संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि तथा मायालयो यथा प्रजायते ।विद्यया तीर्यते जन्तुरविद्यां जयते यतः ॥१॥ब्रह्मविद्या पराविद्या चात्मविद्या हि या मता ।परमात्मोपासनया ह्यविद्या सा विशीर्यते ॥२॥निर्णयः स्नेहसहितो मननं च तथाविधम् ।माहात्म्यज्ञानसहितं चिन्तनं श्रीहरेस्तथा ॥३॥स्वरूपवेदनं सम्पदभिमत्या युतं मुहुः ।विद्यात्मकं परब्रह्मप्रापकं तन्निगद्यते ॥४॥सा विद्या तु यया परब्रह्माऽधिगम्यते रमे ।अविद्यां सा निरस्यैव परब्रह्म ददाति हि ॥५॥सुवर्णस्य विशुद्धिर्वै चतुर्भिर्जायते यथा ।शिलया छेदनैश्चापि तापनैश्चाभिघातनैः ॥६॥आत्मनोऽपि तथा मायाविगमश्चतुरर्जनैः ।सत्संगेन च ज्ञानेन वैराग्येण प्रभक्तिभिः ॥७॥सत्संगेन गुणानां वै प्रवाहस्य निरोधनम् ।विज्ञानेन संस्काराणां शनैः शनैर्विवर्तनम् ॥८॥वैराग्येण वासनानां क्षयो हरौ प्रवर्तनम् ।स्नेहभक्त्या हरौ सक्तिरसंगो मायया ततः ॥९॥एवं मायाविगमः स्याल्लक्ष्मि कृपया सद्गुरोः ।अनुग्रहेण कृष्णस्य मायालोपो द्रुतं भवेत् ॥१०॥हरेर्वासेन मायाया निवृत्तिस्तु निजात्मनि ।सिंहवासेन सर्वेषां मृगाणां विगमो यथा ॥११॥नृपवासेन क्षुद्राणां देहिनां विगमो यथा ।मृत्युवासेन देहस्थकरणानां गमो यथा ॥१२॥बिलाद्वै सर्पवासेन मूषकाणां गमो यथा ।भयवासेनोत्सवानां हृदयाद्विगमो यथा ॥१३॥उद्वेगानां विगमश्च महोत्सवे यथा भवेत् ।तथा हरेर्निवासेन मायाया विगमो भवेत् ॥१४॥अहं यत्र वसाम्येव तत्र माया न तिष्ठति ।मम भक्ते निवसामि माया तत्र न विद्यते ॥१५॥यः स्यादेकायने कृष्णे लीनो ब्रह्म विचिन्तयन् ।तूष्णीं सर्वविकारेभ्यो मदन्यन्नैव धारयन् ॥१६॥पूर्वं पूर्वं परित्यजेत् स तरेद् भवबन्धनात् ।अद्रोहश्च क्षमावाँश्च शान्तचित्तो जितेन्द्रियः ॥१७॥दैन्यद्वेषविहीनश्च निर्भयो ब्रह्मणोऽर्जने ।जितचित्तो जितभावो भक्तो मे मुच्यते रमे ॥१८॥सर्वजीवेषु निजवच्छुद्धभावनया युतः ।अनहंभावमानादिः सर्वतो मुक्त एव सः ॥१९॥जीवने मरणे स्थैर्ये दुःखे सुखे च मूर्छने ।लाभेऽलाभे प्रिये द्वेष्ये समो यः स हि मुच्यते ॥२०॥न कस्यचित् स्पृहयति नाऽवजानाति कञ्चन ।निर्द्वन्द्वो वीतरागादिः सर्वथा मुक्त एव सः ॥२१॥अजातशत्रुर्निर्बन्धुरनपत्योऽप्यभार्यकः ।त्यक्तधर्मार्थकामश्च निराकांक्षी प्रमुच्यते ॥२२।पुण्याऽपुण्याऽवरहितः प्रारब्धमात्रयापकः ।देहारम्भकतत्त्वानां क्षयवान् शान्तचित्तकः ॥२३॥अद्वैतश्रीहरौ जुष्टः प्रेमभावेन सेवया ।आत्मवेदित्वमापन्नो मदात्मा स विमुच्यते ॥२४॥आशालयो दिव्यदृष्टिर्जगत्पश्येदशाश्वतम् ।अश्वत्थसदृशं जन्ममृत्युजरासमन्वितम् ॥२५॥वैराग्यशान्तभावाद्यैरुपेतो दोषवर्जितः ।आत्मबन्धं प्रजहाति मोक्षं यात्यचिरात् स वै ॥२६॥दिव्यगन्धरसस्पर्शशब्दरूपप्रमोदिनम् ।मायामूर्तिविहीनं मां दृष्ट्वा क्षिप्रं प्रमुच्यते ॥२७॥अस्थूलं चाप्यसूक्ष्मं चाऽकारणं तत्परं प्रभुम् ।अगुणं गुणभोक्तारं मां दृष्ट्वा द्राक् प्रमुच्यते ॥२८॥विमुच्य सर्वकामांश्च बुद्ध्या चान्तर्भवानपि ।मम भावान्वितो भक्तः शनैर्निर्वाणमृच्छति ॥२९॥बाह्माभ्यन्तरसंस्कारैर्मुक्तो द्वन्द्वविवर्जितः ।निष्परिग्रह एवाऽयं निःसंगो मुक्त एव सः ॥३०॥तापसो मम भावाढ्यश्चान्यसंस्कारवर्जितः ।ब्रह्म सनातनं लब्ध्वा नित्यमक्षरमूर्ध्वगम् ॥३१॥शान्तः सन् मां समभ्येति परव्रह्म परात्परम् ।आत्मन्यात्मानं स मां वै पश्यन् याति परं पदम् ॥३२॥सर्वेन्द्रियाणि संहृत्य वृत्तीर्मनसि धारयेत् ।मनोऽहंभावने धृत्वाऽहं बुद्धौ धारयेत्ततः ॥३३॥बुद्धिं नियम्य सततं स्मरणं च तथाविधम् ।संस्कारेषु प्रधार्य संस्कारान् जुहुयादात्मनि ॥३४॥आत्मानं जुहुयात् कृष्णेऽनादौ श्रीपुरुषोत्तमे ।एवं मद्योगमापन्नो नित्यमुक्ताय कल्पते ॥३५॥एतादृशः परः साधुरेकान्तशील एव सः ।भवन् पश्यन्निजे रूपे मां मदानन्दमश्नुते ॥३६॥अन्तश्चक्षुःसहितेन प्रकाशेनाऽनिवर्तिना ।पश्यत्यात्मनि चात्मानं मां पतिं पुरुषोत्तमम् ॥३७॥एवं लग्नो निजात्मनाऽऽत्मानं मां तत्र पश्यति ।यथा हि पुरुषः स्वप्ने स्वं वै पश्यत्यसाविति ॥३८॥तथाऽयं स्वे स्वरूपे मां साध्वात्मानं प्रपश्यति ।देहे स्नातस्य तु यथा लग्नं जलपटं तु यत् ॥३९॥निष्कृष्य कुशलः कश्चित् तत्पृथक् चेत् प्रदर्शयेत् ।देहं चाऽपि तथाऽऽकृष्य सूक्ष्माद् भिन्नं प्रदर्शयेत् ॥४०॥सूक्ष्मं कारणादाकृष्य पृथक्तया प्रदर्शयेत् ।कारणं चापि मायातः पृथक्कृत्वा प्रदर्शयेत् ॥४१॥मायां जीवात् पृथक्कृत्वा तथा कश्चित् प्रदर्शयेत् ।जीवं हरेः पृथक्कृत्य तथा योगी प्रदर्शयेत् ॥४२॥आत्मानं वै पृथक्कृत्य यथा योगी प्रदर्शयेत् ।तथा मां परमात्मानं पृथक्कृत्य प्रदर्शयेत् ॥४३॥तथापि स न युक्तात्मा पृथग् भूम्नो भवेद्धि मत् ।व्यापकोऽहं समस्तानां तस्याप्यैश्वर्यरोधकः ॥४४॥तं मय्यन्तःप्रभाव्यैव नियामयामि सर्वथा ।मामापन्नो मम मुक्तो ममैश्वर्याणि चाश्नुते ॥४५॥मायाऽस्य विनिवृत्ता वै मां यातः सोऽक्षरे परे ।तत्र माया विद्यते न यथा तत्र तथाऽत्र न ॥४६॥यत्र क्वापि वर्तमानो मद्भक्तो ह्यस्त्यमायिकः ।निर्गुणो दिव्यगुणवान् निर्वाणपदभाजनः ॥४७॥यदा हि युक्तमात्मानं मया पश्यति देहभृत् ।न तस्येहेश्वरः कश्चित् त्रैलोक्यस्यापि स प्रभुः ॥४८॥एकधा भवति द्वेधा त्रेधा दशधा सहस्रधा ।अन्याऽन्याश्च तनू रम्या यथेष्टं प्रतिपद्यते ॥४९॥न तस्य रोगो न जरा न मृत्युः शोक इत्यपि ।देवानामपि देवत्वं सोऽयं कारयते वशी ॥५०॥परब्रह्म ह्यवाप्नोति हित्वा विदेहभावनाम् ।ब्रह्मभावं गतस्याऽस्य नाशभयं न जायते ॥५१॥क्लिश्यमानेषु नष्टेषु भूतेष्वस्य न वै भयम् ।न क्लेशैर्दुःखशोकैश्च घोरैः संगादिकोद्भवैः ॥५२॥विचाल्यते न युक्तात्मा निःस्पृहः शान्तिसंभृतः ।नैनं मृत्युर्विध्यति वै नैनं कालो ग्रसत्यपि ॥५३॥नातः सुखतरं किञ्चिल्लोकेऽस्यान्यद् विलोक्यते ।सम्यग् युक्त्वा निजात्मानं मयि कृष्णे प्रतिष्ठते ॥५४॥विनिवृत्ततृषादुःखः सुखं स्वपिति चात्मनि ।रूपं यथेष्टमभ्येति हित्वेमां मानुषीं तनुम् ॥५५॥ततो मुक्तेन निर्वेदः कर्तव्यो न विधीयते ।आत्मद्रष्टा स्पृहयते नैव भोगान्महैश्वरान् ॥५६॥आत्मनिष्ठो महामुक्तो जीवन्मुक्तो विदेहवान् ।निषीदेन्नगरे चापि मनो बाह्यं न मुञ्चति ॥५७॥नगराभ्यन्तरे तिष्ठन्निजावसथे संवसेत् ।मनो नैवाऽवसथेऽपि बाह्यं मुक्तो विमुञ्चति ॥५८॥यत्र कुट्यां वसेच्चापि पार्श्वे मनो न मुञ्चति ।यत्र देहे वसत्येव तत्रापि स्वमनो बहिः ॥५९॥देहात्मकेऽपि विषये क्षणं नैवापि मुञ्चति ।इन्द्रियेषु गोलकेषु तन्मात्रेषु न मुञ्चति ॥६०॥मूलाधारादिचक्रेषु मनः क्षणं न मुञ्चति ।सूक्ष्मेऽपि चान्यतत्त्वेऽपि क्षणं मनो न मुञ्चति ॥६१॥काये त्रिविधे सर्वत्र वासनावर्जितो यतः ।अन्तरे बहिरेकात्मा मां हरिं परिपश्यति ॥६२॥परिपूर्णं यतोऽस्याऽत्र सर्वं तेन स सदृशम् ।परिपूर्णतमं मां वै लोकयत्येव नेतरत् ॥६३॥सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ।सर्वतः श्रुतिमान् भूत्वैतादृशं मां प्रपश्यति ॥६४॥धारयन्नपि देहं स्वं चष्टे वै ब्रह्म केवलम् ।आत्मानं चाऽऽप्य विमानं प्रमोदसंभृतस्तदा ॥६५॥विमानमाश्रयं कृत्वा मोक्षं याति ततो मयि ।नैतदेतत्सुविज्ञेयं व्यामिश्रेणाऽन्तरात्मना ॥६६॥क्रियावतां देवलोको ज्ञानिनां व्योम शाश्वतम् ।सिद्धानां सत्यभवनं भक्तानां ब्रह्म शाश्वतम् ॥६७॥परा हि सा गतिर्लक्ष्मि यत्तद् ब्रह्म सनातनम् ।यत्राऽमृतत्वं कुशलं सुखं प्रमोदनं सदा ॥६८॥इमं साधनमाश्रित्य पापाः स्त्रियोऽन्तिमस्थिताः ।सर्वे यान्ति परां प्राप्तिं किं वै पुनर्बहुश्रुताः ॥६९॥ये स्वधर्मनिरताः साधुभक्ताः परार्थिनः ।ब्रह्मविदो नैष्ठिकाश्च नित्यं ब्रह्मपरायणाः ॥७०॥मम लोकात्परं त्वन्यत् सुखं किञ्चिन्न विद्यते ।ज्ञात्वा त्यक्त्वा च सम्मोहं परां गतिमवाप्नुयात् ॥७१॥एतन्मायाविलयनं मोक्षणं ते प्रदर्शितम् ।ममैव साध्यस्य योगाद् युज्यते परमे पदे ॥७२॥नाऽस्य लक्ष्मि तृषा चास्ते मां विहायाऽन्यगोचरा ।तत एव हि भक्तोऽसौ राजते मत्परे पदे ॥७३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मं मायाविलयनसाधनं परब्रह्मधामप्रापणं चेत्यादिनिरूपणनामा द्वासप्तत्यधिकशततमोऽध्यायः ॥१७२॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP