संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
विषयानुक्रमणिका

द्वापरयुगसन्तानः - विषयानुक्रमणिका

लक्ष्मीनारायणसंहिता


N/Aश्रीलक्ष्मीनारायणसंहितायाः तृतीयखण्डस्य द्वापरसन्तानाख्यस्याऽनुक्रमणिका

१ - नारायणीश्रीकृता श्रीपुरुषोत्तमस्तुतिः, पुरुषोत्तमदर्शिता सृष्टिकालगणना चेति ।
२ - वेधसोद्वापञ्चाशद्वर्षनामानि वर्तमानकल्पीयचतुर्दशमनुनामानि द्वापञ्चाशद्वर्षीयाऽन्तिमचत्वारिंशत्कल्पनामानि श्रीपुरुषोत्तमकिरणपोष्यं सृष्टित्रयमिति विभूत्यादिकथनम् ।
३ - वेधसः प्रथमे वर्षे रोहिणासुरनिगलितस्वर्गरक्षार्थम् अनादिश्रीद्युनारायणस्य, द्वितीये वर्षे तु स्वभारेण निमज्जतो मेरोर्धारणार्थम् अनादिश्रीमेरुनारायणस्य,
तृतीये वर्षे तु दाहयतो रवेः शातनार्थम् अनादिश्रीविष्णुनारायणस्य प्राकट्यदर्शनमिति ।
४ - वेधसश्चतुर्थवत्सरे धूम्रासुरनाशार्थं चन्द्ररक्षार्थम् अनादिश्रीदेवनारायणस्य, पञ्चमवत्सरे त्वध्वरतन्तुसम्पादनार्थम् अनादिश्रीयज्ञनारायणस्य प्राकट्य-
दर्शनमिति ।
५ - वेधसः षष्ठवत्सरे रुद्रशासनार्थम् अनादिब्रह्मनारायणस्य, सप्तमवत्सरे देवानां धिष्ण्यनियमार्थम् अनाद्यादित्यनारायणस्य प्राकट्यमिति ।
६ - वेधसोऽष्टमवत्सरे सर्पाणां शासनार्थं भूमावनादिश्रीगरुत्मन्नारायणस्य प्राकट्यमिति ।
७ - वेधसो नवमवत्सरे चलदेववंशे ध्रुवदेवस्याऽचलतार्थम् अनाद्यार्षनारायणस्य, दशमवत्सरे च ध्रुवदेवपुत्रस्य थुरानन्दस्य दानवैर्वर्धितस्य पराभवार्थम् अनादिप्राज्ञनारायणस्य प्राकट्यं ज्योत्स्नाकुमारिकालक्ष्म्याः स्वयंवरश्चेत्यादि ।
८ - ज्योत्स्नाश्रीसमर्पिताऽनादिप्राज्ञनारायणकण्ठे वरमाला, ततो राज्ञां युद्धम्, दैत्यदानवादीनां नाशः, थुरानन्दस्य मोक्षणम्, मानवदेवादीनां निष्कण्टकराज्यानि, वेधसश्चैकादशे वत्सरे नैष्ठिकसाधुधर्मस्यापनार्थम् अनादिनैष्ठिकवीरनारायणस्य
प्राकट्यमिति ।
९ - वेधसो द्वादशे वत्सरे शोणभद्रयज्ञे दग्धानां मोक्षार्थम् अनादिभद्रनारायणस्य, त्रयोदशे वत्सरे तुंगभद्रासनायोगिन्या कृतसूर्यादिगतिरोधे परमेशप्रार्थनेत्यादि ।
१० - अक्षराच्छ्रीहरेर्देवैः सह तुंगभद्रासनागृहमागमनम्, ग्रहाणां गत्यर्थमभ्यर्थनम्, तुंगभद्रासनाया हरेः स्वपुत्रीलक्ष्मीग्रहणार्थं गृहन्नामातृतया वरणम्, विवाहोत्सवः, ग्रहाणां गत्यरोधः, प्रकटाऽनादिश्रीहरिनारायणकृतधर्मादिव्यवस्था राक्षसनिराकरणं चेति ।
११ - वेधसश्चतुर्दशे वत्सरे कोशस्तेनाऽभिधराक्षसकृतस्य नष्टबीजस्य स्वर्गस्य रक्षणार्थम् अनादिश्रीबीजनारायणस्य प्राकट्यं, ततो बीजस्तेनस्य निवासस्थानमर्यादाकरणमित्यादि ।
१२ - वेधसः पञ्चदशे वत्सरे धर्मव्रतविप्रगृहे दशाधिकशतपुत्राणां मोक्षोत्तरं साग्रजस्याऽनादिश्रीवरनारायणस्य प्राकट्यमित्यादि ।
१३ - वेधसः षोडशे वत्सरे आर्षकुमारशिष्यया ब्रह्मचारिण्या सुदर्शन्या स्वप्रधर्षणकारिणां शुक्रादीनां दोषेण तेषां दैत्यदानवमानवादीनां भूस्थानामन्यत्रस्थाना-
मपि शापद्वारा स्त्रीकरणमित्यादि ।
१४ - स्त्रीभूतानां भूतलादिवासिप्रजानां रक्षणार्थं प्रार्थनयाऽनादिश्रीस्त्रीपुंनारायणस्य, वेधसः सप्तदशे तु वत्सरे च माकरादिदैत्यनाशार्थम् अनादिश्रीजलनारायणस्य
प्राकट्यमित्यादि ।
१५ - वेधसोऽष्टादशे वत्सरे साधुशीलधर्मादिस्थापनार्थम् अनादिश्रीशीलनारायणस्य प्राकट्यमित्यादि ।
१६ - वेधस एकोनविंशे वत्सरे रौद्रस्य व्याघ्रानलासुरस्य नाशार्थम् अनादिश्रीवार्धिनारायणस्य प्राकट्यमित्यादि ।
१७ वेधसो विंशतितमे वत्सरे सृष्टिसदृशस्याऽनादिचतुर्मुखनारायणस्य प्रमाक्षिकीरमासहितस्य प्राकट्यमित्यादि।
१८ वेधसश्चैकविंशे वत्सरे सर्वभूमिदेहिमोक्षार्थं तपतोः राधनिका-पुण्यव्रातविप्रयोर्मन्वन्तरकाले गते वाञ्च्छापूरणार्थं श्रीपुरुषोत्तमनारायणस्य सर्वेश्वर-
देवर्षिसहितस्याऽऽगमनमिति ।
१९ - वेधसो द्वाविंशे वत्सरे तीर्थानां पावनार्थं चारण्यङ्केऽनादिश्रीतीर्थनारायणस्य प्राकट्यमित्यादि ।
२० वेधसस्त्रयोविंशे वत्सरे भक्तेः प्रार्थनयाऽनादिश्रीजीवन्नारायणस्य प्राकट्यं शंकरद्वारा भक्तिमार्गप्रवर्तनं चेत्यादि ।
२१ - वेधसश्चतुर्विंशे वत्सरेऽनादिश्रीमदर्धश्रीशनारायणस्य, पञ्चविंशे वत्सरेऽनादिश्रीमदर्धपितृनारायणस्य, षड्विंशे वत्सरेऽनादिश्रीप्लक्षनारायणस्य प्राकट्य-
मित्यादि ।
२२ - वेधसः सप्तविंशे वत्सरे नरमेधे भक्तरक्षार्थम् अनादिश्रीपुंस्त्व (शालग्राम) नारायणस्य प्राकट्यं नरमेधादितात्पर्यं चेत्यादि ।
२३ वेधसोऽष्टाविंशे वत्सरे सूर्यवर्चानृपद्वारा मन्दिरेऽनादिश्रीश्याम( शिंशपा) नारायणस्य वटश्रीसहितस्य प्राकट्यमित्यादि ।
२४ - वेधसो नवविंशे वत्सरे मायूरकाऽसुरनाशार्थम् अनादिश्रीराजनारायणस्य राजराज्ञीश्रीसहितस्य प्राकट्यमित्यादि ।
२५ - वेधसस्त्रिंशे वत्सरे देवसखादिभक्त्या समायातया लक्ष्म्या कृतप्रस्रवणासुररतिकामवसन्तबाणादिभस्मीभावोत्तरं नैष्ठिकव्रतरक्षार्थम् अनादिश्रीब्रह्मचारिनारायणस्य नैष्ठिकीश्रीयुतस्य प्राकट्यमिति ।
२६ - वेधस एकत्रिंशे वत्सरे हल्लकाऽसुरस्य ब्रह्मवरदानाद् विजययात्रायां शंभोश्शिरश्छेदे उज्जीवनार्थम् अनादि- श्रीशिवनारायणस्य प्राकट्यमित्यादि ।
२७ - वेधसो द्वात्रिंशे वत्सरे यमेन मारितस्य कुबेरस्योज्जीवनार्थम् अनादिश्रीस्वर्णनारायणस्य कानकीश्रीसहितस्य प्राकट्यमित्यादि ।
२८ - वेधसस्त्रयस्त्रिंशद्वत्सरे ज्वालारुणाचलवह्निरसैर्दह्यमानानां स्वामिनगरतद्देशप्रजानां रक्षार्थम् अनादिश्रीस्वामिनारायणस्य श्रीस्वामिनीश्रीसहितस्य, चतुस्त्रिंशद्वत्सरे च निर्वाणिकाविप्राण्या अष्टादशोत्तरशतनामभिराराधितया लक्ष्म्या साकम् अनादि- श्रीसावननारायणस्य प्राकट्यं चेत्यादि ।
२९ - वेधसः पञ्चत्रिंशद्वत्सरेंऽशुक्रमथनृपतेर्भक्त्याऽनादि- श्रीसाधुनारायणस्य साध्वीनारायण्या लक्ष्म्या सह प्राकट्यमित्यादि ।
३० - वेधसः षट्त्रिंशद्वत्सरे हरिप्रथभक्तस्य शापेन मृतस्य वर्णिशालमनोरुज्जीवनार्थम् अनादिश्रीभक्त- नारायणस्य कुंभिकाश्रीसहितस्य प्राकट्यमित्यादि ।
३१ - वेधसः सप्तत्रिंशे वत्सरेऽजहारितर्षिशापेनाऽश्वीभूतस्य वर्मधरनृपस्य मोक्षार्थं तत्पुत्रकृताश्वमेधेऽनादिश्रीमेधनारायणस्य मेधावतीलक्ष्म्या सहितस्य प्राकट्यमित्यादि ।
३२ - वेधसोऽष्टात्रिंशे वर्षेऽनलादमहासुरविनाशार्थम् अनादिश्रीवह्निनारायणस्य पार्थिवीश्रिया सहितस्य, तथा नवत्रिंशे वर्षे इलोदरस्य रसादासुरस्य विनाशार्थम् अनादिश्रीरसनारायणस्य श्रीरसलक्ष्म्या सहितस्य च प्राकट्यमित्यादि ।
३३ - वेधसश्चत्वारिंशे वत्सरे दैत्यानां नाशार्थं अनादि- श्रीचक्रनारायणस्य सुधाक्षिणीश्रीसहितस्य, एकचत्वारिंशे वत्सरे सत्ययुगधर्मस्थापनार्थम् अनादि- श्रीसत्यनारायणस्य विजयाश्रीसहितस्य, द्वाचत्वारिंशे वत्सरे च पर्वतानां स्थित्यर्थम् अनादि- श्रोहिरण्यनारायणस्य हिरण्याश्रीसहितस्य प्राकट्यमित्यादि ।
३४ - वेधसस्त्रिचत्वारिंशे वत्सरे भक्ताऽर्थम् अनादिश्रीनैरञ्जनिनारायणस्य नैष्किञ्चनीश्रीसहितस्य, चतुश्चत्वारिंशे वत्सरे ब्रह्मणः पुण्यवतीशापनिवृत्त्यर्थम् अनादिश्रीपुण्यनारायणस्य कल्याणिकाश्रीसहितस्य च प्राकट्यमित्यादि ।
३५ - वेधसः पञ्चचत्वारिंशे वत्सरेऽप्सरसां मानुषी- भूतानाम् मनोरथपूरणार्थम् अनादिश्रीबृहद्ब्रह्म- नारायणस्य रुक्मवतीश्रीसहितस्य, षट्चत्वारिंशे वत्सरे च महर्षिभ्यो ब्रह्मविद्यादिदानार्थम् अनादि- श्रौगुरुनारायणस्य सुविद्याश्रीसहितस्य, सप्तचत्वा- रिंशे वत्सरे च हरिभक्तस्य बृहद्धर्मनृपतेः राजसूय- यज्ञे सर्वस्वदानोत्तरं साधवीमहादीक्षार्थम् प्रार्थित- स्याऽनादिश्रीमदाचार्यनारायणस्याऽऽचार्याणीश्री- सहितस्य च प्राकट्यमित्यादि ।
३६ - वेधसोऽष्टचत्वारिंशे वत्सरे विद्युत्स्रावराक्षसादीनां विनाशार्थम् अनादिश्रीमहाविद्युन्नारायणस्य वैद्युतीशनीश्रीसहितस्य, नवचत्वारिंशे वत्सरे मधुभक्षादिदैत्यनाशार्थम् अनादिश्रीमधु- नारायणस्य माधवीश्रीसहितस्य, पञ्चाशत्तमे वत्सरे च गोवृषादिहन्तॄणां तिष्ये दैत्यानां नाशार्थम् अनादिश्रीनाथनारायणस्य धेनुमतीश्रीसहितस्य च प्राकट्यमित्यादि ।
३७ - वेधस एकपञ्चाशत्तमे वत्सरे सुवर्णोत्सवेऽनादि- श्रीविभुनारायणस्यविभ्वीश्रीसहितस्य, द्वापञ्चाशत्तमे वत्सरेऽनादिश्रीमोक्षनारायणस्य मुक्तिश्रीसहितस्य च प्राकट्यमित्यादि ।
३८ - वेधसस्त्रिपञ्चाशत्तमे वत्सरेऽनादिश्रीकृष्णनारायणस्य श्रीशिवराजीश्रीसहितस्य प्राकट्यम्, कोट्यर्बुदाब्जमहिषीकान्तस्य प्राकट्यम्, लक्ष्मीनारायणयुगल- द्वादशोत्तरसहस्रनामस्तवनं चेत्यादि ।
३९ - बदर्यां तपोऽर्थं गतानां महर्षीणां नरनारायणे परब्रह्मरूपदर्शनात् तृप्तानां मानवेभ्यश्चोपदेशनमित्यादि ।
४० - वधूगीतायां श्रीकृष्णनारायणोपदिष्टगृहस्त्रीकर्तव्यतादि ।
४१ - वधूगीतायां वधूटीधर्मादिसदाचारवर्णनम् ।
४२ - वधूगीतायाम् अधिकसदाचारवर्णनम् ।
४३ - वधूगीतायां वधूपाल्याचारादिवर्णनम् ।
४४ - वधूगीतायां सतीसत्यसामर्थ्यनिरूपणम् ।
४५ - वधूगीतायां निर्गुणभक्तियोगनिरूपणम् ।
४६ - वधूगीतायां साक्षात्पुरुषोत्तमयोगनिरूपणम् ।
४७ - वधूगीतायां साक्षात्परब्रह्मयोगनिरूपणम् ।
४८ - वधूगीतायां अक्षरातीततादात्म्ययोगनिरूपणम् ।
४९ - वधूगीतायां पापोद्धारकलक्ष्मीनारायणव्रतश्रीहरिगुरुगुर्वीतीर्थमहिमवर्णनम् ।
५० - वधूगीतायां गुरुतीर्थे दिव्यादेवीमोक्षणमित्यादि ।
५१ - वधूगीतायां गुरुतीर्थे तीर्थानां पापनाशकगुरुपदम्, अदत्ताऽन्नजलदानकस्य सुबाहुनृपतेः स्वशवभक्षकस्य वामदेवाख्यगुरोर्योगान्नित्यतृप्तिर्मोक्षावाप्तिश्चेत्यादि ।
५२ - वधूगीतायां गुरुतीर्थे नहुषकथानकं कुंजलशुककथानकं कामोदा (तुलसी) कथानकं च्यवनकथानकं चेत्यादि ।
५३ - वधूगीतायां गुरुतीर्थे गुरुरहस्यसदाचारकथनमित्यादि ।
५४ - वधूगीतायां गुरुतीर्थे ऋषिधर्ममहर्षेर्योगेन लीला- वत्याः सुशीलादीनां च पापानां विगमे ब्रह्मप्रियात्व- प्राप्त्यादि ।
५५ - वधूगीतायां गुरुतीर्थे चैतन्यशीलगुरोः प्रतापात् सुमरपत्न्याः रक्षाश्वपच्याः पतिना सह गुरुणा च सह मोक्षप्राप्तिरित्यादि ।
५६ - वधूगीतायां गुरोः श्रेष्ठतमत्वे श्रीहरिस्वरूपात्मकताहेतुनिरूपणादि ।
५७ - वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादि ।
५८ - वधूगीतायां कौशिकादिगायकदृष्टान्तेन वैष्णवोत्तमत्वनिरूपणम् ।
५९ - वधूगीतायां श्रेष्ठभक्तनिदर्शने नारदस्य गानशिक्षार्जनं नारदगुरोरुलूकस्य गानबन्धोर्गरुडताप्राप्ति- रित्यादि ।
६० - वधूगीतायां महाभागवतभक्तचिह्नानि, चिदम्बराराज्ञ्याः परीक्षणं भक्तिश्चेत्यादि ।
६१ - वधूगीतायां चिदम्बराराज्ञ्या भगवद्गदया कृतं भद्रकादिरक्षःसंघाद्रक्षणमित्यादि ।
६२ - वधूगीतायां बहुविधानां दिव्यमन्त्राणां गुरोर्बलस्य च निरूपणम् ।
६३ - वधूगीतायाम् अनावरणसेवादास्यसाधुसाध्वीश्रैष्ठ्यदमनकव्रतादिनिरूपणम् ।
६४ - वधूगीतायां सर्वतिथिषु हरेर्भिन्नरूपस्य पूजा गुरुरूपस्य हरेः सदा पूजा चेत्यादि ।
६५ वधूगीतायां भगवदुक्तभक्तिमाहात्म्योत्कृष्टत्वम् ।
६६ - वधूगीतायां वधूभक्तिरहस्यनिरूपणम् ।
६७ - वधूगीतायां हरेः कृपासर्वस्वफलनिरूपणम् ।
६८ - महामन्त्ररहस्ये मन्त्रतदर्थन्यासादिनिरूपणम् ।
६९ - महामन्त्रादिगायत्र्यादिसचन्द्रकोर्ध्वपुण्ड्रादिमहिमनिरूपणम् ।
७० - महामन्त्रगूढार्थज्ञानप्राप्यादिनिरूपणम् - ओंकारस्य वर्णत्रयाणां नवीनव्याख्या।
७१ - त्रिपाद्विभूतिः, मायाप्रार्थनया कृतैकपादलीला- विभूतावपि दिव्यतादि ।
७२ - भगवन्नाममन्त्रभजनेन ययातेः प्रभावेण सर्व- प्रजावैष्णवत्वादि ।
७३ - ययातेः स्वर्गतः पृथिव्यामधिकभक्तिलाभइति- मन्यमानस्य पृथिव्यास्त्याजनार्थम् इन्द्रकृतबिन्दु- मत्याः प्रदानं पुत्रतो यौवनप्राप्तिश्चान्ते राज्ञः सप्रजस्य वैकुण्ठप्राप्तिरित्यादि ।
७४ - अनादिश्रीकृष्णनारायणभक्तस्य महिमकथने हरेस्तुष्टिसाधनानां वर्णनं, कदर्यस्य परशुचन्द्रकस्य विप्रस्य स्वल्पदानस्याऽनन्तफलप्राप्तिश्चेत्यादि ।
७५ - वह्निप्रकाशतिरोभावौ, विविधसाधनैर्विविधफल- प्राप्तिः साधुप्रतापः साधुसंगमे श्रीहरेर्मम प्राप्तिश्चेत्यादि ।
७६ - ब्रह्मिष्ठत्वसाधुत्वप्रापकसाधनानि, धामगमनसाधनानि, अकषायसत्पथसाधनानि, दिव्य- दानादीनि हरेर्योगश्चेत्यादीनि ।
७७ - सतीसाध्वीनां पातिव्रत्यपराकाष्ठादिविज्ञान- निरूपणम् ।
७८ सुचन्द्रिकाऽभिधगोप्याः पातिव्रत्येन हरिपाति- व्रत्यभक्त्या च सपतिकायाः स्वर्गसत्यवैकुण्ठ- गोलोकाऽक्षरधामगमनमितिसाध्वीचमत्कार कथनम् ।
७९ - साध्व्याः कर्तव्ये पूजादानादिः, हरिप्रथमनोः पत्न्या ब्रह्मप्रथायाः साध्व्याः स्वर्गे स्थित्युत्तरं साधुसाध्वीसेवाफलं चाऽक्षरधामप्राप्तिरित्यादि ।
८० - दीर्घायुःप्रदसाधनं मोक्षसाधनं साधुतीर्थ- सेवनादिकमिति ।
८१ - साधुसंगत्या शतगृध्राणां मोक्षो जीवटकीटस्य मोक्षो विनोदिन्याः पञ्चशतपुत्राणां साधुत्वं चेत्यादि ।
८२ - स्वैरिणीकामिनीपुँश्चलीनां गणिकानां काश्यां साधु- वात्स्यायनसमागमेन पापनाशोत्तरं मुक्तिश्चेत्यादि ।
८३ साधुत्वे विविधप्रयोजककारणादि, साधुस्तवनाऽ- स्तवनफलादि चेति ।
८४ साधुसमागमरहितस्यापि मोक्षोपायाः साधुलाभः साधुत्वलाभस्तद्विविधता चेत्यादि ।
८५ - साघोर्मुख्यधर्मो नारायणः, तेन साधुत्वम्, साधवे नारायणनतयः, वृषायनेन साधुना चटकाभारमांसं श्येनाय दत्वा चटका रक्षितेत्यादि ।
८६ धनमदिबलगर्विराज्यपालिप्रभृतीनां परमश्रेयसि चित्रकेतोर्मालत्या दृष्टान्तेन साधुप्रतापफलादि ।
८७ विप्रगृहिभ्यः साधवः सर्वथा श्रेष्ठतमा इत्यर्थे विष्णो- र्निदर्शनं दुर्गाया अपि साधुसेवानिदर्शनं चेत्यादि ।
८८ सहधर्मस्वरूपवर्णनं चाऽसहधर्मे सति निरयगामि- त्वमित्यादि ।
८९ प्रत्यक्षनिरयाणां निदर्शनम, कर्षुकभृत्यदृष्टान्तेन द्रव्यादयः प्रत्यक्षनिरयाः, प्रत्यक्षस्वर्गं चेत्यादि प्रदर्शितम् ।
९० - स्वर्गगामिनः, अघातयित्वाऽपि घातकिनः, कृपया क्रमोद्धारः, सत्सेवयोद्धारश्चेत्यादि ।
९१ - घातकिनां तीर्थयोगेन पावनत्वम्, जंगमतीर्थं साधु- जनादयः, पुराऽश्वपट्टसरोवरेद्विजायाः पुत्रस्य कृशां- गस्य वृषलोद्भवस्य चाण्डालत्वेऽपि तपोभिश्चेन्द्रवरेण ब्रह्मिष्ठत्वं कृशानुत्वं ह्यभवदित्यादि ।
९२ - अन्यजातीनामपि गुणव्रताऽऽचारदीक्षावरशाप- लग्नादियोगेन तत्तज्जातिपरिवर्तनं ब्राह्मण्यं च जायतेऽत्राऽर्थेऽनेकनिदर्शनानि भंगास्वननृपस्य नारीत्वे निदर्शनम् ।
९३ - सर्वबलाधिके ब्रह्मयोगबले रुचिब्राह्मण्याः शील- रक्षणे विपुलाख्यशिष्यस्य योगनिष्ठस्य विजयः, इन्द्रस्य पराजयः, लोममर्षणकपर्दकराक्षसयोर्विनाशः, गुरोः प्रसन्नताऽऽशीर्वादः, साधुत्वगौरवं चेत्यादि ।
९४ - परशुरामाश्रयेण सिंहारण्यवासिनां सागरमग्नस्य गोकर्णतीर्थस्य पुनर्लाभः, उत्तंकर्षेः कृपया कुवलाश्वस्य धुन्धुमारत्वम्, विश्वामित्रस्य कृपया सत्यव्रताख्य- त्रिशंकोः सदेहस्वर्गगामित्वमित्यादि सतां महिमा चेति ।
९५ - पूजनीयनमस्करणीयसाघुजनमाहात्म्ये प्रणद् ब्रह्माख्यसाधोराशीर्वादेन सेवया च कश्यपस्या- ऽदितेश्च देवतामात्रपितृत्वादिसृष्टिमात्रपितृत्वादि चेति ।
९६ - श्रीहरिसत्पुरुषधर्मसतीजनमोक्षतत्साधनभक्त्यादिषु प्रमाणानां गतिः साधूनां समागमो बलवत्प्रमाणं चमत्कारो बलवत्तमं चेत्यादि ।
९७ - लोकव्यायामशालिभिरपि सत्संगेन मुक्तिर्लभ्यते ताप- सैरपि तथेत्यर्थे आलम्बायनसाधोः समागमेन लक्षाधिलक्षमानवानां गोकर्णे मुक्तिप्राप्तिरित्यादि । १८ - आपद्गतस्यापि साधुसंगतिः कल्याणदेत्यर्थे गृध्र- श्वपचयोः शबरस्य च स्वर्गाद्युत्तरं मोक्षणमित्यादि ।
९९ - साधुपुरुषेषु सदा लक्ष्मीनिवासो लक्ष्मी निवासस्थानानि चेति ।
१०० - भगवदवताराणांसृष्टावागमने कृपा वा भृगोः शापो निमित्तं, दैत्यानां द्वादशसंग्रामाः,पार्वतीयुगलदेवी- कुटुम्बस्य प्राग्वृत्तान्तश्चेत्यादिकथानकम् ।
१०१ - साधुयोगहीनस्य प्रेतस्योद्धरणे गोदानं हेतुरिति गोमाहात्म्यादि ।
१०२ - गवाराधननामव्रतं, गोशकृन्मूत्रयोर्लक्ष्मीवासः, गोदानस्य विविधफलानि, भारुण्डप्रेतोद्धारकाणि, साध्वाश्रयः सर्वोद्धारकश्चेत्यादि ।
१०३ - विविधदानैः प्रेतोद्धारो भवति, दानपात्रं श्रेष्ठं साधुजनश्चेत्यादौ वृषादर्भेः सूर्यस्य च निदर्शनम् ।
१०४ - गार्हस्थ्यधर्मसारे नरशायतस्करस्य श्रीचक्रभास- साधुयोगेन दिव्यलक्ष्मीद्वारा मुक्तिः, पूर्वधनि- नामपि मुक्तिर्ब्रह्मसत्रविज्ञानं चेत्यादि ।
१०५ - सर्वधर्मकर्मणां मूलं विवाहिता पत्नीति जांघलामखस्य क्षत्रियस्य कुन्दधर्मापत्न्याः सहधर्मे चमत्कारः, कन्यादानयोग्यता वरयोग्यता दायभागयोग्यता बीजशुद्धिरित्यादि ।
१०६ - विविधपुत्रा विविधपत्न्यो विविधपतयः, साधु- योगेन मुक्तिः, सूतजातीयस्य शंभलवारस्य साधुभक्तस्य भक्त्या तपसा राज्यसुतपशुपक्ष्यादि- प्राप्त्युत्तरं सप्रजस्य मुक्तिरिति ।
१०७ - कल्याणदेवानीकभक्तस्य सेवापरीक्षा, श्रीकृष्ण- नारायणवंशमूलपरम्परानिर्देशश्चेत्यादि ।
१०८ - सर्वबाधानाशकं सर्वेष्टप्रदं श्रीपुरुषोत्तमसामाख्यम् अनादिश्रीकृष्णनारायणनामसहस्रस्तोत्रनिरूपणमित्यादि ।
१०९ - दानफलभोगोत्तरं पुरुषोत्तमसामजपफलम् अक्षरधामस्थशाश्वतानन्दात्मकं भुंक्ते दातेत्यादि ।
११० - दानपात्रे दानफलं भूदानफलमन्नदानफलं पुरुषो- त्तमसामफलमित्यादि ।
१११ - जलदानभूदानविविधदानकर्तुः पुरुषोत्तमसाम- जापकस्य दीर्घशीलस्याऽऽस्तिकस्य दीर्घशीलस्य नास्तिकस्यापि यमद्वारोपदेशो मोक्षणं चेत्यादि । ' ११ रे - गोदानगोकल्पदानविविधव्रताचारार्पणफलनिरूपणे ब्रह्मसत्या योगिन्या देहदाननिदर्शनं मोक्षणं चेत्यादि ।
११३ - विविधतपसां फलानि, तान्येव भक्तियुक्तानि मोक्षदानि, वैवर्त्तनृपस्य नास्तिक्येन गत्याभावे निजपत्न्यां देवरात् पुनर्जन्म तत आस्तिककर्मभिर्भक्त्या च मोक्ष इत्यादि ।
११४ - साध्वाश्रयेण रोमपादपशुपालस्य मोक्षणं, नम- भंगाख्यचौरस्य साधुसमागमेन राजभयाद् रक्षणं, आम्रवणवृक्षादीनां दावदग्धानां भागवतायनसाधु- सहवासेन पुनरुज्जीवनमित्यादि ।
११५ - कामऐवभरमत उत्पन्नस्य भण्डासुरस्य विनाशार्थमिन्द्रप्रस्थप्रदेशाऽऽगतदेवानां मखे प्रादुर्भूत- ललितामहालक्ष्मीसैन्यसन्नाहादिनिरूपणम् ।
११६ - महालक्ष्म्याः सैन्यानि भण्डनाशार्थे निर्ययुः, भण्डासुरस्य मन्त्रणा, भण्डसैन्यानां विनाशः, भण्डस्य कैकसादिस्मरणमित्यादि । ३
११७ - महालक्ष्म्याः सैन्यैर्भण्डसैन्यानां नाशोत्तरं भण्डा- सुरनाशादि ।
११८ - श्रीललितामहालक्ष्म्या विजयनिमित्तकपूजन महा- लक्ष्मीस्तोत्रं विजेत्रीणां पारितोषिकादि, कामस्य रूपाणि, महालक्ष्म्याः षोडशमन्दिराणि, तत्रत्य- शोभाशक्तिसेवावर्णनमित्यादि ।
११९ - चिन्तामणिगृहस्थिताभिर्दिव्यसेविकाभिः कृत- सेवनं, महालक्ष्मीमन्त्रस्तज्जपस्तत्फलं चेत्यादि ।
१२० - महालक्ष्म्या मन्त्रान्तरं काञ्चीपुर्योर्महालक्ष्म्या द्वेधारूपता, ब्रह्मविष्णुमहेशानां तत्र निवासो दीक्षाविधानं चेत्यादि ।
१२१ - ललितामहालक्ष्म्याः पञ्चत्रिंशदुत्तरशतनामानि गुरुतीर्थमाहात्म्यं चेत्यादि ।
१२२ - पुत्रीप्राप्त्यर्थं कन्यादानं लक्ष्मीदानं पुत्रीव्रतं चेत्यादि ।
१२३ - सर्वव्रतोत्तमव्रतं साधुसेवामानतात्मकम् ।
१२४ - सुखदुःखादौ साधुदेवादिसेवाव्रतमानतादि ।
१२५ - महादानषोडशकेषु तुलापुरुषदानविधि- निरूपणम् ।
१२६ - महादानेषु हिरण्यगर्भदानस्य ब्रह्माण्डदानस्य च विधिकथनम् ।
१२७ - कल्पवृक्षमहादानस्य गोसहस्रमहादानस्य च विधिकथनम् ।
१२८ - महादानेषु स्वर्णकामधेनुमहादानस्य हिरण्याश्व- महादानस्य हिरण्यरथमहादानस्य च विधि- कथनम् ।
१२९ - हेमहस्तिरथमहादानस्य पञ्चलाङ्गलकमहा- दानस्य हेमधरामहादानस्य च विधिकथनम् ।
१३० - विश्वसुदर्शनमहाचक्रदानस्य मालिकामहाचक्र- दानस्य वारक्षकदानस्योर्मिकांगुलीयकांगदकटक- शृंखलाबिंगडीकंकणवलयनत्थिकादिमहादानानां निरूपणम् ।
१३१ - महाकल्पलतासुवर्णवल्लीदानस्य कल्पप्रियादानस्य स्वर्णकान्तदानस्य पुण्यदानस्याऽभयादिदानानां गुरुदेवदेवीमहादानानां मन्दिरक्षेत्रवाट्यलंकारा- दिमहादानानां च निरूपणम् ।
१३२ - सप्तसागरमहादानस्य रत्नधेनुमहादानस्य महा- भूतकलशदानस्य लक्ष्मीमहादानस्य तथाऽन्य- महादानानां च निरूपणम् ।
१३३ - पुण्यतमदिनप्रदर्शनं ग्रहशान्तिपूजादिप्रदर्शनं चेति ।
१३४ - ग्रहमखे लक्षजपहोमकोटिजपहोमादिविधिः, लोहांगारवैश्यस्य सर्वस्वनाशोत्तरं ग्रहशान्त्या पुनर्लब्धिरित्यादि ।
१३५ - दक्षप्रजापतये महालक्ष्म्युक्तानि स्वीयानि शतद्वयनामरूपाणि, लक्ष्मीमखे शान्तिपूजा, महालक्ष्मीप्रतिमातन्मण्डलादि चेति ।
१३६ - लक्ष्मीशतद्वयनामजपेन पितृकन्यकादीनां स्वेष्ट- फलावाप्तिः, लक्ष्मीसौभाग्यशयनव्रतविधिश्चेत्यादि ।
१३७ - घटलक्ष्मीव्रतस्याऽगस्त्यकृतस्य सर्वमंगलमांगल्यलक्ष्मीव्रतस्य, सांख्ययोगलक्ष्मीव्रतस्य च निरूपणम् ।
१३८ - रसकल्याणललिताव्रतस्य, आर्द्रानन्दरमानारायणव्रतस्य, शारदेयव्रतस्य, कल्याणीकमला- व्रतस्य च निरूपणम् ।
१३९ - विशोकललिताद्वादशीव्रतस्य विभूतिललिताकृष्णलालनव्रतस्य च निरूपणम् । पुष्करवाहना- ख्यस्य पुष्करद्वीपचक्रवर्तिनृपस्य दृष्टान्तं चक्रवर्तिचिह्नानि चेत्यादि ।
१४० - प्रकीर्णकानामेकषष्टिव्रतानां संक्षेपतो वर्णनम् ।
१४१ - कुंकुमवापिकातीर्थस्मरणदर्शनादिभिरपि पापिनां मोक्षणमित्यादि ।
१४२ - कालमृत्युस्वरूपतद्बलप्रदर्शनं तज्जयार्थं तत्तन्मन्त्र- जपस्य परमेश्वरादिपूजनप्रकारस्य च निरूपणम् ।
१४३ - द्वापरयुगधर्मस्वभावास्तथाविधमानवानां मोक्षार्थे मन्त्रादिप्रदर्शनमिति ।
१४४ - युगधर्माणां परिवर्तनविवेचनादिकम् ।
१४५ - संकीर्तने संगीतिकास्वरग्राममूर्छनोद्देशो लक्ष्म्याः संगीतशालादिव्यदर्शनं चेत्यादि ।
१४६ - दैवान्तरिक्षभौमोत्पातानां भिन्नशान्तिकर्मादि- कथनम् ।
१४७ - बहुविधोत्पातानां शान्तिकर्मादिनिरूपणम् ।
१४८ - दुःस्वप्नाद्युपघाततच्छान्त्यर्थग्रहयज्ञादिनिरूपणम् ।
१४९ - यात्रायां प्रयाणे शुभशकुनस्वप्नादीनि, विपरी- तानां निवृत्त्यर्थं पूजाशान्तियज्ञादीनि चेति ।
१५० - हनुमन्मन्त्रप्रतिष्ठादिनिरूपणम् ।
१५१ - सर्वमहापापादिनाशोपायानां निरूपणम्, नवनिधीनां धनविनियोगादि चेति ।
१५२ - धर्मवंशवर्णनम् अधर्मवंशवर्णनम् । तत्र दुःसहस्य निवासस्थानानि दुःसहवंशस्योपद्रवादि चेति ।
१५३ - नक्षत्रयोगिनीतिथियोगदशाशकुनहिक्कास्थानलग्नघटिकाविशेषे कार्याऽकार्यफलाफलानीति ।
१५४ - कुंभकारपुत्र्याः सरोजिन्याः प्राग्जन्मपापेन चतुष्पतिमरणोत्तरं श्रीसतीश्वरीसाध्व्याश्रमे गमन, तत्र गुरुसेवया लक्ष्मीनारायणभक्त्या तपसा च ग्रहदोषशारीरदोषनाशोत्तरं श्रीलक्ष्मीनिवासरूपकमलिनीवल्लीत्वं पद्मिनीरमात्वं चेत्यादि ।
१५५ - अष्टमनूनां जन्मादिनिरूपणम् ।
१५६ - नवमादित्रयोदशमनूनां जन्मादिनिरूपणम् ।
१५७ - रुचिप्रजापतेः पितृदर्शनं स्तवनं गार्हस्थ्यं चेत्यादि ।
१५८ - चतुर्दशस्य मनोराख्यानम् ।
१५९ - ब्रह्मप्रियादिभिः सहितोऽनादिश्रीकृष्णनारायणो विमानेन पृथ्वीं पश्यन्हिमालयगृहं ययावित्यादि ।
१६० - हिमाद्रिकृतपूजां प्रगृह्य केदारकैलासमानस- सरोहनूमत्पर्वतकाशीविन्ध्यसप्तपुटभगुकच्छगोपनाथादीन् वीक्ष्य हरेः कुंकुमवापीगमनम्, ब्रह्मप्रियाणां भौतिकहीरकाद्युत्पत्तिजिज्ञासा चेत्यादि ।
१६१ - बलाख्यपार्षदस्य श्रीपुराधाम्नो जयादिसखीभिः परस्परशापेन पतनं, बलदैत्यस्य यज्ञे समित्स्व- रूपिणः कायतत्त्वेभ्यो रत्नानामुत्पत्तिरित्यादि ।
१६२ - वज्रमणेर्मुक्तामणेश्चोत्पत्तिमूल्यश्रैष्ठ्यादिनिरूपणम् । १६३ - पद्मरागमरकतेन्द्रनीलवैदूर्यपुष्परागकर्केतनभीष्म- पुलकरुधिरस्फटिकविद्रुमादिमणिसमुद्भवगुणादि - निरूपणम् ।
१६४ - चतुर्दशमन्वन्तरेषु हरेश्चतुर्दशावतारप्रयोजनादि- निरूपणम् ।
१६५ जीवच्छ्राद्धविधिनिरूपणम् ।
१६६ - संसारविषाणां तन्निवर्तकोपायानां च निरूपणम् । १६७ - सर्वाऽऽपत्पापबन्धनादिनाशार्थकं व्यपोहन- स्तोत्रम् ।
१६८ - यज्ञे कन्यादानं कृष्णार्पणं सन्न्यासग्रहणं विनाय- कोपसर्जनं पापदुःखसुखपुरुषाणां प्रपूजनं चेत्यादि- महाफलदमिति ।
१६९ - मृत्युप्रदकारणानि तद्विनाशसाधनं साधुभावा- यनर्षिदृष्टान्तं चेत्यादि ।
१७० - मुक्तिधर्मेषु विविधधाम्नां निर्देशःश्रीमानससच्चि दानन्दयोगिनोर्मिथः प्रकाश्चेत्यादि ।
१७१ - मुक्तिधर्मे देहक्षयकारणानि देहप्राप्तिकारणानि देहान्मुक्तिकारणानि चेत्यादीनि ।
१७२ - मुक्तिधर्मे मायाविलयनसाधनं परब्रह्मधामप्रापणं चेत्यादि ।
१७३ मुक्तिधर्मे श्रुतिफलापत्न्याः सद्विद्यायनर्षि पतिं प्रतिकृतस्य क्वलोकगमनादिप्रश्नस्य नैष्कर्म्यसर्व- समर्पणविधया परब्रह्मलोकगतिरित्याद्युत्तरमित्यादि।
१७४ - मुक्तिधर्मे यथादेहप्राप्तिः, शुभाऽशुभभोगः, ब्रह्मा- वाप्तिः, कर्मप्रतिष्ठानं, फलार्पणं, दिव्यतालाभः, नित्यमुक्तता, अक्षरवासिता, सारूप्याद्यवगम- श्चेत्यादि ।
१७५ - मुक्तिधर्मे संसारवारिधितरणविज्ञानादिनिरूपणम् ।
१७६ - संक्षिप्तमुक्तिधर्माणां देहधर्माणां मायिकादीनां च निरूपणम् ।
१७७ - अध्यात्माऽधिभूताऽधिदैवदैवाधिदेवादिनीरूपणम् ।
१७८ - भिक्षायनर्षेरयाचिताञ्जलिनामभार्याया गार्हस्थ्येऽपि श्रीहर्यर्पणक्रियादिभिर्मुक्तिर्भिक्षामहिमा चेत्यादि ।
१७९ - अनाथाया नित्याश्रयायास्तत्पुत्रस्य केशिनश्च भागवत्या भक्त्या श्रीहरेर्दर्शनं मोक्षणं चेत्यादि ।
१८० - कुष्ठिनो व्याघ्राख्यस्य स्वर्णचौरस्य चारणभक्तस्य कुष्ठनाशनम्, उत्तमाख्यस्य ग्रामयाजकविप्रस्य भक्तस्य जलोदरस्य नाशनम् भगवद्दर्शनं मुक्तिश्चेत्यादि ।
१८१ - विरालनामकस्य वैश्यस्य प्राग्जन्मकथा, कुंकुम- वापिकाक्षेत्रे श्रीहरेः प्राप्तिः, तस्य राजयक्ष्मनाशः, मुक्तिश्चेत्यादि ।
१८२ पृथ्वीधराभिधनृपतेर्जन्मान्धस्य पुत्रस्य प्राग्ज- न्मवृत्तान्तम्, भगवता कृतसदृष्टिकत्वं चेत्यादि ।
१८३ - सागराख्यशूद्रस्य भग्नपादस्य भगवत्कृतनीरुज- पादत्वं तत्पूर्ववृत्तान्तश्चेत्यादि ।
१८४ वृक्णदेवस्य भक्तस्य भक्त्या वृक्णतानाशो भक्तयोगेन भावशूरनृपतेर्मोक्षणं प्राग्जन्म- वृत्तान्तादि चेत्यादि ।
१८५ - मञ्जुलकेशाख्यभक्तविप्रशापेनोन्मत्ततां प्राप्तस्य पाशुपतेशाख्यविप्रस्य भगवता शापमोक्षणं मोक्षणं च कृतमित्यादि ।
१८६ - बाणांगणाख्यस्य मद्यविक्रेतुः साधुसमागमेन भगवता मोक्षः कृतः साधोर्मूतौ विभूतयश्चेत्यादि ।
१८७ - मृतादननाम्नश्चर्मकारस्य धेनुप्राणरक्षणेन मांसादनादिपापनाशः पुण्यप्राप्तिः साधुसमागमः स्वर्गं मोक्षश्चेत्यादिलाभः ।
१८८ - शंकुधरनाम्नश्चौरस्य सुमन्तुकर्षेर्योगेन पापनाशो यज्ञकरणं मोक्षणं चेत्यादि ।
१८९ - साधुसमागमेन भगवच्चिन्तामणिलब्ध्या सर्वकामनापूर्त्यादि ।
१९० - महासौराष्ट्रीयसंघस्य लुण्टकजनप्रधर्षितस्य स्तवनम् ।
१९१ - लुण्टकेभ्यो रक्षार्थं स्त्रीबालिकास्तुत्युत्तरं राजभटादिरूपधारिणा हरिणा लुण्टका हताः, भक्ताश्च रक्षिताश्चेत्यादि ।
१९२ - युद्धपुरनृपतिना सह धनिष्ठकोशस्य श्रेष्ठिनो वारांगनाव्यसनिनः स्वस्त्रीकृतभक्तिव्रताराधनादिभिः श्रीहरिणा मोक्षः कृत इत्यादि ।
१९३ - वाटासीनारनृपतेर्ब्रह्मघ्नस्य राक्षसाभिभूतस्य हृतराज्यस्य कुन्दनदेवीराज्ञ्याः परमभक्त्या भगवद्दर्शनं सर्वदुःखमोक्षणं चेत्यादि ।
१९४ - चक्रधरनृपाज्ञया देवविश्रामाख्याऽमात्यस्य काण्डिकायोगिनीस्त्रीहत्यापापस्य यज्ञे श्रीहरिणा कृतं निवारणमित्यादि ।
१९५ - हर्षुलाख्यभक्तस्य ज्येष्ठया भार्यया द्वितीयपत्नीजन्यपुत्रस्य नाशे भगवता साधुरूपेण पुत्रोज्जीवनं बालहत्यापापनाशनं च कृतमित्यादि ।
१९६ - हर्षुलादिभ्य उपदेशस्तथा ज्येष्ठपत्न्या अपि पुत्रलाभश्चेत्यादि ।
१९७ - शाणधराख्यकर्षुकस्य प्राग्जन्मकर्मभिर्जात- गलत्कुष्ठरोगस्य भयेन पुत्रैः समुद्रे क्षिप्तस्य भगवता रोगनाशो रक्षणं पापनाशनं च कृतमित्यादि ।
१९८ - निम्बदेवाख्यभक्तस्य गोहत्यापापं भगवता निवारितमित्यादि ।
१९९ - श्रीहरिणा स्वैकान्तिकभक्तानां ब्रह्मनिष्ठतैश्वर्या- दीनि निरूपितानीति ।
२०० - भाण्डीरग्रामस्थस्य कालीन्दरभाण्डस्य नर्तक्यादि- सहितस्य परमभक्त्या मोक्षणं कमलायनमहर्षेरु- पदेशश्चेत्यादि ।
२०१ - रायणदेवस्य नर्तकस्य बोधायनोपदेशेन गर्भ- स्थस्य विज्ञानं भक्तिश्च हरिदर्शनं मोक्षश्चेत्यादि । २०२ व्रतर्दिनामकगायकभक्तस्य योगेन पुण्ड्रवर्मनृपस्य सप्रजस्य वैष्णवत्वं मोक्षणं चेत्यादि ।
२०३ - तूलवायिनामकस्य सूत्रवायकस्य भक्त्या भगवाँस्तस्य तत्कर्मचाराणां च रक्षां कृत्वा दर्शनं दत्वा मोक्षे नीतवानित्यादि ।
२०४ - जंगलदेवादिकाष्ठहाराणां भक्त्या साधुरूपेण श्रीहरेर्दर्शनं चान्ते मोक्षणं चेत्यादि ।
२०५ पण्यकृतो वात्सल्यधीराख्यभक्तस्य तत्पत्न्याश्च मञ्जुलिकाया अतिभक्त्या प्रसन्नः प्रभुर्दर्शनं ददौ साधूभूतौ तौ तु वर्तेते इत्यादि ।
२०६ - तिलकरंगाख्यस्य वनपालस्य शिवभक्तस्य साधुरूपशिवोक्तभक्त्या नारायणोपासनया परममुक्तिरित्यादि ।
२०७ - क्षेत्रपस्य नाञ्जभक्तस्य महामयभक्तस्य कर्षुकाणां च रक्षणं भगवता लुण्टकेभ्यः कृतमित्यादि ।
२०८ - सागराख्यकिरातस्य भक्तस्य भक्त्या प्रसन्नेन श्रीहरिणा श्रेष्ठिरूपेण गोधूमपुञ्जोऽर्पितः कुसुलस्थोऽक्षयश्च कृतः, तत्पोलिकाभाजाजलपात्राण्यक्षयाणि कृतानि मोक्षश्च कृत इत्यादि ।
२०९ - सारंगनामकस्य हूणभक्तस्य महिषीपशुधनस्याऽरण्ये सिंहकृतापदः श्रीहरिणा रक्षणं कृतं मोक्षश्चेत्यादि ।
२१० - यज्ञराधनामकपुष्कसस्य सकुटुम्बस्य ब्रह्मायनर्षिसाधोः समागमेन श्रीहरिभक्त्या मोक्षप्राप्तिरित्यादि ।
२११ - कपिक्षयाख्यस्य चाण्डालस्य वानररूपदेवोपदेशेन श्रीहरौ भक्त्या सकुटुम्बस्य मोक्षणमित्यादि ।
२१२ - नालीकरस्य लोहकारस्य भक्त्या श्रीलक्ष्मीनारायणगरुडदत्तदर्शनं भक्तस्य मोक्षणं चेत्यादि ।
२१३ - मंगलदेवाख्यचर्मकारभक्तस्य भक्त्या साक्षाद्भगवता समागत्य विषवारणं कृतमित्यादि ।
२१४ - हरिदासाख्यस्य रथकारस्य भक्त्या सकुटुम्बस्य भगवता मोक्षः कृतइत्यादि ।
२१५ - शिलाहारस्य दामशिलादनामकभक्तस्य भृत्यानां रक्षणं दामशिलादादेश्चान्ते मोक्षणं च भगवता कृतमित्यादि ।
२१६ - शिल्पकारस्य सञ्जयदेवस्य भक्त्या भगवता गजतो रक्षणं मोक्षणं च कृतमित्यादि ।
२१७ - संभरदेवाख्यचित्रकारस्य भक्त्या भगवता दत्तं दर्शनं मोक्षणं च कृतमित्यादि ।
२१८ मौक्तिकेशिनाम्नो भक्तस्य शिलांगारखनिस्वामिनो भक्त्या भगवता मोक्षणं कृतमित्यादि ।
२१९ लुब्धकस्य चक्रधराख्यस्य पौतिमाष्यर्षिसंगमेन हिंसादिपापनाशे भक्त्युत्तरं मुक्तिरित्यादि ।
२२० वाटधरस्य पिशुनखवासस्य भक्तस्य तथा द्वैपी- राज्ञ्याश्च सुतारसिंहनृपतेर्दण्डाद् भगवता रक्षणं मोक्षणं च कृतमित्यादि ।
२२१ - वृषपर्वनामर्षियोगेन प्रासादकारस्य शिवजयस्य मोक्षणमित्यादि ।
२२२ - संगरयादस्कभक्तस्य जालकार्यं त्याजयित्वा शुक्लायनसाधुना भगवत्प्राप्तिः कारितेत्यादि ।
२२३ - उद्यमश्रीप्रभृतिभरवाटानां सतीश्वरीसाध्वीसत्संगेन कृष्णे भक्तिर्मोक्षणं चेत्यादि ।
२२४ - रामायनाख्यसाधुयोगेन दीर्घरवादीनामुष्ट्रपालानां मोक्षणमित्यादि ।
२२५ रत्नप्रभाख्यभक्तस्य रासभपालस्य नरसिंहस्वामि- योगेन मोक्षणादि ।
२२६ - गदार्दनेश्वरनामकवैद्यस्य पापैर्दुःखानि तत्पत्न्या मुकुन्दिन्या भक्त्या तु मोक्षणमित्यादि ।
२२७ - देश्यावनस्य कीशपालस्य सुधामरसाधोः प्रसंगेन मोक्षणमित्यादि ।
२२८ - स्वर्णधन्वनृपतेर्भृत्यस्य हर्षधर्मनापितस्य पत्न्या निगमिकाया भक्त्या कल्याणधामादिसाधुसेवायां स्थितायाः सेवया च प्रसन्नो भगवान् निगमिका- रूपधरो भूत्वा राज्ञीसेवामकरोत्, नापितकुटुम्बस्य रक्षणं मोक्षणं चाकरोदित्यादि ।
२२९ पूर्वजन्मनि धीवर्या रुटाणक्या आभीरीभक्तायाः साध्वीनां च दैत्याद् रक्षणं मोक्षणं चेत्यादि ।
२३० - पूर्वजन्मनि मत्स्यमाराणां धीरपर्वादीनां याम्यया- तनोत्तरं पूर्वपुण्येन नौपतिजन्मानि तत्र भजनं मोक्षणं चेत्यादि ।
२३१ - शूलीप्रदस्य तारकादर्शस्य तत्पत्न्याश्च कृत- शल्याया भक्त्याऽभ्युदयो मोक्षणं चेत्यादि ।
२३२ - ज्वालाप्रसादाख्यस्यांऽगाराग्निकृतो भगवद्भक्त्या नारायणायनसाधुयोगेन तस्य तत्पत्न्याः सहस्रादि- देहिनां च भगवता मोक्षणं कृतमित्यादि ।
२३३ - लवादनाख्यप्रधानस्य राज्ञे गरदस्य भगवद्भक्त्या किंशुकायनसाधुसेवया च तस्य तद्राज्ञीनां च प्रजानां च मोक्षणमित्यादि ।
२३४ - निर्मोहनायनसाधुप्रसंगेन विखण्डलाख्यशस्त्र- धरस्य तत्पत्न्या हरसत्याश्च भगवद्दर्शनं मोक्षणं चेत्यादि ।
२३५ - जीर्णोद्भवनामककृषीवलस्य चैतन्यकायनिसाधु- योगेन मोक्षणं स्त्रीसौन्दर्यादिप्रदव्रतदानवर्णनं चेत्यादि ।
२३६ - अनादिश्रीकृष्णनारायणस्य सप्तदशजन्मदिनजयन्त्युत्सवो द्वापरसन्तानकथाश्रवणदानमन्त्रजपमहिमा चेत्यादि ।
२३७ - द्वापरसन्तानस्य कथाविषयसंक्षेपो द्वापरसन्तान- विशेषमाहाप्म्यं चतुर्युगसन्तानानां प्रत्यक्षागमः कलेर्मोक्षार्हत्वप्रार्थना तिष्यसन्तानप्रस्ताव आशीर्वादश्चेत्यादि ।

इतिश्रीलक्ष्मीनारायणीयसंहिताया द्वापरसन्तानाऽऽत्मक तृतीयखण्डस्याऽध्यायाऽनुक्रमणिका ।

( अध्यायाः २३७, श्लोका; २५१६२)

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP