संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं प्राकट्यं मे ततः परम् ।वेधसोऽष्टात्रिंशवर्षे कल्पे षष्टेऽष्टमे मनौ ॥१॥ब्रह्मधर्मसमुत्पन्नोऽसुरोऽरिष्टोऽनलादनः ।ववृधे जातमात्रः स बुभुक्षितोऽतितैजसः ॥२॥अन्यतेजांसि यद्देहे लयं यान्ति समन्ततः ।अग्नीन् सर्वान् भक्षयति नान्यं भुंक्ते हि जन्मतः ॥३॥जलं पृथ्वीं न ग्रसते ग्रसतेऽनलमात्रकम् ।यत्र यत्राऽनलाः सन्ति वह्नयस्तत्र तत्र सः ॥४॥गत्वा गत्वा प्रसह्याऽग्निं धृत्वा धृत्वाऽत्ति सर्वशः ।ब्रह्मणो मानसं पुत्रं महाग्निं स त्वभक्षयत् ॥५॥तत्त्रिसुतान् पावकं च पवमानं शुचिं तथा ।अभक्षयत्तथा पावकात्मजं सहरक्षकम् ॥६॥पवमानात्मजं कव्यवाहनं चाप्यभक्षयत् ।शुच्यात्मजं हव्यवाहं धृत्वाऽसुरोऽप्यभक्षयत् ॥७॥अग्नेश्चतुर्थं पुत्रं ब्रह्मौदनाग्निमभक्षयत् ।ब्रह्मौदनाग्निपुत्रं च भरतं चाप्यभक्षयत् ॥८॥तथा भरतपुत्रं च वैश्वानरमभक्षयत् ।अथाग्नेः पञ्चमं पुत्रमथर्वाणमभक्षयत् ॥९॥अथर्वपुत्रानमृतं दध्यङ्गमङ्गिरं तथा ।निर्मथ्य चेति चतुरोऽप्यभक्षयत् महाऽसुरः ॥१०॥निर्मथ्यस्य सुतं गार्हपत्यं तथा ह्यभक्षयत् ।गार्हपत्यसुतौ शंस्यं शुकं तथा ह्यभक्षयत् ॥ ११॥शंस्यसुतानावसथ्यं सभ्यं चाहवनीयकम् ।अभक्षयन्महारिष्टानलादो नाम चासुरः ॥१२॥तथा शंस्यसुतानन्यान् नदीषु जातसंभवान् ।धिष्णिसंज्ञानपि पुत्रानभक्षयन्महासुरः ॥१३॥ऋतुं प्रवाहणं चाग्नीध्रं सम्राजं कृशानुकम् ।पारिषदं प्रतल्कं च नभसं च वसुं तथा ॥१४॥अजैकपाद्ं चाहिर्बुध्नं च गृहपतिं तथा ।अभक्षयच्च होत्रीयं शान्तप्रचेतसं तथा ॥१५॥विश्वदेवं तथाऽवक्षुमच्छावाकमभक्षयत् ।उशीरं च कविं पोतमावारिमप्यभक्षयत् ॥१६॥भारिं नैष्ठीयसं चापि व्यरत्निमप्यभक्षयत् ।मार्जालीयमवत्फूर्जमब्जं च जाठरं तथा ॥१७॥जठरस्य सुतं मन्युमन्तं तथा ह्यभक्षयत् ।सवर्त्तकं मन्युमज्जं वाडवं चाप्यभक्षयत् ॥१८॥वाडवोत्थं सहरक्षं क्षामं च सहरक्षजम् ।क्षामात्मजं च क्रव्यादं ह्यभक्षयन्महासुरः ॥१९॥शुचेः पुत्रमारणेयं चापरं चाप्यभक्षयत् ।आरणेयसुतं चायुं चायुजं महिमानकम् ॥२०॥महिमानसुतं चापि सवनं चाप्यभक्षयत् ।सवनोत्थं चाद्भुतं च विविधिं चाद्भुतात्मजम् ॥२१॥विविधिजं तथाऽर्कं चाऽप्यभक्षयन्महासुरः ।अर्कसुतान् वाजसृगमनीकवन्तमित्यपि ॥२२॥यष्टिकृतं रक्षोहं च सुरभिं च वसुं तथा ।अन्नादं रुक्मराजं चाप्यभक्षयन्महासुरः ॥२३॥एवमन्यान् श्मशानस्थान् महासुरोऽप्यभक्षयत् ।एवं नारायणीश्रि! वै जगच्चाग्निविवर्जितम् ॥५४॥दाहशून्यं पाकशून्यं हिमवत् संव्यजायत ।मृत्यून्मुखं समस्तं वै वीक्ष्य पृथ्वी शुचान्विता ॥२५॥ययौ सत्यालयं तत्र ब्रह्माणं शरणं गता ।तुष्टाव परया भक्त्याऽनलरक्षार्थमेव सा ॥२६॥अनलादविनाशार्थं चक्रे वै प्रार्थनां मुहुः ।ब्रह्मा सस्मार मनसा मां तदा पुरुषोत्तमम् ॥२७॥अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।परब्रह्माऽक्षरातीतं सर्वान्तर्यामिणं हरिम् ॥२८॥श्रुप्वाऽहं प्रार्थनां लक्ष्मि! प्रत्यक्षो ब्रह्मणोऽभवम् ।त्वया साकं तदा पद्मे ब्रह्मा पुपूज मां तथा ॥२९॥त्वां पुपूज पृथिवी साऽऽर्थयद् रक्षार्थमित्यथ ।असुरस्य विनाशार्थं तदा त्वं तु मदाज्ञया ॥३०॥पृथ्वीपुत्री चाभवश्च पार्थिवीश्रीः सुकन्यका ।त्वां नीत्वा सा ययौ तूर्णं भूलोकं विमलाशया ॥३१॥अहं वह्नेः स्वरूपं च धृत्वा ज्वालात्मकोऽभवम् ।अनलादोऽसुरो मां संवीक्ष्य मेरौ समाऽऽद्रवत् ॥३२॥भक्षणार्थं चाययौ प्राऽद्रवं चाहं भुवं प्रति ।यत्र त्वं भूसहिता च प्रतीक्षसे ममाऽऽगमम् ॥३३॥भानुमत्पर्वतस्यैव गह्वरे तत्र चाऽऽगमम् ।पश्यन्त्याश्च तव चापि पृथ्व्यास्तत्र महासुरः ॥३४॥अगिलन्मां महाज्वालामयाऽग्निं परमेश्वरम् ।अहमन्तर्गतो भूत्वाऽदहं तं वै महासुरम् ॥३५॥भस्मीभूतं च तं कृत्वा वह्नीनजीवयं पुनः ।सर्वेऽग्नयस्तदा जीवसहिताश्चेतनाः शुभाः ॥३६॥यथापूर्वमभवँस्तेऽस्तुवन्मां चाप्यपूजयन् ।अनादिश्रीवह्निनारायणं मां पुरुषोत्तमम् ॥३७॥मयाऽऽज्ञप्ता वह्नयस्ते स्वस्वस्थानेषु वै द्रुतम् ।प्रवृत्ताः स्वस्वकार्येषु सशक्ताश्च समन्विताः ॥३८॥अथ जगन्ति वै लोकाः प्रजाश्च साऽग्नयोऽभवन् ।हिमभावो गतस्तेषां सजीवा ह्यभवन् पुनः ॥३९॥सर्वे ज्ञात्वा मम तत्र प्राकट्यं तु सुरादयः ।आययुः पूजनार्थं ते व्योमवृष्टिस्ततोऽभवत् ॥४०॥चन्दनानां कुसुमानां जयशब्दस्तथाऽभवन् ।महोत्सवः कृतस्तत्र सर्वदेवादिभिर्मम ॥४१॥पृथ्व्या त्वं चार्पिता मह्यं पार्थिवीश्रीर्विवाहिता ।आकल्पान्तं स्थितश्चाऽहं त्वया साकं नरायणि ॥४२॥प्राकट्यं मे कथितं ते लक्ष्मि! स्मर सुखप्रदम् ।अन्येऽवतारा बहवस्तदा वर्षेऽभवन्मम ॥४३॥जानाम्येतान् समस्तान् वै नान्यो जानाति कश्चन ।पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः प्रजायते ॥४४॥वह्नेरुपद्रवो न स्याद् रोगाः स्युर्न कदाचन ।आनन्दं ब्रह्मणो नित्यं लभेदेवाऽत्र पाठकः ॥४५॥अथाऽन्यच्चापि मे लक्ष्मि! प्राकट्यं च ततः परम् ।कथयामि समासेन महापुण्यप्रदं शुभम् ॥४६॥नवत्रिंशे वेधसश्च नागवर्षे पुराऽभवत् ।षष्ठकल्पे षष्ठमनौ इलोदरो महासुरः ॥४७॥रसादः सर्वतत्त्वानां रसभक्षक उल्बणः ।राहोः पुत्रोऽसुरकर्मा स्वर्गभूरसभक्षकः ॥४८॥स हि पृथ्व्यां समागत्य तपस्तेपेऽतिदारुणम् ।सहस्रवत्सरान् मेरो तुतोष शंकरः स्वयम् ॥४९॥आययौ सन्निधौ तस्योवाच वृणु वरं ततः ।असुरः संययाचेऽपि सर्वरसप्रभक्षिताम् ॥५०॥तथाऽस्त्विति हरः प्रोक्त्वा तिरोबभूव सत्वरम् ।असुरः स सदा पार्थिवान् रसान् सलिलस्थितान् ॥५१॥भुंक्ते यथेष्टं सततं पुष्टिमेति समन्ततः ।ततस्तृप्तः पुनर्वर्षसहस्रोर्ध्वं तपः परम् ॥५२॥चक्रे ब्रह्माणमुद्दिश्याऽवध्यभावार्थमेव सः ।वाय्वाहारं शुष्कगात्रं वीक्ष्य ब्रह्मा ह्युपाययौ ॥५३॥उवाच प्रोक्ष्य सलिलैः सजीवीकृत्य तं तदा ।वरं वृणु यथेष्टं मे प्रसन्नोऽस्मि महासुर ॥५४॥सोऽपि नेत्रे समुन्मिल्योवाचाऽजेयत्वमुत्तमम् ।चतुर्दशभुवां वासैर्नाऽहं जय्यो भवामि ह ॥५५॥तथाऽस्त्विति ब्रह्मवाक्यं प्राप्तवान् स महासुरः ।ब्रह्माऽप्यदृश्यतां प्राप्य ययौ ततो महासुरः ॥५६॥बुभुजे बहुशो भोगान्निर्भयो दैवमानुषान् ।अथापि चिन्तयामास मरणं मे तु नो भवेत् ॥५७॥ततस्तपः पुनः कार्यं मेरौ वर्षसहस्रकम् ।विचार्येत्थं चकाराऽपि विष्णुमुद्दिश्य वै तपः ॥५८॥विष्णुर्वर्षसहस्रान्ते त्वाययौ देवनोदितः ।प्राह तं ते किमिष्टं वै वृणु विष्णुरहं त्विह ॥५९॥वरप्रदानकार्याय समायातोऽस्मि मा चिरम् ।असुरः प्राह यद्येवं मरणं मे न वै भवेत् ॥६०॥तथा वृणोमि विष्णोस्ते वरदानं मयेप्सितम् ।विष्णुः प्राह जनिर्यस्य मृतिस्तस्य ध्रुवाऽसुर ॥६१॥पितुस्ते राहुसंज्ञस्य मरणं ध्रुवमेव ह ।तत्पितुः कश्यपस्यापि तत्पितुश्चापि वै ध्रुवम् ॥६२॥अमृत्युः कस्यचिन्नास्ति विना श्रीपुरुषोत्तमम् ।आत्मा नित्यः कर्मभोक्ता वसति देहपञ्जरे ॥६३॥स च देहाद्विनिर्यातो मृत इत्युपचर्यते ।देहः षाट्कौशिकश्चास्ति कोशा भूतादिसंभवाः ॥६४॥भूतानां परिणामाश्च जायन्ते नित्यमेव ह ।परिणामा सदाऽनित्यास्ततोऽनित्यं हि वर्ष्म च ॥६५॥अनित्यस्य न नित्यत्वं वरमन्यं वृणु ध्रुवम् ।राज्यं स्वर्गं च पातालं चिरंजीवित्वमित्यपि ॥६६॥ददामि तेऽसुर! द्रव्यं स्वर्णरूप्यादि भूतलम् ।सौर्यं चान्द्रं च माहेन्द्रं पदं कौबेरमित्यपि ॥६७॥वृणु चान्यत्पदं श्रेष्ठं मा चिरं प्रददामि यत् ।श्रुत्वैवमाह सर्वादो मा मृत्युर्मे भवेदिह ॥६८॥त्रिदेवतत्सृष्टिजेभ्यश्चेति वृणोमि देहि मे ।तथाऽस्त्विति हरिः प्राहाऽदृश्यतां स द्रुतं ययौ ॥६९॥अथाऽसुरस्तपस्त्यक्त्वा मृत्युभीवर्जितस्तथा ।देवदैत्यमनुष्याणां भोगान् भुंक्ते प्रसह्य सः ॥७०॥ब्रह्मणश्चापि विष्णोः सः शिवस्यापि विभूतिकाः ।सर्वा आहृत्य च बलाद् भुंक्ते वरबलैधितः ॥७१॥ह्येकदा स ययौ जित्वा देवान् कैलासमित्यपि ।शंकरं प्राह युद्धं मे कैलासं वा प्रदेहि मे ॥७२॥शंभुः प्राहार्धमेवैतत् कैलासं तव सर्वथा ।गृहाणेति तदा सोऽपि चार्धं प्राप्य मुमोद ह ॥७३॥अथाऽऽययौ सत्यलोकं ब्रह्माणं प्राह मे तव ।पदं ब्रह्मन् हि सर्वस्वं देहि वा युद्धमेव वा ॥७४॥ब्रह्मा प्राह गृहाणेदं पारमेष्ठ्यपदार्धकम् ।लब्ध्वा सोऽपि प्रसन्नोऽभूद् ययौ विष्णुं पयोदधिम् ॥७५॥प्राह मे श्वेतभूद्वीपं देहि विष्णो सरोषकम् ।यद्वा युद्धं च मे देहि कुरु यत्ते हि रोचते ॥७६॥विष्णुः प्राह तु ते दत्तं क्षीराब्ध्यर्धपदं सदा ।लब्ध्वाऽसुरः प्रसन्नश्च ययौ मेरुं निजालयम् ॥७७॥अथेयेष शिवां श्रीं च ब्राह्मीं देवीर्महासुरः ।अर्थयामास ता यावत् तावद्देवा विनाशने ॥७८॥मतिं चक्रुश्चासुरस्य कौतुकं च व्यधुर्द्रुतम् ।पिशाचिनीत्रयं तत्तद्रूपधरं हरः स्वयम् ॥७९॥प्राहिणोत् तं तत इलोदरो जहर्ष मूढधीः ।पिशाचिन्यो व्रतं चक्रुः सर्वरसप्रभक्षणम् ॥८०॥मासमात्रं व्रतं सर्वरसभक्षणनामकम् ।कृत्वा ततो व्रते पूर्णे भविष्यामः प्रसेवने ॥८१॥उपस्थिता इति श्रुत्वा ज्ञात्वा च मुमुदेऽसुरः ।समर्थोऽयं सर्वरससञ्चये वर्तते यतः ॥८२॥पार्थिवान् वै सर्वरसान् जलीयानपि सर्वशः ।पाकापाककृतान् सर्वानानयामास सत्वरम् ॥८३॥ददौ ताभ्यस्त्रिवर्गाभ्यः पिशाचिनीभ्य एव च ।भोजयामास बहुधा पाययामास सर्वशः ॥८४॥पृथ्वी रसविहीना वै जलं रसविहीनकम् ।तत्त्वानि यानि रस्यानि तान्यरसानि चाऽभवन् ॥८५॥रसशून्यं भोजनं च घृतं चामृतमित्यपि ।हव्यं कव्यं चामिषादि सर्वं रसविहीनकम् ॥८६॥जातं तेन समस्तं चाऽभोज्यं चापेयमित्यपि ।क्लेशमाप्ताः प्रजाः सर्वा देवासुरर्षिमानवाः ॥८७॥परमेशार्पणे चापि नैवेद्ये रसवर्जिता ।सर्वा जाता ततश्चेशा नादन्ति भोजनं खरम् ॥८८॥तेऽथ सर्वे मिलित्वा मामाराधयन् सुदुःखिताः ।इलोदरस्य नाशार्थं तुष्टुवुर्बहुधा तथा ॥८९॥श्रुत्वाऽहं च परब्रह्म श्रीपतिः पुरुषोत्तमः ।अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ॥९०॥त्वया साकं त्वक्षराद्वै धाम्नो लक्ष्मि! स्वयं हरिः ।आययौ देवकोटीनामग्रे साक्षाद् बभूव ह ॥९१॥पूजितश्चार्थितश्चापि निवेदितोऽसुराऽर्दने ।गतोऽहं मेरुभूभागे यत्राऽसुरः प्रमोदते ॥९२॥रसरूपोऽभवं तत्र ह्रदो भूत्वा व्यवस्थितः ।मिष्टः शीतः सुगन्धश्चानन्ददः सुखदः शुभः ॥९३॥उज्ज्वलः श्वेतपीयूषरूपश्च मादको मृदुः ।प्रवाहरूपश्चाऽपूर्णो ह्रदोऽभवं तदन्तिके ॥९४॥पिशाचिन्यस्तिस्र एव वीक्ष्य रसोत्तमं ह्रदम् ।कथयामासुरेवैनं सोऽपि तूर्णं समाययौ ॥९५॥पपौ रसं तथा ताश्च पाययामास सोत्सवः ।पाने तृप्तिर्न चोद्गारो जायते पाति वै मुहुः ॥९६॥भानं त्यक्त्वा पपौ चाति पपावाकण्ठमेव तु ।रसोऽहं न भमौ त्वस्योदरे सोऽपि व्यवर्धत ॥९७॥पीत्वा पीत्वाऽक्षयं सर्वं रसं सोऽभून्महोदरः ।यावती महिमासिद्धिस्ततस्तावदभून्महान् ॥९८॥मानोत्तरं गतश्चापि पपौ रसं पुनः पुनः ।उदरं तस्य वै त्यक्त्वा शक्तिं वै धारणात्मिकाम् ॥९९॥मध्यनाभिप्रदेशाच्च पाटितं हृदयावधिम् ।जघनं पाटितं चापि निर्गतोऽहं रसात्मकः ॥१००॥बहिरेवोदरात्तस्य पपात स ममार च ।अनादिश्रीरसनारायणश्चाहं त्वया सह ॥१०१॥अनादिश्रीरसलक्ष्म्या साकं तत्राऽभवं स्थितः ।पिशाचिन्यः प्रसन्नाश्च पूजयित्वा हरिं तु माम् ॥१०२॥ययुः कैलासमेवैताः देवाद्यास्तत्र चाययुः ।पुष्पवृष्टिं प्रचक्रुश्च तुष्टुवुर्मां रसात्मकम् ॥१०३॥अनादिश्रीरसनारायणं श्रीपुरुषोत्तमम् ।सर्वदा च निवासार्थमर्थयामासुरीश्वराः ॥१०४॥अहं सदाऽवसं पृथ्व्यां रसपुष्टिप्रवृद्धये ।मन्वन्तरैकमात्रं मूर्तिमानभवं तदा ॥१०५॥ततो रसात्मको भूत्वाऽऽकल्पं स्थितोऽभवं प्रिये ।स्मर लक्ष्मि! मम तद्वै प्राकट्यं तद्रसात्मकम् ॥१०६॥अथ देवा ययुः सर्वे नैजान् वासान् दिवादिषु ।अन्ये तदाऽवतारा मेऽभवँश्चापि सहस्रशः ॥१०७॥अवतारी परब्रह्म रसनारायणोऽभवम् ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टात्रिंशे वर्षे अनलादमहासुरविनाशार्थम् अनादिश्रीवह्निनारायणस्य पार्थिवीश्रियासहितस्य, तथा नवत्रिंशे वत्सरे इलोदरस्य रसादस्य महासुरस्य विनाशार्थम् अनादिश्रीरसनारायणस्य श्रीरसलक्ष्म्या सहितस्य च प्राकट्यमित्यादिनिरूपणनामा द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP