संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं साघुसंगतिसत्फलम् ।अहं भद्रावतीतीरे विहारार्थं गतोऽभवत् ॥१॥गृध्रा मांसाशनास्तत्र क्षेत्रे तीरेऽभवन् शतम् ।शौचार्थं कलशं धृत्वा क्षेत्रमध्ये गतोऽभवम् ॥२॥गृध्राणां मध्यतो मार्गं कृत्वाऽहमगमं पुरः ।गृध्रास्ते मिष्टशब्देन चोचुर्वाक्यानि वीक्ष्य माम् ॥३॥तिष्ठन्तो यत्र तत्रैव विश्वस्ता निर्भयाः सुखाः ।अहोऽस्माकं महद् भाग्यं भूतले समुपस्थितम् ॥४॥अयं नारायणः साक्षादस्मन्मध्ये समागतः ।साधुरूपः साधुशीलो मुक्तिदो मुक्तिदस्तथा ॥५॥प्रगृह्णन्तु चरणयोश्चास्य रजांसि पक्षयोः ।मूर्घ्नि मुखे जलं चास्य कलशादपि पावनम् ॥६॥ब्रह्मकमण्डलूवारि सहस्रांशे न तत्समम् ।मोक्षोऽस्माकं भवितैव स्पृशन्त्वस्य पदे ह्युभे ॥७॥पक्षाभ्यां वीजयन्त्वेनॆ श्रीकान्तं पुरुषोत्तमम् ।सुस्वरैः कीर्तयन्त्वेनॆ नारायण नरायण ॥८॥मस्तकैः प्रणमन्त्वेनं पापप्रज्वालकं हरिम् ।पद्भ्यां तमभिगच्छन्तु प्रदक्षिणं पुनः पुनः ॥९॥चक्षुर्भ्यां श्रीहरिं कृष्णं विलोकयन्तु सत्पतिम् ।सन्तं सतां पतिं साध्वीनाथं पक्षिपतिं प्रभुम् ॥१०॥इत्येवमुच्चरन्तश्चाऽऽययुः समन्ततश्च माम् ।नेमुः पादौ पस्पर्शुश्च चक्रुश्च दर्शनं मुहुः ॥११॥प्रार्थयामासुरत्यर्थं मोक्षार्थं पक्षियोनितः ।ऊचुश्च वयमासन् वै शूद्रा व्याधा हि मानवाः ॥१२॥अब्रह्मण्या नृशंसाश्च कदर्याः पापजीविनः ।अपहारकाश्चौराश्च द्वेष्टारो देहिनां तथा ॥१३॥मिथ्याचारा व्यभिचारा परस्वहरणे रताः ।देवपितृमखद्वेष्टारश्च भीदा हि देहिनाम् ॥१४॥धनधान्यादिसम्पत्तिं दृष्ट्वाऽन्यस्येर्ष्यवस्तथा ।तेन पापेन जाताः स्मो गृध्रजातीयपक्षिणः ॥१५॥पक्षिषु श्वपचाः सर्वे दुर्गन्धिशवभक्षिणः ।निकृष्टा निजपापैस्तान्नः कृपां कुरु चोद्धर ॥१६॥व्याधत्वेऽपि वने साधून् दृष्ट्वा दत्वा फलानि च ।आशीर्वादान् गृहीत्वा चाऽर्जितवन्तः सुपुण्यकम् ॥१७॥तत्पुण्येन स्मृतिर्नाऽस्मान् विजहाति हरे प्रभो ।इत्यर्थितस्तदाऽहं तानवोचं संगतेर्बलात् ॥१८॥सतां सेवाफलं त्वेतत् प्राग्जन्मस्मरणं तथा ।ममापि दर्शनं चात्र तिर्यग्जन्मनिवारकम् ॥१९॥अथ यूयं च राजानो भविष्यथ ततः परम् ।विप्रा भूत्वा ततो देवास्ततो ब्रह्मर्षयः शुभाः ॥२०॥सत्यलोके चिरं स्थित्वा प्रयास्यथाऽक्षरं मम ।तत्र तत्र हि साधूनां समागमो भविष्यति ॥२१॥इत्युक्तास्ते मया लक्ष्मि गृध्राः सर्वे मृतिं गताः ।जातास्ते क्षत्रियाः सर्वे मृत्वा विप्रास्ततोऽभवन् ॥२२॥ततो देवाश्च ऋषयस्ततो धामाऽक्षरं ययुः ।इत्येवं साधुसंगस्य फलं तेऽभिहितं मया ॥२३॥तिरश्चामपि यन्मेऽपि दर्शनं सुलभं ह्यभूत् ।येनाऽवापुः पदं गृध्राः पूर्णं ब्रह्म सनातनम् ॥२४॥तस्मात् समागमः कार्यः पापिनाऽपि सतां मुहुः ।पापक्षालनमेवाऽपि पुण्यं मुक्तिश्च संभवेत् ॥२५॥एकदा लोमशो भूमौ पद्भ्यां साधुशतैर्युतः ।विचचार हि श्रेयोऽर्थं लोकानां शुद्धिकाम्यया ॥२६॥मार्गे श्रुत्वा पदानां वै शब्दान् जीवटकीटकः ।अधावद् वाटदेशाद्वै बहिर्गन्तुं त्वरान्वितः ॥२७॥लोमशः परिपप्रच्छ दृष्ट्वा जीवटकीटकम् ।कथं त्वरितस्त्रस्तोऽसि गम्यते क्व त्वया वद ॥२८॥श्रुत्वा जीवटकीटश्च प्राहाऽहं वीक्ष्य मण्डलम् ।सतां तु बहुसंख्याकं श्रुत्वा पादस्वनाँस्तथा ॥२९॥भयं प्राप्तो मृत्युजातं पादकच्चरमर्दनात् ।धावामि सत्वरं मार्गाद् यथा बहिः प्रयामि वै ॥३०॥गृहं मे विद्यते पार्श्वे स्त्रीपुत्रादिसुखान्वितम् ।अकालमरणं मे न भवेच्छून्ये कुटुम्बिनः ॥३१॥एकलस्य मृतिः शून्ये कुटुम्बरहितस्य मे ।असद्गतिप्रदा स्याद्वै शोचेयुर्मम बान्धवाः ॥३२॥तस्माच्छीघ्रं प्रवदामि मृत्योर्दुःखं परं यतः ।त्वरयामि जीवनार्थं जीवतः सुखमुत्तमम् ॥३३॥लोमशस्तु समाकर्ण्य जीवटं प्राह ते कुतः ।कीटयोनौ सुखं चास्ते दुःखयोनौ वदाऽत्र मे ॥३४॥दुःखयोनेस्तु मरणं तव श्रेयो भवेदिह ।नाभिजानासि वै श्रेष्ठान् स्पर्शभोगसुखोत्तमान् ॥३५॥न च वेत्सि रसमिष्टान् यानवाहनसूत्सवान् ।तस्मात्पापेऽत्र देहे ते श्रेयो वै मरणं भवेत् ॥३६॥जीवटः प्राह श्रुत्वैव लोमशं दीर्घदर्शिनम् ।देही सर्वत्र सुसुखी यत्र देहे प्रवर्तते ॥३७॥वनं पश्यामि विविधं विविधान् दृश्यसंभवान् ।कुटुम्बं स्त्रीसुताढ्यं च पश्यामि चोत्सवान्वितः ॥३८॥स्पृशामि स्त्रीं सुतं पुत्रीं कुटुम्बिनोऽत्र भूतले ।शृणोमि विविधा गीतीश्चारण्ये स्वजनादियुक् ॥३९॥भक्षयामि रसान् मिष्टान् वृक्षवल्लीसमुद्भवान् ।जिघ्रामि बहुधा गन्धान् भुंजामि विषयान् बहून् ॥४०॥यथादेहं विषया मे वर्तन्ते चोत्तमोत्तमाः ।सकुटुम्बो भवाम्यत्र कुटुम्बं चोत्तमं मम ॥४१॥इत्याकर्ण्य ऋषिः प्राह शृणु कीट! वदामि ते ।अल्पायुस्त्वं लक्ष्यसेऽत्र कृतयत्नोऽपि सर्वथा ॥४२॥मृत्युस्तव हि निकटे धृतपाशः प्रतिष्ठति ।तस्मान् मा वह वाञ्च्छां वा जीवनार्थं सुखाय वा ॥४३॥साधुसमागमः कीट बहुपुण्याय कल्पते ।मृत्युस्ते विद्यतेऽवश्यश्चाऽद्य क्षणे न संशयः ॥४४॥यदि मे दर्शनात् कीट श्रेष्ठं जन्म समिच्छसि ।वद ते तद् ददाम्यत्र शुभं जन्म सतां बलात् ॥४५॥एतान् साधून्नमस्कारं कृत्वा याहि मृतिं ततः ।कल्याणं ते करिष्यामि वद किं ते मनोऽत्र ह ॥४६॥जीवटश्च ततः प्राह यद्येवं मरणं मम ।पार्श्वे मम कुटुम्बस्य सन्निधौ मृतिरस्तु मे ॥४७॥मानवश्च ततो देहो भवत्वत्र च भूतले ।येन श्रेयो विविधं मे सतां योगाद् भविष्यति ॥४८॥इत्युक्त्वा तूर्णमेवाऽसौ वाटपार्श्वमुपागतः ।तृणमूले कृतावासान् कुटुम्बिनश्च गर्तगान् ॥४९॥आजुहाव द्रुतं कीटः सम्मिल्य तान् मृतिं ययौ ।तज्जीवं स्थापयामास क्षत्त्रगर्भे सुराष्ट्रके ॥५०॥पौरराज्यकुले जातो राजा प्रजानियामकः ।लोमशश्च ततो भूयो ययावब्धितटे मुदा ॥५१॥ददर्शभूपं भूयोऽपि जातिस्मरोऽर्चयन्मुनिम् ।जग्राह चरणौ भक्त्या प्रोवाच सर्वमेव तु ॥५२॥ऋषे ते कृपया कीटान्निर्गत्याऽस्मि नृपोऽभवन् ।नार्यो गजाश्च तुरगा उष्ट्रा यानानि सम्पदः ॥५३॥भवन्ति मम भोग्यास्ते कृपयाऽत्र गुरो सदा ।साधुकृपाफलं चैतत् प्राश्नामि मिष्टमुत्तमम् ॥५४॥श्रेष्ठशय्यातले राज्ञीसेवितश्च स्वपिम्यपि ।जागर्मि वन्दितः सूताद्यैश्च देवो यथा हरिः ॥५५॥दास्यो दासा ह्यसंख्या मेऽमात्याश्चाज्ञावहाः शुभाः ।नमस्तेऽस्तु गुरो साधो किं करोमि वदाऽत्र मे ॥५६॥श्रुत्वा हृष्टो लोमशस्तं नृपं वै जीवचन्द्रकम् ।प्राह राजँस्त्वया राजदेहाद् गन्तव्यमेव ह ॥५७॥भोगा भुक्तास्त्वया राजन् बहुधा मे ह्यनुग्रहात् ।अथ त्वं भव विप्रो वै श्रेष्ठजन्म गृहाण च ॥५८॥मम ते दर्शनं जातं तदेव सुकृतं पुनः ।वैष्णवस्त्वं भव मन्त्रं गृह्ण श्रेयो भविष्यति ॥५९॥त्यज मोहं कुटुम्बस्य राज्यस्य स्त्रीजनस्य च ।साधुकृपां गृहाणाऽत्र मा प्रमादी भवाऽत्र वै ॥६०॥इत्युक्तः स नृपस्तूर्णं जग्राह मन्त्रमुत्तमम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥६१॥अथ श्रीलोमशस्तत्र दध्यौ नारायणं हृदि ।तावद् राजा शरीरं स्वं तत्याज सर्वसन्निधौ ॥६२॥सौराष्ट्रे चाऽभवद् विप्रोऽक्षरक्षेत्रेऽत्र चोत्तमे ।कुंकुमवापिकातीर्थे चाश्वपट्टसरोन्तिके ॥६३॥योगायनो महर्षिः स जातिस्मरोऽति भक्तिमान् ।जन्मतः सिद्धिमान् धर्मी ब्रह्मिष्ठः पावनः परः ॥६४॥अथ श्रीलोमशस्तं च कुमारं प्रत्यपद्यत ।अनादिश्रीकृष्णनारायणं भज महामते ॥६५॥मम योगात् क्षेत्रयोगान्मुक्तिस्ते भाविनी शुभा ।परमेश्वरभक्तेश्च फलं ते स्यान्महोत्तमम् ॥६६॥बटुः स वैष्णवश्रेष्ठः सर्वमन्त्रान् ऋषेर्मुखात् ।जग्राह च ततो नैजां जननीं तु कलावतीम् ॥६७॥पितरं चार्यशीलाख्यं ननाम भावतस्तदा ।आज्ञां लब्ध्वा ततस्तूर्णं कृत्वा तीर्थं सुपूजनम् ॥६८॥मामभिगम्य च नैजं देहं त्यक्त्वा विमानगः ।मम सालोक्यमगमद् ब्रह्म धाम सनातनम् ॥६९॥अवाप स पदं लक्ष्मि मम धामाऽक्षरं परम् ।साधोः समागमादेवं मोक्षपदं हि लभ्यते ॥७०॥साधवो मत्पादजुषश्चक्षुर्ददति चान्तरम् ।विधून्वन्ति च पापानि जन्मह्रासं दधत्यपि ॥७१॥कर्मक्षयं कारयन्ति कृपया पुण्यशेवधिम् ।ददत्यपि स्वाऽनुगाय भक्ताय प्रहितात्मने ॥७२॥बन्धनानि विचित्राणि दृढानि यानि चात्मनाम् ।तानि विभेदयित्वेह वितरन्ति शुभानि च ॥७३॥स्वर्गसुखानि रम्याणि सत्यकल्पोद्भवानि च ।देवतुल्यानि वर्ष्माणि भोग्यानीश्वरभानि च ॥७४॥शाश्वतदिव्यमूर्तिं च कृत्वा धामाऽक्षरं मम ।प्रेषयन्ति प्रतापेन नैजेन मम साधवः ॥७५॥साध्व्यश्चैव शुभाचारा मम भक्तिपरायणाः ।स्वयोगमागतान् जीवान् प्रेषयन्ति पदं मम ॥७६॥शृणु लक्ष्मि विनोदिन्या विप्रायाश्च कथां शुभाम् ।धाराग्रामनिवासिन्या भक्ताया मम पावनीम् ॥७७॥पतिव्रता पतिं साध्वी सिषेवे चेशवत् सदा ।भागवतं शतानन्दनामानं विप्रमुत्तमम् ॥७८॥दशसाहस्रवर्षाणि तयोर्गतानि भूतले ।ब्रह्मपरायणयोर्वै भक्तयोरनपत्ययोः ॥७९॥शतानन्दस्त्वेकदां तां पत्नीं प्राह शुभाशयः ।कथं साध्वि ऋतुस्नाता धर्मेण सेविताऽपि वै ॥८०॥गर्भे वंशकरं नैव घारयस्यत्र मे वद ।कारणं वा विभाग्यं वा वन्ध्यात्वं वापि वेत्सि चेत् ॥८१॥मम दोषोऽथवा चास्ते मम भाग्यं न चास्ति वा ।कथं पुत्रवती नैव चिरेणाऽपि विलोक्यसे ॥८२॥श्रुत्वा पत्नी पतिं प्राह कारणं भक्तराट् शृणु ।गर्भवासो महद् दुःखं जीवस्याऽनलपाचने ॥८३॥जन्मदुःखं देहदुःखं मृत्योर्दुःखं पुनः पुनः ।अशुद्धिश्च पुनर्दुःखं निरये गमनं पुनः ॥८४॥वासनाऽपि महद्दुःखं स्नेहदुःखं पुनस्तथा ।एवं दुःखानि चालोक्याऽनपत्यत्वे परं सुखम् ॥८५॥मत्वा नाऽहं धारयामि गर्भं मायाविडम्बनम् ।श्रुत्वा तां च पतिस्त्वाह ऋणं पितृकृतं प्रिये ॥८६॥यावन्नोत्तीर्यते तावत् पितॄणां दुःखमित्यपि ।मम दुःखं च ते दुःखं पुन्नामनरकोद्भवम् ॥८७॥वन्ध्यात्वस्याऽपवादं च निर्वंशत्वादिकिंकथाम् ।अपाकर्तुमपि साध्वी गर्भं धर्तुं त्वमर्हसि ॥८८॥श्रुत्वैवं साध्विका प्राह यद्येवं कान्त संशृणु ।पुत्रा ये ये भवेयुस्ते प्रेषणीया हरिं प्रति ॥८९॥भक्ताः स्युः साधवश्चैते मुक्तिं दास्यन्ति मे च ते ।इत्येवं वाग्बन्धनेन धारयामि च दौर्हृदम् ॥९०॥तथाऽस्त्विति पतिः प्राह ऋतुस्नाता च सेविता ।दधार गर्भं पतितः सुषुवे कालतः सुतम् ॥९१॥ववृधे च शनैर्बालो बोधितश्चाऽऽत्मविद् यथा ।मात्रा विवेकवान् पुत्रः कृतोपवीतसंस्कृतिः ॥९२॥निवेदितश्च मह्यं वै साधुत्वार्थं समर्पितः ।मुक्त्यायनो मया नाम्ना कृतः साधुर्विरक्तिमान् ॥९३॥शतानन्दः प्रसन्नोऽभूत् पुत्रं साधुं विलोक्य ह ।अथ पत्नीं द्वितीयं च गर्भं दधार कालतः ॥९४॥सुषुवे कालतश्चापि वर्धयामास भावतः ।बोधयामास विज्ञानैर्ददौ मह्यं च तं सुतम् ॥९५॥सोऽपि सन्दीक्षितो नाम्ना ब्रह्मायनः कृतो मया ।कविर्जातो महान् साधुर्मोक्षमार्गपरायणः ॥९६॥शतानन्दश्च तं वीक्ष्य प्रसन्नः समजायत ।ददौ तृतीयगर्भं च पत्न्यै प्रसन्नमानसः ॥९७॥सुषुवे सा च तं पुत्रं शिक्षयामास सेवनम् ।ज्ञानं गानं ददौ मह्यं साधुदीक्षार्थमेव च ॥९८॥मया तु दीक्षितो नाम्ना प्रेमायनः कृतः स च ।गीतिकाकुशलः साधुः सोऽपि मोक्षपरोऽभवत् ॥९९॥पुत्राः पञ्चशतान्येवं समजायन्त वै चिरात् ।सर्वे ते साधवो जाता मम दीक्षापरायणाः ॥१००॥दिव्या दिव्यविहाराश्च दिव्यक्रिया हि साधवः ।तीर्थरूपाः समस्तास्ते शीलव्रतपरायणाः ॥१०१॥जीवानां मोक्षदाः सर्वे ज्ञानध्यानपरायणाः ।मम भक्तियुताः सौम्या साधवः साधुभूषणाः ॥१०२॥विद्यावन्तः शीलवन्तो मम मूर्तिपरायणाः ।अश्वपट्टसरःक्षेत्रे वसन्त्येते हि योगिनः ॥१०३॥शतानन्दस्य पुत्रास्ते महाभागवतास्त्विमे ।वर्तन्ते भक्तिकर्तारश्चाऽक्षरे क्षेत्रके मम ॥१०४॥अथाऽन्ते श्रीशतानन्दः पत्नीं प्राह सुतं तु मे ।देह्येकं वंशकर्तारं मा तं साधुं विधेहि वै ॥१०५॥इत्युक्त्वा ब्राह्मणी विनोदिनी पुत्रं तु चान्तिमम् ।विश्वायनं ददौ संशिक्षितं कान्ताय पद्मजे ॥१०६॥विश्वायनोऽभवन्नित्यं गृहधर्मान्वितो हि सः ।विवाहितो वंशकर्ता महर्षिर्लोमशाश्रमे ॥१०७॥महाभागवतो दीक्षायुतो वेदांगपारगः ।अथ विनोदिनी चेयं साध्वीदीक्षासुदीक्षिता ॥१०८॥अमृताख्या ब्रह्मसखी वर्तते त्यागमाश्रिता ।शतानन्दोऽपि साधुत्वे वर्तते चाश्रमे मम ॥१०९॥मम सेवापरो दिव्यगतिमान् पद्मजे सदा ।इत्येवं कथितं तेऽत्र विनोदिन्याः कथानकम् ॥११०॥मोक्षार्थं समवर्तिन्याः सर्वपुत्रार्पणात्मकम् ।पठनाच्छ्रवणाच्चास्य मोक्षमार्गो भवेद्ध्रुवः ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसंगत्या गृध्राणां मोक्षो जीवटकीटस्य मोक्षो विनोदिन्याः पंचशतपुत्राणां साधुत्वं चेत्यादि-निरूपणनामैकाऽशीतितमोऽध्यायः ॥८१॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP