संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं काष्ठहारस्य वै कथाम् ।नाम्ना जांगलदेवस्य मम भक्तस्य शोभनाम् ॥१॥निशारग्रामवास्तव्योऽभवद्भक्तः कुटुम्बवान् ।शूद्रो जांगलदेवाख्यः काष्ठहारोऽतिभक्तिमान् ॥२॥नित्यमुत्थाय कल्येऽयं मुहूर्ते ब्राह्मसंज्ञके ।कूपे स्नात्वा हरिं ध्यात्वा निवेद्य रोटकं च मे ॥३॥आरनालेन साकं च जलं ततः प्रणम्य माम् ।सुगन्धिकाष्ठगुन्द्रादिधूपं कृत्वा मदग्रतः ॥४॥वन्यं फलं च पुष्पं च पत्रं च तूलसीजनिम् ।समर्प्य मह्यं भक्तोऽयं पत्नीमापृच्छ्य बालकान् ॥५॥रज्जुं नीत्वा कुठारं च यात्यरण्य प्रगेऽन्वहम् ।विविधानि च शुष्काणि काष्ठन्याच्छिद्य यत्नतः ॥६॥भारं बद्ध्वा च मध्याह्ने वृक्षच्छायामये स्थले ।सहनीतं रोटकं च स्मृत्वा मामत्ति मन्मना ॥७॥विश्रामं प्राप्य वै पश्चात् तापमान्द्ये गृहं निजम् ।प्रयात्येव हि काष्ठानां भारं धृत्वा स मस्तके ॥८॥यदा वृक्षे शुष्ककाष्ठं शुष्कशाखां छिनत्ति सः ।तदा तदा हरिं स्मृत्वा नत्वा वृक्षं छिनत्ति सः ॥९॥पत्रं पुष्पं फलं चेत् प्राप्यते मह्यं ददाति सः ।वृक्ष नारायणयोगं याहि चेति वदत्यपि ॥१०॥हरेकृष्ण हरेविष्णो बालकृष्ण परेश्वर ।अन्तर्यामिँस्तरोरस्य कल्याणं कुरु वक्ति च ॥११॥एतादृशो हि मे भक्तो वृक्षश्रेयोविचारवान् ।भजतेऽरण्यमध्येऽपि श्रीपतिं मां पुमुत्तमम् ॥१२॥अन्ये च बहवः काष्ठहाराः स्वयोगमागताः ।कृता भक्ता वैष्णवाश्च नामकीर्तनतत्पराः ॥१३॥अरण्ये पिप्पलतरोरधस्ताद् वेदिकोपरि ।मिलित्वा काष्ठहारैश्च मूर्तिर्मे तु शिलामयी ॥१४॥दर्शनार्थं स्थापिता च तत्र पुण्ये क्षणे दिने ।मिलन्ति चापि मध्यान्हे भजन्ते कीर्तयन्ति माम् ॥१५॥पूजयन्ति हरिं मां च फलैर्जलैर्दलादिभिः ।वन्यकन्दैस्ततः सर्वे भुञ्जते यान्ति विश्रमम् ॥१६॥शुभे दिने प्रकुर्वन्ति महोत्सवं नवं नवम् ।पत्रमण्डपशोभाभिस्तोरणैः पुष्पहारकैः ॥१७॥प्रनृत्यन्ति कीर्तयन्ति मृदंगादिभिरादरात् ।एवं कीर्तनभक्तानां नृत्यं च कीर्तनं मम ॥१८॥प्रियं जातं ततो लक्ष्मि पूजाकाले च नर्तने ।कीर्तने चाऽदृश्यरूपो भवाम्याकर्णयँस्तदा ॥१९॥अथाऽहं साधुरूपो वै वनी भूत्वा ययौ तदा ।मण्डले काष्ठहाराणां पिप्पले वेदिकास्थले ॥२०॥सत्कृतस्तैः साधुरूपः स्वागतैः पूजितस्तथा ।भोजितः फलकन्दाद्यैः पादोर्वाहितस्तथा ॥२१॥देहे सम्मर्दितश्चापि वन्दितोऽहं तदा जनैः ।स्थितस्तैश्चापि संपृष्टः कथं वै भगवान् प्रभुः ॥२२॥निराकारो नेत्रलभ्यो भवेदत्र जनार्दनः ।कथं मोक्षो भवेत् काष्ठहाराणां वनिनां त्विहि ॥२३॥तदाऽहं कमले ज्ञानं प्रददौ तत्र चोत्तमम् ।कृपया च प्रकाशं वै हृत्स्वकरवं वैष्णवम् ॥२४॥काष्ठानां सञ्चये नारायणः स्मर्तव्य एव च ।काष्ठानां हरणे चापि स्मर्तव्यः श्रीहरिं सदा ॥२५॥भारस्य बन्धने चापि स्मर्तव्यः परमेश्वरः ।विक्रयेऽपि प्रवक्तव्यं विक्रीणन्तु हरिं जनाः ॥२६॥रामसमिधः केशवसमिधः कृष्णशाखिनः ।विक्रीणन्तु जनाः कृष्णसमिधः कृष्णकाष्ठकम् ॥२७॥इत्येवं रटनीयोऽयं नारायणः पदे पदे ।अनादिश्रीकृष्णनारायणो मोक्षप्रदः प्रभुः ॥२८॥स्मरणीयः सदा श्रीमद्बालकृष्णः श्रियाः पतिः ।मोक्षदाता स एवाऽऽस्ते चान्तरात्मा दयानिधिः ॥२९॥स्वर्गदः सुखदश्चापि सम्पदां च प्रदः प्रभुः ।शाश्वतानन्ददश्चापि सृष्टिसागरतारकः ॥३०॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।प्रजपन्तु सदा मन्त्रं पावनं पारमेश्वरम् ॥३१॥सर्वार्पणं प्रकुर्वन्तु काष्ठहारा मयीश्वरे ।नैष्कर्म्यं पुण्यदं सर्वं भक्त्याख्यं संभविष्यति ॥३२॥श्रीकृष्णो भगवानस्ति सर्वकारणकारणम् ।प्रकाशकानां सर्वेषां प्रकाशसम्प्रदो हरिः ॥३३॥यस्य भासा सर्वमिदं भासते च विभाति च ।सृष्ट्यादौ चाऽक्षरे धाम्नि वर्तते परमेश्वरः ॥३४॥राधालक्ष्मीपतिर्मुक्तपतिर्ब्रह्मप्रियापतिः ।प्रकृतिः स्वेच्छया तेन व्यक्तिं नीता तथा पुमान् ॥३५॥ताभ्यां सृष्टिः पुरा जाता नारायणप्रवेशिता ।प्रधानपुरुषौ ताभ्यां ताभ्यां हिरण्यपूरुषः ॥३६॥ततो विराट् ततो ब्रह्मा ततो महर्षयः सुराः ।मानवाश्च ततो जाताः पशवः पक्षिणो द्रुमाः ॥३७॥एवं सर्वमिदं जातं कृतं श्रीपरमात्मना ।भूतेन्द्रियार्थदेवाद्या वासिता परमात्मना ॥३८॥यथापात्रं हरिस्तेषु वसते चान्तरेऽस्ति सः ।प्रेरकः स हरिः कार्ये प्रकाशकश्च माधवः ॥३९॥नित्यसखा हरिः कृष्णो जीवस्य पारलौकिकः ।इह लोकेऽपि लोकानां सखा द्रष्टा हरिः स्वयम् ॥४०॥जीवानां तु कृतं कर्म वीक्ष्य फलप्रदः प्रभुः ।फलं ददाति जीवेभ्यो देहगेहादिसम्पदः ॥४१॥स्वर्गं वा नरकं चापि यथाकर्म ददाति सः ।एवं साक्षी सदा कृष्णो भवतीति निबोधत ॥४२॥साकारो भगवानेवं सर्वान्तर्यामितां गतः ।व्यापको वर्तते चापि वर्तते नेत्रगोचरः ॥४३॥साधुरूपो वर्तते च साधुर्हरिः स्वयं प्रभुः ।साधोः प्रपूजने कृष्णपूजा भवति शाश्वती ॥४४॥साधुरूपो मिलत्येव हरिर्दयानिधिः परः ।भक्तानां पावनः कृष्णः कृपया सत्सु वर्तते ॥४५॥साधुसेवापरा भक्तास्तरन्ति सृष्टिवारिधिम् ।साधवो ब्रह्मपरमा मोक्षका देहिनां सदा ॥४६॥येषां सर्वमिदं ब्रह्मरूपं दृष्टौ प्रदीव्यति ।निर्विकल्पकचित्तास्ते तारका पापिनामपि ॥४७॥ये तु जीवेशमायादीन्नेक्षन्ते ब्रह्मदर्शिनः ।सुखिनस्ते कृष्णसुखैः सुखयन्ति श्रितान् जनान् ॥४८॥कामक्रोधादिरहिताः श्रीहरौ लग्नमानसाः ।देव्यदेहा अपि सन्तो विचरन्ति जना इव ॥४९॥कारयन्ति हरेर्भक्तिं जनानुपदिशन्ति च ।तारयन्ति जनान् सर्वान् नरान्नारीर्नपुंसकान् ॥५०॥भावयन्ति कथां रम्यां पालयन्ति वृषोत्तमान् ।मोक्षयन्ति बन्धनात्ते साधवः कृष्णरूपिणः ॥५१॥जीवानां बहुयोनीनां स्वस्वकर्मफलानि वै ।भुञ्जानानां प्रमोक्तारः साधवो भवसागरात् ॥५२॥यत्र वसन्ति सन्तश्च तेषु नारायणः स्वयम् ।मानुष्यविग्रहं धृत्वा वसत्येवाऽप्रकाशवान् ॥५३॥सर्वप्रकाशयुक्तोऽपि नरनाट्यं समीहते ।क्वचित् कृपावशाद्धत्ते ह्यतिमानवसत्क्रियाः ॥५४॥मानवं भगवन्तं तं सन्तो जानन्ति नेतरे ।इतरे तु सतां योगाज्जानन्ति माधवं ततः ॥५५॥आश्रयन्ति प्रस्निह्यन्ति रमन्ते परमात्मनि ।ये ते वै संसृतेर्मुक्ता यान्त्यन्ते ब्रह्मधाम ह ॥५६॥तस्मिन् कृष्णेऽनुरज्यन्ते दीव्यन्ति तत्र मोदिनः ।आनन्दयन्ति तत्रैवाऽश्नुवते सुखसम्पदः ॥५७॥जानन्नजानन्नपि यः कृष्णे स्निह्येन्नराकृतौ ।स भूत्वैव गुणातीतो यात्यन्ते ह्यक्षरं पदम् ॥५८॥कृष्णस्य दिव्यरूपत्वात् तत्सम्बन्धात्तदाश्रिताः ।दिव्या दिव्यस्वरूपाश्च भवन्ति ब्रह्मगामिनः ॥५९॥मायेशस्य हरेर्मायारहितत्वाच्छ्रिता अपि ।हरेर्बलेन मायां वै तरन्ति प्राकृता अपि ॥६०॥कामभावेन या नार्यो व्रजाङ्गना हरौ सदा ।स्निग्धास्ता अपि मुक्तिं वै गता निर्गुणविग्रहाः ॥६१॥ब्रह्मप्रियाः समस्ताश्च बालकृष्णनरायणे ।स्निग्धास्ता निर्गुणे कृष्णे निर्गुणत्वं प्रपेदिरे ॥६२॥कामात् स्नेहाद् गुणात् स्वार्थाल्लग्नायाः परमात्मनि ।जहुर्गुणमयान् देहान् सद्यस्ताः क्षीणबन्धनाः ॥६३॥माधवो निर्गुणः कृष्णः सच्चिदानन्दविग्रहः ।तस्य योगं ययुर्ये या निर्गुणा दिव्यतां गताः ॥६४॥एवं हरौ सत्यरूपे स्नेहान्मोक्षो भवेद्ध्रुवः ।साधौ स्नेहात्तथा मोक्षः सन्तः कृष्णस्य मूर्तयः ॥६५॥सतां योगात् प्रयान्त्येव धामाऽक्षरं परं हरेः ।हरेरेकान्तिका भक्ता वाञ्छन्ति सेवनं हरेः ॥६६॥न स्वर्गं नाऽपवर्गं वा न लोकं परमात्मनः ।नैश्वर्याण्यभिवाञ्च्छन्ति न वाञ्च्छन्ति सरूपताम् ॥६७॥सामीप्यं नाभिवाञ्च्छन्ति नैकत्वं तु कदाचन ।वाञ्च्छावन्तः सकामाः स्युर्निम्नकोटय एव ते ॥६८॥सर्वार्पणात्मभक्तौ सा त्रूटीरेव निगद्यते ।आत्मनिवेदितायां वै संकल्पस्यापि चार्पणम् ॥६९॥कृतं यतः पुनर्नैव संकल्पयन्ति स्वार्थकम् ।अत एव हि निष्कामाः सर्वथा ह्युत्तमोत्तमाः ॥७०॥हरेः समाज्ञया सेवां वाञ्च्छन्ति स्वेच्छया तु न ।सेवाफलं परं प्रोक्तं सर्वं तत्र समाप्यते ॥७१॥प्रसन्नता फलं कृष्णसेवया समवाप्यते ।नाऽस्मात् फलं परं त्वन्यन्निष्कामानां हृदि स्थितम् ॥७२॥सेवया लभ्यते श्रेष्ठं किं सालोक्यादिभिस्ततः ।एकत्वं तु सदा नैव वाञ्छन्ति दास्यहन्तृ यत् ॥७३॥एकीभावे कथं सेवा कथं प्रसन्नता सुखम् ।ततो निष्कामभक्ता वै प्रिया हरेर्भवन्ति हि ॥७४॥भक्तान्निष्कामिनः कृष्णः स्वान्तिके संप्ररक्षति ।प्रेम्णा कृतां च तत्सेवां प्रेम्णा चाङ्गीकरोति सः ॥७५॥अनिच्छद्भ्योऽपि भक्तेभ्यः प्रसन्नो भगवान् हरिः ।महैश्वर्याणि नैजानि ददाति त्वक्षरे प्रभुः ॥७६॥एवं सन्तोषिणो भक्ताः कृष्णाभाः संभवन्ति ते ।तत्कृपया सदा सर्वैः साकं रमते मापतिः ॥७७॥आत्मवत् तत्प्रियास्ते च सन्तुष्टा ज्ञानिनः सुखाः ।निष्कामा उत्तमास्ते वै भक्ता भवन्ति तत्प्रियाः ॥७८॥भोजने शयने स्नाने गमने रमणे कृतौ ।खेलने हेलने वाण्यां विनोदे हसने धृतौ ॥७९॥निष्कामान् सहवासाँस्तान् रक्षत्येव जनार्दनः ।असंशयाः सदा भक्ताः प्रिया भवन्ति शार्ङ्गिणः ॥८०॥इत्येवं चोपदिष्टास्ते लक्ष्मि साधुसुवेषिणा ।काष्ठहारा मया सर्वेऽभवँस्ते ज्ञानयोगिनः ॥८१॥अथ मां परमं साधुं ज्ञात्वा नारायणात्मकम् ।शिश्रियुस्ते मुमुदुश्चाऽर्थयामासुरतः परम् ॥८२॥साधोर्गुरोर्योगतश्चेद् दर्शनं परमात्मनः ।योग्या वयं ते शिष्याः स्मस्तदा कारय मुक्तिदम् ॥८३॥अथाऽहं तानुवाचेदं ध्यानं कुर्वन्तु वै हृदि ।द्रक्ष्यथोऽत्रैव श्रीनाथं परेशं माधवं हरिम् ॥८४॥इत्युक्तास्ते नेत्रवृत्तीश्चित्ते निधाय केशवम् ।दध्युस्तावत् साधुवेषं कृष्णं मां विलुलोकिरे ॥८५॥साधोर्वेषाद् दिव्यरूपं चतुर्भुजं परेश्वरम् ।श्रीकान्तं राधिकाकान्तं परेशं विलुलोकिरे ॥८६॥काष्ठहाराः समस्तास्तेऽक्षरं धाम महोज्ज्वलम् ।प्रपश्यन् श्रीहरेर्मुक्तैः कोट्यसंख्यैर्विराजितम् ॥८७॥तत्र सिंहासनं रम्यं गजासनं महोत्तमम् ।तत्र स्थितं हरिं मां श्रीबालकृष्णं श्रियाऽन्वितम् ॥८८॥वीक्षयामासुरीशेशेश्वरं राधापतिं प्रभुम् ।ब्रह्मप्रियापतिं कृष्णनारायणं पुमुत्तमम् ॥८९॥सेवमानमनन्तैश्च मुक्तैरैकान्तिकैः सुखैः ।एवं विलोक्य सहसा हृदये साधुरूपिणम् ॥९०॥पुनस्ते ददृशुः सर्वे ततो बहिःस्थितं यतिम् ।साधुं विलोकयामासुः सहसा स्नेहसंभृताः ॥९१॥उत्थाय मां परात्मानं ज्ञात्वाऽरण्ये समागतम् ।पुपूजुराश्लिषँश्चापि पपुः पादजलं ततः ॥९२॥प्रसादं च मया दत्तं चखदुस्तेऽतिमोदिताः ।दिव्यभावं गताः सर्वे दण्डवत् संप्रचक्रिरे ॥९३॥उत्थायोत्थाय धन्यं च मन्यमानाः प्रमोदिनः ।ननृतुस्तालिकातानैः कीर्तनं चक्रिरे तथा ॥९४॥मम पादतले जिह्वाभिश्च चक्रुः सुलोहनम् ।पादयोरन्तिके सर्वे लुलुटुर्धूलिकास्तरे ॥९५॥अथ शान्तिं ययुश्चापि ववन्दुर्मां सनातनम् ।सेवनं चाऽर्थयामासुर्धाम्नि दृष्टं यथा तथा ॥९६॥तथाऽस्त्वेवं समुच्चार्य तिरोऽभवं द्रुत त्वहम् ।अथ ते निर्विकल्पा वै ममोपासनवेदिनः ॥९७॥दिव्या भक्ता अभवँश्च कालेनापि तनुत्यजः ।ययुर्मे धाम परमं यत्र साध्या वसन्ति वै ॥९८॥एवं मया काष्ठहारा उद्धृता भक्तितत्पराः ।लक्ष्मि जांगलदेवाद्याः सहस्रशोऽपि तत्पराः ॥९९॥सकामास्तत्र ये त्वासन् प्रापितास्ते दिवं प्रति ।निष्कामाः प्रापिता लक्ष्मि वैकुण्ठं चाक्षरं तथा ॥१००॥केचित्तु प्रापिता धाम गोलोकं सुमहोज्ज्वलम् ।केचिच्च प्रापिता लक्ष्मि श्रीपुरं ललितागृहम् ॥१०१॥अन्ये श्रीबदरीधाम श्वेतद्वीपं तथाऽपरे ।केचिदव्याकृतं धाम प्रापिताश्चामृतं परे ॥१०२॥एवमेते मया लक्ष्मि चोद्धृताः काष्ठहारिणः ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद्ध्रुवम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने जांगलदेवादिकाष्ठहाराणां भक्त्या साधुरूपेण श्रीहरेर्दर्शनं चान्ते मोक्षणं चेत्यादिनिरूपणनामा चतुरधिकद्विशततमोऽध्यायः ॥२०४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP