संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि चमत्कारं साधोः श्रीचिह्नयोगिनः ।सौराष्ट्रवासिनस्तेऽत्र वदामि स्मृद्धिमोक्षदम् ॥१॥आसीत् साधुर्मम भक्तो कीशादनपुरस्थितः ।श्रीचिह्नयोगीतिसिद्धो दिव्यकर्मा समाधिमान् ॥२॥अनादिश्रीकृष्णनारायणं मां भजते स्म सः ।क्वचिददृश्यरूपेण क्वचिद् दृश्येन वर्तते ॥३॥क्वचिज्जले वने वृक्षे पर्वते वसति क्वचित् ।वृष्टौ तापे क्वचिच्चाऽब्धितटे चाऽश्वसरोवरे ॥४॥क्वचिद् वह्ना च वायौ च क्वचिद् विशति गह्वरे ।एतादृशः समर्थोऽपि भजते मां निरन्तरम् ॥५॥'अनादिश्रीकृष्णनारायण श्रीपरमेश्वर ।अक्षराधिपते लक्ष्मीपते श्रीपुरुषोत्तम' ॥६॥एवं मां रटति नित्यं भजते च पुनः पुनः ।कृष्णनारायणनाम्ना मालां करोति नित्यशः ॥७॥स्नानं ध्यानं च पूजां करोति मम नित्यदा ।मानसे हृदये नित्यं मूर्तं पश्यति मां हि सः ॥८॥सहस्रशो लक्षशश्च मानवा यमुपासते ।कल्पवृक्षसमं सन्तं वीक्ष्य यत् कल्पयन्ति ते ॥९॥सर्वं तत् फलति तेषां कल्पनादेव सन्निधौ ।नाऽऽशीर्वादावश्यकता सेवावश्यकता न च ॥१०॥एवंविधः स साधुस्त्वेकदा कौपीनमात्रधृक् ।यदृच्छया चोपपन्नो देवानीकनृपं प्रति ॥११॥सौराष्ट्रराजो विज्ञाय सन्तं नेमे पुपूज तम् ।स्वागतं चासनं दत्वा मधुपर्कं ददौ ततः ॥१२॥पादामृतं जलं लब्ध्वा पपौ कुटुम्बयुङ्नृपः ।कल्याणदेवानीकस्त्री सहजाश्रीरिति नृपी ॥१३॥नेमे तं च ददौ भोज्यं मिष्टं फलं जलं घृतम् ।मुनिर्जग्राह भावेन पपौ वारि तुतोष च ॥१४॥राजा सत्कृत्य बहुधा मुनिं पुनरथाऽब्रवीत् ।भगवन् परवन्तौ स्यो ब्रूहि किं करवावहै ॥१५॥यदि राज्यं यदि धनं यदि गा यदि भामिनीम् ।यानं सुतां सुतं सौधं ब्रूहि सर्वं ददामि ते ॥१६॥इदं गृहमिदं राज्यमिदं धर्मासनं च ते ।नृप त्वमसि शाध्युर्वीमहन्तु परवाँस्त्वयि ॥१७॥श्रुत्वा श्रीचिह्नयोगी तं प्राह भक्तं नृपं द्विजम् ।न राज्यं कामये राजन्न धनं भामिनीं न च ॥१८॥न गाः पानं सुतां सौधं सुतं वा कामये नृप ।किन्तु मया गृहीतोऽस्ति नियमस्तस्य पूर्तये ॥१९॥परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशंकया ।राजा हृष्टोऽभवच्छ्रुत्वा प्राह तथाऽस्तु तं मुनिम् ॥२०॥प्रावेशयद् गृहोद्देशं दर्शनीयमदर्शयत् ।इयं शय्या भगवतो यथाकाममिहोष्यताम् ॥२१॥प्रासादोऽयं च भोगाश्च भुज्यन्तां स्वीयसम्पदः ।व्रतं सम्यगनुतिष्ठ सर्वं गृहाण पूर्तये ॥२२॥किमन्नं किं जलं चान्यत् किं किं भवतोऽपेक्षितम् ।यतिष्ये प्रीतिमाहर्तुं किमुपस्थापयामि च ॥२३॥श्रुत्वा मुनिर्भोजनं च यथोपपन्नमुत्तमम् ।पायसाद्यं प्रयच्छस्वेत्याह राजा समानयत् ॥२४॥बुभुजे च जलं पीत्वा प्राह श्रीचिह्नयोगिराट् ।स्वप्तुमिच्छामि शय्यायां न प्रबोध्योऽस्मि सर्वथा ॥२५॥संवाहितव्यौ मे पादौ जागृतव्यं च ते निशि ।इत्युक्त्वा स प्रसुष्वाप दिवसानेकसप्ततिम् ॥२६॥शुश्रूषापरमौ राज्ञीनृपौ चाहारवर्जितौ ।बभूवतुस्ततः साधुरुत्तस्थौ व्रतमास्थितः ॥२७॥प्रोवाच स तदा तैलाभ्यंगो मे रोचतेऽधुना ।राज्ञीनृपौ सुगन्धाढ्यतैलाभ्यंगं प्रचक्रतुः ॥२८॥कारयामासतुः स्नानं भूषयामासतुस्तथा ।भोजयामासतुश्चापि साधुं मिष्टान्नकानि च ॥२९॥मिष्टपाकान् समग्राँश्च लड्डुकान् सर्वजातिकान् ।वेशवारविशेषाँश्च पोलिकाः पूरिकादिकाः ॥३०॥रसान्नानाप्रकाराँश्च शाकानि विविधानि च ।द्रवाणि सर्वरूपाणि भर्जिताँच कणाँस्तथा ॥३१॥क्षाराम्लमिष्टचूर्णानि फलानि विविधानि च ।आरनालानि रम्याणि राजभोज्यानि सर्वशः ॥३२॥भोजयामासतुस्तत्र महर्षिर्बुभुजे सुखः ।आह कल्याणनृपतिं राज्ञीं वहत मां वनम् ॥३३॥स्कन्धे कृत्वा शिबिकायां राजा राज्ञी मुदं गतौ ।स्वर्णरूप्यादिसंशोभमारोहयित्वा तं मुनिम् ॥३४॥ऊहतुर्नगरे चापि नगरान्ते तथा वने ।दृष्ट्वा प्रसन्नमनसौ निर्विकारौ हि सेवकौ ॥३५॥प्रसन्नः श्रीचिह्नयोगी शिबिकातो ह्यवातरत् ।विमुक्त्वा तौ वरं श्रेष्ठं ब्रूतां ददान्युवाच तौ ॥३६॥सुकुमारौ च तौ विद्धौ पादयोः स्कन्धयोस्तथा ।पस्पार्शाऽमृतकल्पाभ्यां कराभ्यां चिह्न योगिराट् ॥३७॥सुसम्पन्नौ श्रमहीनौ दिव्यदेवाविव ह्युभौ ।सञ्जातौ नवरूपौ च तथा च नवयौवनौ ॥३८॥तौ मुनिश्चाह गम्येतां कीशादनं निजं पुरम् ।अहमत्र निवत्स्यामि वने व्रतं चराम्यपि ॥३९॥यत्कांक्षितं युवयोस्तु सर्वं तद्वै भविष्यति ।इत्युक्ते नृपराज्ञ्यौ चाहतुस्तं वै मुनीश्वरम् ॥४०॥अपराधाश्च सेवायां जाताश्चेत्ते मुनीश्वर ।क्षन्तव्याः सर्व एवैते दयावार्धिमहात्मना ॥४१॥तव प्रीतिं प्रसादं चाऽभिकांक्षावः सदा मुने ।प्राह श्रीचिह्नयोगी तु पश्यतां रूपमैश्वरम्॥प्रसन्नोऽस्मि हरिश्चाऽस्मि श्रीचिह्नहृदयोऽस्म्यहम् ।श्रीवत्सवक्षा मे नाम लक्ष्मीपतिर्भवाम्यहम् ॥४३॥साधुरूपो गृहे तेऽत्र चागतोऽस्मि कृपावशः ।ममाऽवतारो भक्तानां सदा कल्याणहेतवे ॥४४॥अतश्चरामि साधुर्वै दिव्यदेहो जनार्दनः ।देवानीक! प्रसन्नोऽस्मि सहजाश्रि रतोऽस्मि च ॥४५॥वृणुतं सद्वरान् स्वेष्टान् सेवाफलं ददामि च ।श्रुत्वैवं तु तदा लक्ष्मि देवानीकः प्रणम्य तम् ॥४६॥प्रपूज्य परमात्मानं मत्वा सुकृतमात्मनः ।प्रोवाच स्नेहमद्वाक्यैर्भगवन्तं हि मां तदा ॥४७॥प्राप्तं सर्वं मया कृष्णनारायण तवागमात् ।सेवया पूर्णया तीर्णः सपत्नीकश्च तद्बहु ॥४८॥यत्प्रीतोऽसि हरेकृष्ण कुलं त्रातं च तारितम् ।एष मेऽनुग्रहस्तत्र सेवा फलं च जीवतः ॥४९॥एतद्राज्यफलं चैव भक्तेश्चापि फलं मम ।किं च त्वं प्रीतिमानास्से संशयं मे निवारय ॥५०॥किंव्रतं कीदृशं कस्मादेतत्सर्वमनुष्ठितम् ।श्रुत्वा श्रीचिह्नयोगी च देवानीकमुवाच ह ॥५१॥शृणु भक्त समग्रं तन्मया यन्निश्चितं स्वतः ।तव वंशे भविष्यामि भगवान् भक्तवल्लभः ॥५२॥त्वां तथा तव राज्ञीं च पावनार्थमुपागतः ।पावने भक्तवंशेऽहं ततश्चावतरामि हि ॥५३॥साधुरूपं मम रूपं पावयत्येव मानवान् ।साधुरूपेण बीजं त्वां पूतं कृत्वा ततः परम् ॥५४॥अनादिश्रीकृष्णनारायणः श्रीकृष्ण एव वै ।श्रीमद्गोपालबालोऽहं कंभराश्रीसुतो हरिः ॥५५॥भविष्यामीति सेवायाः फलदानार्थमेव ह ।सेवां कारयितुं चात्र समायातोऽस्मि सर्वथा ॥५६॥यथोक्ता मम सेवा वै कृता त्वया च योषिता ।पादसंवाहनं स्नानं भोजनं शिबिकाधृतिः ॥५७॥सर्वं सम्पादितं मे वै तेन ते वंशजास्त्विह ।परत्रापि तथा सर्वे भविष्यन्ति सुखान्विताः ॥५८॥भवानपि च गोलोकं कालान्तरे गमिष्यति ।सभार्यस्त्वं महानन्दं धाम्नो मेऽपि लभिष्यसि ॥५९॥पत्नीव्रतस्य विप्रस्य ब्राह्मण्यं वर्तते तव ।त्वद्वशे राजलक्ष्म्याश्च राजता ब्रह्मता पुनः ॥६०॥ब्राह्मण्यं मम वासेन ध्रुवं सदा भविष्यति ।ब्रह्मिष्ठत्वे महर्षित्वं तपस्विता च साधुता ॥६१॥मुक्तता दिव्यता चापि कृष्णता मोक्षदातृता ।सर्वपूज्यत्वमेवाऽपि सर्वरत्नसमुद्रता ॥६२॥सर्वसौभाग्यखनिता सर्वैश्वर्याढ्यता तथा ।श्रीलक्ष्मीशारदाभूतिसम्पदाश्रयता सदा ॥६३॥एतत्सर्वं मम वासाद् भविष्यति पुरा कुले ।इत्युक्त्वा भगवान् सोऽहं दत्वा हारं तु कानकम् ॥६४॥मणिमालां तथा दत्वा दत्वा मन्त्रं परं मनुम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ॥६५॥पात्रं तथाऽक्षयं दत्वा दत्वा चक्रं सुदर्शनम् ।अदृश्यतां गतश्चाऽहं देवानीको ययौ गृहम् ॥६६॥स्वर्णवर्णान् सुप्रासादान् प्राकारं कानकं तथा ।कल्पोद्यानावृतं दृष्ट्वा वीक्ष्याऽप्सरोयुतं निजम् ॥६७॥मन्दिरं च तथा दिव्यविमानेन सुशोभितम् ।दासदासीगणान् दिव्यान् शंखचक्रादिचिह्नितान् ॥६८॥कामधेनूश्च परितो गौरीर्लक्ष्मीश्च कन्यकाः ।प्रजा वैकुण्ठतुल्याश्च हस्तिनश्चाष्टदन्तिनः ॥६९॥अश्वान् श्वेतान् श्यामकर्णान् हंसान् श्वेतान् विहंगमान् ।रथान् सूर्यशशिव्रातसंशोभान् व्योमगामिनः ॥७०॥पार्षदान् विष्णुरूपाँश्च देवानीको मुमोद ह ।यज्ञकुण्डान् मण्डपाँश्च महर्षीन् साधुमण्डलम् ॥७१॥साधुजनान् लक्षशश्च देवान् सर्वान् ददर्श ह ।स्वर्णनदी पार्श्वतश्च यान्तीं ददर्श भक्तराट् ॥७२॥श्रीहरेः कृपया लक्ष्मि देवानीकोऽभवत्तथा ।महेन्द्र इव नृपतिः स्वराड् राज्ञी रमा यथा ॥७३॥कृपया मम योगेन धामाऽक्षरं व्यजायत ।कीशादनं नगरं तच्छ्रीशायनं व्यजायत ॥७४॥देवानीको महाश्चर्यं जगाम तं च मां प्रभुम् ।अभजत् परया प्रीत्या संस्मरन् साधुरूपिणम् ॥७५॥अथाऽहं गतकालेन जातोऽस्मि भक्तवत्सलः ।कोट्यर्बुदाब्जपत्नीनां नाथः श्रीपुरुषोत्तमः ॥७६॥एवं साधोः प्रसंगेन प्रसंगेन हरेस्तथा ।सेवकस्य कुलं सर्वं भवत्येव हरेः कुलम् ॥७७॥श्रीनारायणीश्रीरुवाच-कान्तोऽसि सर्वनाथोऽसि परमेशः स्वयं हरिः ।अकुलस्य कुलं नास्ति श्रीहरेस्तव शार्ङ्गिणः ॥७८॥तथापि मानवे लोके वंशमूला परम्परा ।प्रवर्ततेऽतस्ते कृष्ण तामिच्छामि प्रवेदितुम् ॥७९॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि पुरा सृष्टेरहं नारायणोऽभवम् ।ममांगेभ्योऽभवन् ब्रह्मविष्णुरुद्रसुरादयः ॥८०॥सृष्ट्यादौ च तदा नारायणस्य परमात्मनः ।मुखपिण्डाद् ब्राह्मणः श्रीपत्नीव्रतो बभूव ह ॥८१॥पतिव्रताख्या भार्याऽस्य युगलं तद्बभूव ह ।परमेष्ठिसमायुष्यं वृषमूर्त्यात्मकं हि तत् ॥८२॥पूर्वपितामहाख्यं मे लक्ष्मि निबोध चादिमम् ।पत्नीव्रतस्य वै पुत्रो ब्रह्मव्रतस्तु मानसः ॥८३॥शीलव्रताऽस्य भार्या च बभूव मानसी च सा ।परमेष्ठिसमायुष्यौ तावुभौ व्यूहकोटिजौ ॥८४॥वासुदेवो वासुदेवी यौ तावुभौ बभूवतुः ।तयोः शिष्या लक्षशोऽपि स्वतःप्रकाशयोगिना ॥८५॥निभालिता अभवँश्च सौराष्ट्रे सर्वतोदिशि ।ब्रह्मव्रतस्य वै पुत्रो ब्राह्मणः पृथिवीपतिः ॥८६॥नाम्ना कल्याणदेवानीकस्तु कीशादनेश्वरः ।सहजाश्रीसंज्ञया च भार्यया युग् बभूव ह ॥८७॥वेधःपूर्वार्धसमयायुष्यौ तौ च बभूवतुः ।भूमानारायणो योऽसौ भौमानिकीश्रिया युतः ॥८८॥ब्रह्माण्डेऽत्राऽऽज्ञया मे वै प्रादुर्भूतो हि ताविमौ ।ताभ्यां श्रीचिह्नयोगीतिस्वरूपेण सता मया ॥८९॥आशीर्वादः प्रदत्तो वै प्राकट्यार्थं कुले मम ।अथ कल्याणदेवानीकस्य पुत्रोऽपि मानसः ॥९०॥कृष्णमुकुटमण्यात्मा चानर्तनृपपूजितः ।पिचुदेवानीकनामा नारायणस्वरूपवान् ॥९१॥वभूव मुकुटकल्ग्या मिष्टादेव्या पुत्रोऽत्र ह ।वेधःपूर्वार्धसमयायुष्यौ त्वेतौ बभूवतुः ॥९२॥पिचुदेवानीकपुत्रो महाविष्णुः स्वयं प्रभुः ।श्रीमान् गोपालकृष्णाऽऽख्यो दशकल्पायुरेव ह ॥९३॥महालक्ष्म्या कंभराश्रीदेव्या युतो बभूव ह ।खट्वांगदनृपस्याऽर्थे वरदानाय चागतौ ॥९४॥एतौ तु पितरौ मत्वाऽनादिकृष्णनरायणः ।मानसोऽहमभवं सुपुत्रः श्रीपुरुषोत्तमः ॥९५॥कोट्यर्बुदाब्जपत्नीनां भक्तानां च पतिः प्रभुः ।अक्षराधिपतिः श्रीशश्चावतारी परात्परः ॥९६॥भवामि शिवराज्ञीश्रि! कान्तस्ते कृष्णमाधवः ।अहं, मम पिता, तस्य पिता, तस्य पिता तथा ॥९७॥तत्पिता, तत्पिता, तस्य पिता चैते तु पूर्वजाः ।सर्वे नारायणा नारायणांशा मत्स्वरूपिणः ॥९८॥नारायण्यो मातरश्च सर्वा मदात्मिकाः खलु ।किमु तद्बहुनोक्तेन लक्ष्मि जानासि सर्वथा ॥९९॥अहं सर्वात्मको भूत्वा लीलां विस्तारयामि ताम् ।वंशस्य श्रवणात्पाठाद् भुक्तिर्मुक्तिर्ध्रुवा भवेत् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कल्याणदेवानीकभक्तस्य सेवापरीक्षा, श्रीकृष्णनारायणपरम्परानिर्देशश्चेत्यादिनिरूपणनामा सप्ताधिकशततमोऽध्यायः ॥१०७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP