त्यते ॥१०॥कन्यादानात् परं दानं पुत्रदानं सुवंशकृत् ।पुत्रदानात् परं दानं क्षेत्रदानं प्रकीर्त्यते ॥११॥क्षेत्रदानात्परं दानमारोग्यस्य प्रदानकम् ।आरोग्यदानतः श्रेष्ठं सवृत्तिगृहदानकम् ॥१२॥सवृत्तिगृहदानाच्च पुण्यदानं परं मतम् ।पुण्यदानाद्धर्मकर्मप्रदानं परमं मतम् ॥१३॥धर्मकर्मप्रदानाच्च ज्ञानदानं सदाऽधिकम् ।ज्ञानदानाद् भक्तिदानं सर्वेभ्यश्चातिरिच्यते ॥१४॥भक्तिदानात् स्वर्गदानं शाश्वतानन्ददायकम् ।श्रेष्ठं भक्तियुतं चेत्तत् ततोऽभयप्रदानकम् ॥१५॥सर्वदानानि रम्याणि परलोकप्रदानि च ।ब्रह्माण्डदानतुल्यानि यानि यानि च सन्ति वै ॥१६॥जीवाऽभयप्रदानस्य नाऽर्हन्ति षोडशीं कलाम् ।अभयं कालतो मायातश्चापि कर्मतस्तथा ॥१७॥पापतो यमदूताश्च कुहृद्भ्यः शत्रुतस्तथा ।वासनातश्च बन्धेभ्यो मुक्तिश्चाभयदानकम् ॥१८॥अपुनरावृत्तिरूपा मुक्तिर्या साऽधिका ततः ।सालोक्या तत्र वै श्रेष्ठा सार्ष्ट्याख्याऽतो गरीयसी ॥१९॥सारूप्याख्या ततः श्रेष्ठतरा प्रोक्ता सुखान्विता ।सामीप्याख्या सर्वश्रेष्ठतमा ततोऽपि वै तदा ॥२०॥सायुज्याख्या चातिश्रेष्ठतमा यत्परमा न वै ।विद्यतेऽन्याऽभयदानात्मिका मूर्द्धन्यशालिनी ॥२१॥तस्मात् सर्वप्रदानेभ्योऽभयदानं विशिष्यते ।अन्यैर्वै पूर्वकाले यद् यादृशं नाऽर्पितं कृतम् ॥२२॥तादृशं दानमेवाऽत्र दातव्यं चाभयात्मकम् ।इत्येवं च सतां वक्त्राछ्रुत्वा कथामृतं ततः ॥२३॥पुण्यरातस्तथा पत्नी विचारं चक्रतुर्मुहुः ।दानं ददत्यत्र लोके धनाढ्याश्च धनादिकम् ॥२४॥आवाभ्यां तु प्रदातव्यं पूर्वं कैश्चिन्न यत् कृतम् ।यादृशं न प्रदत्तं च तादृशं देयमेव नौ ॥२५॥अथैवं तौ संविचार्य कुरुतो भक्तिदानकम् ।ज्ञानं भक्तिं ददतश्च कुरुतश्च स्वयं सदा ॥२६॥एवं यातेषु मासेषु वर्षेष्वपि च वै ततः ।प्राणायामपरौ जातौ योगक्रियापरायणौ ॥२७॥प्राणरोधसमर्थौ च समाधिस्थितिवर्तिनौ ।तापसौ ब्रह्मपरमौ त्यक्तदेहसुखौ ततः ॥२८॥विदेहौ जीवनमुक्तौ मायासंगविवर्जितौ ।क्षपितबन्धकर्माणौ दग्धैषणौ च योगिनौ ॥२९॥अन्येषामभयदानधर्ममात्रपरायणौ ।विचारयन्तौ सततं कथं मोक्षाश्च देहिनाम् ॥३०॥आत्यन्तिको भवेच्चात्र कर्तव्यं दानमेव तत् ।अभीदानसमं दानं नान्यद् भवति वै ततः ॥३१॥दातव्यं चाभयदानं सर्वजीवेभ्य एव ह ।एकैकस्मै मोक्षदानं चोपदेशाद् भवेदिह ।मन्त्रदानैः शतानां च सहस्राणां भवेदिह ॥३२॥यत्नश्च बहुलस्तत्र साधनस्याऽवलम्बिनोः ।आवयोर्वै भवेदेव तस्मात् साध्ये स्वयं हरौ ॥३३॥यत्नः सम्यग विधातव्यः प्रापणीयः परेश्वरः ।भूलोकस्थमनुष्याणां तत्सम्बन्धवतां तथा ॥३४॥तिरश्चामपि मोक्षः स्यादेवमर्थ्यः परेश्वरः ।युगे वा युगदशके मनौ वाऽन्यमनौ स्थिते ॥३५॥प्रत्यक्षः श्रीहरिश्चायाद् दद्यान्मुक्तिं च शाश्वतीम् ।सर्वेभ्यो मानवेभ्यश्च यथा यत्नस्तथाऽत्र वै ॥३६॥देहेनाऽनेन कर्तव्यो महान् स्वल्पस्तु नैव ह ।इत्यानिश्चित्य कमले तावुभौ भक्तिसंयुतौ ॥३७॥मम मूर्तेः समीपस्थौ जग्रहतुर्व्रत दृढम् ।'अद्याऽऽरभ्य जपयज्ञः कर्तव्यः श्रीहरेः शुभः ॥३८॥रात्रिंदिवं व्योमवासं कृत्वा भुक्त्वैककालिकम् ।फलं चैकविधं वारि पातव्यं चैकवारकम् ॥३९॥यावद्धरिर्मिलेन्नैव कर्तव्यं तावदेव हि ।शीलं व्रतं सदा रक्ष्यं वने वस्तव्यमेव च ॥४०॥इत्येवं व्रतनियमं गृहीत्वा दम्पती हि तौ ।युगादिदिनमारभ्य चक्रतुस्तप उत्तमम् ॥४१॥देहस्य धारणे शक्तौ यथेष्टं त्यजनेऽपि च ।कालस्य रोधने शक्तौ मृत्युञ्जयौ बभूवतुः ॥४२॥अनिशं मां भजमानौ नारायणपरायणौ ।बभूवतुः प्रियौ मेऽपि मम भक्तिपरायणौ ॥४३॥मया त्वदृश्यरूपं च तद्रक्षार्थं सुदर्शनम् ।स्थापितं तद्वने पार्श्वे कालादिभयनुत्तये ॥४४॥दावानलोऽतिवृष्टिश्च झंझावातोऽतिशीतता ।हिमवृष्टिश्च वा क्रूरप्राणिविघ्नादिकं सदा ॥४५॥निवार्यते हि चक्रेण भक्तरक्षाकरेण मे ।अधैर्यसंभृतोर्द्वयोर्युगचतुष्टयम् ॥४६॥व्यतीतं च ततश्चाऽहं विप्ररूपो ययौ पुरः ।भिक्षां देहीति मध्याह्नेऽवोचं तयोः समीपतः ॥४७॥शीघ्रमुत्थाय विप्राय जलं फलं तथाऽऽसनम् ।पाद्यं च मधुपर्कं च नमस्कारः क्षमापनम् ॥४८॥नारायणः प्रसन्नोऽस्तु चेत्युक्त्वाऽर्पितमेव मे ।लब्ध्वा मयोक्तौ तौ भक्तौ श्रेयो वामस्तु सर्वदा ॥४९॥ओमित्युक्त्वाऽऽहतुर्मां तौ हि सर्वेषां देहिनामिह ।श्रेयो यथा भवेत् श्रेष्ठमाशीर्वादान् प्रदेहि नौ ॥५०॥मयोक्तं पापिनो जीवा भवन्ति वासनामयाः ।तेषां श्रेयो भवेच्चापि तपोयोगसमाधिभिः ॥५१॥बहुकालानुष्ठितैश्च नाल्पकालेन वै खलु ।तावाहतुर्हरिश्चात्र नौ कदा वै मिलिष्यति ॥५२॥सर्वमानवमोक्षार्थं कदा साक्षान्मिलिष्यति ।सर्वदेहिप्रमोक्षार्थं कदा कृष्णो मिलिष्यति ॥५३॥मया श्रुत्वा तदोक्तं वै वां हरिर्मिलितोऽस्ति वै ।सर्वमानवमोक्षार्थमर्धमन्वन्तरे गते ॥५४॥मिलिष्यति हरिः साक्षात्तपोभक्तिवलादिह ।पूर्णे मन्वन्तरे याते तिरश्चामपि मुक्तये ॥५५॥मिलिष्यति प्रभुश्चात्र यथाबुद्धि वदाम्यहम् ।इत्याश्रुत्य सीमवाक्यं प्रहृष्टौ तावुभावपि ॥५६॥पादयोः पतितौ मे च पुपूजतुः पुनः पुनः ।नेमतुश्च मुहुः पादरजः स्म लिहतस्तदा ॥५७॥अयं नारायणश्चेति विज्ञाय तौ समुत्सुको ।दर्शनं निजरूपस्य देहीति वदतः स्म माम् ॥५८॥अहं तदा प्रसन्नश्च ददौ दिव्यं स्वदर्शनम् ।शंखचक्रगदापद्मधरं प्रसन्नतान्वितम् ॥५९॥अनेककोटिचन्द्रभाननं चाभरणान्वितम् ।पादसंवाहनं चक्रतुश्च विविधपूजनम् ॥६०॥वरार्थं कथितौ तौ च प्रार्थयामासतुस्तदा ।मानवानां क्षितिस्थानां तत्सम्बन्धवतां तथा ॥६१॥प्राणिनां परमां मुक्तिमिच्छावो युगपत् प्रभो ।वरं वराणां श्रेष्ठं तं सर्वाभयप्रदानकम् ॥६२॥देहि नाथ कृपासिन्धो प्रसन्नो भव केशव ।इतिनारायणीश्रि! प्रार्थयतां तौ वरं परम् ॥६३॥मयोक्तौ भवतोर्मोक्षकरणार्थमहं त्विह ।समायातोऽस्मि तूर्णं चागच्छतां वै मया सह ॥६४॥आवाहतुः प्रभो मोक्षो नौ ते योगान्न संशयः ।ज्ञात एव च जीवानां मानवानां तु मोक्षणम् ॥६५॥विनाऽऽवां न प्रयास्यावो यथेष्टं कुरु वत्सले ।हरिः प्राह तथेच्छाऽपि पूर्णा कालेन वै क्वचित् ॥६६॥भविष्यति तपोभक्त्या यामि वां कुशलं भवेत् ।इत्युक्त्वाऽहं तिरोभावं तूर्णं जगाम पद्मजे ॥६७॥तौ प्रसन्नौ पूर्णकामौ वर्धमानप्रहर्षणौ ।चक्रतुर्मम भक्तिं च स्मरन्तौ विप्ररूपिणम् ॥६८॥नित्यं नवोत्साहवन्तौ चत्वारिंशद्युगावधिम् ।चक्रतुश्च तपोभक्तिं तदाऽहं पुनराययौ ॥६९॥शंखचक्रगदापद्मधरः श्रीभगवान् स्वयम् ।तापसौ मम भक्तौ तु शुष्कदेहौ जगाद ह ॥७०॥मनुष्यान् भूस्थितान् सर्वान् नीत्वा यातं ममाऽक्षरम् ।एवं फलं तपसो वां प्रदातुं समुपागतः ॥७१॥स्वीकुरुतं तपःसिद्धिं मनुष्याणां प्रमुक्तिदाम् ।ततस्तौ मां प्रपूज्यैव संसेव्य परमादरात् ॥७२॥आहतुर्भगवन्नत्र मनुष्याणां गृहे गृहे ।गावोऽश्वाःकरिणश्चोष्ट्रा अजाश्चाश्वतरा मृगाः ॥७३॥ऊरणाः श्वापदाश्चापि सिंहाश्च गवयादिकाः ।ये ये वै पशवः सन्ति शुकाद्याः पक्षिणश्च ये ॥७४॥सरीसृपाद्या ये चापि ये मनुष्योपयोगिनः ।सर्वे ते मानवैः साकं मुक्तिमीयुस्तथा कुरु ॥७५॥तान् विहाय मनुष्याणां मुक्तिं नेच्छाव एव ह ।श्रुत्वाऽहं चाऽवदं ताभ्यां चिरेणैव भविष्यति ॥७६॥ततस्तौ हर्षसम्पन्नौ जातौ कालावधिं गतौ ।पूजां प्राप्य ततस्तूर्णमहमदृश्यतां ययौ ॥७७॥अथ भक्तौ च तौ तद्वत् तपोभक्तिपरायणौ ।अजायतां मयि स्निग्धौ जलान्नरहितौ ततः ॥७८॥तपः पूर्णं तयोर्जातं भक्तिः पूर्णाऽभवत् तदा ।तृणश्छन्नौ मृत्तिकाख्यौ तपसा जातविग्रहौ ॥७९॥मन्वन्तरे गते काले मदर्थं तौ बभूवतुः ।देहिनामुपकारार्थं मुक्त्यर्थं पशुदेहिनाम् ॥८०॥अभीदानप्रदानार्थं त्यक्तसौख्यौ बभूवतुः ।मम योगप्रदानार्थं जीवानां सर्वथा हि तौ ॥८१॥पाषाणमृत्तिकाकल्पौ तपोभक्तौ बभूवतुः ।ततोऽहं सहसा तत्र लक्ष्म्या च पार्षदैः सह ॥८२॥सर्वपूजादिसामग्रीयुक्तो वै समुपाययौ ।ईश्वराश्चाथ मुनयो देवाश्च ऋषयोऽपि च ॥८३॥आययुः सर्वतीर्थानि तत्र स्थले नु मां तदा ।दुन्दुभयश्च देवानामवाद्यन्त तदाऽम्बरे ॥८४॥चन्दनानां सुवृष्टिश्चाऽमृतवृष्टिस्तदाऽभवत् ।जयनादाश्च भूतानामभवन्परितोऽभितः ॥८५॥विमानान्यप्यसंख्यान्यायातानि स्वर्गिणां तदा ।मदिच्छया च मुक्तानां कोटयः समुपागताः ॥८६॥कोटिकोटिविमानानि कोटिकोटीश्वरास्तथा ।कोटिकोटिसुराश्चापि कोटिकोटिमहर्षयः ॥८७॥अम्बरं सर्वथा व्याप्तमभवन् तद्विमानकैः ।अनादिश्रीकृष्णनाराणोऽहं पुरुषोत्तमः ॥८८॥अवतीर्य विमानाच्च ब्रह्मह्रदजलं स्थले ।तयोस्तपसो भूमौ वै मृत्तिकायां निकुञ्जके ॥८९॥अञ्जलिनाऽक्षिपं तत्र तावद् भूमेर्महानलः ।दिव्यतेजोमयः प्राविरासीत् स्वर्गाधितैजसः ॥९०॥तेजोमध्यः ततो जाता दिव्या तनुर्द्विजस्य ह ।शंखचक्रगदापद्मधरा मूर्तिः सुशोभना ॥९१॥आक्षरमुक्तसदृशी तत्पत्नी च तथाविधा ।मुक्तानिकास्वरूपा चाऽभवत् तत्र रमादृशी ॥९२॥उभौ मयाऽऽभाषितौ च क्षेमं मोक्षं सुखं प्रति ।आहतुस्तौ कृपयैव पारं यातौ तवाऽऽश्रितौ ॥९३॥मुक्तियोग्यौ समनुजैः सतत्सम्बन्धिदेहिभिः ।पशुपक्ष्यादिभिः साकं जातौ चेदभिधारितौ ॥९४॥तदा नारायणकृष्ण परमेश परात्पर ।मुक्तिं देहि मनुः कालो व्यतीतो वचनात्तव ॥९५॥अभीप्रदानकं देहि परमेश्वर माधव ।विमानानि ह्यसंख्यानि समायातानि यानि च ॥९६॥नमस्तेभ्यो भवताऽत्र सहितेभ्योऽपि कोटिधा ।नमः समस्तभूतात्मन् परमेश नमोऽस्तु ते ॥९७॥अक्षराधिपते चान्तर्यामिन् भक्तार्थपूरक ।कुरु मुक्तिं देहिनां वै मदर्थितां तु सत्वरम् ॥९८॥क्षमाऽपराधं भगवन् मनुकालेन वै मया ।तपोभक्त्या निरुद्धस्त्वं सर्वेषां मोक्षहेतवे ॥९९॥अपराधपरार्धानि मया कृतानि केशव ।क्षान्त्वा धामानि सर्वान् वै देहिनो नय माधव ॥१००॥यथायोग्यानि धामानि नय स्वतन्त्रकोऽसि यत् ।नाऽऽग्रहो भगवन्मेऽत्र स्वर्गे सत्ये तथाऽक्षरे ॥१०१॥इत्यर्थितं मम सर्वं विधेहि परमेश्वर ।असंख्याऽभयदानेच्छा पूरिता स्वामिना त्वया ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चैकविंशे वर्षे सर्वभूमिदेहिमोक्षार्थं तपस्यतो राधनिकापुण्यरातविप्रयोर्मन्वन्तरकाले गते वाञ्च्छापूरणार्थंश्रीपुरुषोत्तमनारायणस्य सर्वेश्वरदेवादिसहितस्यसमागमनमित्यादिनिरूपणनामाऽष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP