संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि! ततो राज्ञा सेवितोऽहं सदा हरिः ।साधुसेवाफलं श्वेतद्वीपं ददौ नृपाय वै ॥१॥कुटुम्बसहितः सौख्यं भुक्त्वा स्वर्गं ययौ ततः ।तत्र सौख्यानि भुक्त्वैव वैराजदेवतात्मकः ॥२॥भूत्वा सुखानि भुक्त्वैव सत्यलोकं ययौ पुनः ।ततो वैकुण्ठमासाद्य सुखं भुक्त्वा दिवं पुनः ॥३॥मदिच्छयैव सम्प्राप्तो भक्तेः प्रवर्तनाय ह ।ततः कोट्यधिलोकानामीश्वरः स भविष्यति ॥४॥नारायणस्वरूपः सोऽसंख्यलोकान् स्वकाश्रितान् ।नीत्वा भक्तियुतान् धामाऽक्षरं मे सम्प्रयास्यति ॥५॥अंशुक्रमथ एवाऽयं भक्तो मे यादृशोऽभवत् ।तादृशा नाऽपरे लोके भविष्यन्ति निवेदिनः ॥६॥पुत्राः पुत्र्यश्च राज्ञ्यश्च राजा प्रजास्तथाऽनुगाः ।सर्वे सर्वाणि राष्ट्राणि मदर्थसर्वसम्पदाम् ॥७॥कृतोपयोगा आसँस्ते वैष्णवाः सर्वतोमुखाः ।अथाऽन्यत्ते कथयामि प्राकट्यं शृणु माधवि! ॥८॥वेधसो राक्षसाऽऽख्ये षट्त्रिंशे वर्षे ततः पुनः ।कल्पे षण्णवतिसंख्ये सप्तमे च मनौ प्रिये ॥९॥प्राकट्यं मे यथा जातं प्रवदामि निबोध मे ।अनादिश्रीकृष्णनारायणस्यैवाऽवतारिणः ॥१०॥कृते युगे पञ्चदशे योगी नाम्ना हरिप्रथः ।कुंभकारोऽभवत् पृथ्व्यां विष्णुपद्यास्तटे शुभे ॥११॥आबाल्यात्साधुयोगेन बभूव भक्तराट् मम ।माता श्रेणीमती तस्मै ददात्यपि सुशिक्षणम् ॥१२॥अंके स्तन्यप्रपाने च प्रेंखायां कटिवासने ।खष्ट्विकायां तथा योगे बालानां खलनेऽपि च ॥१३॥वद पुत्र हरेर्नाम कृष्ण कृष्ण नरायण ।वद पुत्र श्रिया नाम लक्ष्मि लक्ष्मि नरायणि ॥१४॥एवं माता निजं पुत्रं शिक्षयत्येव मुक्तये ।श्रेयसे पापनाशाय जन्मसार्थक्यहेतवे ॥१५॥अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।परब्रह्माऽक्षरातीत श्रीपते परमेश्वर ॥१६॥एवं स्वयं च तन्माता करोति कीर्तनं मम ।सदैव सर्वकार्येषु भक्तिमती हि सद्गुणा ॥१७॥कुंभकारोऽपि विरणो नाम्ना मे भक्तिमान् सदा ।सर्वकार्ये स्मरत्येव मां सतां सेवकोऽपि सन् ॥१८॥भजत्येव हरिं नित्यं स्मरत्येव जनार्दनम् ।करोत्येवाऽर्पणं मह्यं ततो भुंक्ते यथोचितम् ॥१९॥सायं नित्यं मम मालामावर्तयति मन्मनाः ।करोत्यपि सदा सेवां सतां भक्तिमतां शुभाम् ॥२०॥गृहकार्यं पात्रकार्यं ग्रामसेवादिकं तथा ।यदा करोति तत्रापि गृणाति श्रीनरायण ॥२१॥करे मालां गले मालां सदा रक्षति कुंभकृत् ।हरेर्नाम जपन् कालं सार्थकयति सर्वदा ॥२२॥शृणु लक्ष्मि प्रभक्तस्य भक्तिर्नास्त्येव दुर्लभा ।सर्वदा सर्वकार्येषु सुलभाऽऽत्मनिवेदिनः ॥२३॥विरणः प्रातरुत्थाय नारायणेति संवदन् ।घटं नीत्वा नदीं याति स्नाति रटति मां हरिम् ॥२४॥जलं भृत्वा गृहं याति पिप्पलस्य तु मूलके ।स्मृत्वा मां सलिलं तत्र सिञ्चत्यपि ततः स च ॥२५॥सूर्यं नत्वा मृत्तिकायाः कृतं मां च प्रणम्य च ।रटन् खादति मह्यं चार्पितं प्रातर्हि रोटकम् ॥२६॥तथैव कुंभिकृत् पत्नी भुंक्ते भुंक्ते सुतोऽपि च ।अथाऽऽदातुं मृदो यान्ति कीर्तयन्तो हरिं त्रयः ॥२७॥खरपृष्ठे मृदो योग्या आहरन्ति यदा तदा ।हरेः कीतनकर्तारस्त्रयो यान्ति गृहं प्रति ॥२८॥गर्धप्यै गर्धपायाऽपि तृणादि च जलादि च ।हरिप्रसादसलिलैः संप्रोक्ष्य तद् ददत्यपि ॥२९॥जलैर्मृदश्चार्द्रयन्ति कीर्तयन्ति हरिं तदा ।मर्दयन्ति मृदश्चापि कीर्तयन्ति तदापि माम् ॥३०॥चक्रं च कीलके धृत्वा भ्रामयन्ति स्मरन्ति माम् ।पिंडं चक्रे स्थापयन्ति मां स्मरन्ति जनार्दनम् ॥३१॥घटशरावपात्राणि रचयन्ति स्मरन्ति माम् ।तन्तुना च पृथक् कृत्वाऽवतारयन्ति चाप्यधः ॥३२॥स्मरन्तो मां टीप्पयन्ति पात्राणि टीप्पसाधनैः ।वह्निभ्राष्ट्र्यां क्लृप्तयन्ति पक्वयन्ति स्मरन्ति माम् ॥३३॥विक्रीणन्ति च पात्राणि पक्वानि च स्मरन्ति माम् ।लब्धद्रव्यैरन्नशाकादिकं क्रीणन्ति चापणात् ॥३४॥रन्धयन्ति भोजनानि स्मरन्ति च रटन्ति माम् ।स्थाल्यां भृत्वाऽर्पयित्वा मे भुञ्जते मन्निवेदितम् ॥३५॥एवं यात्रां कुटुम्बस्य निर्वर्तयन्ति मत्पराः ।सायं कथां प्रशृण्वन्ति सतां मुखान्ममालये ॥३६॥रात्रौ श्रुतं स्मरन्त्येव विचारयन्ति मुक्तये ।न विना भोजनं मोक्षो भक्तिर्न पुण्यमन्तरा ॥३७॥पुण्यं सेवां विना नैव सेवा कृपां विना च न ।कृपा दास्यं विना नैव दास्यं श्रद्धां विना न वै ॥३८॥श्रद्धा ज्ञानं विना नापि ज्ञानं न श्रवणं विना ।श्रुतिर्विना न सत्संगं सत्संगो न सतो विना ॥३९॥सन्तो भावं विना नैव भावो विना न भावनाम् ।भावनाख्यस्तु संस्कारो न विना प्रागुपार्जितम् ॥४०॥प्रागुपार्जितमत्रैव भुज्यते फलरूपि तत् ।अद्योपार्जितमन्यत्र भोक्ष्यते श्रेयसां पदे ॥४१॥श्रेयः सर्वविधं साध्यं श्रेयः परं नरायणः ।तस्य चरणे मोक्षोऽस्ति प्राप्तव्यः प्रेमतन्तुना ॥४२॥प्रेमपात्रं हरेर्मूर्तिश्चेतना साधुसंज्ञिका ।सन्तः प्रसादयितव्याः सेवाभिः श्रेयइच्छुभिः ॥४३॥अन्नं जलं च वस्त्रं च त्रेधा निर्वाहसाधनम् ।गृहं कान्ता च धेनुश्च त्रेधा त्वालम्बनं मतम् ॥४४॥उद्यमः पुत्र आरोग्यं त्रेता धैर्यस्य साधनम् ।आयः कोशो बान्धवाश्च त्रेधा बलस्य साधनम् ॥४५॥मैत्र्यं मानं यशश्चेति त्रेधा स्थितेर्हि साधनम् ।विद्या वृत्तिर्वशित्वं च त्रेधा वैतृष्ण्यसाधनम् ॥४६॥तृप्तिर्विराग ऐश्वर्यं त्रेधा शान्तेः प्रसाधनम् ।धर्मः क्षमा तितिक्षा च त्रेधा सुखस्य साधनम् ॥४७॥सन्तो हरिश्च शीलं च त्रेधा मुक्तेः प्रसाधनम् ।दुःखं विवेकोऽवमानं त्रेधा वैराग्यसाधनम् ॥४८॥कर्म तृष्णा वासना च त्रेधा संसारकारणम् ।द्रोहो निन्दा च नास्तिक्यं त्रेधा निरयसाधनम् ॥४९॥प्रमादो मोह ईहा च त्रेधा मृत्युनिमन्त्रणम् ।नैष्कर्म्यमर्पणं भक्तिस्त्रेधा मोक्षस्य साधनम् ॥५०॥तस्मान्मोक्षार्थमेवेह यतितव्यं निरन्तरम् ।अन्यानि सम्परित्यज्य निर्वाणकारणेष्विह ॥५१॥घटा यथा विभिन्ना वै प्रजायन्ते तथात्विह ।प्रजा लोकाश्च कर्माणि सुखानि प्रत्यहं हताः ॥५२॥कालवेगेन नश्यन्ति देहदैहिकसम्पदः ।का नारी को नरः पुत्रः पुत्री वा कृत्रिमं त्विह ॥५३॥सम्बन्धा नामसंज्ञाश्च यथा मृदा भवन्त्यपि ।तथा षाट्कौशिकादीनां नामसंज्ञाश्च कृत्रिमाः ॥५४॥कृत्रिमं देहमासाद्य ज्ञात्वा मोक्षस्य साधनम् ।यदि साध्येत् मोक्षो न वृथा जन्म हि मानवम् ॥५५॥सर्वत्र विषयाः सन्ति क्षुधा तृषा प्रमोदनम् ।ऐहिकं सर्वमेवेति क्षणिकं जीवबन्धम् ॥५६॥नवं नवं बन्धनं च नित्यं नित्यं प्रजायते ।न चाऽन्तोऽस्ति बन्धनानां नवे वर्षे नवा घटाः ॥५७॥घटकर्ता मृतिं यान्ति चान्यस्तत्र प्रवर्तते ।घटानां घटकर्तॄणां प्रवाहो न निवर्तते ॥५८॥प्रवाहपतिता जीवा ममाऽहंपाशपाशिताः ।घटे नष्टेऽपि खण्डेषु बध्यन्ते मोहपाशिताः ॥५९॥कालेन नाशः सर्वेषामवश्यं जायते त्विह ।पश्यन्तश्चेति मोक्षार्थं यतन्ते न मृता हि ते ॥६०॥पुनः पुनर्मरिष्यन्ति विना शाश्वतसेवनम् ।तस्मान्नारायणो विष्णुः श्रीमत्कृष्णनरायणः ॥६१॥परब्रह्मान्तरात्मा श्रीहरिः सेव्यः सदा भुवि ।भजन्तु परमात्मानं रटन्तु हरिनाम च ॥६२॥ध्यायन्तु च हरिकृष्णं प्राप्नुवन्तु परेश्वरम् ।एवं नित्यं निशायां वै विरणाद्या निजं हितम् ॥६३॥विचारयन्ति सत्यार्थं भजन्ते स्म च मां सदा ।एवं याते स्वल्पकाले त्रयस्ते कुंभकर्मिणः ॥६४॥साधुसेवापराः साध्वाश्रयाश्च सर्वथाऽभवन् ।तद्गृहं मन्दिरं जातं मम साधुनिषेवणात् ॥६५॥साधवो नित्यमेवाऽत्र कुर्वन्ति मत्कथादिकम् ।विरणस्य कुंभकृतः पुत्रो हरिप्रथः स्वयम् ॥६६॥आनन्दब्रह्मगुरुतो दीक्षां जग्राह साधवीम् ।साधुर्भूत्वा प्रभुं नित्यं भजते मां दिवानिशम् ॥६७॥वाक्सिद्धिस्तस्य सम्पन्ना यथा वक्ति प्रजायते ।अथैकदा सतां तत्र सभायां भजने मम ॥६८॥जायमाने तानमिश्रेऽम्बरात्तत्र मनुः स्वयम् ।सप्तमो वर्णिशालाख्यो विमानेन हि निर्ययौ ॥६९॥साधवः कुंभकाराद्याः साध्व्यश्च भजनोत्तरम् ।विष्णुपद्यास्तटे स्नानाद्यर्थं ययुः सकीर्तनाः ॥७०॥स्नान्ति केचित्तथान्ये च कीर्तयन्ति परेश्वरम् ।यावद् घट्टेऽम्बरं दूरं भ्रमित्वा मनुरेव सः ॥७१॥यदृच्छया विष्णुपद्यास्तटं चावातरद्धि सः ।राजरूपो भृत्ययुक्तो जलावतारमाययौ ॥७२॥यत्र ते भजने मग्नाः साध्वाद्याः स्नानहेतवे ।तिष्ठन्ति मां भजन्तश्च रटन्तो हरिकीर्तनम् ॥७३॥वर्णिशालो मनुस्तत्र भृत्यानाह सगर्वकः ।इमान् वै मानवानत्र सर्वान्नारीनरादिकान् ॥७४॥निष्कासयन्तु रुन्धन्तु दूरमेव नदीतटात् ।यावदहं जले नद्याः स्नानं कृत्वा न यामि च ॥७५॥तावद् भृत्याः करैर्धृत्वा निष्कासयन्तु दूरतः ।इत्युक्त्वा भृत्यवर्गास्ते प्रत्युद्गम्य समन्ततः ॥७६॥दूरयामासुरेवैतान् वारयामासुरेव च ।साधवोऽपि विनिवृत्ता आनन्दब्रह्मनोदिताः ॥७७॥हरिप्रथः साधुभक्तः प्राह दूतान् कथं त्विदम् ।रोधनं वारणं स्नाने भवद्भिः संविधीयते ॥७८॥दूताः प्राहुश्च ते किं वा प्रयोजनं विभावने ।गच्छ दूरं यान्तु सर्वे नाऽत्राऽऽवेशो भविष्यति ॥७९॥एवं वदन्तो दूताश्च जगृहुर्भुजमेव च ।दूरं निष्कासयामासुर्हरिप्रथं तथाऽपरान् ॥८०॥हरिप्रथस्तदोवाच मृतिं यातु नृपो हि वः ।एवमुक्ते मनुस्तत्र क्षणे ममार जीवतः ॥८१॥व्यसुः शवोऽभवच्छीघ्रं पपात भुवि पद्मजे ।प्रसारितकरपादः प्राक्रोशन् चोग्रवेगतः ॥८२॥हाहाकारस्तदा जातश्चाकृत्यं समजायत ।दूतास्तूर्णं गताः पार्श्वेऽसेवयन् पवनार्पणैः ॥८३॥पादसंवाहनैर्वारिपानदानैस्तथापि सः ।मनुर्ययौ विहायैव प्राणान् धर्मालयं तदा ॥८४॥हाहाकारोऽभवत् सर्वप्रजापालेषु वै तदा ।दिक्पालेषु समस्तेषु देवेषु सत्यवासिषु ॥८५॥महर्षिषु महेन्द्रादौ मनुर्मृतोऽभवद्धि शुक् ।अथ सर्वेऽजशंभ्वाद्याश्चाययुर्यत्र स मृतः ॥८६॥जीवनार्थं तदा सर्वे चक्रुश्चाराधनं हरेः ।अनादिश्रीकृष्णनारायणस्य मम पद्मजे ॥८७॥अहं तत्र समायातस्त्वया साकं नरायणि ।शंखचक्रगदापद्मधरः श्रीपुरुषोत्तमः ॥८८॥प्रार्थितस्तैर्जीवनार्थं मया ते बोधितास्तदा ।मद्भक्तस्य कृतं नाऽहं परावर्तयितुं क्षमः ॥८९॥प्रसादनीयो भक्तो मे स वै श्रेयो विधास्यति ।ततो भक्तं सुरा नेमुश्चार्थयामासुरेव च ॥९०॥जीवनं च क्षमां चाप्यर्थयामासुः पुनः पुनः ।पूजयामासुरेवाऽपि साधून् हरिप्रथस्तदा ॥९१॥ज्ञात्वा मां परमात्मानं नत्वाऽभ्यर्च्य शवोपरि ।जलं चिक्षेप तावद्वै मनुः प्राणयुतोऽभवत् ॥९२॥उत्तस्थौ च हरिं मां स तुष्टाव सम्पुपूज च ।साधून्नत्वा क्षमां लब्ध्वा ययौ नैजं पदं पुनः ॥९३॥साधुभिश्चार्थितश्चाऽहं हरिप्रथस्य मन्दिरे ।न्यवसं सर्वदा लक्ष्मि! साकं त्वया सतां गृहे ॥९४॥अनादिश्रीभक्तनारायणनाम्ना स्वयं प्रभुः ।त्वं तदा श्रीकुंभिकाश्रीरितिख्यातिं गताऽभवः ॥९५॥वेद्म्यहं सर्वमेवैतन्मनोनाशं च जीवनम् ।स्मर सर्वं विष्णुपदीतटादिकं सतीजनान् ॥९६॥चतुर्युगं पूर्णमेव न्यवसं साधुभिः सह ।अन्येऽपि च ततो जाताः सम्प्रदायास्तदा मम ॥९७॥अन्येऽवताराः संभूता लोकरक्षणहेतवे ।पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेदपि ॥९८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः षट्त्रिंशद्वत्सरे हरिप्रथभक्तस्य शापेन मृतस्य वर्णिशालमनोरुज्जीवनार्थम् अनादिश्रीभक्तनारायणस्यकुंभिकाश्रीसहितस्य प्राकट्यमित्यादिनिरूपणनामा त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP