संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८९ Translation - भाषांतर N/Aश्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं प्रसन्नता हरेः सताम् ।अनुवृत्त्या भवेदेव नान्येन साधनेन वै ॥१॥साक्षात्कारो हरेश्चापि कृपया सेवयाऽथवा ।ध्यानेन शाश्वतेनाऽपि भवेदेव न संशयः ॥२॥वृत्तिस्थैर्यं हरेर्मूतौ कठिनं देहधारिणाम् ।अपि त्वभ्यासयोगेन सिद्ध्यत्येव न संशयः ॥३॥मूर्तिश्चिन्तामणिर्मेऽस्ति लक्ष्मि चिन्तितसम्प्रदा ।स्वर्गं स्मृद्धिं महानन्दं मोक्षं ददाति चिन्तितम् ॥४॥आत्मसन्दर्शनं चेशदर्शनं ब्रह्मदर्शनम् ।मुक्तानां दर्शनं दिव्यं ममापि दर्शनं ततः ॥५॥चिन्तितं यत् समग्रं तत् प्राप्यते ध्यानमूर्तितः ।अहन्ताममतामाया नश्यत्येव च चिन्तनात् ॥६॥स्मृतयश्चापि नश्यन्ति मायिक्यो ध्यानकारिणः ।त्रिगुणा गृहपुत्रस्त्रीरूपा मायाऽपि नश्यति ॥७॥वासनाख्या तथा माया नश्यत्येव तु ध्यायिनः ।तृष्णानाशो भवत्येव शान्तिलाभः प्रजायते ॥८॥हरेर्ध्यानबलेनैव भक्तात्मा तन्मयो यदा ।भवत्येव निरुत्थानस्तदा देहस्य पातनम् ॥९॥भौतिकस्य विकाराणां वियोगश्च प्रजायते ।सूक्ष्मदेहस्य वै नाशस्तथा ध्यानबलाद् भवेत् ॥१०॥आत्मन्येव चितो धारा ध्यानवृत्तिः प्रवर्धते ।चैतन्यं दिव्यमेवैतद् द्रव्यरूपं विवर्धते ॥११॥तदेव ध्यानरूपं वै भूत्वा मूर्तौ सुयुज्यते ।तद्योगेन तु जीवस्य चेतनस्य तदात्मनः ॥१२॥धामोत्क्रमणकाले वै मूर्तिर्मूर्त्त्या समा हरेः ।समभिनिष्पद्यतेऽसौ चेतनः स्वयमेव ह ॥१३॥ब्रह्ममूर्तस्वरूपोऽयं दिव्याकारः प्रकाशते ।आविर्भवति मूर्तात्मा ब्रह्मात्मा हरिसदृशः ॥१४॥श्रीहरेरिच्छया लक्ष्मि मुक्तोत्तमोऽभिकाशते ।स्नेहोऽधिको महानन्दे प्रयोजको हरौ मयि ॥१५॥एवं स्निग्धाः सदात्मानो महात्मानश्च साधवः ।पावनाः पावयन्त्येव पुनन्ति पापिनो जनान् ॥१६॥कृपयैव यतस्तेषां कार्यं मुक्तिप्रदानकम् ।पाप्युद्धारश्च तत्कार्यं निर्वहन्ति मदाज्ञया ॥१७॥ततो मुक्तिं प्रयान्त्येव पापिनोऽपि सदाश्रिताः ।सत्संगेन परां मुक्तिं प्राप्नुवन्त्येव देहिनः ॥१८॥गणिका हिंसकाः स्तेना व्यवायिनश्च घातकाः ।भ्रष्टा दुष्टा द्वेषिणोऽपि सत्संगेन तरन्ति ते ॥१९॥यन्मानः क्रियते लोके चाऽसत्संगो मुहुर्जनैः ।तारयत्येव तन्मानं सत्संगश्चेत् कृतो भवेत् ॥२०॥गुणा ग्राह्याः सतां नित्यं दोषास्त्याज्याः सतां सदा ।गुणग्राही तरत्येव दोषग्राही निमज्जति ॥२१॥सतां सम्मानः कर्तव्यो निजस्य तु विमाननम् ।सतां सम्मानकर्तारं तारयन्ति हि साधवः ॥२२॥सतां तु ये ह्यवमानं कुर्वन्ति ते पतन्ति वै ।दग्धपुण्यास्तु ते भूत्वा प्रयान्त्यधमयोनिकाम् ॥२३॥साधोर्देहस्वभावं ये वीक्ष्याऽवस्थोद्भवं क्वचित्॥गृह्णन्त्यवगुणान् साधोस्ते भवन्त्यपि निन्दकाः ॥२४॥अवगुणाढ्या जायन्ते सदा वै दोषदृष्टयः ।कल्पयन्ति च पापानि साधुजनेषु नित्यदा ॥२५॥अवगुणान् प्रवदन्ति यशोहानिकरान् सदा ।कामं क्रोधं च लोभं च मानं मोहं रतिं मदम् ।मत्सरं चाऽदीर्घदृष्टिं तथा सत्कारशून्यताम् ॥२६॥अनौदार्यमनाह्वानमौदासीन्यं सतृष्णताम् ।अभिमानं चानियमाऽवलोकनं विदृष्टिताम् ॥२७॥सपरिग्रहतां लोलुपतां च वासनां बहिः ।बहिर्वृत्तिं राजसत्वं तामसत्वमबुद्धताम् ॥२८॥रसनाधीनतां शिश्नोदरतृपत्वमित्यपि ।अधर्मं राजयुक्तत्वं ममतां चाभिमानिताम् ॥२९॥अज्ञानित्वं योग्यतावर्जनं निद्रां च फल्गुताम् ।मृषाऽसत्यं च कपटं शाठ्यं छद्माऽतिभक्षणम् ॥३०॥मौर्ख्यं स्तैन्यं महालस्यमेवमेताँस्तु दुर्गुणान् ।कल्पयन्ति द्वेषिणस्ते निन्दका दुर्गुणान्विताः ॥३१॥पापाः पापं कल्पयन्ति पापयुक्ता भवन्ति ते ।मन्यन्ते ते यथा नैजं कर्म तथैव साधुषु ॥३२॥यथा नैजा वासना च तथा तामपि साधुषु ।यथा वै दुष्टता नैजा तथा तामपि साधुषु ॥३३॥परेषु चाश्रितेष्वेते प्रवेशयन्ति दुर्गुणान् ।अवगुणान् ग्राहयन्ति चाऽभावं च तिरस्कृतिम् ॥३४॥अभावनां प्रेरयन्ति गुणान्निष्कासयन्ति च ।सर्वाः क्रियाः सतां दुष्टाः सदोषाः संवदन्ति च ॥३५॥वर्तनं सर्वथा दुष्टं वदन्त्याचरणं तथा ।दुष्टं पापं चाछमयं दैत्या वा दानवा यथा ॥३६॥आसुरा आसुरभावं कल्पयन्ति हि साधुषु ।स्वेषु सर्वेषु सत्स्वेव दुर्गुणेष्वपि सद्गुणान् ॥३७॥नेत्रैर्द्वेषं दर्शयन्ति गत्या द्वेषं दधत्यपि ।नमने दर्शने द्वेषं वाण्यां द्वेषं वदन्त्यपि ॥३८॥सतां कार्ये ह्यकार्यत्वं दुष्टकार्यत्वमित्यपि ।दर्शयन्त्यपरेभ्यश्च कलिं कुर्वन्त्यहेतुकम् ॥३९॥अनेन साधुना चेदं कृतं तद् योग्यमेव न ।अयं साधुर्हि नैवाऽस्ति साधुता चात्र नास्ति च ॥४०॥तस्य पादौ स्पृशेत् कस्तु को वन्देत तथाविधम् ।को नमेत्तं कः सेवेत दृष्टा बहवस्तादृशाः ॥४१॥भवादृशा विवलया मन्वते तादृशान् सतः ।नाऽस्मादृशास्तु पश्यन्ति तेषां मुखान्यपि क्वचित् ॥४२॥एवं निन्दां प्रकुर्वन्ति गृह्णन्त्यवगुणान् सदा ।ग्राहयन्त्यवगुणकान् स्वेतरान् दुष्टवार्तया ॥४३॥तथा नारायणीश्रि त्वं समाकर्णय चासुरीम् ।रीतिं तथाऽसुराणां वै येषां स्नेहो न साधुषु ॥४४॥येषां च कामनादोषः क्रोधश्चौर्यमसत्यता ।कापट्यं चापि पैशुन्यं व्यवायो राजसी स्थितिः ॥४५॥ते जना दोषवन्तो वै दोषाँस्त्यक्तुं तु निर्बलाः ।प्रत्युत दोषमग्नास्ते विषयासक्तचेतसः ॥४६॥अतस्तेषां हि दोषाणां खण्डनं साधवो यदा ।त्याजयितुं प्रकुर्वन्ति तदा ते दुष्टमानसाः ॥४७॥साधोर्निन्दां प्रकुर्वन्ति दोषखण्डनकारिणः ।वाचाऽवाच्याऽनभिज्ञोऽयं साधुर्वक्तुं न वेत्ति वै ॥४८॥एकादेशिज्ञानवाँश्च विशालज्ञानवान्नहि ।पण्डितंमन्यमानः स्वं वर्तते भानवर्जितः ॥४९॥नाऽनुसरति मां क्वापि न गृह्णाति मयोदितम् ।स्वोक्तोत्कर्षप्रमन्ताऽयं नश्च खण्डनकार्यसौ ॥५०॥आश्रमं नैव जानाति न जानाति वृषांश्च नः ।खण्डयत्येव भोगादीन् गार्हस्थ्योचितवैभवान् ॥५१॥तस्माद् विवेकहीनोऽयं साधुर्मूखोऽयमस्ति वै ।एवं निन्दन्ति साधुं वै हितोपदेशकारिणम् ॥५२।एवंविधानां नैव स्यात् स्नेहः साधुष्वपि क्वचित् ।अस्नेहेन न विश्वासो साधुवाक्येषु जायते ॥५३॥अविश्वासान्न वै श्रद्धा माहात्म्यज्ञानवर्धिनी ।अश्रद्धया ह्यनभ्यासोऽनभ्यासाद् ध्यानमेव न ॥५४॥न सेवा भावना नैव न च तादात्म्यवेदिता ।आकर्षणं ततो नैव माहात्म्यं तु कुतस्तदा ॥५५॥न कथाश्रवणे तस्य न वार्ताश्रवणेऽपि मुत् ।नाऽऽज्ञाग्रहणे चोत्साहः प्रीतिर्गाढा कुतस्तदा ॥५६॥शृणु लक्ष्मि यथा तेऽस्ति मयि स्वामित्वभावना ।त्वयि दासीत्वमेवाऽस्ति तत्र भेदो न विद्यते ॥५७॥ताडिता धर्षिताऽऽक्रुष्टा वन्दिता वा तिरस्कृता ।तथापि त्वं कदाचिन्न विरुद्धा किन्तु सेविका ॥५८॥मयि सर्वस्वभावेन चासत्ता मुदिता सदा ।निसर्गगुणगृहिणी भक्ता दासी प्रसेवसे ॥५९॥न तत्र निम्नताभावो मयि ते स्वामिनि क्वचित् ।तथा येषां साधुवर्गे निम्नभावो न वै क्वचित् ॥६०॥साम्यभावोऽपि येषां न किन्तूत्कृष्टा हि भावना ।माहात्म्यं दिव्यता येषां निर्गुणत्वं च साधुषु ॥६१॥साधुक्रियासु सर्वासु कल्याणदत्वभावना ।शुभाऽशुभायां प्रवृत्तौ पुण्यप्रदत्वभावना ॥६२॥येषां वै वर्तते तेषां स्वामित्वं सत्सु वै सदा ।भावितं दिव्यफलदं दिव्यमोक्षप्रदं भवेत् ॥६३॥मायाकालादिकर्मादिबन्धच्छेदकरं भवेत् ।यथा स्नेहो निजपत्न्यां यथा पुत्रे कुटुम्बिषु ॥६४॥यथा पित्रोर्यथा पुत्र्यां यथा भृत्यासु सेवके ।सेविकायां यथा स्नेहस्तथा कुर्याद्धि साधुषु ॥६५॥लौकिकोऽपि स्नेहभावो दिव्यतां याति साधुषु ।साधोः प्रसन्नतालब्ध्या सर्वं कार्यं प्रसिद्ध्यति ॥६६॥यथा पत्न्या निजे कान्ते दृश्यन्ते दूषणानि न ।कुचेष्टाः कुस्वभावाश्च दृश्यन्ते सद्गुणा यथा ॥६७॥तथा साधुषु वै लक्ष्मि येषां दृष्टिस्तु निर्मला ।दृश्यन्ते दुर्गुणाश्चापि सद्गुणा एव सर्वथा ॥६८॥ते एव प्राप्य संयोगं प्रसन्नतां सतां शुभाम् ।आशीर्वादान् समर्ज्याऽपि सेवालाभमवाप्य च ॥६९॥स्नेहं लब्ध्वा तथा प्रीतिं लब्ध्वा चात्मनिवेदिताम् ।आत्मरतिं परां प्राप्य तरन्ति भवसागरात् ॥७०॥तेषां स्नेहो भवेदेव सस्तु स्त्रीपुत्रतोऽधिकः ।स एव मायां तरति साधुस्नेहेन पावितः ॥७१॥नरो वा स्त्री च वा षण्ढः साधौ स्नेहात् प्रमुच्यते ।सत्यं सत्यं वदाम्येतत् साधुरूपो भवाम्यहम् ॥७२॥मन्माहात्म्यं तु साधुभ्यो ज्ञायते नाऽन्यतः क्वचित् ।साधवो हृदयं मह्यं साधौ वासः सदा मम ॥७३॥साधुसन्तोषणे तृप्तिर्ममैव जायते रमे ।साधवः पावनाः सन्ति नखशिखान्तमूर्तयः ॥७४॥शृणु लक्ष्मि परे दुष्टा साधूनुद्वेजयन्ति वै ।भोजने जलपाने चासने सत्कारकर्मसु ॥७५॥आतिथ्ये शुश्रूषणे च श्रमयन्ति सतो जनान् ।भृत्यत्वं कारयन्त्येव साधून् गुरून् महाजनान् ॥७६॥धीहीनास्ते पापपुञ्जं त्वर्जयन्ति तथाक्रियाः ।केचित् साधून्निजपत्नीसमान् मत्वा सुभोजने ॥७७॥योजयन्ति स्वभोज्यार्थं पाचयन्ति च भोजनम् ।केचिज्जलस्य पानार्थं पात्रं जलं च शीतलम् ॥७८॥उभयं तद्धि याचन्ते यथा भृत्यात्तथा सतः ।केजिदज्ञा गेन्दुकादि निजासनं तु सुप्तये ॥७९॥कारयन्ति सारयन्ति यथा दास्यास्तथा सतः ।केचिदज्ञा ऊष्णजलं तथोष्णं भोजनं नवम् ॥८०॥कारयन्ति निजार्थं वै यथा भृत्यात्तथा सतः ।केजिदज्ञा वाचयन्ति निजां पुष्टिं सभासु वै ॥८१॥प्रशंसां कारयन्त्येव यथा दूतात्तथा सतः ।यथा तु चारणात् तद्वत् सूताद्वा च तथा सतः ॥८२॥केचिन्मदान्विता नैजां पेटिकां वस्तुगौरवाम् ।वाहयन्ति सतां हस्तैर्मस्तकेनाऽभिमानिनः ॥८३॥केचिद् दुष्टा दीनसाधून् नामयन्ति प्रसह्य वै ।स्तवनं तु निजं दुष्टाः कारयन्ति मुहुर्मुहुः ॥८४॥एतादृशास्तु पापा वै पापपर्वतसंभृताः ।धनाऽन्नवर्जिताश्चात्र भ्रमन्तो विरमन्ति च ॥८५॥साधुद्वारोपदेशेन साधयन्ति स्वमर्थकम् ।स्वार्थपरास्ते कुशलाश्चान्ते यान्ति यमालयम् ॥८६॥साधुषु निजसत्तां ये धारयन्ति च मानिनः ।आहंकारिकवृत्तान्तास्तेऽपि यान्ति यमालयम् ॥८७॥साध्वालये चाकस्मिकीं कुर्वन्ति मार्गणां तु ये ।साधुषु च मृषा दोषं कलङ्कं च ददत्यपि ॥८८॥कुख्यातिम च प्रकुर्वन्ति साधूनां ये तु निर्दयाः ।द्वेष्टारः साधुवर्गस्य ते यान्ति वै यमालयम् ॥८९॥शृणु लक्ष्मि तथा साधून् निन्दन्ति वेषधारणे ।जीर्णवस्त्रमपि खण्डं नैव ददति ये क्वचित् ॥९०॥निन्दन्ति तु परैर्दत्तं सूक्ष्मं सुमूल्यमम्बरम् ।शुद्धं च रंगसंशोभं निन्दन्त्युक्त्वा तु राजसम् ॥९१॥पात्रं यानं वाहनं च निन्दन्ति वै सतां तथा ।साधोः शालां भवनं च कुटीं निन्दति वै तथा ॥९२॥औज्ज्वल्यं चापि निन्दन्ति निन्दन्ति दानमर्पितम् ।द्रव्यार्पणं च निन्दन्ति गन्धसारं च मर्दनम् ॥९३॥ओषधाद्यं च निन्दन्ति रक्षणं च यथाकृतम् ।निन्दन्ति गोमहिष्यादिधनं साधुभिरर्जितम् ॥९४॥परोपकारप्रभृति निन्दन्ति साधुसेवितम् ।भिक्षाटनं तपश्चापि निन्दन्ति मत्सरान्विताः ॥९५॥प्रज्वलन्ति समीक्ष्यैव सतो देवालयं सतीः ।दिव्यसंस्था विलोक्यापि प्रोज्ज्वलन्त्यासुरा जनाः ॥९६॥त एते कमले यान्ति देहान्ते पापसंसृतिम् ।पीड्यन्ते याम्यलोकेषु दुःखियोनिषु वै मुहुः ॥९७॥तस्मात् साधुं मम वेषधरं वै पूजयेत् सदा ।मां विभाव्याऽभिसेवेत प्रसन्नयेत् शुभार्पणैः ॥९८॥प्रसादयेदनुवृत्त्या सर्वस्वार्पणकैस्तथा ।भक्तिं कृत्वा हरेश्चापि प्रसादयेत् सतो जनान् ॥९९॥गुरुं प्रसेवयेन्नित्यं पितरौ सेवयेत् सदा ।पतिं प्रसेवयेद्भक्त्या साधुं भक्त्याऽभिरञ्जयेत् ॥१००॥प्रभुं भजेत भावैश्च श्रद्धया कीर्तयेद्धरिम् ।देवार्पणं सदा कुर्यात् कुटुम्बं तु प्रपोषयेत् ॥१०१॥सर्वं कृष्णाय नैवेद्यं धृत्वा भुञ्जीत नान्यथा ।एवं वै वर्तमानानां भुक्तिर्मुक्तिः करे स्थिता । ॥१०२॥पठनाच्छ्रवणादस्य स्मरणाद्धारणादपि ।साधुसेवाफलं स्याच्च भोगान्ते मोक्षणं भवेत्। ॥१०३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसमागमेन भगवच्चिन्तामणिलब्ध्या सर्वकामनापूर्त्त्यादिनिरूपणनामा नवाशीत्यधिकशततमोऽध्यायः ॥१८९॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP