संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २३१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २३१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३१ Translation - भाषांतर पुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं शूलारोपणकारिणः ।जल्लादस्य कथां नाम्ना तारकादर्शकस्य वै ॥१॥चम्बावत्यां नगर्यां वै रावीनद्यास्तटान्तिके ।महाकारागारदुर्गे शूलीदण्डविधायिनि ॥२॥नियुक्तोऽभूत् तारकादर्शकः शूल्यधिरोपकः ।राजदण्डेन ये दण्डिताः स्युर्महापराधिनः ॥३॥स्त्रीघ्ना गोघ्नाश्च बालघ्ना नरघ्ना मूर्तिभञ्जकाः ।देवालयविनेष्टारः सर्वे शूल्यर्हदण्डिनः ॥४॥तेषां शूल्यग्राधिरोहं करोति तारकादृशिः ।चम्बापुर्या महाराजो नाम्ना वै सुपथानकः ॥५॥तारकादर्शकं जल्लादकं ररक्ष शूलिनम् ।दुर्गमध्ये शूलिकाऽऽस्ते यत्र वैहायसाः सदा॥६॥पतत्त्रिणो भ्रमन्त्येव पिशिताशनकांक्षिणः ।यां स्मृत्वा रोमकम्पो वै जायते धैर्यशालिनः ॥७॥दृष्ट्वा हृत्स्तब्धता चापि निर्बलस्य प्रजायते ।दण्डं श्रुत्वा परमेशं स्मरन्ति सज्जना अपि ॥८॥पापिनोऽपि प्रभुं स्मरन्तीशेश पाहि मामिति ।यमालयो यथा तद्वद् भयानकं स्थलं तु तत् ॥९॥तत्र जल्लादवासोऽभूद् दिवानिशं हि दुर्गके ।वेतन लभते राज्यात् प्राणयात्रां करोति च ॥१०॥शूलीदण्डार्हदुष्टाय दण्डदानक्षणात् पुरः ।श्रावयत्येव नामानि कृष्णनारायणेति सः ॥११॥रक्ष माधव गोविन्द पुनः पापात् प्ररक्षय ।एषोऽहं शूलिकारूपे कृष्णेऽर्पितो भवामि च ॥१२॥मम पापफलं चेदं भुंजे नान्योऽत्र दोषभाग् ।पुनर्नैवं करिष्येऽघं पापान्मुक्तो भवामि चेत् ॥१३॥शृण्वन्तु मानवाः सर्वेऽधिरोहामि स्वकर्मणा ।मा शोचन्तु मम नाशं शोचन्तु पापकर्म वै ॥१४॥मा कुर्वन्त्वपि पापानि मा शूलीमधियन्तु च ।बान्धवाः पितरो माता सम्बन्धी पुत्रपुत्रिकाः ॥१५॥सुहृदश्च प्रजालोका ये तु पश्यन्ति मामिह ।ते धर्मं संपालयन्तु मे वक्तव्यं न चेतरत् ॥१६॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।इति सर्वं तदोच्चारयित्वा तं दण्डशालिनम् ॥१७॥नेत्रयोः पट्टबन्धं च कृत्वोत्तोल्य जनैः शनैः ।शूल्यग्रे तीक्ष्णधारेऽवस्थाप्यते पृष्ठगे तले ॥१८॥मध्यभागे पृष्ठवंशे समतोले शनैः शनैः ।उत्तानं दोषिणं शूलं यथा विशति पृष्ठके ॥१९॥तदा जल्लादको भक्तो गृणाति कृष्ण कृष्ण वै ।कृष्णनारायणकृष्ण संश्रावयति दोषिणम् ॥२०॥पापनाशस्तथा मोक्षो यदोदयः प्रजायते ।यद्वा पुनः शुभं जन्म यथा स्याद्दोषिणस्तथा ॥२१॥सलिलं तुलसीमिश्रं तस्मै ददाति दोषिणे ।ओष्ठयोश्चान्तिमे प्राणयानकाले हरिं गृणन् ॥२२॥वाद्यानि बहुधा तत्र वादयन्ति नृपानुगाः ।दुःखशब्दाक्रोशनादि यथा श्रूयेत नैव ह ॥२३॥अथ प्राणे गते शूलाच्छवं चोत्तार्य भूतले ।वह्निगर्ते क्षिपत्येव यद्वा सम्बन्धिने तदा ॥२४॥कुटुम्बिने ददात्येव राजाज्ञया यथातथम् ।एवं स तारकादर्शो दोषिणं प्रेषयत्यपि ॥२५॥यमलोकं च वा कृष्णनाम संश्राव्य वै दिवम् ।अन्तरामा हरिकृष्णो जानाम्यहं रमे हि तत् ॥२६॥भक्तो मे तारकादर्शो वर्तते नामकीर्तने ।एवं कृत्वा दण्डकर्म ततः स्नात्वा च मालिकाम् ॥२७॥करे धृत्वा कृष्णकृष्ण सहस्रं स जपत्यपि ।प्रायश्चित्तं तथा सप्तोपवासान् स करोत्यपि ॥२८॥क्षमां प्रयाचते कृष्णाच्छूलीपापं क्षमस्व मे ।अथ तीर्थे शुभे रावीनद्या जम्बुप्रदेशके ॥२९॥स्नात्वा दानं ददात्येव वेतनात्तद्दिनोद्भवम् ।साधून् प्रसेवते नित्यं करोति स्मरणं हरेः ॥३०॥नित्यं ध्यानं हरेश्चापि पूजनं भजनं तथा ।नैवेद्यार्पणमेवाऽपि ताम्बूलसलिलार्पणम् ॥३१॥धूपं दीपं नमस्कारं नीराजनं स्तवं तथा ।क्षमायाचनमेवाऽपि कृत्वा विसर्जनं नमः ॥३२॥करोत्येव ततो भुक्त्वा प्रसादं तु निवेदितम् ।स्वभृत्यतानियुक्तौ वै नम्रः समुपतिष्ठति ॥३३॥मालामावर्तयन् हस्ते नारायणं रटँश्च माम् ।भक्तान् वीक्ष्य नमस्कारं करोति चान्तरात्मने ॥३४॥सर्वं ब्रह्माधिवासं च मत्वा मग्नो हि वर्तते ।एवंविधो मम भक्तो जल्लादस्तारकादृशिः ॥३५॥भक्तौ मे दृढतां प्राप्तः सायं तु स्वगृहांगणे ।नरान्नारीः समाहूय कीर्तनं तु निशामुखे ॥३६॥कृष्णनारायणविष्णो जिष्णो राधारमापते ।गोविन्दमाधववासुदेवकृष्ण श्रियः पते ॥३७॥एवं रटति घटिकाद्वयं संभूय मानवैः ।कीर्तनान्ते मम पूजां करोत्यारार्त्रिकं तथा ॥३८॥प्रसादं सर्वभक्तेभ्यो ददाति मन्निवेदितम् ।रात्रौ निद्रां करोत्येव कण्ठे धृत्वा तु मालिकाम् ॥३९॥रटन् मन्नाम वै बालकृष्णकृष्णनरायण ।एवं भक्त्या प्रसन्नोऽहं सञ्जातस्तस्य वै पुरः ॥४०॥अदृश्यो वै भवाम्येव शृणोमि कीर्तनादिकम् ।पश्यामि पूजनं चापि गृह्णामि स्नेहतः सदा ॥४१॥अथैकदा तु भक्तं मे तारयितुं व्यचिन्तयम् ।अस्य देयं मया नित्यं भोजनं जलमम्बरम् ॥४२॥अयं मोक्षयितव्यश्च शूलीकर्मविधानतः ।भक्तो मे रागरहितः शूलीकर्मणि सर्वथा ॥४३॥तथापि प्राणयात्रार्थं वेतनार्थी करोति तत् ।हिंसनं पापमेवाऽस्ति निमित्तः शूलदोऽपि च ॥४४॥तत्रोद्विजते भक्तो मे प्रायश्चित्तं करोति च ।तस्मान्मोचयितव्योऽयं शूलीकर्माऽधिकारतः ॥४५॥विचार्येत्थं तदा लक्ष्मि कारागाराऽधिपोऽभवम् ।कारागाराधिपरूपं धृत्वाऽगच्छं नृपं प्रति ॥४६॥न्यवेदयं च राज्ञेऽहं तारकादर्शचेष्टितम् ।शृणु राजन् कथयामि ततो यद् रोचते कुरु ॥४७॥तारकादर्शकश्चायं नियुक्तो वेतनेन वै ।शूली दण्डप्रदानार्थं दुष्टानां भवता ह्यपि ॥४८॥भक्तोऽयं दयया युक्तः प्रायश्चित्तं करोति सः ।पापं तु मन्यते शूल्यारोपणं दण्ड्यदेहिनः ॥४९॥कृष्णकृष्णेति जपति सप्ताहं न भुनक्ति च ।मृदुहृत् सदयचित्तः क्वचिद् दयावशंवदः ॥५०॥क्वचिदाज्ञोल्लघनं वै करिष्यतीति भाति मे ।नायं योग्यस्तत्र कार्ये मृदुस्वभाववान् यतः ॥५१॥क्रूरस्तत्र सदा योग्यो नियोक्तव्योऽपरो जनः ।यत्र कार्ये सुविश्वासो यस्य तस्माद् भयं न वै ॥५२॥अस्मात्तु मे भयं भाति ततस्तं त्वपसारय ।अरण्यरक्षणं तस्मै देहि यत्र न हिंसनम् ॥५३॥यस्माद्भयं न भंगस्य स्वाज्ञायाश्च नयस्य च ।एवमुक्त्वा तथैवाज्ञापत्रं तत्रैव तत्तथा ॥५४॥लेखयित्वाऽरण्यदक्षाकरं कृत्वा तिरोऽभवम् ।पत्रं राजाज्ञया दूतद्वारा प्राप्तं सुखास्पदम् ॥५५॥तारकादर्शनेनापि प्रसादः स मतो हरेः ।पापस्थलादपसारः कृष्णेच्छयाऽस्ति वै मम ॥५६॥योग्यं करोति भगवान् भक्तरक्षाकरो हरिः ।मत्वैवं भगवद्वाञ्च्छा त्यक्त्वा शूलीस्थलं द्रुतम् ॥५७॥आरण्याऽधिकृतिं तूर्णं जग्राहाऽधिकवेतनैः ।महासुखः स सम्पन्नो वसत्यरण्यमण्डले ॥५८॥कुटुम्बसहितो नित्यं रावीनदीतटे शुभे ।वन्यैः फलैश्च कन्दैश्च पत्रैः शिम्बीजबीजकैः ॥५९॥कणैः शुभौषधैरन्नै रसैश्च मधुभिस्तथा ।निर्वहत्येव नूत्नैः स प्राणयात्रां सुखोदयाम् ॥६०॥विदित्वा मे महिमानं भजतेऽधिकमेव माम् ।उष्ट्रमारुह्य रात्रौ स दिवा चापि भटैः सह ॥६१॥निरीक्षते महारण्यं राजेव वर्तते सदा ।आरण्यका जना दुग्धदधिमायसमिष्टकैः ॥६२॥सम्मानं संप्रकुर्वन्ति मिष्टान्नशर्करादिभिः ।नूत्नसस्योद्भवं भक्ष्यं चार्पयन्ति वनेचराः ॥६३॥क्षेत्रवाटीश्वराश्चापि सीमरक्षाधिकारिणे ।यथा कश्चिन्नरकाद्वा कारागाराद् विमुच्य वै ॥६४॥राज्याभिषेकमाधत्ते तद्वत् सुखमवाप्तवान् ।एवं वै तारकादर्शोऽभवत् सुखी कृपावशात् ॥६५॥भक्तौ वृद्धिमवापैव ध्याने च भजनेऽर्हणे ।नित्यं मालावर्त्तनं तु सहस्रं प्रकरोत्ययम् ॥६६॥परात्मना सुखं दत्तं कथं भजे न माधवम् ।मत्वैवं क्षेमकुशले नारायणं विशेषतः ॥६७॥भजते मम भक्तो मां बहुधा भक्तिकर्मभिः ।निजाश्रमे कृता मूर्तिर्मृण्मयी तेन शोभना ॥६८॥कृष्णाश्चमरीक्शाश्च केशास्तत्र सुयोजिताः ।नेत्रे द्वाभ्यां कपर्दीभ्यां योजिते कृष्णबिन्दुके ॥६९॥पुष्पावतंसौ गुच्छौ च कर्णयोर्निहितौ तदा ।पद्मबीजकृता माला गुंजामाला तथाऽर्पिते ॥७०॥स्फटिका भुजबन्धे च प्रकोष्ठे योजिताः शुभाः ।ऊर्मिकाश्च कृता दर्भपत्रैश्च मुञ्जशृखलाः ॥७१॥फलाहारा धारिताश्च वस्त्राणि वल्कलान्यपि ।कम्बलो मृगचर्माऽपि पुष्पशृंगारकाणि च ॥७२॥यथाकालोद्भवान्येव समर्पितानि शार्ङ्गिणे ।चतुर्भुजं स्वरूपं तच्छंखचक्रगदाब्जधृक् ॥७३॥तथा पार्श्वे शुभा लक्ष्मीर्युवती सुविभूषिता ।सर्वाभरणयुक्ता च कृता वन्यसुवस्तुभिः ॥७४॥कुंकुमाऽलक्तकाद्यैश्च यथास्थानं सुशोभिता ।पात्राणि वन्यपत्राणि कुटी वंशादिसंभवा ॥७५॥उपचाराणि वन्यानि कृतानि भक्तियोगिना ।गावस्तेन सुदोग्ध्र्यश्च रक्षिता भगवत्कृते ॥७६॥अरण्ये तृणघासादिबाहुल्येन सुपोषिताः ।नित्यमेवं प्रगे स्नात्वा पूजयित्वा रमां प्रभुम् ॥७७॥पुष्पहारादिभिः सम्यक् शृंगार्य चन्दनादिभिः ।मधुभिर्मिष्टगुन्द्रैश्च वृक्षसारैः फलादिभिः ॥७८॥मिष्टरसैर्मिष्टकन्दैर्नैवेद्यं च जलं तथा ।ताम्बूलकं च दीपं च धूपं प्रदक्षिणं स्तुतिम् ॥७९॥अपराधक्षमां नमो दण्डवत् कुसुमाञ्जलिम् ।परिहारं विदधाति नित्यमेवं करोति सः ॥८०॥मध्याह्ने भोजनं सायं पूजानीराजनाऽदनम् ।समर्प्य धूपदीपादि करोति कीर्तनं सदा ॥८१॥तस्य भार्या कृतशल्या प्रातरुत्थाय नित्यदा ।स्नात्वा पुष्पाणि चानीय निर्माय मालिकादिकम् ॥८२॥अर्पयत्येव कृष्णाय नमत्यपि शतं मुहुः ।ततः क्षमार्थनां कृत्वा पतिं नत्वा गृहक्रियाम् ॥८३॥करोति सतं चैवं मध्याह्ने भोजनार्पणम् ।सायं तथैव नैवेद्यार्पणं करोति मिष्टकम् ॥८४॥शृंगारभूषावेषादि चावतार्य श्रियं प्रभुम् ।योग्यवेषं धारयित्वा निद्रापयति वै निशि ॥८५॥प्रातर्वेषं सुशृंगारं धारयत्युत्तमं नवम् ।यत्पक्वं पाचितं सर्वं निवेदयति शार्ङ्गिणे ॥८६॥प्रसादान्नजलं शाकं तुलसीदलमिश्रितम् ।भुंक्ते कुटुम्बकं नित्य पुत्रपुत्र्यादिसंहितम् ॥८७॥एवं वै वर्तमानस्य तारादर्शस्य चालयम् ।अभ्यागतस्वरूपोऽहं जटी भूत्वा वनी ययौ ॥८८॥सायंकाले कुटुम्बेन स्नेहेन स्वागतं मम ।कृतं साधुं विदित्वैव जपन्तम श्रीनरायणम् ॥८९॥भोजितोऽहं पूजितश्च पायितोऽङ्गेषु मर्दितः ।स्वापितः शयने प्रातरुत्थापितो नमस्कृतः ॥९०॥संस्नापितः पूजितश्च भोजितो दक्षिणाऽर्पितः ।प्रसन्नतां प्रति सम्यगर्थितो मोक्षणं प्रति ॥९१॥तथाऽस्त्वेवमुच्चरितः प्रस्थापितोऽतिभावुकैः ।तदाऽहं दिव्यरूपेण संवर्तितश्चतुर्भुजः ॥९२॥श्रीयुतो दिव्यतेजोभिर्व्याप्तः प्रसन्नतायुतः ।भक्तभक्तिवशो दत्वाऽऽशीर्वादं मोक्षणं प्रति ॥९३॥प्रसादं पुष्पहाराँश्च दत्वा दशकुटुम्बिने ।तिरोभवं द्रुतं तत्र प्रतिमायां हि पश्यताम् ॥९४॥अत्याश्चर्यं च ते प्राप्ता दिव्यदृष्टिं प्रपेदिरे ।तत आरभ्य मूर्तौ मां लक्ष्मीयुक्तं सुदर्शनम् ॥९५॥नित्यं दिव्यं प्रपश्यन्ति साक्षाद्वै पितरौ यथा ।कृतकृत्याश्च ते जाता दिव्या मेऽनुग्रहात् खलु ॥९६॥अथ काले प्रसंप्राप्ते विमानेन सुतेजसा ।अनयं तानक्षरं मे धाम लक्ष्मि परात्परम् ॥९७॥एवं भक्तस्य मोक्षो वै मया कृतो दयालुना ।मुमुक्षूणां हृदयेऽस्मि विशेषतोऽवनार्थकः ॥९८॥पापाः पापसमाचाराः पापिसंगाश्च मानवाः ।पापनाशेच्छया मां वाऽऽश्रयेयुः साधुसत्तमान् ॥९९॥विधूय तेषां पापानि दत्वा पुण्यानि सर्वथा ।पावनान् देहिनः कृत्वा दत्वा दिव्यतनूस्ततः ॥१००॥नयामि वा दिवं सत्यं श्रीपुरं चामृतं च वा ।अव्याकृतं वा वैकुण्ठं गोलोकं वाऽक्षरं पदम् ॥१०१॥परं पदं प्रापयामि राजाधिराजशोभनम् ।ददामि सेवनं तत्र पादयोर्मम सर्वदा ॥१०२॥पठनाच्छ्रवणादस्य स्पर्शनाद् वर्तनादपि ।भुक्तिर्मुक्तिर्दिव्यगतिर्जायते मोक्षणं रमे ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शूलीप्रदस्य तारकादर्शस्य तत्पत्न्याः कृतशल्यायाश्च भक्त्याऽभ्युदयौ मोक्षणं चेत्यादिनिरूपणानामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥२३१॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP