द्वापरयुगसन्तानः - अध्यायः १०
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
ततो वै शिवसत्येश्रि! कृष्णनारायणि प्रिये! ।
अहं विमानमारुह्याऽक्षरधाम्नः समागतः ॥१॥
देवतानां सभायां वै देवाः पुपूजुरुत्सुकाः ।
तथा निवेदयाञ्चक्रुः सर्वे गतेर्निरोधनम्॥२॥
तज्जन्यं सुमहत्कष्टं मानवा अपि तापनम् ।
मया तत्कारणं तत्र सभायां समुदाहृतम् ॥३॥
राक्षसानां बलं लोके रात्रौ भवति सर्वदा ।
भूतप्रेतपिशाचानां बलं रात्रौ भवत्यपि ॥४॥
ते रात्रौ सुप्तभूतानि भक्षयन्ति वनेषु वै ।
तत्रत्याः प्राणिनस्तुंगभद्रासनां तु योगिनीम् ॥५॥
आर्थयन् वै प्ररक्षार्थं सा तु लक्ष्मीं समार्थयत् ।
लक्ष्मीनारायणौ तस्याः पुत्रीत्वे वर्ततेऽधुना ॥६॥
तथा वै रक्षिताः सर्वे रक्षोभिर्देहिनः खलु ।
तथापि सर्वखण्डेषु राक्षसाः सन्ति भूरिशः ॥७॥
लक्ष्म्यास्तेषु गमने तु माता भवति चैकला ।
पुत्री भ्रमति लोकेषु पुत्र्याः सुखं न चाप्यते ॥८॥
तस्माद् रात्रिर्भवेन्नैव तथा कार्यं विचार्य सा ।
ग्रहचक्रं स्वबलेनाऽरोधयत् तुंगभद्रिका ॥९॥
मम भक्ता महासाध्वी योगिन्यैश्वर्यशेवधिः ।
एतद्वै कारणं गतेः रोधस्य विद्यते परम् ॥१०॥
तस्मात्तत्रैव यामोऽत्र यया गतिर्निरोधिता ।
इत्येवं संविचार्यैव सदेवोऽहं नरायणि! ॥११॥
आययौ यत्र ते माता तुंगभद्रासनाऽस्ति च ।
सा विमानानि संवीक्ष्य योगदृष्ट्या महासती ॥१२॥
वनमध्ये स्वागतार्थं स्वर्गं त्वन्यद् व्यधात् हृदा ।
उद्यानानि विचित्राणि कल्पद्रुमान्निजेष्टदान् ॥१३॥
जलामृतानां सुहृदान् सरितो जलसंभृताः ।
स्नानादिश्रेष्ठशालाश्च प्रासादान् देवयोग्यकान् ॥१४॥
स्वर्णकलशशोभाढ्यान् धवलान् चन्द्रसन्निभान् ।
यज्ञशालाः पाकशालाः शय्याशालाः सुशोभनाः ॥१५॥
विहारशाला योग्याश्च स्त्रीशाला मध्यशालिकाः ।
वेषाणां सुकपाटाँश्च भूषणानां च पेटिकाः ॥१६॥
रत्नानां हीरकाणां च सुवर्णानां सुकोशिकाः ।
घृतकुल्या दधिकुल्याः पयःकुल्याः सुसंभृताः ॥१७॥
अमृतानां रसानां च मिष्टान्नानां महानसान् ।
दोलानां दर्पणानां च भोग्यानां भित्तिकोटरान् ॥१८॥
वासनां सुनिवासानां गृहाणि शोभनानि च ।
चकार सा तथा विद्युत्प्रवाहाणां प्रदीपकान् ॥१९॥
पवनानां निसर्गोत्थतरंगान् सा तदाऽकरोत् ।
चन्दनानां सुपुष्पाणां हीरकाणां च मालिकाः ॥२०॥
मधुपर्कादिपात्राणि धृत्वा स्थिताश्च दासिकाः ।
कन्यकाः कोटिसंख्याश्च प्रचकार हि योगिनी ॥२१॥
वादित्रवादिकाश्चापि नृत्यकीर्तनकारिकाः ।
ध्वजधर्त्रीस्तथा कन्या दुग्धकाञ्चनसन्निभाः ॥२२॥
संकल्पेनाऽकरोतत्र तुंगभद्रासनां सती ।
अक्षयार्थानि पात्राणि कुंकुमाऽक्षतपात्रिकाः ॥२३॥
पादसंवाहनाद्यर्थं साऽकरोत् कन्यका नवाः ।
स्वर्गान्न्यूनं न यत्रास्ते तादृशं नगरं नवम् ॥२४॥
स्वर्गाख्यं सा व्यरचयन्निजैश्वर्यबलेन ह ।
तूर्णं सा स्वागतार्थं च गोपुराऽग्रे ह्युपस्थिता ॥२५॥
देवाः सर्वे विभूतीस्ता वीक्ष्याऽऽश्चर्यं परं गताः ।
तूर्णमाकाशमार्गाद्वै वयं वनेऽवतेरिम ॥२६॥
गोपुराग्रेऽसंख्यकन्यास्त्वाजग्मुः स्वागतार्थिकाः ।
सम्मानं सर्वदेवानां चक्रिरे मालिकाऽर्पणैः ॥२७॥
कुंकुमाऽक्षतपुष्पाद्यैर्जयघोषैः प्रचक्रिरे ।
निन्यिरे सर्वदेवाँश्च वासान् योग्यान् यथाकृतान् ॥२८॥
ददुस्ता मधुपर्कादि भोज्यामृतसुधादिकम् ।
जलपानं सेवनादि चक्रुर्देहप्रमर्दनम् ॥२९॥
तृप्ता देवा वयं सर्वे कन्याभिस्तोषिताः क्षणम् ।
स्वर्गं स्वर्गं चापरं च तदभून्न्यूनमेव न ॥३०॥
देवा विसस्मरुर्नैजान् भोगान् क्षणं तु मोहिताः ।
अथ क्षणान्ते साध्वी सा तुंगभद्रासना सती ॥३१॥
देवानामागमे हेतुं जिज्ञासितवती ह्यभूत् ।
सा च तूर्णं सभासौधे समागत्य सुरान् सती ॥३२॥
आहूय निजभाग्यं वै न्यवेदयत् सुरान्तिके ।
अहो मे पावितं सर्वं कुलं वनं च पावितम् ॥३३॥
पावितं भूतलं चैतदाश्रमो मम पावितः ।
भवद्भिर्भगवद्भिश्च समागत्य मम गृहम् ॥३४॥
स्वर्गमेवाऽपरं त्वद्य कृतं धन्याऽस्मि सर्वथा ।
यद्गृहे कोटिपुण्यानां पुञ्जाः स्युर्वै पुराऽर्जिताः ॥३५॥
तत्र देवाः समायान्ति साक्षान्नारायणान्विताः ।
उपस्थिताऽस्मि सेवायां चाज्ञायां द्युनिवासिनाम् ॥३६॥
एषा दासी भवतां वै वर्ते विज्ञापयन्तु माम् ।
इत्युक्त्वा प्रगतिं कृत्वा स्वर्णासनस्थितान् सुरान् ॥३७॥
सूर्यं चन्द्रं च शुक्रं च ग्रहान् सप्तर्षिसत्तमान् ।
नक्षत्राणि महेन्द्रं च गुरुं चागस्त्यमित्यपि ॥३८॥
वीक्ष्य वीक्ष्य नमश्चक्रे कृष्णनारायणं मुहुः ।
मां प्रवीक्ष्य पुनर्नेत्राश्रुभृता तत्र सन्निधौ ॥३९॥
चाययौ तूर्णमेवाऽपि पतिता पादयोः सती ।
अर्पिताऽस्मीत्युवाचाऽपि मां हरिं पुरुषोत्तमम् ॥४०॥
बृहस्पतिस्तदा तत्र त्वाज्ञापितो मया द्रुतम् ।
व्यज्ज्ञिपत् सतीं तत्र मातरं ते शृणु प्रिये ॥४१॥
वयं भक्ताऽनुगाः सर्वे देवा नारायणाश्रिताः ।
भक्तानामपराधे तु भयं यामोऽतिदूरतः ॥४२॥
भवती भक्तिसम्पन्ना पूज्या मान्या सती च नः ।
एते देवा नमस्कुर्मः प्रसन्ना भव योगिनि ॥४३॥
राक्षसानां बलहानिकृते त्वया तु भामिनि ।
प्रहचक्रगतिः रुद्धा रात्रिनाशार्थमेव ह ॥४४॥
किन्तु लोकविनाशोऽयं तापेन समुपस्थितः ।
धर्मकार्याणि रुद्धानि ऋतवोऽपि लयं गताः ॥४५॥
ग्रहाणां गत्यधीनं वै सर्वं जगत् प्रमोदते ।
तस्माद् देवि गत्यरोधं भिक्षयामस्तवाऽग्रतः ॥४६॥
एष नारायणो देवः श्रीपतिः पुरुषोत्तमः ।
भिक्षार्थं त्वागतश्चात्र देवकोटिभिरन्वितः ॥४७॥
वयं चातिथयस्ते स्मो नान्यमर्थं परं ह्यपि ।
रोचयामस्तवाग्रेऽत्र देहि भिक्षां शुभक्रिये ॥४८॥
श्रुत्वा नारायणि लक्ष्मि तव माता तदा सती ।
प्राह देवानहं चापि भिक्षयामि शुभास्पदम् ॥४९॥
परमेशं चाक्षरेशं श्रीपतिं पुरुषोत्तमम् ।
यदर्थं योगिनी चास्मि यं भजामि पुमुत्तमम् ॥५०॥
देवा यद्यर्पयन्त्येनं परमेशं सनातनम् ।
परब्रह्म प्रभुं मह्यं ददाम्यरोधनं गतेः ॥५१॥
मम श्रेयः परं स्याच्च भवतां श्रेय इत्यपि ।
लोकानां श्रेय एवाऽपि भवेत् सर्वं शुभास्पदम् ॥५२॥
अथ देवास्तदा प्राहुः स्वतन्त्रः पुरुषोत्तमः ।
न नियोज्यः स चाऽस्माकं शृणोत्येव स्वयं प्रभुः ॥५३॥
यथेष्टं सर्वसौख्यार्थं करिष्यति जनार्दनः ।
श्रुत्वैवं देववाक्यानि तदाऽहं शिवशंजिके ॥५४॥
अपृच्छं मातरं ते तु किमिच्छसि सुयोगिनि! ।
सा प्राह भगवँस्तेऽत्र दासी लक्ष्मीः सुता मम ॥५५॥
वर्तते त्वत्प्रतीक्षायां तां गृहाण निजप्रियाम् ।
नवं स्वर्गमिदं सर्वं यौतकं त्वत्कृते कृतम् ॥५६॥
कन्याश्च कोटिशश्चेमास्त्वदर्थं परिकल्पिताः ।
विवाहविधिना सर्वा गृहाण पुरुषोत्तम ॥५७॥
जामाता मे गृहे भूत्वा वसाऽत्र शाश्वतीः समाः ।
इत्यर्थये ततो रात्रिर्दिवा सर्वं भविष्यति ॥५८॥
भक्ताऽहं च भवान् भक्तवत्सलः ख्यायते प्रभो ।
देवानां हितकृच्चास्ते लोकानां च ममापि च ॥५९॥
समर्थोऽसि तथाकर्तुं प्रयत्नस्ते न विद्यते ।
सर्वं गृहाण भगवन् देहि मे वचनं शुभम् ॥६०॥
जलं गृहाण हस्ते च गृहीतं वद मां त्विह ।
ततोऽहं सर्वदेवानां गत्यरोधं करोमि वै ॥६१॥
हरिश्चाऽहं हसँस्तस्यै ओमित्येवं जगाद ह ।
जलं करे प्रजग्राह देवा जयं प्रचक्रिरे ॥६२॥
अथ वाद्यान्यवाद्यन्त प्रसन्ना देवतास्तदा ।
पुष्पवर्षाणि देवीनां तदा सदसि चाऽभवन् ॥६३॥
प्रसन्नाः कन्यकाः सर्वास्तत्राभिजिन्मुहूर्तके ।
तुंगभद्रासना पुत्रीं क्षणेनाऽऽभूषणान्विताम् ॥६४॥
शृंगारितां च युवतीमर्पयामास पश्यताम् ।
वरमाला गले मे च त्वया तत्र निधापिता ॥६५॥
मम हस्ते तव हस्तस्तदा मात्रा समर्पितः ।
मम सिंहासने त्वं च तत्रैवार्धे निषादिता ॥६६॥
अथाऽन्याः कन्यकास्तूर्णं यथाज्ञाश्चागताः पुरः ।
वरमाला ददुस्ताश्च कोटिरूपधरस्य मे ॥६७॥
कण्ठे शीघ्रं तदा तत्र बृहस्पतिः स्वयं गुरुः ।
वेदमन्त्रान् लग्नयोग्यान् जगौ कुण्डं प्रकल्पितम् ॥६८॥
संकल्पेन च शीघ्रं वै कारयामास योगिना ।
विश्वकर्मप्रकर्त्रा च स्थापयामास चानलम् ॥६९॥
हवनं कारयामास दापयामास कन्यकाः ।
त्वं मुख्या चापराः कोटिकन्यका मम पत्निकाः ॥७०॥
सर्वाः प्राप्ता मया तत्र पुरुषोत्तमयोगिना ।
तव मात्रा प्रदत्तास्ता इमाः सन्त्यत्र याः स्त्रियः ॥७१॥
तव सपत्निका वर्गास्तास्ता मम पुरा स्त्रियः ।
शिवस्वामिगृहे याश्च मया काश्यां विवाहिता ॥७२॥
तत्र कोटिस्त्रियस्ताश्च भवन्ति कन्यकास्तु ताः ।
स्मर सर्वं पुरावृत्तं लक्ष्मि! दिव्यं चरित्रकम् ॥७३॥
अथाऽहं शीघ्रमेवैव कृत्वा वह्निं प्रदक्षिणम् ।
आसने संस्थितस्तत्र वर्धितं युगलं तदा ॥७४॥
युगलानि समस्तानि वर्धितानि शुभाशिषा ।
कुंकुमाऽक्षतपुष्पाद्यैः परिहारोऽभवत्ततः ॥७५॥
भोजनानि विचित्राणि पेयानि विविधानि च ।
उपभोग्यानि सर्वाणि त्वन्माता प्रददौ ततः ॥७६॥
सर्वे तृप्तास्तदा जाता मध्याह्नो नातिवर्तते ।
एक एव क्षणः सोऽयमभिजिन्नामनामकः ॥७७॥
वर्तते तत्र वै लक्ष्मि विनाऽर्कस्य गतिं तदा ।
अथाऽऽज्ञप्ताः पूजिताश्च देवाः सर्वे ततस्तया ॥७८॥
अपराधक्षमां याचित्वा सती देवकोटिकान् ।
प्रणम्य चोपदा दत्वा व्यसर्जयत् तदा दिवम् ॥७९॥
अहं साकं त्वया चान्याभिः सहोवास सर्वदा ।
पुरुषोत्तमपुराख्यं स्वर्गाख्यं नगरं च तत् ॥८०॥
तदा प्रसिद्धिमापन्नं समासीत् कल्पकान्तगम् ।
देवानां गतयस्तूर्णं व्यजायन्त तदा प्रिये ॥८१॥
मध्याह्नोत्तरवेला च प्रवर्तते शनैस्तदा ।
एवं चाऽहं सर्वभद्राश्रीपतिः पुरुषोत्तमः ॥८२॥
तदाऽभवं तुंगभद्रापुत्रीपतिः परेश्वरः ।
तत्र सर्वासु मे पुत्राः शतं शतं च शोभनाः ॥८३॥
पुत्रिका विंशतिर्विंशतिश्चाऽभवन् सुशोभनाः ।
कल्पायुषश्च ते सर्वे सन्तीदानीं च तेऽक्षरे ॥८४॥
धाम्नि मुक्ता मम सर्वे स्मर पश्य सुभद्रिके ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥८५॥
सत्याः प्रकार्यसिद्ध्यर्थं तद्गृहं न्यवसं तथा ।
भक्ता मदक्षरं साध्वि! भक्तगृहं मम गृहम् ॥८६॥
यत्र त्वं तत्र मे वासो भवत्येव सदा प्रिये ।
तव योगेन चान्यासां मम योगो भवत्यपि ॥८७॥
दुःखहरः सुखकरः सर्वासां चाभवँस्तदा ।
ख्यातोऽभवमनादिश्रीहरिनारायणः प्रभुः ॥८८॥
त्वं च नाम्ना सर्वभद्राश्रीर्महाराजभामिनी ।
अन्याः सर्वास्तदा ख्यातिं गता वै श्रीहरिप्रियाः ॥८९॥
प्राकट्यं तत्र चैवैवं परस्य मेऽवतारिणः ।
अवताराश्च मे तत्राऽसंख्या जातास्तदा प्रिये ॥९०॥
जानाम्येतत्सर्वमेव करन्यस्तसुरत्नवत् ।
स्मर त्वं दिव्यरूपाणि चमत्काराँस्तदा कृतान् ॥९१॥
अथ रात्रौ प्रजातायामन्धकारे च संवृते ।
राक्षसा ये क्वचिच्चासन् तेषामुपद्रवोऽभवत् ॥९२॥
अनादिश्रीहरिनारायणः सोऽहं स्थलं तु तत् ।
गत्वा गत्वा हतवाँस्तान् राक्षसान् सर्वभूमितः ॥९३॥
ते चातलादिलोकेषु गता विवासिता मया ।
रक्षा कृता मानवानां हरिणा वै स्थले स्थले ॥९४॥
ऋषिभ्यस्तापसेभ्यश्चारण्यानि च वनानि च ।
गह्वराणि प्रदत्तानि निवासार्थं मया तदा ॥९५॥
गृहस्थधर्मा स्वर्गादिप्रदाः संस्थापिता मया ।
भक्तिश्च मुक्तिमार्गश्च स्थापितौ परमात्मना ॥९६॥
ह्याधवश्च तथा साध्व्यस्तत्र मया प्रदीक्षिताः ।
कोटिशः सर्वभद्राश्रि! मोक्षमार्गः प्रवर्तितः ॥९७॥
मात्रे ते तुंगभद्रायै मोक्षपदं मयाऽर्पितम् ।
असंख्येभ्यो मानवेभ्यो मुक्तपदं तथाऽर्पितम् ॥९८॥
त एते मम वर्तन्ते पार्षदाः पूर्वकल्पगाः ।
तीर्थानि भूतले तत्र तदा कृतानि वै मया ॥९९॥
यज्ञमार्गास्तथा मोक्षकरास्तदा प्रवर्तिताः ।
इत्येवं मम वै सर्वभद्रे! प्राकट्यमीरितम् ॥१००॥
पठनाच्छ्रवणादस्य स्मरणान्मम कीर्तनात् ।
भुक्तिर्मुक्तिर्भवेच्चापि मम धामगतिर्ध्रुवा ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वपरसन्तानेऽक्षरात्पुरुषोत्तमस्य देवैः सह तुंगभद्रासनागृहागमः, पूजनं, ग्रहाणां गत्यर्थमभ्यर्थनम्, तुंगभद्रासनाया हरेः स्वपुत्रीग्रहणार्थं गृहजामातृतया स्थित्यर्थं प्रार्थना, हरेः स्वीकारो विवाहोत्सवो ग्रहादीनां गतिः । अनादिश्रीहरिनारायणरूपेणकृतधर्मस्थापनादीत्यादिनिरूपणनामा दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : May 03, 2021
TOP