संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं वनपालस्य वै कथाम् ।नाम्ना तिलकरंगस्य शूद्रस्याऽरण्यवासिनः ॥१॥महाकालवने लक्ष्मि वनपालोऽतिभक्तिमान् ।आसीत् तिलकरंगाख्यः शिवभक्तोऽतिभावनः ॥२॥सुरेशिकासरित्तीरे वृक्षषण्डे कृतालयः ।अरण्यरक्षणं नित्यं भ्रमन् करोति सायुधः ॥३॥वन्यकन्दफलाहारः क्वचिल्लब्धाऽन्नभोजनः ।ऋतुपक्वकणाहारो वर्तते सकुटुम्बकः ॥४॥वनेवासेऽपि सततं प्राणिहिंसाविवर्जितः ।दयाधर्मपरो योग्ये काले शंकरपूजकः ॥५॥प्रातः स्नात्वा वारिघटं भृत्वा श्रीशंकरालयम् ।गत्वाऽभिषेकं चरति बिल्वपत्राणि चन्दनम् ॥६॥कर्णिकायाः कनकानां पुष्पार्पणं करोति च ।मध्यान्हेऽपि जलाधारी दत्वा प्रपूज्य शंकरम् ॥७॥ततो नैवेद्यं प्राप्यैव भुंक्ते सायं तथैव च ।धूपं दीपं सुनैवेद्यं नीराजनं प्रदक्षिणम् ॥८॥आराधनं नमस्कारं कृत्वा करोति कीर्तनम् ।स्वपित्येव ततस्तत्र वेद्यां शंकरसन्निधौ ॥९॥प्रातरुत्थाय सम्मार्ज्य गालवादनपूर्वकम् ।कृत्वा स्मरणं शंभोश्च ततः स्नातुं प्रयाति च ॥१०॥अस्य पत्नी शिखादेवी तथैव शंकरार्हणम् ।नित्यं करोति शक्त्या वै लिङ्गं संस्नापयत्यपि ॥११॥मन्दिरे वसति तत्र दिवसे भक्तियोगिनी ।वाटप्रवासिनः केचिन्नरा नार्योऽपि मार्गगाः ॥१२॥यद्यायान्ति विश्राम्यन्ति तेभ्यो जलं फलं स्थलम् ।ददाति सा शिखादेवी सत्करोति यथायथम् ॥१३॥शंकरस्य गुणान् धर्मान् चमत्कारान् वदत्यपि ।शंकरो वै भक्तभक्तिं विलोक्य च तुतोष ह ॥१४॥एकदा वैष्णवो भूत्वा यात्रालुस्तत्र चागतः ।कृतवैष्णवतिलकः स्कन्धे कृतसुपेटिकः ॥१५॥कुक्षौ शालग्रामयुक्तो नारायणं रटन् मुहुः ।शिखादेवी तु तं दृष्ट्वा वासं वेद्यां ददौ ततः ॥१६॥निधाय पेटिकां तत्र स्नातुं सुकेशिकानदीम् ।ययौ स्नात्वा स्नापयित्वा शालग्रामं प्रपूज्य च ॥१७॥आययावासने वेद्यां निषसाद क्षणं स्थिरः ।तावत् तिलकरंगोऽपि वनान्तरादुपागतः ॥१८॥आनीय कन्दमूलानि निदधे वेदिकोपरि ।यात्रालुं विष्णुयुक्तं च दृष्ट्वा ननाम पादयोः ॥१९॥स्वागतादि पुनश्चक्रे फलमूलानि शंभवे ।निवेद्य प्रददौ तस्मै पप्रच्छाऽऽगमनं कुतः ॥२०॥क्व गम्यते महाराज यदीष्टं वस मद्गृहे ।श्रुत्वैवं शंकरः प्राह भक्तार्थं त्वागमो मम ॥२१॥गम्यते यत्र भक्तोऽस्ति तीर्थं मदिष्टं सर्वथा ।यत्र भक्ता निवसन्ति तत्र वसामि साधुवत् ॥२२॥त्वं भक्तोऽसि वने नित्यं सतामातिथ्यकारकः ।त्वद्गृहं पावनीकृत्य यास्याम्यन्यत् सुतीर्थकम् ॥२३॥श्रुत्वैतद् वनपालोऽपि पप्रच्छ पुनरेव तम् ।क्व तीर्थं पावनं साधो विद्यते यत्र गम्यते ॥२४॥जटी प्राह तदा भक्तं तीर्थं सतां समागमः ।यत्र सत्संग उत्कृष्टस्तत्र वै गम्यते मया ॥२५॥साधवो बहवः सन्ति संसारान्मोक्षकारिणः ।विष्णोर्ध्यानपराश्चापि श्रीकृष्णार्पणकारिणः ॥२६॥त्यागिनश्च तपोयुक्ता निग्रहे च यमे रताः ।सेवाभक्तिपराश्चापि वनारण्यनिवासिनः ॥२७॥यद्गृहे वर्तते विष्णुः शंभुर्वा श्रीनरायणः ।वासुदेवो बालकृष्णस्तद्गृहं तीर्थमुत्तमम् ॥२८॥यत्र हिरण्यवर्णश्च हिरण्यकेशवान् प्रभुः ।सर्वः सुवर्णमूर्तिः श्रीहरिर्विराजते सदा ॥२९॥तत्तीर्थं पावनं भक्त तत्र तीर्थे वसाम्यहम् ।भूरितेजोदिव्यमूर्तिर्भगवान् यत्र राजते ॥३०॥यत्र भक्ता हरेः सन्ति साध्व्यश्च साधवोऽपि च ।तत्तीर्थे पावनं भक्त तत्र वै गम्यते मया ॥३१॥सच्चिदानन्दरूपं यत् पूर्णं ब्रह्म प्रकाशकृत् ।महातेजो यतः संप्रकाशतेऽत्र वसाम्यहम् ॥३२॥तमेव पुण्डरीकाक्षं नारायणं पुमुत्तमम् ।ध्यात्वा परात्परं दिव्यं परमेशमुपैम्यहम् ॥३३॥तेनेदं च जगत् पूर्णं पूर्णेन पुरुषेण वै ।तं श्यामसुन्दरं कृष्णं बालकृष्णमुपैम्यहम् ॥३४॥कर्मफलप्रदातारं जीवानामीश्वरेश्वरम् ।मुक्तेश्वरं दिव्यमूर्तिं लक्ष्मीपतिमुपैम्यहम् ॥३५॥यस्य मूर्तेश्चाति तेजो महद् व्यापकमूर्ध्वगम् ।सर्वस्थं ब्रह्मसंज्ञं च तं श्रीपतिमुपैम्यहम् ॥३६॥यस्याऽन्वयेन सर्वत्र महः श्रेष्ठं प्रकाशते ।मूर्तवत् फलदं चास्ते तं तेजस्विनमेम्यहम् ॥३७॥ईश्वरा देवताः सिद्धा यत्प्रतापेन माधवाः ।भवन्ति तं दिव्यमूर्तिं श्रीकृष्णं समुपैम्यहम् ॥३८॥यस्य मूर्तौ समाधिं सम्प्राप्तस्य दिव्ययोगिनः ।मायातत्कार्यतत्त्वानां लयोऽस्ति तमुपैम्यहम् ॥३९॥चिदाकाशोऽतिसुखवान् महानन्दभृतः सदा ।यन्मूर्तेः स्वच्छतात्माऽऽस्ते तं परेशमुपैम्यहम् ॥४०॥यदक्षरं ब्रह्मधाम दिव्यं व्योम महः सुखम् ।सर्वानन्दप्रदं यस्य तमुपैमि हरिं प्रभुम् ॥४१॥यदक्षरं समस्तेषु मायायां मायिकेषु च ।आत्मतत्त्वेषु चाप्यास्ते तं प्रभुं समुपैम्यहम् ॥४२॥पुरुषे प्रकृतौ काले यदन्वयतया बलम् ।समस्तकार्यकारित्वं तं कृष्णं समुपैम्यहम् ॥४३॥सृष्टित्रयं च यस्माद्वै शोभते लयमेति च ।सृष्टित्रये वर्तमानं तं हरिं समुपैम्यहम् ॥४४॥यत्प्रसादाद् दिव्यदृष्टिर्मानवोऽपि सुरोऽपि वा ।सर्वं ब्रह्मेक्षते तं माणिकीकान्तमुपैम्यहम् ॥४५॥अनन्ताः शक्तयो यस्मादनन्तैश्वर्यकोटयः ।प्रभवन्ति च रुद्राद्यास्तं परेशमुपैम्यहम् ॥४६॥अष्टांगयोगिनः सन्तः साध्या देवाश्च यं प्रभुम् ।समाधौ संप्रपश्यन्ति तं हरिं समुपैम्यहम् ॥४७॥यन्मूर्तौ देहिनां नाडीप्राणाम्बराणि सर्वथा ।संकुचितान्याकृष्टानि जायन्ते तमुपैम्यहम् ॥४८॥ईश्वरा ब्रह्मरुद्राद्या मादृशाः साधवस्तथा ।नारायणा ह्यसंख्याता यं श्रित्वैश्वर्यशालिनः ॥४९॥भगवन्तो भवन्त्येव नारायण्यो भवन्त्यपि ।अवताराऽवतारिण्यस्तमुपैमि परेश्वरम् ॥५०॥भज त्वं सर्वथा तं च देवं श्रीपतिमीश्वरम् ।सर्वेशं सर्वशक्तीनां धर्तारं राधिकापतिम् ॥५१॥अहं भजामि तं देवं विष्णुं श्रीपरमेश्वरम् ।अन्ये भजित्वा तं देवं परं पदं पुरा ययुः ॥५२॥यान्ति यास्यन्ति चान्येऽपि भज तं परमेश्वरम् ।इत्येवमुक्त्वा शान्तोऽभूद् रुद्रो वै भक्तवत्सलः ॥५३॥ततो लक्ष्मि शिखादेवी तथा तिलकरंगकः ।ज्ञात्वा साधुं ब्रह्मनिष्ठं रुद्रसमं ववन्दतुः ॥५४॥अहो साधो धन्यभाग्यमस्माकं वै कुटुम्बिनाम् ।ज्ञानमेतादृशं चाऽद्य लब्धवन्तो यतः सतः ॥५५॥भवादृशस्य साधोर्वै दर्शनं दुर्लभं त्विह ।वनपानां कथं साधुसंगमो मोक्षदो भवेत् ॥५६॥विष्णोर्भक्तो भवानास्ते वयं भक्ता हरस्य च ।हरस्य दर्शनं कस्माद् भवेत्तद्वद शोभनम् ॥५७॥श्रुत्वा शंभुस्तदा प्राह शंभोस्तु दर्शनं तव ।वृत्तीर्निरुद्ध्य चात्रैव भविष्यति न संशयः ॥५८॥अन्तर्वृत्तीः समाधाय पश्यन्तु मां हृदन्तरे ।साधुमूर्तौ दर्शनं ते भविष्यति हरस्य वै ॥५९॥इत्युक्तास्ते तिलकाद्या वनपास्तत्र चाब्धिजे ।अन्तर्वृत्तीस्तदा कृत्वा ध्यायन्ति हृत्सु यावता ॥६०॥तावत् साधुः स्वयं रुद्रस्त्रिशूलधृग् व्यजायत ।त्रिनेत्रो व्याघ्रचर्मधृक् सतीश्रीपार्वतीपतिः ॥६१॥हरौ मग्नोऽतिसुखकृत् सौम्यरूपः समुज्ज्वलः ।महायोगी गणेशाद्यैः सहितः समदृश्यत ॥६२॥अथ तत्र हरेः रूपं चतुर्भुजस्य मे शुभम् ।लक्ष्म्या समं महादिव्यं हरस्य हृदये परम् ॥६३॥व्यदृश्यत महानन्दभृतं शंकरपूजितम् ।शंभोस्तु हृदयात् तच्च निर्गतं शोभनं बहिः ॥६४॥शंभुना पूज्यमानं च व्यदृश्यत सुखप्रदम् ।एवं तु दर्शनं दत्वा साधुरूपस्तु शंकरः ॥६५॥विष्णुरूपं निजरूपं तिरोभावयदेव सः ।साधुरूपोऽभवच्छीघ्रं हृदये च ततः परम् ॥६६॥सर्वान् तिलकरंगादीन् बहिर्वृत्तीनकारयत् ।उत्थिता ददृशुः साधुं यथापूर्वं जटाधरम् ॥६७॥ज्ञानवन्तश्च तं शंभुं स्वेष्टदेवं सतीपतिम् ।निपेतुः पादयोः सर्वे शंभोः संवाहनं व्यधुः ॥६८॥अपराधक्षमां ययाचिरे मुक्तिं ययाचिरे ।शंभुः प्राह सदा चास्मि वैष्णवो भक्तवत्सलः ॥६९॥भक्तानां श्रीहरौ भक्तिं कारयितुमिहागतः ।नारायणं हृदयेऽहं रक्षामि सर्वदा प्रभुम् ॥७०॥ध्यायामि तं परं ब्रह्म बालकृष्णं श्रियाः पतिम् ।भवन्तो मम भक्ताश्च भजन्तु परमेश्वरम् ॥७१॥इत्युक्त्वा प्रददौ लक्ष्मि मन्त्रं तेभ्यः स्वयं हरः ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७२॥अथ नारायणपूजां भजनं चाऽऽदिदेश तान् ।मुक्त्यर्थं वचनं दत्वा सहसा स तिरोऽभवत् ॥७३॥ततस्तिलकरंगोऽपि भेजे शंभोः समाज्ञया ।बालकृष्णं प्रभुं मां वै पत्नीकुटुम्बयुक् सदा ॥७४॥वने वन्यान्मानवाँश्च तत आरभ्य सर्वथा ।नरान्नारीश्चाह्वयित्वा कारयत्येव कीर्तनम् ॥७५॥ 'हरेकृष्ण हरेकृष्ण बालकृष्ण रमापते ।हरेविष्णो हरे जिष्णोऽनादिकृष्ण श्रियःपते' ॥७६॥एवं संकीर्तनं नित्यं करोति कारयत्यपि ।वने वेद्यां नित्यमेवाऽर्चयत्येव जनार्दनम् ॥७७॥फलपुष्पादिभिः कृष्णं नारायणं हरिं तु माम् ।तोषयत्येव च नीराजनं कृत्वा ततः परम् ॥७८॥नृत्यत्येव सवाद्यं च प्रेम्णा सायं निशागमे ।साधुष्वेव हरश्चास्ते हरे हरिर्विराजते ॥७९॥मत्वैवं वनमध्येऽपि साधून् सदा प्रसेवते ।कर्मणा मनसा वाचा देहेन च धनेन च ॥८०॥पत्रपुष्पफलैस्तोयैश्चात्मार्पणेन सेवते ।साध्वर्थं कृतसर्वस्वः प्रत्यक्षसाधुसेवनः ॥८१॥प्रत्यक्षनिश्चयः सम्यक् समर्प्य सेवते सतः ।भार्या सुखार्थिनी सर्वं त्यक्त्वा सुखं विरागिणी ॥८२॥यथा तथा सतः साध्वी सेवते परमार्थिनी ।पुत्रपुत्र्यादिकाश्चास्य सेवन्ते साधुमीश्वरम् ॥८३॥सर्वं वै वर्तते साधौ हरो हरिर्नरायणः ।ब्रह्म मोक्षो महानन्दः साधुषु शाश्वतं सुखम् ॥८४॥साधुरेव परंब्रह्म साधुर्देवो गुरुः परः ।साधुजनो हरेर्मूर्तिः साधोः सेवा हि मुक्तिदा ॥८५॥इत्येवं ते प्रसेवन्ते वनपा वन्यवस्तुभिः ।अथैकदा कार्तिकस्य कृष्णाष्टमीदिने तु ते ॥८६॥महोत्सवं प्रचक्रुर्वै वने कुञ्जे तु दारवे ।वृक्षशाखानद्धदोलां वल्लीपल्लवपुष्पिताम् ॥८७॥शोभितां संविधायैव मां कृष्णं ते न्यषादयन् ।आन्दोलनं प्रचक्रुश्च कीर्तनं पूजनं मम ॥८८॥जन्ममहोत्सवं चक्रुरनादेर्मे तदा त्वहम् ।नृत्यगीतोत्तरं रात्रौ ब्रह्मप्रियासमन्वितः ॥८९॥दिव्यकिशोररूपेण प्रत्यक्षस्त्वरितोऽभवम् ।दिव्यदिव्यातिदिव्याढ्यरूपभूषाम्बरान्वितः ॥९०॥प्राविरासं सुदोलायां तेजःपरिधिसत्प्रभः ।प्रसन्नहास्यवदनः किशोरो माणिकीपतिः ॥९१॥राधालक्ष्मीपतिप्रज्ञाप्रमाश्रीकमलापतिः ।आश्चर्यं ते ययुः सर्वे क्षणं चक्रुश्च दर्शनम् ॥९२॥अथ मूर्तिस्वरूपोऽहमभवं च द्रुतं ततः ।प्रमोदमग्नास्ते सर्वे प्रार्थयामासुरुत्सुकाः ॥९३॥हरेकृष्ण दयासिन्धो तारयाऽस्मान्निजाञ्जनान् ।संसारसागरादस्मात्तव धाम प्रदेहि नः ॥९४॥तथाऽस्त्वेवमहं तेभ्यो वरं ददौ तदा रमे ।मूर्तेर्मुखाद् वरदानं दत्वा चात्त्वा तदर्पितम् ॥९५॥अदृश्योऽहमभवँश्च ते चक्रुः परिहारकम् ।अथ कालान्तरे प्राप्ते तिलकरंगयोगिनः ॥९६॥शिखादेव्यास्तथा चान्यवनपानां कृपावशः ।मुक्तिदाता विमानेन ह्युपस्थितोऽभवं वने ॥९७॥दिव्यदेहान् विधायैतान् विमाने तान्न्यषादयम् ।अगमं दिव्यधामोर्ध्वं चाक्षरं परमं मम ॥९८॥एवं मुक्तिं दत्तवान् वै वनपेभ्यः परं पदम् ।अन्येऽपि वनपास्तत्र भजन्ते मा हरिं प्रभुम् ॥९९॥प्रयान्ति चाक्षरं धाम प्राप्ते चायुष्यसीमके ।ये ये शंभोर्निदेशेन भजन्ते मां जनार्दनम् ॥१००॥नयामि तान्मम धामाऽक्षरं लक्ष्मि परात्परम् ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१०१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने तिलकरंगस्य वनपस्य शिवभक्तस्य साधुरूपशिवोक्तभक्त्या नारायणोपासनया परममुक्तिप्राप्तिरित्यादिनिरूपणनामा षडधिकद्विशततमोऽध्यायः ॥२०६॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP