संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वम् आजीवनीनदीतटे ।सौराष्ट्रे त्वभवद्वैद्यो नाम्ना गदार्दनेश्वरः ॥१॥जीरदुर्गकृतावासश्चौषधितत्त्वमर्मवित् ।विप्रः कुटुम्बसहितो जीरदुर्गे निजापणम् ॥२॥कृत्वा करोति रुग्णानां चिकित्सां चौषधं ततः ।नामाऽभवद्धि विख्यातं रोगनाशकलाविदः ॥३॥परितो ग्रामवर्गेषु देशलोकेषु चाप्यति ।प्रजाजनाः समायान्ति तद्गृहं रोगनुत्तये ॥४॥सोऽपि नारायणं कृष्णं स्मृत्वा ददाति चौषधम् ।सुफलं तद्भवत्येव गुणकृद्रोगहारकम् ॥५॥यज्ञभस्मान्वितं देवप्रसादशर्करान्वितम् ।तुलसीपत्रचूर्णाढ्यं काष्ठौषधं च धातुजम् ॥६॥भस्मादि च रसान् वह्निपक्वान् शरन्निवर्तकान् ।कफनाशकरान् जीर्णज्वरघ्नानासवाँस्तथा ॥७॥विरेचकान् गूटिकांश्च पाचकान् वायुनाशकान् ।शक्तिदान् धातुपुष्टिकृद्वृक्षबीजानि यानि च ॥८॥जन्तुजान् चूर्णितान् रोगहराँस्तुषाँश्च मूलजान् ।पत्रजान् पुष्पजाँश्चापि त्वचां चूर्णानि यान्यपि ॥९॥ददाति रोगिणे रोगान्नाशयत्येव सर्वथा ।विषं हरति शीघ्रं च सर्पादीनां रसोद्भवम् ॥१०॥एवंविधस्य वैद्यस्य शालायां मानवा दश ।कुर्वन्ति पेषणं चापि मर्दनं पाचनं तथा ॥११॥सारनिःसारणं चूर्णनं च प्रज्वालनं सदा ।औषधानि यथायोग्यं सम्पादयन्ति यत्नतः ॥१२॥वर्षारंभे स्वयं गदार्दनः क्षेत्रे नदीतटे ।याति काचादिपात्राणि नीत्वा जन्तुमये स्थले ॥१३॥सरीसृपाँस्ताम्रकणशेन्द्रगोपान् पिपीलकान् ।रक्तपुष्टिकरान् जन्तून् धृत्वा दधाति पात्रके ॥१४॥सहस्रशः प्राणरौधैर्व्यसवस्ते भवन्ति हि ।उत्तेजकानि तैलानि कर्तुं गर्तादिगोधिकाः ॥१५॥धृत्वा काचे तु निक्षिप्य व्यसून् करोति वैद्यराट् ।निर्दयो निजलाभार्थं परप्राणविघातकः ॥१६॥विप्रोऽपि राक्षसधर्मा हिंसामार्गपरोऽभवत् ।नाणकाणां प्रलोभेन तृष्णया हिंसकोऽभवत् ॥१७॥एवं गदार्दनः काले काले जन्तुविनाशकः ।औषधार्थं कोटिजन्तुनाशकृद्धिंसकोऽभवत् ॥१८॥जन्तवोऽपि मूर्छिता अर्दिताः शपन्ति तं द्विजम् ।नः प्राणघ्नस्य ते प्राणान् हरिष्यन्त्यपि जन्तवः ॥१९॥चतुरशीतिलक्षासु योनिष्वेव मुहुर्मुहुः ।अस्मद्वद्दुःखमासाद्य मृत्युं याहि पुनः पुनः ॥२०॥शप्तश्चैवं बहुशापैस्तीव्रवेगैः स वैद्यकः ।कर्मविपाककालेन ज्वराविष्टोऽभवच्छनैः ॥२१॥ज्वरनाशाय सहसाऽयुजत् स गूटिकादिकम् ।ज्वरः शान्तिं न चायाति प्रत्युत संप्रवर्धते ॥२२॥प्रारब्धागतविघ्नं हि कोट्युपायैर्न नश्यति ।शापागतं महादुःखं त्वन्योपायैर्न लीयते ॥२३॥वैद्यस्य यमराजस्य देवस्य च वृषस्य च ।ईश्वरस्य समर्थस्य मानवस्य तु का कथा ॥२४॥लीयते शापदस्यैव प्रसादेन न चान्यथा ।अत्र ते जन्तवो नष्टाः प्रसादः कुत आलभेत् ॥२५॥जीर्णज्वरो हि वैद्यस्य बलवत्त्वमुपागमत् ।नित्यं गदार्दनरक्तं शोषयत्येव भूतवत् ॥२६॥अथाऽयं तन्निरासार्थं क्वाथान् पिबति नित्यशः ।अप्रारब्धहताः क्वाथा विपरीता भवन्ति यत् ॥२७॥रक्तनाशकराश्चाप्युष्णताविवर्धकास्तथा ।नाडीषु मांसपिण्डेषु सूक्ष्मछिद्रकरा अपि ॥२८॥व्यवर्तन्त समस्तास्ते क्वाथाः क्षतकरास्ततः ।मूत्रे मले ष्ठीवनेऽस्य रक्तभागः स्रवत्यपि ॥२९॥निर्वृत्तात्युपचारोऽपि वैद्यो रुग्णतरोऽभवत् ।न बुद्धिर्न बलं द्रव्यं नोपचारा विभाग्यके ॥३०॥महापापे प्रभवन्ति योजिताः कुशलैरपि ।लक्ष्मि प्रसिद्धवैद्यस्य कृतश्रमस्य शान्तये ॥३१॥अन्ये वैद्याश्चाययुश्च चिकित्सार्थं विदूरतः ।कृत्वा मूलचिकित्सां ते प्रयोजयन्ति चौषधम् ॥३२॥तथाप्यघहतस्याऽस्य लेशलाभो न दृश्यते ।आशाहताश्च ते भूत्वा प्रयान्ति निजमन्दिरम् ॥३३॥रक्तस्रावा हि वैद्यस्य न शान्तिं प्रगताः खलु ।तत्रौषधैः कृतैर्लक्ष्मि प्रत्युताधिकतां गताः ॥३४॥वर्षं त्वेवं गतं तस्य याम्यसदृशदुःखिनः ।ततो मात्रा तु भस्मोत्था भक्षिता भिषजा स्वयम् ॥३५॥साऽपि विकृतिमासाद्य विस्फोटान् परितो व्यधात् ।पाचपूर्णं च दुर्गन्धं स्फुटितं वर्ष्म चाऽभितः ॥३६॥पाचस्रावि क्लेदितं च नारकं कुण्डवद्ध्यभूत् ।न पार्श्वे केऽपि गच्छन्ति वैद्यो रोदिति शूलितः ॥३७॥उत्पन्नकीटजन्तुकृद्दंशैरर्दित इत्यधी ।आक्रूश्यत्यतिदुःखेन जन्तुखादितमांसकः ॥३८॥एतादृशमहादुःखं प्राप्तवान् वैद्यराट् रमे ।दुःखी मां भजते नित्यं दुःखनाशाय केवलम् ॥३९॥शापदुःखविनाशेऽहं समर्थो न भवामि वै ।शापदस्य हृदयेऽहं स्थितस्तदा समर्दितः ॥४०॥शापदस्त्वहमेवाऽस्मि कथं चाऽशापकृत् पुनः ।विना तं शापदं जन्तुं प्रभवामि निवृत्तये ॥४१॥एवं विधस्य वैद्यस्य भजमानस्य मामपि ।दुःखं निवर्तते नैव मरणं नापि जायते ॥४२॥भोजनं प्राणधारं चाऽऽदत्तेऽस्य जाठरो लघु ।तेन प्राणा न प्रयान्ति शापभोगप्रबन्धिनः ॥४३॥बहुदानानि पुण्यानि कृतवान् वैद्यराडपि ।प्राणाः स्थानं न मुञ्चन्ति याम्यपुरीसमप्रभाः ॥४४॥ओषधानां प्रयोगैश्च मनाक् स्वास्थ्यं प्रदृश्यते ।मासं स्वास्थ्यं दृश्यते च मांसमज्जा विवर्धते ॥४५॥पुनश्च जन्तवस्तत्र जायन्ते च सहस्रशः ।कीटा दशन्ति बहुधा याम्यकुण्डो यथा त्विह ॥४६॥एवं मुहुः शापवशादस्य वैद्यस्य वर्तते ।दशवर्षाणि चैवं वै व्यतीतान्यस्य रोगिणः ॥४७॥यावन्तो जन्तवस्तेन मारितास्तावदेव तत् ।दुःखं साक्षादत्र जातं याम्यं तथापि शिष्यते ॥४८॥मध्ये लक्ष्मि तथा तस्य पुत्राः षट् पापिसंगतः ।अतिरिक्तातिसारैश्च शनैः क्रमान्मृतिं ययुः ॥४९॥विध्वस्ता विधवा जाताः षडेवाऽपत्यवर्जिताः ।गदार्दनस्य पुत्र्यश्च सप्त ताः संगदोषतः ॥५०॥सर्वा अपि तु विधवा जाताः पितृप्रपापतः ।आसनाच्छयनाद्वासाद् भोजनात् सहकर्मणः ॥५१॥उत्पादाद् दायभागाच्च पापं संक्रमते जने ।जन्तूनां मारणे तेषां कुटुम्बिनां यथा भयम् ॥५२॥दुःखं चाऽभूत्तथा शापादस्य कुटुम्बिनां तथा ।सर्वमत्रैव सञ्जातं दुःखं तीव्रप्रवेगिनः ॥५३॥एवं निर्वंशतां प्राप्ता पत्नी त्वेकाऽवशिष्यते ।सापि चिन्तापरा भ्रातॄन् निजानाहूय सर्वथा ॥५४॥द्रव्यं सर्वं ददौ तेभ्यो गृहं शून्यमिवाऽभवत् ।पत्नी भ्रातर एवापि द्रव्यपाशेन पाशिताः ॥५५॥रुग्णाः सर्वेऽभवँस्तूर्णं मृतास्ते द्रव्यभोगिनः ।निर्वंशास्तेऽपि जाता वै पापद्रव्यप्रसंगतः ॥५६॥वैद्यस्याऽन्नं न भोक्तव्यं प्रायश्चित्ती यतो भवेत् ।लक्ष्मि शतघ्नो वैद्यो वै तदन्नं पापदं मतम् ॥५७॥पश्य वैद्या निर्दया वै यमदूतसमाः सदा ।छेदने घातने मृत्युदाने शवादिसेवने ॥५८॥नग्नशवाऽभ्यसने च नग्नशवावलोकने ।नग्नदुर्गन्धकीटाढ्यशवानां नित्यदर्शने ॥५९॥रोगसंस्कारकरणे पाचक्लेदादिशीलने ।यमदूतसमा वैद्या अशुद्धाः प्राणपारगाः ॥६०॥अनुभूतिं विना ये ते पापिनः प्राणहारकाः ।तेषामन्नं न भोक्तव्यं विनष्टिकृत् तदन्नकम् ॥६१॥नहि सर्वे त्विह लोके धन्वन्तरिसमाः खलु ।तत्त्वज्ञा यदि पुण्याः स्युरहिंसकास्तु पावनाः ॥६२॥अश्विनीपुत्रसदृशाः पूज्यास्ते तु मताः सदा ।लोककल्याणकर्तारो हिंसामार्गविवर्जिताः ॥६३॥यथापेक्षौषधानां तु प्रयोगिणः सुभक्तयः ।जन्तुहिंसाविहीनाश्च काष्ठधात्वादियोगिनः ॥६४॥दुर्लभास्ते देववैद्यास्तेषां पूजा तु पुण्यदा ।अथ लक्ष्मि गते काले पत्नी गदार्दनस्य सा ॥६५॥क्षयरोगेण वै व्याप्ताऽभवन्नाम्ना मुकुन्दिनी ।वैष्णवी पतिभक्ता च श्रद्धाभावगुणान्विता ॥६६॥सा त्वाबाल्याद्धरेर्भक्ताऽभवत् स्नात्री प्रपूजिका ।भक्तिमती धर्मवती पातिव्रत्यपरायणा ॥६७॥व्रतदानतपःकर्त्री नित्यं साधुप्रसेविका ।कृष्णकथाया रक्ता च शौचसन्तोषशोभना ॥६८॥तन्वा मनसा वाण्या च कर्मभिः साधुसेविका ।कृष्णसेवापरा नित्यं नवधाभक्तिसंयुता ॥६९॥हारनैवेद्यधूपादिविधात्री विष्णुपूजिका ।आत्मनिवेदिनी महाभागवती हरिप्रिया ॥७०॥शीलसत्यपरा साध्वीधर्मयुक्ताऽऽत्मनैष्ठिकी ।दिव्या दिव्यगुणोपेता भगवन्नैष्ठिकी सदा ॥७१॥ध्यानपरा च सर्वस्वार्पणपरा हरौ मयि ।लक्ष्मि त्वेतादृशी भक्ता किन्तु संगात् सुदुःखिता ॥७२॥पत्युरर्धं समस्तं वै भुज्यते निजयोषिता ।सैवं दुःखपरा रुग्णा वर्तते भजते तु माम् ॥७३॥तस्या वर्षे गते क्षीणायास्तु पतिर्मृतोऽभवत् ।पराधीना च विधवा रुरोद कुररीव सा ॥७४॥पत्युरसद्गतिं वीक्ष्य स्मृत्वा पुत्रीसुतादिकान् ।मृतान् भ्रातॄँश्च वै स्मृत्वा स्वस्या असद्गतिं तथा ॥७५॥चुक्रोशाऽऽक्रन्दनैर्धैर्यवर्जिता क्षयरोगिणी ।श्रुत्वा चाक्रोशनं देवाः क्षणं स्तब्धास्तदाऽभवन् ॥७६॥ऋतवश्चापि तत्त्वानि क्षणं जडानि चाऽभवन् ।अथाऽहं सहसा लक्ष्मि चान्तरात्मा निजानुमः ॥७७॥मुकुन्दिन्या हृदयस्थो वत्सलो दुःखितोऽभवम् ।धैर्यं ददौ चान्तरात्मा सद्विचारेण चाप्यहम् ॥७८॥सापि विज्ञानमासाद्य धैर्यमालम्ब्य मां हरिम् ।अस्मरद् बहुधा लक्ष्मि नाथ नाथ कृपां कुरु ॥७९॥भक्ताया चापि दुःखायां विधवायां कृपां कुरु ।सर्वस्वनाशयुक्तायां शेषायां वत्सलो भव ॥८०॥दुःखानां नास्ति मे सीमा समुद्धर भवार्णवात् ।प्रथमं मां मारयित्वा ततः पतिं प्रमारय ॥८१॥सधवाया गतिर्मे स्याद् विधवाया गतिर्नहि ।एषाऽहं वह्निमुत्पाद्य सजीवा प्रज्वलामि वै ॥८२॥सतीत्वं सर्वथा योग्यं विधवात्वं भयावहम् ।कृपा तेऽस्ति समायाहि जीवयैनं निरोगिणम् ॥८३॥नैवं चेन्मरणं देहि युगपत्तूभयोरपि ।इत्युक्त्या सा मम भक्ता क्षणं दध्यौ तु मां हृदि ॥८४॥तावन्मया पार्षदा मे प्रेषितास्तत्पतिं प्रति ।याम्यदूतैर्नीयमानं दुःखिनं शरणैषिणम् ॥८५॥पार्षदैर्मे द्रुतं गत्वा वियोजितो यमार्थिभिः ।गृहीतश्चानीत एव देहं प्रवेशितः पुनः ॥८६॥उत्थितः सहसा देहोऽकस्माद् बन्धनबन्धितः ।शवार्थिनोऽभवन् स्तब्धा महाश्चर्यसमन्विताः ॥८७॥केचिज्जगदुः पापानामपूर्णं पापभोगनम् ।पुनः पापप्रभोगायाऽऽगतो याम्यैर्न रक्षितः ॥८८॥अपरे तु तदा प्राहुः सत्याः पत्न्यास्तु भक्तितः ।उत्थितश्चातिभक्त्या वै नीरोगोऽयं भविष्यति ॥८९॥अन्ये प्राहुर्वासनिको वर्ततेऽयं हि पापवान् ।न याति परलोकं स्वां पत्नीं विहाय चैकलः ॥९०॥इतरे तु तदा प्राहुः कर्मरेखा हि दुर्गमा ।इत्येवं ते विरेमुश्च निर्बन्धनं व्यधुश्च तम् ॥९१॥अथ लक्ष्मि तदा चाऽहं पत्न्या भक्तेः प्रतापतः ।पुरो दिव्यमभवँश्च मूर्तिमान् पार्षदैः सह ॥९२॥चतुर्भुजो दिव्यदेहः कृष्णनारायणः प्रभुः ।अवदं च मुकुन्दिन्यै वरं वृणु मदग्रतः ॥९३॥साऽपि चोत्थाय सहसा पतिता पादयोर्मम ।गदार्दनोऽपि मां वीक्ष्य नीरोग इव निद्रितः ॥९४॥उत्थाय न्यपतच्छीघ्रं पादयोर्मम भूतले ।वरदानाय च मया नियुक्तावूचतुश्च तौ ॥९५॥मोक्षं देहि कृपासिन्धो परमेश रमापते ।सर्वं कालेन नीतं नौ ह्यावां निर्वासनौ कृतौ ॥९६॥वैद्यवैद्यो महाकालस्तद्वैद्यः परमेश्वरः ।याम्यहूतौ द्रावितौ त्वत्पार्षदैरिह सर्वथा ॥९७॥मोक्षं देहि यथेष्टं वा नियोजय परेश्वर ।एवं प्रार्थयमानाभ्यां तथेत्युक्त्वा विमानके ॥९८॥अध्यारोप्य दिवं श्रेष्ठं प्रेषयामास पार्षदैः ।सतीभक्तिप्रतापेन सती मुकुन्दिनी तदा ॥९९॥दिवं त्यक्त्वा सतीलोकं पत्या सह ययौ द्रुतम् ।पार्षदा मे तु तां स्वामिसहितां वै मुकुन्दिनीम् ॥१००॥अवस्थाप्य सतीलोकं प्रययुर्मम धाम ह ।एवं कालान्तरे प्राप्ते तौ यास्यतः परं पदम् ॥१०१॥लक्ष्मि भक्ताप्रतापेन वैद्यो याम्यं विहाय च ।सतीलोकं ययौ यस्य पापपुञ्जोऽभवन्महान् ॥१०२॥तथापि स्त्रीप्रतापेन कृपया मे लयं गतः ।अर्धांगनाकृतं पुण्यमर्धं तु लभते पतिः ॥१०३॥व्रतदानादिकं भक्तिः सर्वमर्धं प्रपद्यते ।एवं सम्बन्धिनः पुत्राः स्त्रियो मित्राणि चापरे ॥१०४॥कुर्वन्ति प्रेतनाम्नाऽपि पुण्यं प्रेते प्रपद्यते ।तस्माच्छ्राद्धं मखं दानं कुर्वन्ति पृष्ठतो जनाः ॥१०५॥भक्तितुल्यं मोक्षदं वै साधनं नेतरद् रमे ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिश्च वै भवेत ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गदार्दनेश्वरनामकवैद्यस्य पापैर्दुःखानि तत्पत्न्या मुकुन्दिन्या भक्त्या च मोक्षणमित्यादिनिरूपणनामा षड्विंशत्यधिकद्विशततमोऽध्यायः ॥२२६॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP